पौर्णमासी-दिन-कृत्यम्
अथ तयोरनुष्ठानप्रकारः सामान्यतो निरूप्यते । तत्र पौर्णमास्यां यजमानः प्रातर्विहितनित्य क्रियः प्रातरग्निहोत्रं हुत्वा आहवनीयदक्षिणाग्नी अग्निहोत्रानुष्ठानार्थं प्रज्वालितौ कुण्डाभ्यां निष्कास्य, पुनर्गार्हपत्यात् तावग्नी दर्शपूर्णमासार्थं प्रणीय, प्रज्वलय्य त्रिष्वप्यग्निष्वन्वाधानं कुर्यात् । प्रणयनं नाम गार्हपत्य- कुण्डादग्निमुद्धृय 1कुण्डान्तरे स्थापनम् । अन्वाधानं नाम अग्निषु काष्ठानां यज्ञियानां समन्त्रकमाधानम् । आधानमत्र निक्षेपणमात्रमग्नेः प्रदीपनार्थम् । ततो यजमानो 2वपनं कुर्यात् । ततः स्नानाद्यनन्तरं प्राचीमुदीचीं वा दिशं गत्वा करिष्यमाणयज्ञार्थान् कुशान् दर्भान् वा समन्त्रकलवनाद्यनुष्ठानपूर्वकमाहृत्य गार्हपत्यगृहे आहवनीयगृहे वा उपरि छदिरादौ निदध्यात् । कुशमुष्टयोऽयुग्मसङ्ख्याकाः (त्रयः , पञ्च, सप्त, नव इत्ययुग्मसख्या ) परिमिता आनेतव्याः । तत्र प्रथमो मुष्टिः प्रस्तर इत्युच्यते । तैः सह वेद्यास्तरणार्था अपि दर्भा आनेतव्याः । तदानीमेव चेध्मकाष्ठान्यप्येकविंशतिरार्द्राणि शुष्काणि वा त्वग्युक्तान्याहर्तव्यानि । तत्र पञ्चदश सामिधेन्यर्थम् । तिस्रः परिध्यर्थे । द्वे आधारसमिधौ । एका अनुयाजार्था समिदिति विभागः । एतावत्पर्यन्तं पौर्णमासीदिनकृत्यम् । रात्रौ यजमानः स्वयमेव अग्निहोत्रमनुष्ठाय, 3आरण्यकधान्यानि भुक्त्वा गार्हपत्यगृहे, आहवनीयगृहे वा 4भूमौ शयीत । जागरणं कुर्याद्वा ॥
[[२०]]
कृष्ण-प्रतिपद्-दिन-कृत्यम्
श्वोभूते प्रातरुत्थाय नैत्यकं कर्म कृत्वा कृताग्निहोत्रः कर्म आरभेत । तत्र पौर्णमास्यां सूर्योदयादनन्तरं कर्मारम्भः । अमावास्यायां तूदयात् प्रागिति विशेषः । एवं कर्मारभ्य, अध्वर्युः हस्ताववनिज्य, आस्तराणार्थमानीतैरुलपाख्यैस्तृणविशेषैर्वेदिमास्तीर्य, आहवनीयस्य दक्षिण भागे ब्रह्मयजमानयोरासने परिकल्पयेत् तत आहवनीयस्योत्तरतो निकटदेशे कुशानास्तीर्य, तदुपरि यज्ञार्हाणि पात्राणि अधोबिलानि (अधोमुखानि) स्थापयेत् । तानि च स्रुवः, जुहूः, उषमृत् , ध्रुवा, वेदः, पात्री, आज्यस्थाली, प्राशित्रहरणम् , इडापात्रम् , प्रणीताप्रणयनम् इति दश । एवं गार्हपत्याग्नेरुत्तरतो दर्भान् प्रसार्य तदुपरि पूर्ववदेव अधोमुखानि पात्राणि स्थापयेत् । तानि च स्फ्यः, कपालान्येकविंशतिः, अग्निहोत्रहवणी, शूर्पम् , कृष्णाजिनम् , शम्या, उलूखलम् , मुसलम् , दृषत् , उपला इति दश । एतेषां पात्राणामुत्तरदेशे 5योक्त्रम् , मदन्ती, मेक्षणम् , वेदाग्राणि, अन्वाहार्यस्थाली, अश्मा, उपवेषः, पिष्टलेपपात्रम् , फलीकरणपात्रम् इति एतानि स्थापयेत् ॥ ततोऽध्वर्युर्वेद्या उत्तरत उपविश्य, ब्रह्माणं वृणुयात् । वृतो ब्रह्मा वेदेर्दक्षिणदेशं गत्वा आहवनीयस्य दक्षिणत उपविशेत् । ब्रह्मणः पश्चाद्भागे वेदेर्दक्षिणत एव यजमान उपविशेत् । ततोऽध्वर्युः गार्हपत्याग्नेरुत्तरदेश उपविश्य चमसाख्यं चतुष्कोणं दारवं पात्रं जलेन पूरयित्वा, तदाहवनीयस्योत्तरदेशं प्रति नीत्वा, तत्रैव दर्भाणामुपरि स्थापयेत् । तदेतत् अपां प्रणयनमित्युच्यते ॥
हविर्निर्वापः
ततोऽग्निहोत्रहवणीं शूर्पं च हस्ते गृहीत्वा ते आहवनीये प्रतितप्य, वेदेरुत्तरत आनीय पूर्वमेव अवस्थापितस्य व्रीहिभिः यवैर्वा पूर्णस्य शकटस्य समीपं गत्वा, शकटमारुह्य धान्यस्योपरि प्रसारितमाच्छादन
[[२१]] मपसार्य, धान्यगतं तृणादिकमपास्य, दक्षिणहस्तेन शकटस्थान् व्रीहीन् यवान् वा मुष्टिना गृहीत्वा, यागीयतत्तद्देवतानामनिर्देशपूर्वकं तानग्निहोत्रहवण्यां निक्षिप्य, अग्निहोत्रहवणीतः शूर्पे प्रक्षिपेत् । एवं वारचतुष्टयं कर्तव्यम् । तदिदं शकटस्थहविषः मुष्टिना पृथक् पात्रे करणं हविर्निर्वाप इत्युच्यते । एवमेकस्यै देवतायै हविर्निरूप्य पुनर्देवतान्तरार्थं तथैव निर्वपेत् । तत्र पौर्णमास्यां प्रथममग्नये निर्वापः, ततोऽग्नीषिोमाभ्यामिति ध्येयम् । निर्वापकाले पात्रीतो बहिःपतितान् व्रीह्यादीनभिमन्त्र्य हस्तगतं शूर्पं सहविष्कम् आहवनीयसमीपे स्थापयेत् । ततस्तान् संस्कृताभिः प्रोक्षणीयसंज्ञकाभिरद्भिः त्रिः प्रोक्षेत् । प्रोक्षणकालेऽपि निर्वापवत् तत्तद्देवता नाम निर्दिशेत् । ततः पूर्वं स्थापितानि न्यञ्चि पात्राणि पर्यावृत्य, ऊर्ध्वमुखानि कृत्वा पवित्रयुक्तेन पाणिना तानि त्रिः प्रोक्षेत् ॥
अवहनन-पेषणे
ततः कृष्णाजिनं गृहीत्वा, उत्करे त्रिरवधूय, तत्रैव तदास्तीर्य तदनुत्सृजन् तदुपर्युलूग्वलं प्रतिष्ठाप्य तत्र निरुप्तं हविरेकी कृत्य आवपेत् । ततो मुसलमादायावहननं कुर्वन्नध्वर्युः अवहनने सहायार्थम् अन्यं कंचन पुरुषं यजमानपत्नीं वा आहूय तेन तया वा साकमवहन्याद्धविः । अवहतांस्तण्डुलान् तुषेभ्यः फलीकुर्यात् । फलीकरणं नाम तुषविमोकार्थं सकृदवहतानां तण्डुलानामुपरिगतकणापाकरणाय 6पुनरवहननम् । ततः कृष्णाजिनम् आस्तीर्य तदुपरि शम्यां निधाय, तदुपरि च दृषदमत्याधाय, तत्र सुप्रक्षालितान् तण्डुलान् निक्षिप्य, उपलया तान् पिंष्यात् । पिष्टानि चूर्णानि कृष्णाजिने प्रस्कन्दयेत् । ततो हविः(पुरोडाश)श्रपणार्थं गार्हपत्यस्य आहवनीयस्य वा पश्चिमदेशे कपालान्युपदधाति । आग्नेयस्य पुरोडाशस्याष्टौ । अग्नीषोमीयस्यैकादश कपालानि । तदुपधानप्रकारश्च अन्ते चित्ररूपेण दर्शितः ॥
हविःश्रपणम्
एवमुपधाय कपालानि तदुपरि वेदाख्येन दर्भमुष्टिना अङ्गारानध्यूह्य पिष्टसंयवनार्थमपां 7सन्तापनं कृत्वा, प्रक्षालितायां पात्र्यां
[[२२]]
पिष्टान्यारोप्य संयौति 8 । संयुत्य च पिण्डद्वयं कृत्वा, एकमग्नये, एकमग्नीषोमाभ्यां च निर्दिश्य, तत्तदर्थं गार्हपत्यस्य आहवनीयस्य वा पश्चादुपहितानां कपालानामुपरि तं तं पिण्डं निधाय, उल्मुकैः पुरोडाशौ प्रतितप्य, ज्वलद्भिर्दर्भैरभितः [[?प्रज्वलय्य, सुपक्कौ?]] तौ कुर्वन् भस्मना आच्छादयेत् । तावेव पुरोडाशौ । तत्तस्संयवनोपयुक्तां पात्रीं प्रक्षाल्य, तज्जलं वेद्यां कृतासु तिसृषु रेखासु निनयेत् । तत्र एकतः, द्वितः, त्रित इति क्रमेण देवताः ॥
वेदिनिर्माणम् , आज्यग्रहणादिकं च
ततः स्फ्यमादाय, तेन वेदिनिर्माणार्थां भूमिं खात्वा, तत्रत्यं तृणादिकमपास्य, उत्करे क्षिप्त्वा, उत्करतः शुद्धान् पांसूनादाय, वेद्यामोप्य वेदिं निर्मायात् । तस्याः स्वरूपमन्ते दर्शितम् । ततस्तां यज्ञार्थं परिगृह्य, प्रोक्षण्याद्यासादनार्थं प्रैषमग्नीधे दत्त्वा, आहवनीयस्योत्तरत इध्मं दर्भांश्च सादयित्वा दर्भैर्जुह्वादिपात्राणि सम्मृज्यात् । तत्र स्रुवं, जुहूं, उपभृतं, ध्रुवां, प्राशित्रहरणं च प्रतितप्य क्रमेण वेदाग्रैस्सम्मृज्य, पुनः प्रतितप्य, प्रोक्ष्य, वेद्यां दर्भाणामुपरि सादयित्वा, वेदाग्राणि पात्रसम्मार्जनोपयुक्तानि अग्नौ प्रहरेत् । तत आग्नीध्रो योक्त्रेण पत्नीं 9सन्नह्यति । ततस्सा गार्हपत्याग्निं देवपत्नीश्वोपस्थाय तद्देशादपक्रम्य, किञ्चिदिव दक्षिणत उदङ्मुखी उपविशेत् । ततोऽध्वर्युः सर्पिर्धान्याः तत्र पूर्वं स्थापिताया आज्यं गृहीत्वा, आज्यस्थालीं प्रपूर्य तां दक्षिणाग्नौ गार्हपत्ये च क्रमशोऽधिश्रित्य, पत्न्या हस्ते दद्यात् । सा तदाज्यं निमीलिताक्षी सत्येव पूर्वमवलोक्य, ततो यथावदीक्षित्वा वेद्यां निक्षिपेत् ॥
आज्यग्रहणम्
ततोऽध्वर्युर्यजमानश्च तथैव आज्यमवेक्षेयाताम् । तत आज्य- स्थाल्या आज्यं स्रुवेण गृहीत्वा जुह्वादीनां पूरणम् । तदेव आज्यग्रहणमित्युच्यते । तदित्थम्-प्रथमं जुहूमाज्यस्थाल्या बिलेन समं गृहीत्वा जुह्वां स्रुवेण आज्यस्थालीतो वारचतुष्टयमाज्यं क्षिपेत् । एवमुपभृत्यष्टवारम् । ध्रुवायां वारचतुष्टयम् । एवमाज्येन ताः स्रुचः पूरयित्वा अन्तर्वेदि हविस्समीपे स्थापयेत् । ततः प्रोक्षणार्थं सम्भृता अपः (प्रोक्षणीः)
[[२३]]
अभिमन्त्र्य ब्रह्माणमामन्त्र्य (पृष्ट्वा) ततो लब्धानुज्ञः इध्मं ?विस्रस्य? ताभिरद्भिः तं त्रिः प्रोक्ष्य अन्तर्वेद्यासादितान् दर्भानपि त्रिः प्रोक्ष्य वेदिं च त्रिः प्रोक्षेत् । प्रोक्षणीशेषं वेदेर्दक्षिणस्याः श्रोणेः उत्तरश्रोणिपर्यन्तं सन्ततधारया स्रावयेत् । तत्र पितरो देवता ॥
वेदि-स्तरणम्, पात्र-सादनं च
ततो दर्भमुष्टीनां सहबद्धानां ग्रन्धिं ?विस्रस्य? ततः प्रस्तराख्यं प्रथमं मुष्टिमादाय तं यजमानाय प्रयच्छेत् । यजमानो ब्रह्मणे प्रयच्छेत् । ब्रह्मा प्रस्तरं धारयेत् । अथ वा यजमान एव धारयन्नासीत । ततो दर्भैः वेदेः पश्चिमभागमारभ्य आहवनीयस्य पश्चिमभागं यावत् त्रिभिः पञ्चभिर्वा धातुभिः 10 वेदिं स्तृणुयात् । यथा वेदेर्भूभागो न दृश्येत तथा स्तरितव्यम् । तत अध्वर्युः ब्रह्मणो हस्तात् प्रस्तरमादाय प्रस्तरपाणिरेव सन् परिधीनाहवनीयस्य 11पश्चिम-दक्षिण-उत्तरभागेषु क्रमशः परिदध्यात् । ततः आहवनीयमभिमन्त्र्य प्रज्वलय्य आधारसमिधौ गृहीत्वा समिद्धस्तः मध्यम परिधिं स्पृष्ट्वा तौ समिधौ अग्नेर्मध्ये ऊर्ध्वग्रिं स्थापयेत् । ततो वेदेरास्तीर्णबर्हिष उपरि तिरश्चीनावुत्तराग्रौ द्वौ दर्भौ (विधृतिसंज्ञकौ) निधाय तदुपरि प्रागग्रं प्रस्तरं ?विस्रस्य? स्तृणुयात् । तदुपरि च मन्त्रेण जुहूमुपभृतं ध्रुवां स्रुवमाज्यस्थालीं च सादयेत् । ततः सादितानि पात्राण्यभिमन्त्र्य पुरोडाशयोरुपर्यध्यूढानङ्गारानपोह्य तावभिमन्त्र्य आज्यस्थालीस्थमाज्यं स्रुवेण गृहीत्वा समन्त्रकमाग्नेयं पुरोडाशं तूष्णीं चाग्नीषोमीयमभिधार्य पात्र्यामुपस्तीर्य 12 तत्र पुरोडाशौ स्थापयित्वा अभिधारयेत् । तच्च संस्कारस्वात् पुरोडाशयद्वयेऽपि पृथक्कार्यम् । ततः व्रीहिमयं समन्त्रकं यवमयश्चेत्तं तूष्णीं पुरोडाशद्वयं पात्र्यां स्थापयेत् । स्रुवेण आज्यस्पृष्टेन कपालानि प्रभृज्य तेनैव पुरोडाशावञ्जीत । ततस्तावभिमृश्यं वेद्यन्तान् परिस्तीर्य होतुरुपवेशनार्थं वेदेर्वायव्यकोणे स्थानं परिकल्प्य सामिधेनीभ्यः प्रतिपद्येत ॥
[[२४]]
सामिधेनी-कर्म
तत्र प्रथमं होतारं संप्रेष्य स्वोपवेशनार्थं कल्पितं आसने उपविष्टेन होत्रा सामिधेनीसंज्ञकानामृचां पाठे क्रियमाणे अध्वर्युराहवनीयपश्चिमदेशे प्राङ्मुख आसीन इध्मकाष्ठान्याहवनीये अभ्यादध्यात । होत्रा पठ्यमानाया ऋचः अन्ते प्रणवोच्चारणकाल एव समिधामाधनं कर्तव्यम् । तत्र ब्राह्मणे सामिधेनीसंज्ञका ऋच एकादशैव अग्राताः। तासां प्रथमाया अन्तिमायाश्च त्रिसृरावृत्त्या पञ्चदशसङ्ख्या संपादनीया। तत्र उपान्तिमाम् ऋचमन्तिमां वा होत्रा पठ्यमानां श्रुत्वा अध्वर्युः स्वहस्तस्थितासु समित्सु अनूयाजार्थमेकां समिधमवशेष्यावशिष्टानीध्मकाष्ठान्याहवनीये सहैवाभ्याधाय वेदेनाग्निं त्रिर्वीजयित्वा प्रज्वलय्य स्रुवेण ध्रुवात आज्यमादाय वेदेनोपयम्य आसीत एवोत्तरपरिधिसन्धिमारभ्याक्ष्णया 13अविच्छिन्नामाज्यधारां स्रावयेत् । तत्र प्रजापतिर्देवता । तं च मनसैव ध्यायेत् । न वाचोच्चारयेत् । एवं यत्र यत्र प्रजापतेर्दैवतात्वं तत्र मनसैव तस्य ध्यानम् । न वाचा तस्योच्चारणम् 14 । ततोऽध्वर्युराज्यस्थाल्या भाज्यं गृहीत्वा तेन ध्रुवां पूरयित्वा अग्नेः परिधीनां च संमार्गकरणाय अग्नीधे प्रैषं दत्त्वा तेन तेषां संमार्गे स्फ्येन क्रियमाणे दक्षिणेन हस्तेन जुहूं सव्येनोपभृतं चादाय दक्षिणपादं पूर्वं कृत्वा वेदिमतिलङ्घ्य दक्षिणदेशमागत्य आहवनीयस्य दक्षिणत
[[२५]]
उदङ्मुखस्तिष्ठन् दक्षिणपरिधिसन्धिमारभ्य ईशानदिपर्यन्तं संततामाज्य धारां पूर्ववत् स्रावयेत् । अयं द्वितीय आधारः । अत्रेन्द्रो देवता ॥
प्रयाजाः
एवमाधारद्वयमनुष्ठाय जुहूमुपभृतं च परस्परमसंस्पर्शयन्नेव हस्ते धृत्वा यथागतं वेदेरुत्तरभागं प्रतिनिवृत्य, जुह्वा ध्रुवां द्विस्त्रिर्वा समज्य, ध्रुवाया आज्यमादाय जुहूं, जुह्वा आज्यमादाय ध्रुवां चाभिधार्य ध्रुवां प्रत्यभिधार्य वेदिमध्ये ते स्थापयित्वोदग्गत्वा ब्रह्माणमामन्त्र्य प्रवरकथनाय आश्रावणं कुर्यात्-‘आश्रावय’ इति । तत आग्नीध्रेण ‘अस्तु श्रौषट्’ इति प्रत्याश्राविते अध्वर्युहोतुरार्षेयं 15 ब्रूयात् भार्गव वैतहव्य’ इत्यादि । ततो होत्रा यथावदनुष्ठीयमानेषु स्वकर्मसु ‘धृतवतीमध्वर्यो स्रुचमास्यस्व’ इति यदा मन्त्रैकदेशः पठ्यते तदा अध्वर्युर्जुहूपभृतावादाय वेदेर्दक्षिणदेशं गत्वा, आश्राव्य आग्नीध्रेण प्रत्याश्रावणे कृते प्रयाजार्थं होतारं प्रति ‘समिधो यज’ इत्यादिप्रैषं दद्यात् । तत्र पञ् 16च प्रयाजाः । प्रतिप्रयाजम् आश्रावण - प्रत्याश्रावण - प्रैषदान - याज्यापाठा भवन्ति । याज्याया अन्ते वषट्कार उक्ते आहवनीये होमा भवन्ति । तत्र आश्रावणमध्वर्युकर्तृकम् । प्रत्याश्रावणमाग्नीध्रकर्तृकम् । याज्यावषट्कारपाठो होतृकर्तृक इति विवेकः । ‘आश्रावय’ इत्याश्रावणम्। ‘अस्तु श्रौषट्’ इति प्रत्याश्रावणम् । ‘यज 17 इति प्रैषः । ‘ये यजामहे’ इत्यारभ्य निर्दिष्टमन्त्रपाठो याज्यापाठः। ‘वौषट्’ इति वषट्कारः । आश्रावणप्रत्याश्रावणे अध्वर्युणा आग्नीध्रेण च तिष्ठद्भयामेव कर्तव्ये । यजतिचोदनाचोदितेषु स्थलेषु होमाश्च । एवं जुहूस्थेन आज्येन त्रीन् प्रयाजान् हुत्वा चतुर्थप्रयाजार्थमौपभृतस्याज्यार्धं जुह्वां समानीय तेन चतुर्थपञ्चमौ प्रयाजाविष्ट्वा जुह्वां किंचिदाज्यमवशेष्य तेन वेद्यामासादितौ पुरोडाशौ अभिघारयेत् । एवमेव सर्वत्र
[[२६]]
प्रयाजाज्यशेषेण यागीयप्रधानहवींष्यभिधारयेत् । ततः यथेतं प्रति निवृत्यायतने जुहूपभृतावासाद्य ध्रुवातः स्रुवेण आज्यमादाय तेन प्रस्तरमङ्क्त्वा आज्यभागार्थं होत्रे प्रैषं दत्त्वा तेन याज्यापुरोनुवाक्ययोरुक्तयोः सत्योः आहवनीयाग्नेरुत्तरार्धपूर्वार्धे अग्निदेवतायै पूर्वमाज्यभागं दक्षिणार्धपूर्वार्धे सोमदेवतायै अपरं च आज्यभागं जुहुयात् । तत्र स्रुवे ?वाया? आज्यमादायैकां दोषनिर्घातार्थां व्रातपतीष्टिस्थानीयाम् आज्याहुतिमाहवनीये हुत्वा हस्तौ प्रक्षाल्य प्रधानयागाननुतिष्ठेत् ॥
प्रधान-यागानुष्ठानम्
तत्र आज्येन जुह्वामुपस्तीर्य आग्नेयस्य पुरोडाशस्य मध्यादङ्गुष्ठ पर्वमात्रं तिर्यक्तया प्रथममवदाय ततः पूर्वार्धात् अनूचिनतया द्वितीयवारमवदाय जुह्वां क्षिप्त्वोपर्यभिधार्य, वेदिगतं शिष्टं पुरोडाशं प्रत्यभिधार्य होत्रे प्रैषं 18 दद्यात् । ततस्तेन पुरोनुवाक्यायामनूक्तायामध्वर्युर्वेदेर्दक्षिणदेशं गत्वा आश्रावणप्रत्याश्रावणे कृत्वा होतुर्वषट्कारान्ते हविरग्नौ जुहुयात् । तत्र वषट्कारोच्चारणकाले जुहूगतमाज्यं पूर्वं किञ्चिदग्नौ स्रावयित्वा ततः पुरोडाशखण्डं जुह्वेव अग्नौ प्रक्षिप्य तदुपरि जुह्वामवशिष्टमाज्यमवश्च्योतयेत् । एवमेव सर्वत्र चरुपुरोडाशादिष्वाहुतिक्रमः । ततः प्रत्याक्रम्य ध्रुवाया वारचतुष्टयं स्रुवेण आज्यं गृहीत्वा जुहूमापूर्य वेदेर्दक्षिणभागे आहवनीयस्य दक्षिणत उदङ्मुखस्तिष्ठन् द्वितीयमुपांशुयाजनामकं यागमनुतिष्ठेत् । तत्र आज्यं द्रव्यम् । विष्ण्वाद 19 यो देवताः । तत्र याज्यापुरोनुवाक्ययोरुपांश्वेव पाठः । पुनरुत्तरतो गत्वा जुहूमभिधार्य अग्नीषोमीयपुरोडाशादाग्नेयपुरोडाशवदवदाय दक्षिणातिक्रम्याग्नीषोमदेवताकं प्रैषादिकं सर्वमनुष्ठाय पुरोडाशखण्डमग्नीषोमाभ्यां जुहुयात् । अत्र एतातावन्तः प्रधानयागाः ॥
[[२७]]
अत्र सर्वत्र यजमानः अग्नौ तत्तद्धविषः प्रक्षेपसमये मनसा तत्तद्देवतायै तत्तद्द्रव्यं 20 त्यजन् तदवबोधकं शब्दराशिं च ‘अग्नय इदं न मम’ ‘इदमग्नये न मम’ इत्यादिकं वा वाचोच्चारयेत् । ततोऽध्वर्युः प्रत्याक्रम्य वेदेरुत्तरतः उपविश्य स्रुवेण पार्वणं होमं जुहुयात् । तत्र पूर्णमासो देवता । अनन्तरं तत्रैवोपविष्टः सन् नारिष्ठसंज्ञकान होमान् स्रुवेणैव जुहुयात् ॥21
स्विष्टकृद्यागः
ततः स्विष्टकृद्यागः । तदर्थं जुह्वामुपस्तीर्य पूर्वं हुतावशिष्टयोर्द्वयोः पुरोडाशयोरुत्तरार्धात् सकृत्सकृदवदाय होत्रे प्रैषं 22 दत्वा अध्वर्युदक्षिणातिक्रम्य आश्रावणाद्यनन्तरमग्नये स्विष्टकृते जुहुयात् । होमोऽयमग्नावुत्तरार्धपूर्वार्धे कर्तव्यः । ततो यथेतं प्रत्याक्रम्य जुह्वामप आनीयान्तःपरिधि निनयेत् ॥
इडाभक्षणादि
ततः प्राशित्र 23हरणपात्रमुपस्तीर्य हुतावशिष्टयोः पुरोडाशयोर्मस्तकं भङ्क्त्वा तस्माद्यवमात्रं व्रीहिप्रमाणमात्रं वा भागमवदाय तं सपात्रं ब्रह्मणे प्रयच्छेत् । स तं हस्तद्वयेन परिगृह्य वेदि मध्ये आस्तरणतृणान्यपोह्य तत्र सादयित्वा सादितं तमभिवीक्ष्याङ्गुष्ठानामिकाभ्यामङ्गुलिभ्यां तं भागमादाय दन्तैरसंस्पर्शयन् भक्षयति । तत आचम्येन्द्रियाणि संमृशति । प्राशित्रपात्रं प्रक्षाल्य पराचीनं निनयति । तत इडापात्रमवदायोपस्तीर्य सर्वेभ्यो हविर्भ्यो दक्षिणभागादिडामवदाय तां पात्रे निक्षिप्य द्विरभिधार्य होत्रे प्रयच्छेत् । ततो होतुर्दक्षिणत आसीनः साज्येन
[[२८]]
स्रुवाग्रेण होतुः तर्जन्यङ्गुलिपर्वणी अभ्युज्य प्रथमम् इडामादाय होतुर्हस्ते निक्षिपेत् । द्वितीयं होता स्वयमेवावद्य स्वहस्ते निक्षिपेत् । ततो लेपादिडापात्रस्थात्तदभिधार्य होत्रा इडोपाह्वाने कृते पात्रस्थाया इडायाः किञ्चित्किञ्चिदवदाय होत्रे, ब्रह्मणे, अग्नीधे, यजमानाय च भागशो दत्त्वा तैरसह अध्वर्युरिडां भक्षयेत् । तत आचम्यान्तर्वेदि मार्जयित्वा आग्नेयं पुरोडाशं गृहीत्वा तं वेद्यां दर्भेष्वासाद्य चतुर्धा विभज्य 24 इदं ब्रह्मणः, इदं होतुः, इदमध्वर्योः, इदमग्नीध इति यजमानेन विभक्तव्यादेशे कृतेऽध्वर्युराग्नीध्रस्य भागं द्विरुपस्तरणेन द्विरवदानेन द्विरभिधारणेन च पडवत्तमाग्नीध्रहस्त एव संपादयेत् । ततः सर्वे ऋत्विजः स्वं स्वं भागं भक्षयेयुः ॥
ऋत्विग्-दक्षिणा अनूयाजाश् च
तत्र ऋत्विग्दक्षिणार्थं दक्षिणाग्नौ पुरुषचतुष्टयभोजनपर्याप्तं व्रीहितण्डुलैरोदनं 25 पक्त्वोद्वास्य वेद्यामासाद्योत्तरभागे अवस्थितानृत्विजः दक्षिणत आगमनाय यजमानेन संप्रेषणे कृते तथा आगतेभ्यस्तेभ्यः अन्वाहार्याख्यं तमोदनं यथाभागं विभज्य दत्त्वा पुनस्तानुत्तरतः प्रैषपूर्वकं प्रहिणुयाद्यजमानः । ततो हविश्शेषानुद्वास्य अग्निपरिधि संमार्गायाग्नीधे प्रैषं दत्त्वा अनूयाजार्थं ब्रह्माणमामन्त्रयेत । तेनानुज्ञातः अग्नीत् पूर्वमनूयाजार्थमवशेषितामेकां समिधमाहवनीय आधायाग्नीन् परिधींश्च सकृत् सकृत् संसृज्येध्मसन्नहनोपयुक्तां तृणमयीं रज्जुमद्भिः संमृज्य अग्नौ प्रास्येत् । तत उपभृत्यनूयाजार्थं पूर्वमवशेषितमाज्यं जुह्वामानीय जुहूप्रभृतावादाय दक्षिणातिक्रम्योदङ्मुखः प्रयाजवत् प्रैषादिषु कृतेषु
[[२९]]
त्रीननू 26याजान् वषट्कृते जुहुयात् । तत्र याज्याया आदौ “ये यजामहे" इति न वक्तव्यम् । केवलं याज्यां पठित्वा तदन्ते वषट्कुर्यादिति विशेषः । ततः प्रत्याक्रम्य आयतने जुहूप्रभृतौ सादयित्वा ते व्यूहेत् । व्यूहनं विविधं संचालनम् । ततः प्रस्तरमुपाधाय आज्यलिप्तेषु पात्रेषु तमञ्ज्यात् । तत्र जुह्वामग्रम् , उपभृति मध्यं, ध्रुवायां मूलं च प्रस्तर स्याञ्ज्यात् । एवं त्रिरङ्क्त्वा ततस्तृणामेकमपादाय पृथङ्निक्षिप्य दक्षिणोत्तराभ्यां पाणिभ्यां प्रस्तरं गृहीत्वा प्रस्तरमूलं जुह्वां प्रतिष्ठाप्य आश्रावणादिषु कृतेषु होतारं प्रति सूक्तवाकपठनाय 27प्रैषं दत्त्वा तेन सूक्तवाकानुवाके पठ्यमाने प्रस्तरमाहवनीये प्रहरेत् । प्रहरणं प्रक्षेपणम् । ततः पूर्वमपात्तं तृणमग्नौ प्रक्षिप्य तन्निर्दिश्य 28शंयुवाकाय होत्रे प्रैषं दत्त्वा तेन तस्मिन्ननूच्यमाने आहवनीये परिधीन् प्रहृत्य संस्रावसंज्ञकं होमं कुर्यात् । अत्रैव ऋत्विजः पूर्वं तेभ्यो दत्तान् पुरोडाशादि हविश्शेषं भक्षयेयुः ॥
पत्नी-संयाजादिकम्
ततः अध्वर्युर्जुहूपभृत्स्रुवगतानाज्यलेपानुष्णेन वारिणा प्रक्षाल्य पात्राणि तान्यादाय गार्हपत्याग्नेः समीपं गच्छेत् । वेदं होता, स्फ्यमाज्यस्थालीमुदकमण्डलं चाध्वर्युः गृहीत्वा तत्रैव गच्छेताम् । ततो गार्हपत्यस्य पश्चिमदेशे दक्षिणतोऽध्वर्युरुत्तराभिमुखः उत्तरत आग्नीध्रो दक्षिणाभिमुखो मध्ये होता पूर्वाभिमुखश्चेत्येवं प्रकारेणोपविश्योच्चैरुपांशुस्वरेण वा आज्यद्रव्येण पत्नीसंयाजाख्यान् कांश्चन होमान् कुर्युः । तत्र प्रैषाश्रावणप्रत्याश्रावणेषु पूर्ववदेव कृतेषु अध्वर्युर्गार्हपत्यस्योत्तरार्धे जुहुयात् । तत्र सोमः, त्वष्टा, देवपत्न्यः, राका, सिनीवाली, कुहू’, अग्निर्गृहपतिरिति देवताः । तत्र राकादीनां तिसृणां होमा नित्याः काम्याश्च । इतरेषां नित्या एव । तत्र सर्वत्रोद्देश
[[३०]]
त्यागो यजमानेन पत्न्या चेत्युभाभ्यां कर्तव्यः । एवं 29हुतानुमन्त्रणमपि । ततः पुरोडाशादौ कृतेडाह्वानभक्षणादिवदाज्ये डायामपि सर्वं कुर्यात् । ततः स्रुवेण संपत्नीयहोमः । ततो दक्षिणाग्नाविध्म 30प्रवश्चनान्याधाय जुह्वां चतुर्गृहीतमाज्यं गृहीत्वा तत्र फलीकरणानोप्य 31 तेन जुहुयात् । ततः पूर्वगृहीत आज्ये पिष्टलेपान् 32 प्रक्षिप्य तेन होमचतुष्टयं कुर्यात् । ततो होतरि वेदं विस्रस्य तदीयतृणैर्वेदिं पश्चिमत आरभ्य प्राचीनं यावदाहवनीयं समग्रां स्तृण्वाने सति पत्नी स्वकटितः योक्त्रं विमुच्य स्वाञ्जलौ स्थापयेत् । तदा तस्या अञ्जलौ जुहूगतमुदकमध्वर्युरासिञ्चेत् । सा तदुकं भूमौ विस्राव्यार्द्रेण हस्तेन स्वमुखं विमृज्योत्तिष्ठेत् । एतावत्पर्यन्तं पत्नीकर्म ॥ होतनि स्तरणावशिष्टानि वेदितृणानि भूमौ निधाय आहवनीये स्रुवेण हुत्वा संस्थाजपाख्येन मन्त्रेणोपस्थाय निस्सरेत् । एतदन्तं होतुः कर्म । ततोऽध्वर्युराहवनीयसमीपं गत्वा जुह्वा स्रुवेण वा बह्वीः प्रायश्चित्ताहुतीर्जुहोति । तदन्ते ध्रुवाया आज्यं गृहीत्वा समिष्टयजुःसंज्ञकं होमत्रयं कुर्यात् । तन्मध्य एव वेद्यामास्तीर्णानि सर्वाणि बर्हीष्यादाय आहवनीये प्रक्षिपेत् । ततो वेदिमध्ये प्रणीता अप आसाद्योत्करे उपवेषं निरस्य कपालानि पुरोडाशश्रपणार्थमुपहितानि पृथक्कृत्य सङ्ख्यायोद्वासयेत् । एतावदाध्वर्यवं कर्म ॥
याजमानम्
यजमानस्तु यज्ञसंकल्पप्रभृति ब्रह्मचर्यादीन् नियमान् धारयेत् । दक्षिणार्थं द्रव्यं प्रकल्पयेत् । प्रधानकर्मणः फलम् । यद्यङ्गेष्वपि फलेच्छा
[[३१]]
तर्हि यत्र यत्र यादृशं फलं निर्दिष्टं तस्य तस्य कामना, आत्मगामि फलबोधकमन्त्राणां पठनं, संकल्पात् पूर्वमेव क्षुरकर्म, सर्वेष्वपि कर्मसु द्रव्यत्यागयुक्तेषु तत्तद्देवताभ्यो मनसा तत्तद्रव्यस्य त्यागः, यत्र यजमानं वाचयति तेषां सर्वेषां मन्त्राणां पठनं, यदा यदा अध्वर्य्वादिभिः प्रैषो दीयते तदनुरोधेनानुष्ठानं, क्वचित् यज्ञियानां हविषां विध्यनुरोधेनाभिमर्शनम्, अनुमन्त्रणमन्त्राणां सर्वेषां पाठः, तत्तद्धविर्भक्षणम् इत्यादिकं कृत्वा अन्ते यज्ञविमोकं कुर्यात् । इष्टिपश्वादौ अन्ते गोमतीजपं यज्ञसंचमे इति मन्त्रं जपित्वा यज्ञं विसृजेत् इत्येतदन्तं याजमानम् ॥ ॥ इति पौर्णमासयागः ॥
-
कुण्डानां पञ्चभूसंस्कारान् कृत्वैव अग्निस्थापनमिति देवयाज्ञिकप्रभृतयः पद्धतिकाराः । ते च संस्काराः-कुण्डस्य परिसमूहनम् , गोमयेनोपलेपनम् , प्रागुदगायताना तिसृणां तिसृणां रेखाणां करणम् , कुण्डात् पांसूनामुद्धरणम् , प्रोक्षणमिति । ↩︎
-
वपनमिदं कृताकृतं मन्यन्ते बहवो याज्ञिकाः । ↩︎
-
ग्राम्येभ्य उपवसति, आरण्यानश्नाति, न तस्य सायमश्नीयात् येन प्रातर्यक्ष्यमाणस्स्यात् (आप, श्रौ. ४. ३. १०) इति वचनात् यज्जातीयेन हविषा यक्ष्यति तज्जातीयं हविः पूर्वदिने नाश्नीयात् । माषमांसे च सर्वथा वर्जयेत् । ग्राम्या ओषधयश्च-तिलाः, माषाः, व्रीहयः, यवाः, प्रियङ्गवः, अणवः, गोधूमा इति सप्त ग्राम्या ओषधयः । वेणुतण्डुलाः, श्यामाकाः, नीवाराः, अरण्यतिलाः. अरण्यगोधूमाः, अरण्य मर्कटकाः, कुलुत्था इति सप्तारण्याः ॥ See. आप. श्रौ. १६. १९. १३, १४. ↩︎
-
खट्वादीनामुपरि शयनं निषिध्यते । न तु भूमेरुपर्यास्तरणमपि । ↩︎
-
यजमानपत्न्याः कट्या बन्धनाय मुज्जतृणैर्निमिता रज्जुर्योक्त्रम् । तप्ता आपो मदन्त्यः । पिष्टाना जलेन सह मिश्रणायोपयोक्तव्यं काष्ठनिर्मितं पात्रं मेक्षणम् । वेदो दर्भमुष्टिविशेषः । ततः परिवासितानि तदग्राणि वेदाग्राणि । ऋत्विग्भ्यो दक्षिणारूपेण देय ओदनः अन्याहार्यः । तत्पाकार्थी स्थाली अन्वाहार्यस्थाली । पिष्टसयवनकाले पात्र्यां संलग्नः पिष्टांश पिष्टलेपः । तद्रक्षणार्थं पात्रं पिष्टलेपपात्रम् , द्वितीयावहननकाले निस्सृताः सूक्ष्मास्तण्डुलत्वचः पलीकरणानि । तदर्थं पात्रम् । ↩︎
-
तण्डुलानामुज्ज्वलीकरणायेदं द्वितीयमवहननम् । ↩︎
-
अत्र, आमपिष्टानामेवोष्णजलेन संयोजनम् , ततः पिण्डं कृत्वा कपालोपरि निधाय श्रपणं च सूत्रकारैरुक्तम् , तथापि सोत्कर्याय पिष्टानि प्रथमं भर्जयित्वा, ततस्तानि उष्णजलेन संयोज्य, पिण्डं कुर्वन्ति याज्ञिकाः । ↩︎
-
संयवनं जलेन मिश्रकिरणम् । ↩︎
-
कट्यां बन्धनम् । ↩︎
-
धातवः शलाकाः । त्रिवारमावृत्ताभिर्दर्भशलाकाभिर्वेदिं स्तृणुयादित्यर्थः । ↩︎
-
पश्चिमभागे उदगग्रः दक्षिणोत्तरभागयोः प्रागग्रौ चेति तिसृषु दिक्षु परिधयो भवेयुः । ↩︎
-
पात्र्यां स्रुवेण घृतक्षेपणमुपस्तरणम् । पुरोडाशस्योपरि स्रुवेणैव घृतस्य क्षारणमभिधारणम् । इमे चोपस्तरणाभिधारणे सर्वेष्वेव चरुपुरोडाशादिषु कठिनद्रव्येषु हविष्षु कर्तव्ये । ↩︎
-
आहवनीयाग्नेर्वायव्यकोणादारभ्य आग्नेयकोणपर्यन्तमग्नेरूर्ध्वं संतताम् (अविच्छिन्नाम् ) आज्यधारां स्रुवेण स्रावयेत् । अयं प्रथमाधार इत्युच्यते । एवं निर्ऋतिकोणादारभ्य ईशानकोणपर्यन्तं तथैव स्रावयेत् । अयं द्वितीयाधार उच्यते । एवमक्ष्णया करणमेव आपस्तम्बाचार्यमतम् तैत्तिरीयश्रुतिश्च तै.सं. २. ५. ११.४.1 See. आप. श्रौ. सू. १. १४. १. । तौ प्राञ्चावेव कर्तव्याविति केचित् । ↩︎
-
कदाचित् वाड्मनसयोः देवेभ्यो हव्यवहनविषये परस्परं कलहः समजनि। ते उभे अपि निर्णयाय प्रजापतिसमीपमगच्छताम् । प्रजापतिरुभयोर्विवादं श्रुत्वा निर्णयमकरोत्-यस्मान्मनसा चिन्तितमेव वाचा वक्तुं शक्यते तस्मान्मन एव श्रेष्ठम् । वाक् तु मनसो दूतीत्वमेवार्हति-इति । तच्छृत्वा क्रुद्धा वाक् तमशपत्–‘हे प्रजापते ! यस्मात्त्वं मद्विरुद्धं निर्णयमदाः अतो नेतः परं त्वां वाचा मन्त्रमुच्चार्य जुहोतु इति । अत एव प्रजापतिदेवताके कर्मणि वाचा मन्त्रं नोच्चारयन्ति, किन्तु मनसैव प्रजापति ध्यायन्तः तस्मै जुह्वतीति श्रुतिः See. I तै. सं. २. ५. ११. ४. एतच्छ्रुतिबलादेव . प्रजापतेर्मन्त्राभाव उक्तः सर्वैरपि सूत्रकारैः । ↩︎
-
होतृप्रवरे ये मन्त्रद्रष्टारः प्रवराध्यायपठिताः त्रयः ऋषयः तेषामत्र नामग्रहणं वत्यन्तशब्देन-‘भृगुवद्वीतहव्यवत् सवेदोवत्’ इति, ‘भार्गव वैतहव्यसावेदस’ इत्यादि वा । एतदेव आर्षेयवरणमित्युच्यते । ↩︎
-
समित् , तनूनपात् , इट् , बर्हिः, स्वाहाकार इति पञ्चाना प्रयाजानां नामानि । देवता अपि ता एव चतुर्णाम् । पञ्चमस्य परं तेषु तेषु कर्मसु यक्ष्यमाणाः प्रधानदेवताः स्विष्टकृदाज्यभागप्रयाजानूयाजदेवता एव । ↩︎
-
तत्र समिधो यज’ इति प्रथमः प्रैषः । ‘यज’ इत्येवेतरे चत्वारः प्रैषाः । [घ]: See. कात्या. श्रौ. १. २. ५, ६, ७. ↩︎
-
‘अग्नयेऽनुब्रूहि’ इति पुरोनुवाक्याप्रेषः । ‘अग्निं यज’ इति याज्याप्रैषः। ↩︎
-
विष्णुः प्रजापतिः अग्नीषोमौ च देवतात्वे विकल्प्यन्ते । उपाशुयाजोयमापस्तम्बीयानां पौर्णमास्यामेव यष्टव्यः । बहुचबौधायनीयकातीयानां तु सोऽयममावास्यायामपि भवति तत्तत्सूत्रानुसारेण । See कात्या. श्रौ. सू. ३. ३. २४. आश्व. श्रौ. सू. ९. ३. १२. ↩︎
-
अत्र त्यागो नाम तेषु तेषु द्रव्येषु स्वसम्बन्धनिवृत्तिपूर्वकं देवतासम्बन्धापादकः मानसव्यापारः। तदवबोधकः शब्दश्च इदमग्नये न मम’ इत्यादिः कातीयानाम् । ‘अग्नय इदं न मम’ इतीतरेषाम् । ↩︎
-
प्रधानयागानन्तरं स्विष्टकृद्यागात्पूर्व क्रियमाणः पार्वण होमः नारिष्ठ होमाश्च तैत्तिरीयाणामेव भवन्ति, नान्यशाखिनाम् । शाखान्तरे तद्विध्यदर्शनात् तन्मन्त्रपाठाभावाच्च । ↩︎
-
‘अग्नये स्विष्टकृतेऽनुब्रूहि अग्नि स्विष्टकृतं यज’ इति प्रैषस्वरूपम् । ↩︎
-
ब्रह्मणे भक्षणार्थ दीयमानस्य हविर्भागस्य कस्यचित् प्राशित्रहरणमिति संज्ञा। ↩︎
-
इद चतुर्धाकरणमाग्नेयपुरोडाशस्यैव, नाग्नीषोमीयादेः । विकृतिष्वपि आग्नेययागविकृतिभूतयागसम्बन्धिन एव तस्य तत् नान्यविकृतिष्विति । यज्ञेषु सर्वत्र हविःशेषभक्षणं पुंसामेव दरीदृश्यते । न यजमानपत्न्या अपि स्त्रियाः कुत्रापि । सत्यपि कर्मसु तस्याः सहाधिकारे हविर्भक्षणेऽधिकाराभावे हेतुं नाभ्यूहितुं शक्नुमः । ↩︎
-
तस्मिन्नेव काले दक्षिणाग्नौ अन्वाहार्यस्य पाकारम्भोऽभिमतः आपस्तम्बस्य महर्षेः । See आप. श्रौ. ३. ३. १२. कात्यायनस्तु पूर्वमेव पाकारम्भं कृत्वा पक्कस्यौदनस्याग्नेरुद्वासनं परमिदानीमभिप्रैति । See कात्या. श्रौ. सू. ३. ४. २७-२९ ↩︎
-
तत्र देवं बर्हिः, देवो नराशसः, देवोऽग्निः स्विष्टकृत् इति क्रमेण त्रयाणामनूयाजानां देवताः । ↩︎
-
“इषिता दैव्या होतारो भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहि” इति सूक्तवाकप्रैषः। ↩︎
-
“स्वगा दैव्या होतृभ्यः स्वस्तिर्मानुषेभ्यः शंयुवाकाय शंयोर्ब्रूहि” इति शंयुवाकप्रैषः । ↩︎
-
अत्र आदित आरभ्य आन्तं प्रधानहोमेष्वङ्गहोमेषु चाध्वर्युणा तत्तद्धोमानुष्ठानसमनन्तरमेव यजमानेन पठनीयतया केचन मन्त्रा विहिताः । ते अनुमन्त्रणमन्त्रा इत्युच्यन्ते । यथा अग्नेरहं देवयज्ययान्नादो भूयासम् , सोमस्याहं देवयज्यया पशुमान् भूयासमिति । ↩︎
-
येभ्यः पलाशादिकाष्टेभ्यः इध्मकाष्ठानि च्छिन्नानि अग्रतः तेषामधस्तना भागा इध्मप्रव्रश्वनानीत्युच्यन्ते । ↩︎
-
तण्डुलानां द्वितीयावहननकाले तेभ्यो निस्सृताः अतिसूक्ष्माः त्वचः फलीकरणानीत्युच्यन्ते । पिष्टलेपफलीकरणयोश्चतुर्ग्रहीते आज्ये विकल्पेन प्रक्षेपमिच्छति देवयाज्ञिकः । अत्र विश्वे देवा देवता । ↩︎
-
पिष्टानां संयवनकाले योऽशः पात्रे लिप्तः स पिष्टलेपः। ↩︎