पर्वप्रतिपदोस्सन्धिः प्रधानानुष्ठानस्य मुख्यः कालः । स यदि कदाचिदपराह्ने रात्रौ वा आपतेत् तदा तदनुष्ठानस्य निषेधात् द्वितीयदिन एव प्रातः प्रधानानुष्ठानम् । तदनुरोधेन तत्पूर्वदिन एवं कर्मण आरम्भः । दर्शपूर्णमासावेव तदितरासामिष्टीनां प्रकृतिभूतौ सामान्यतः । पशुयाग प्रकृतिभूताग्नीषोमीयपशुयागस्य च । विशेषास्तु द्रव्यदेवतादिसादृश्यादवगन्तव्याः १]। तत्र अध्वर्युणा यागकाले पठनीया मन्त्राः यजुर्वेदे आम्नाताः । ते चोपांशु चातुस्वर्येण पठनीयाः । होत्रा पठनीया मन्त्रा ऋग्वेदीयाः 1 । ते च याज्यापुरोनुवाक्याप्रैषादिरूपा ऐकस्वर्येणोच्चैश्च पठनीयाः । तदतिरिक्ताश्च केचित् जपादयो यथासम्भवमुपांशुस्वरादिना । प्रैषा आध्वर्या अत्युच्चेरेव, परसम्बोधनार्थत्वात् इति स्वरूपविवरणं दर्शपूर्णमासयोः॥
[[१९]]
-
याज्यापुरोनुवाक्यारूपा मन्त्रा इष्टिपशुचातुर्मास्योपयोगिनो यजुर्वेदेऽपि पठिताः; ऋग्वेदेऽपि । एवं सूत्रकारोऽपि भगवानापस्तम्बश्चातुर्मास्यान्तभागस्य हौत्रमागमपि पपाठ । व्याख्यातारोऽपि अनुक्तमन्यतस्तं जगृहुः । एवं चातुर्मास्यान्तभागस्य याजुषहौत्रम् , आर्चिक हौत्रमिति द्विधा प्रचलति । तत्र आपस्तम्बीया बौधायनीयाश्च, आदित एव आर्चिकमेव होत्रमनुतिष्ठन्ति । कठमैत्रायणीयास्तु चातुर्मास्यान्तेषु कर्मसु याजुषं तदुपरि आर्चिकं च होत्रमनुतिष्ठन्ति । ↩︎