उक्तोऽग्निहोत्रानुष्ठानप्रकारः ॥ अथेदानीं दर्शपूर्णमासयोः स्वरूपं, तदनुष्ठानप्रकारश्च अनवगततत्स्वरूपाणां सुखावबोधाय सङ्ग्रह्य विलिख्यते । कृताधानस्य दारवतः त्रैवर्णिकस्य तत्र अधिकारः, न अकृतदारस्य, न वा मृतपत्नीकस्य । प्रत्येकं दिनद्वयानुष्ठेयमिदं कर्म । पौर्णमास्यां प्रातरारभ्य प्रतिपदि पूर्वाह्ने समापनीयम् । एवममावास्यायां प्रातरारभ्य तदनन्तरप्रतिपदि पूर्वाह्ने समापनीयम् । तत्र ‘यदहरेवैनं श्रद्धोपनमेत् अथ आदधीत, अथ यजेत’ इति वचनात् उत्पन्न श्रद्धा पुरुषो यस्मिन् कस्मिंश्चिद्वसन्ततौ विधिवदग्नीनाधाय, आधानदिन एव पवमानेष्टीरनुष्ठाय तद्दिन एव सायमग्निहोत्रमारभेत । आरभ्य च प्रतिदिनं सायं प्रातश्चाग्निहोत्रं जुह्वत् 1, समनन्तर भाविन्यां पौर्णमास्यां मलमासशुक्रास्तादिदोषरहितायाम् , अन्वारम्भणीये
[[१७]]
ष्ट्यनुष्ठानपूर्वकं दर्शपूर्णमासावारभेत । आरभ्य पूर्वं तस्मिन् पर्वणि पौर्णमासं यागमनुतिष्ठेत् , अनन्तरस्मिन् दर्शे दर्शयागम् 2। उभयत्रापि चत्वार ऋत्विजः- अध्वर्युः, ब्रह्मा, होता, आग्नीध्रश्च । एतेषामत्र समप्राधान्यमेव न सोमयागवदुच्चनीचभावः ॥ पौर्णमास्यां त्रीणि प्रधानानि - अग्निदेवताकः पुरोडाशद्रव्यको यागः प्रथमः । विष्णुप्रजापत्यग्नीषोमान्यतमदेवताकः उपांशुयाजाख्यो द्वितीयः । अग्नीषोमदेवताकः पुरोडाशद्रव्यको यागस्तृतीयः । अन्ये ये तत्प्रकरणपठिता यागहोमादयः ते सर्वे तदङ्गभूताः । प्रवानस्य फलोत्पादनयोग्यताजननार्थमेव अङ्गानामनुष्ठानम् । एवममावास्यायां प्रधानत्रयम् - आग्नेयः पुरोडाशयागः, ऐन्द्रो दधियागः, ऐन्द्र एव च पयोयाग इति । अत्रापि प्रयाजादयोऽङ्गभूता अनुष्ठीयन्ते । ते च यद्यपि एकैकस्याङ्गभूता इति त्रयाणां कृते त्रिरनुष्ठेयाः पूर्णिमायाम् , त्रिश्च दर्श इत्यापतति, तथापि एककालानुष्ठीयमानानामनेकेषामपि प्रधानानामङ्गानि सकृदेव अनुष्ठेयानीति पूर्वतन्त्रनिर्धारितं न्यायमनुसृत्य पूर्णिमायां त्रितयोद्देशेन सकृत् दर्शे च त्रितयोद्देशेन सकृदनुष्टीयन्ते ॥ तेषु केचन यागपदवाच्याः । केचन होमपदाभिधेयाः। तत्र ये 3यागास्ते तिष्ठतैव होतव्याः । ये होमास्त उपविष्टेन होतव्याः । अन्यानि चाङ्गानि यथासम्भवमनुष्ठेयानि । एवं, यागश्चेत् ‘वौषट्’ इति वषट्कारमुक्त्वा अग्नौ हविः प्रक्षेप्तव्यम् । होमश्चेत् स्वाहा’कारमुक्त्वा तदिति विवेकः । तत्र ‘यजति’शब्देन विहितो यागः । ‘जुहोति’शब्देन विहितो होम इति बोध्यम् ॥ · तौ दर्शपूर्णमासौ द्विविधौ-नित्यौ काम्यौ चेति । प्रतिदर्शं प्रतिपौर्णमासं च यावज्जीवं पुरुषेण अनुष्ठीयमानत्वात् , अननुष्ठाने प्रत्यवायोत्पत्तिकथनाच्च नित्यत्वम् । तत्तत्फलमुद्दिश्य अनुष्ठानविधानाञ्च काम्यत्वम् । तत्र नित्यौ यावत्पर्यन्तं जीवति पुरुषस्तावत्पर्यन्तमविच्छेदेन पर्वस्वनुष्ठेयौ 4 ।
[[१८]]
काम्यौ च यदा फलेच्छा उदेति तदा विहिताविगीतकाले सकृदनुष्ठेयौ । पुनस्तस्यैव फलस्य तज्जन्यफलान्तरस्य वा अपेक्षायां सत्यां पुनरनुष्ठानम् । तत्र पुरोडाशस्य साक्षात्प्रदेयभूतस्य प्रकृतिभूतं द्रव्यं व्रीहयो यवा वा । व्रीहीणां यवानां च विकल्पः । परं तु दर्शपूर्णमासयोरारम्भकाले व्रीहयो यवा वा स्वेच्छया ग्राह्याः । अनन्तरं द्वितीयादिप्रयोगे प्रथमप्रयोगगृहीतेनैव [^क]द्रव्येण यावज्जीवमनुष्ठानं कार्यम् । तयोः दर्शपूर्णगासयोः न केवलं स्वर्गमात्रार्थत्वम् , अभिलषितसर्वफलार्थत्वं च शास्त्रेण अवबोध्यते ॥
-
अयं च होमपूर्वाधानपक्षः । इष्टिपूर्वाधानपक्षे तु आधानानन्तरं पौर्णमास्यामदुष्टायामिष्टयारम्भ एव कर्तव्य इति पूर्व निरूपितम् । ↩︎
-
पर्वद्वयानुष्ठेयमपीदमेकं कर्म, यथा सायंकाले प्रातःकाले च कृतं होमसमुदायद्वयं मिलित्वा एकमग्निहोत्राख्यं कर्म भवति, तद्वत् । ↩︎
-
See. कात्या. १. २. ६. ↩︎
-
त्रिंशद्वर्षपर्यन्तमविच्छेदेन दर्शपूर्णमासान् अनुष्ठाय ततः परित्यागः । दाक्षायणयाजिनस्तु पञ्चदशैव वर्षाण्यनुष्ठेयानि । वृद्धावस्थायां वा त्यागो नित्ययोरपि इत्यादयः पक्षा उक्ताः सूत्रग्रन्थेषु । ↩︎