०३ विषयविवेचनम्

[^२_pg१६]अत्र केचन विषया विविच्यन्ते
सम्भावित संशयविनिवृत्तये ।
विधिवद् उपनीतस् त्रैवर्णिको माणवकः,
गुरुगृहे ब्रह्मचर्येण वसन्
साङ्गं वेदं, वेदौ, वेदान् वा यथानियमं गुरोर् अधीत्य,
स्वगृहं प्रत्यावृत्तः,
कुलशीलादि सम्पन्नां काञ्चन कन्याम् उद्वहेत् ।

यस्मिन्न् अग्नौ वैवाहिक-होमाः क्रियन्ते,
सोऽग्निः ततः प्रभृत्येव संरक्षणीयः ।
स गृह्याग्निर् इत्य् उच्यते ।
तद्-अर्थम् आधान-कर्तव्यता नास्ति - तैत्तिरीय-च्छन्दोग-बह्वचानाम् ।
वाजसनेयिनां तु तद्-अर्थम् अपि
स्मार्ताधानाख्यं किञ्चन कर्म विहितं तद्-गृह्य-सूत्रे ।

स च यावज्-जीवं धारणीयः ।
तस्मिन्नेव अग्नौ गृह्योक्तानि कर्माण्यनुष्ठेयानि । समुचितं कालं प्राप्य, आहिताग्नित्वसिद्धये श्रौताधानं कर्तव्यम् । तेन च अग्नित्रयस्य, अग्निपञ्चकस्य वा सिद्धिः । स च कालः प्रायेण पञ्चविंशतिवर्षवयस्कत्वरूपो निर्णीतो याज्ञिकैर्धर्मशास्त्रकारैश्च । विवाहितेनैकैकेनापि त्रैवर्णिकेन अग्न्याधानमनुष्ठेयम् । अन्यथा अनाहिताग्नितारूपो दोष एनमृच्छेत् । तत्र स्वपितुरनाहिताग्नित्वे स्वस्य अधिकारो नास्ति । अतः पितुराधानं कारयित्वा ततः स्वयं कुर्वीत । एवमेव ज्येष्ठभ्रातुरपि । परं ज्येष्ठभ्रातुरनाहिताग्नेरराधानकरणेऽनिच्छायां, ततोऽनुमतिं लब्ध्वा कनीयान् स्वयमाधानेऽधिकुर्यात् । अतश्च जीवतः पितुराहिताग्नित्वे सत्येव पुत्रा अग्निमादधीरन् । तन्मरणानन्तरं वा आदधीरन् । जीवतो भ्रातुरनाहिताग्नेरनुज्ञां लब्ध्वा तन्मरणानन्तरं वा स्वयमाधानं कुर्युः । एवं सोमयागानुष्ठानेऽप्ययमेव न्यायोऽनुसरणीयः ॥

[^२_pg१६] उपरि लिखितान् विषयानधिकृत्य कैश्चित् क्वचित् अन्यथा अन्यथा लिखितम् । तदवलोकनेन सुधियां कदाचित् विषयेष्वेषु मा प्रसाङ्क्षीदन्यथाभाव इत्येतदर्थमिमे विषया उपरितना विवेचिताः । प्रायेणैवंविधान् विषयान् साम्प्रदायिका एव साधु विवेचयितुं प्रभवन्तीति किमत्र अधिकं वक्तव्यम् ।

[[१६]] तत्र एकस्मिन् गृहे पिता पूर्वं ततश्च भ्रातरो बहवोऽपि ज्येष्ठक्रमेण अग्न्याधानं कर्तुं प्रभवन्ति । अत एव एकस्मिन्नेव गृहे बह्वयोऽप्यग्निशालाः पितापुत्रीयाः, भ्रात्रीयाश्चैककाले भवितुमर्हन्ति । परं सर्वेऽपि स्वाहितेष्वेव अग्निषु जुहुयुः, यजेरंश्च । परकीयेषु तेषु तु तत्तदृत्विक्त्वेन होतुं यष्टुं वा प्रभवेयुः, न यजमानत्वेन । परकीयेऽग्नौ परेण स्वकर्मानुष्ठाने, न केवलं कर्मजन्यादृष्टासिद्धिः अग्नीनामपि नाशो भवेत् । स्मार्तं वैश्वदेवं परमेकस्मिन् पाके भु़ञ्जानानामनेकेषामपि पितृपुत्रादीनामेकमेव भवेत् । तस्य भोक्ष्यमाणान्नसंस्कारकत्वेन, एकेनैव वैश्वदेवेन भाण्डस्थस्य समग्रस्याप्यन्नस्य संस्कारजननात् ॥ दायविभागस्तु पितुरूर्ध्वं भ्रातृणां परस्परं भवति । यदि तु जीवन्नेव पिता पुत्राणां स्वस्य च विभागमिच्छति तदा पित्रा सह विभागो भवितुमर्हत्येव ! तदा पृथक्पाकोऽपि भवति । अतश्च जीवति साग्नौ पितरि, सति वा, असति वा दायविभागे सदाराणां पुत्राणामाधानाग्नि होत्रादिषु श्रौतकर्मस्वधिकारोऽस्त्येवेति शास्त्रमर्यादा ॥ ॥ इति साधारणा विषयाः ॥