एवं पूर्वोक्तप्रकारेण कृताधानः त्रैवर्णिकः आहिताग्निपदवाच्यो भवति । तस्यैव 1सपत्नीकस्य श्रौतकर्मस्वधिकारः । तानि च श्रौतकर्माणि वेदेषु परस्सहस्राणि विहितानि । तेषां नामतो निर्देशस्त्वन्ते चिकीर्षते । इदानीं तेषामेव केषांचित् स्वरूपं विलिख्यते । तेषु कर्मसु अग्निहोत्रमेव प्रथमपातीति तस्यैव स्वरूपं विवृयते । तच्च पुरुषेण त्रैवर्णिकेन
[[१०]]
अवश्यकर्तव्येषु नित्यकर्मसु परिगणितं स्मृतिकारैः । अत एव तत् यावज्जीवमनुष्ठेयम् । दर्शपूर्णमासोक्तः कालविकल्पः-जराजीर्णो वा विरमेत् , विंशतिं वा वर्षाणि अविच्छेदेन अनुष्ठाय ततः परित्यजेत् इत्यादिर्नात्र प्रसरति । तस्य च सायमुपक्रमः (आरम्भः), प्रातरपवर्गः (समाप्तिः) । एवं च सायं प्रातरिति कालद्वयानुष्ठानादेकं कर्म निष्पन्नं भवति । तत्र सायङ्काले यदा सूर्यरश्मयः भूभागं परित्यज्य वृक्षाग्र एव प्रकाशमाना दृश्यन्ते तदा सायंहोमाः, प्रातःकाले च प्राच्यां दिशि यदा रश्मय आविर्भूता भवन्ति तदा च प्रातर्होमा अनुष्ठेयाः ॥
अग्निहोत्रे उदितानुदित-होमि-भेदः
तत्र उदितहोमिनः केचित् । केचिदनुदितहोमिनः । तेषु बह्वचाः कातीयाः छन्दोगाश्च अनुदितहोमिनः । कठास्तैत्तिरीया मैत्रायणीयाश्च उदितहोमिनः 2 । अग्निप्रणयनं परं सर्वेषामुदयास्तगययोः पूर्वमेव । उदयादस्तमयाच्च पूर्वमेव गार्हपत्यादग्निमुद्धृत्य कुण्डेषु स्थापयित्वा प्रज्वलयेत् । ततोऽनुदय उदये वा स्वसूत्रानुसारमग्निहोत्रमनुतिष्ठेत् ॥
तद्-अनुष्ठानप्रकारः
तत्र सायमग्निहोत्रार्थं सङ्कल्प्य उपवेषेण गार्हपत्यादग्निं ज्वलन्तमुद्धृत्य, तं दक्षिणाग्नेरायतने तूष्णीं स्थापयित्वा, पुनरपि गार्हपत्यादग्निमुद्धृत्य तं मन्त्रेण आहवनीये स्थापयेत् । ततो यजमान इध्मकाष्ठानि स्वयमाहृतानि त्रिष्वप्यग्निषु क्रमेण निदध्यात् । ततोऽग्नीन् गन्धपुष्पादिभिरलङ्कृत्य, उदगग्रैः प्रागग्रैश्च दर्भैः (कुशैः) परिस्तीर्य, या यजमानस्य अग्निहोत्री 3 गौः तां विहारस्य 4 दक्षिणत आनीय अवस्थाप्य, सूर्यास्तादनन्तरं तां 5दुग्ध्वा दुग्धं पयः श्रपणार्थायां कुम्भ्यां निनीय, आहवनीय-गार्हपत्य-दक्षिणाग्नीन् क्रमेण जलेन परिषिच्य, गार्हपत्यादारभ्य आहवनीयपर्यन्तम् अविच्छिन्नामुदकधारां वेद्यां प्रस्त्राव्य, गार्हपत्याग्नेः कांश्चन
[[११]]
अङ्गारान् पृथक्कृत्य तदायतनाद्बहिः वायव्यकोणे तान्निक्षिप्य, तदुपरि अग्निहोत्रार्थपयःपूर्णां कुम्भीं निक्षिप्य, तत् पयः श्रपयेत् । यस्मिन् पात्रे दोहनं कृतं तत् पात्रं प्रक्षाल्य, तज्जलं पात्रस्थदुग्धमिश्रम् अन्यद्वा शुद्धजलं स्त्रुव 6 आनीय, तत् कुम्भ्यां प्रतिषिच्य त्रिः पर्यग्नि कृत्वा 7 8 वर्त्मकरणेन प्रागुद्वास्य, त्रिर्भूमौ तत् प्रतिष्ठाप्य, पूर्वं गार्हपत्यादुद्धृतानङ्गारान् पुनस्तस्मिन्नेव प्रतिक्षिप्य, स्रुवमग्निहोत्रहवनीं च गृहीत्वा ते आहवनीये प्रतितप्य, सम्मृश्य, कुम्भीतः पयो गृहीत्वा, अग्निहोत्रहवण्यां क्षिपेत् । एवं चतुर्वारं क्षेप्तव्यम् । तत् हविरुन्नयनमित्युच्यते । उन्नीतं तत् पयः गार्हपत्यस्य पश्चिम भागे स्थापयित्वा गार्हपत्ये स्वं हस्तं प्रताप्य, तेन तत् पयः सम्मृश्य, 9प्रादेशमात्रीं पलाशसमिधम् एकां, द्वे, तिस्रो वा अग्निहोत्रहवण्या 10उपरि धारयन् गार्हपत्यस्योपरिभागेन ता आहवनीयसमीपे नयन् , आहवनीयस्य पश्चिमभागे सादयित्वा, अप उपस्पृश्य, ततस्ताः समिधः (एकां, द्वे, तिस्रो वा यथापूर्वं गृहीताः) आहवनीय आधाय, अग्निहोत्रहवनीस्थं पय आहवनीये जुहुयात् । सा अग्निहोत्रस्य प्रथमा आहुतिः । सा अग्निदेवत्या ॥ ततः स्रुगग्रात् पयोलेपं हस्तेन गृहीत्वा भूमौ निमृज्य, अग्निहोत्रहवणीं भूमौ निक्षिप्य, गार्हपत्यं समीक्ष्य, पुनस्तां गृहीत्वा द्वितीयामाहुतिं जुहुयात् । सा प्रजापतिदेवताका । एवं प्रातरप्याहुतिद्वयं होतव्यम् । तत्र प्रथमा सूर्यदेवत्या । द्वितीया प्रजापतिदेवताका । इमाश्चतस्र आहुतयः अग्निहोत्रे प्रधानभूताः । अमूषां चतसृणामाहुतीनां मध्ये सायंकालीन प्रथमाहुतेरग्निदेवत्यत्वात् तदादायैव सर्वासामाहुतीनामग्निहोत्रनामत्वं छत्रिन्यायेन 11। इदं च 12आपस्तम्बादियाजुर्वैदिकमतेन ॥
[[१२]]
अग्नि-होत्र-नाम्नि मतभेदः
13बह्वचानां तु उपरि वक्ष्यमाणाः-गार्हपत्ये चतस्रः, दक्षिणाग्नौ चतस्र इत्यष्टौ, एवं प्रातरष्टौ इत्येवं षोडश । पूर्वोक्ताश्चतस्र इति मिलित्वा विंशतेरप्याहुतीनाम् अग्निहोत्रशब्दवाच्यत्वम् । मीमांसकसम्प्रदायोऽपीमं पक्षं परिपुष्णाति । होमकालेऽग्निहोत्रहवणीस्थं पयो न सर्वं होतव्यम् । किन्तु भक्षार्थं किञ्चित्तत्रैव अवशेषयेत् । ततः पूर्ववल्लेपं गृहीत्वा वेदिभूमौ निमृजेत् । तत् पितृदेवताकम् । ततोऽग्निहोत्रहवणीं भूमौ निक्षिप्य स्रुवं गृहीत्वा तं पयसा प्रपूर्य तेन गार्हपत्ये चतस्र आहुतीः दक्षिणाग्नौ च तावतीराहुतीर्जुहुयात् । तत्र अग्निः गृहपतिः देवता आदितश्चतसृणामाहुतीनाम् । अग्निर्गृहपतिः, रयिपतिः, पुष्टिपतिः, कामः, अन्नाद्यो वा विकल्पेन । एवमग्निरदाभ्यः परिषद्यो दाक्षिणाग्निकानां प्रथमातृतीया चतुर्थीनामाहुतीनां देवता । अग्निरन्नपतिर्द्वितीयस्या इति वेदितव्यम् ॥
अग्न्युपस्थानं लेप-भक्षश् च
एवं होमान् हुत्वा, अग्नीन् परिषिच्य, आहवनीयस्य दक्षिण भागेऽवस्थाय, अग्नीनुपतिष्ठेत । ततो वेदिमध्येऽग्निहोत्रहवणीं निधाय, लेपं होमावशिष्टं भक्षयित्वा, आचम्य, द्विः स्रुवं निर्लिह्य,14 हस्तं प्रक्षाल्य आचम्य, ततो जलेन तां पूरयित्वा तयैव आचम्य, अग्निहोत्रहवणीं दर्भैः संशोध्य प्रक्षालयेत् । ततः पुनस्तां पूरयित्वा तज्जलं चतसृष्वपि दिक्षु हस्तेन व्युत्सिञ्चेत् तस्यै तस्यै देवतायै (विभज्योर्ध्वं सेचनं व्युत्सेचनम्)। तत्र सर्पाः, सर्पाः पिपीलिकाः, सर्पेतरजनाः, सर्पदेवजनाश्च क्रमेण देवताः । पुनश्च तां पूरयित्वा आहवनीयस्य पश्चात् तदेकदेशं15 निनीय, शेषं पत्न्या अन्जलौ निनयेत् । पुनस्तां जलेन पूरयित्वा सप्तर्षिभ्य उदग्देशे तज्जलं निनयेत् । ततः प्रत्यावृत्य अग्नीन् प्रज्वलयेत् । ततोऽग्नीन् पूर्ववत् परिषिच्य 16अनाज्ञातादिमन्त्रत्रयं जपित्वा, अग्निहोत्रस्थाल्यां
[[१३]]
तृणमङ्क्त्वा , तदाहवनीये प्रहृत्य, अग्निहोत्रस्थालीं प्रक्षाल्य, हविरुन्ननयनदेशे तज्जलं निनयेत् । ततो यजमानो वेद्यां हस्तं प्रसार्य, तस्मिन्नप आसिच्य ताः स्वशिरस्यानयेत् । एतदन्तमग्निहोत्राख्यं कर्मोच्यते ॥
कर्ता
इदमग्निहोत्रं सायंप्रातःकालयोः यजमानः स्वयमेव जुहुयात् । यदि न शक्यते तर्हि पुत्रादिभिः ऋत्विजा वा कारयेत् । पर्वणि तु (पौर्णमास्याम् अमावास्यायां वा) 17यजमान एव जुहुयात् , नान्यैर्हावयेत् । तत्र नित्यद्रव्यं पयः, दधि, यवागूश्च । एतेषामेव फलार्थतयाप्यनुष्ठानम् । तत्र पशुकामः स्वर्गकामो वा पयसा जुहुयात् । इन्द्रियकामो दध्ना, यवाग्वा ग्रामकामः, ओदनेन अन्नकामः, तण्डुलैरोजस्कामो बलकामो वा । तेजस्कामो घृतेन इति काम्यानि द्रव्याणि ॥
अग्नि-होत्र-प्रशंसा
इदं च अग्निहोत्रं गृहस्थेनैव सभार्येण सता अवश्यमनुष्ठेयम् । कस्यामप्यवस्थायामग्निहोत्ररहितेन न स्थातव्यं त्रैवर्णिकेन । दीनो धनी वा सर्वोऽपीदमनुतिष्ठेत् यावत् जीवति । सत्स्वप्यतिमहत्सु. बहुवर्षबहुव्ययसाध्येषु क्रतुषु अग्निहोत्रस्य वेदेषु पुराणेषु तदनुयायिषु च ग्रन्थेषु यावती प्रशंसा दृश्यते सा न अन्यस्य कस्यापि क्रतोः । अग्निहोत्रमननुष्ठाय नान्यः क्रतुरनुष्ठातुं शक्यते । तत्र विवाहानन्तरं जातपुत्र कृष्णकेशत्वोपलक्षिते वयसि वर्तमानेन त्रैवर्णिकेन पुरुषेण सपत्नीकेन अग्न्याधेयं कर्तव्यमित्युक्तं प्राक् । एवमाहितानां गार्हपत्यदक्षिणाग्न्या हवनीयरूपाणां त्रयाणामग्नीनां मध्ये गार्हपत्योऽग्निरविच्छेदेन यावज्जीवं
[[१४]]
धार्यः 18। इतरावग्नी तत्तत्कर्मकाले गार्हपत्यादुद्धृत्य स्वस्वायतने स्थाप्यते । यदर्थमुद्धृतौ तौ तत्कर्मसमाप्त्यनन्तरं तथैव परित्यज्येते । तौ तत्रैव शान्तौ भवतः । पुनः कर्मकाले तौ नवीनतया गार्हपत्यात् प्रणीय स्वस्वकुण्डे स्थापयित्वा कर्मकरणम् । सायं प्रातश्च होमकाले, रात्रौ च यजमानस्तत्पत्नी वा, अग्न्यगारेऽवश्यं वर्तेत, न अन्यत्र गच्छेत् । अन्यतरेण गृहेऽवश्यं स्थातव्यम् । द्वयोरपि बहिरेग्रामान्तरगमनावश्यकतायां सहैव अग्निभिः गच्छेताम् ॥
अग्नि-समारोपणादि
तत्र यजमानोऽग्नीनरण्योरात्मनि वा 19 समारोप्य पत्न्या आन्वारब्ध एव गच्छन्मौनेन । गन्तव्यदेशं प्राप्य, पूर्वं समारोपितानग्नीन् मन्त्रेणोपावरोहयेत् 20। तत्र आत्मसमारोपणे गन्तव्यदेशप्राप्त्यनन्तरं लौकिकमग्निं शिष्टवैदिकगृहादाहृत्य तस्मिन्नात्मसमारोपितमग्निं मन्त्रेणोपावरोहयेत् । अरणिसमारोपणे तु गन्तव्यदेशावधि ते अरणी यजमान एव स्वहस्त आदाय गच्छेत् । गत्वा तत्र अरणी मथित्वा तत उत्पन्नेऽग्नौ उपावरोहणं कुर्यात् । गृह एव अग्निं परित्यज्य, पत्नीयजमानयोरुभयोरपि बहिर्गमनेऽग्निविनाशो 21 भवेत् । तदा पुनरग्निमत्त्वसिद्धये पुनराधानमेव
[[१५]]]
कार्यम् । [^१_pg१६]पुनराधानं तु आधानापेक्षया किञ्चित् विलक्षणं कर्म । तत्र प्रथमाधानोक्तानि कानिचन कर्माणि न अनुष्ठातव्यानि । तावन्मात्रेणैव अग्निसिद्धिः ॥ ॥ इत्यग्निहोत्रप्रकरणम् ॥
[^१_pg१६] See, आप. श्रौ. ५.२६., बौधा. श्रौ. ३. १., कात्या. श्रौ.४.११.
-
अकृतविवाहस्य श्रौतेषु कर्मस्वधिकारो नास्ति । मृतपत्नीकस्य त्वग्निहोत्रदर्शपूर्णमासयोरधिकारो भवतीति रुद्रदत्तः प्रसाधयति । परमपत्नीकस्य अग्निहोत्राद्यनुष्ठानं शिष्टसम्प्रदाये नास्ति । ↩︎
-
सूर्योदयादनन्तरं यच्छाखिनोऽग्निहोत्र कर्तव्यतया विहितं स उदितहोमी। ततः पूर्व तत् कुर्वाणा अनुदितहोमिनः । ↩︎
-
यस्याः पयो दुग्ध्वा अग्निहोत्रं क्रियते सा आग्निहोत्री गौः। ↩︎
-
विहारो यज्ञानुष्ठानस्थानम् । ↩︎
-
आप. श्रौ. ६. ३. ८-१४. बौ. श्रौ. ३. ४. का. श्रौ. ४.१४. १. ↩︎
-
वर्तुलपुष्करो दर्व्याकारः स्रुवः । ↩︎
-
कुम्भ्या उपर्यङ्गारैः परितो भ्रामणं पर्यग्निकरणम् । ↩︎
-
अग्निसमीपे उद्वासितां कुम्भीं भूमौ निक्षिप्य, तथैव प्राग्देशं प्रतिकर्षेत् । तदाकर्षमार्गः कृष्णवर्णो भवति । स व्यापारो वर्त्मकरणमित्युच्यते । ↩︎
-
नवाङ्गुलिपरिमाणः प्रादेशः । ↩︎
-
यया अग्निहोत्रं हूयते सा जुह्वाकारा अग्निहोत्रहवणी। ↩︎
-
बहूनां मध्ये एकस्यापि तद्विशिष्टत्वे सति तदादाय सर्वेषु तत्सम्बद्धेषु तच्छब्दप्रयोगः छत्रिन्यायः । (See. पू. मी. १. ४. १९.) ↩︎
-
See. आप,श्रौ. ६. १३. १-९. ↩︎
-
See. आप. श्रौ. ६. १३. ९. also. आश्व. श्रौ. २. २. ↩︎
-
निर्लेहनं नाम पात्रगतस्य पयसो जिह्वाग्रेण पात्रस्पृष्टेन चूषणम् । तच्च कलियुगे निषिद्धमिति नेदानीं याज्ञिकैरनुष्ठीयते । ↩︎
-
निनयनं क्षारणम् । ↩︎
-
अनाज्ञातपदघटितमन्त्रादिकं मन्त्रत्रयं तच्छब्देन व्यवह्रियते । ↩︎
-
तत्रामावास्यायां रात्रौ यवाग्वा अग्निहोत्रं कर्तव्यम् , नान्यैर्द्रव्यैः । तण्डुलैः शिथिलपक्का यवागूः इति कर्कः । विरलद्रवा सेत्यपरे । [^१_pg१४]. See. आप, श्रौ. ६, १५. १. का. श्रौ. ४. १५, १२-२५ । पयो यवागूरिति धूर्तस्वामी । अत्यन्तद्रवरूपेण पक्कास्तण्डुला एव यवागूरिति सम्प्रदायः । सान्नाय्ययाजिन एव अयं यवागूनियमः । तस्य आतञ्चनार्थे तदपेक्षणात् । See. also, आश्व. श्रौ. २. ३. १. ↩︎
-
अत्र धारणं नाम गार्हपत्यकुण्डेऽन्तः करीषपिण्डं निक्षिप्य तदुपरि गार्हपत्याग्निं प्रज्वलय्य, पिण्डे तं सङ्क्रमयेत् । तत्र सङ्क्रान्तोऽग्निर्यथा सर्वदा तिष्ठेत् तथा रक्षणमेव । न तु तस्य सर्वदा प्रज्वालनम् । एवमेव (गतश्रियः) लब्धधनस्य, ग्रामनेतुः, राजन्यस्य च त्रयाणां पञ्चानां वा अग्नीनामजस्ररक्षणम् । होमकाले तु । कुण्डान्तःस्थान् तान् करीषपिण्डान् साग्नीन् बहिरुद्धृत्य, पुनस्तत्तत्कुण्डानामन्तः करीषपिण्डान्तराणि निक्षिप्य, तांस्तुषैः भस्मना वा आच्छाद्य, तदुपरि पूर्वोद्धृतान् तांस्तानग्नीनवस्थाप्य प्रज्वलय्य तत्र जुहुयादित्येव याज्ञिकसंप्रदायः। ↩︎
-
समारोपणं नाम - गार्हपत्यकुण्डगतस्य अग्नेररण्योगरोहणार्थं मन्त्रेण प्रार्थना । तथा आरूढत्वेन मनसा चिन्तनं च । ↩︎
-
उपावरोहणं नाम - लौकिके, अरणिमथिते वा अग्नौ मन्त्रेण अवतारणम् , तथा चिन्तनं च। ↩︎
-
अग्निविनाशो नाम - अग्निनिष्ठाहवनीयत्वाद्यदृष्टधर्मविनाशः । न तु स्वरूपनाशः । तत्स्वरूपस्य तथैव अवस्थितेः । पुनस्तादृशादृष्टोत्पादनार्थमेव च पुनराधानानुष्ठानम्। ↩︎