एवं तावत् सर्वेषां श्रौतकर्मणाम् उत्पत्तिविकासादिनिरूपणद्वारा सामान्यस्वरूपं निरूपितं किञ्चित् सामान्यकाण्डे । इदमिदानीं विशेषतस्तेषामेव विविच्य अवगमनाय प्रयत्यते । तत्र तावद्वेदोदितानि सर्वाण्यपि श्रौतकर्माणि कृतदारेण आहिताग्निना अनुष्ठेयानीति शास्त्रसिद्धान्तः । आहिताग्निस्तु विधिवत् श्रुतिविहितमाधानं योऽनुतिष्ठति स एव भवति । अतस्तदेव पूर्वं निरूप्यते ॥ आधानं त्रिविधम्-होमपूर्वाधानम् , इष्टिपूर्वाधानम् , सोमपूर्वाधानं चेति । तत्र, अग्निहोत्रारम्भं करिष्यन् ततः पूर्वं यदाधानं करोति
[[२]]
तद्धोमपूर्वाधानम् । दर्शपूर्णमासेष्ट्यारम्भात् पूर्वं क्रियमाणमिष्टिपूर्वाधानम् । सोमयागारम्भात् पूर्वमनुष्ठीयमानं सोमपूर्वाधानम् । तदित्थम्—
यियक्षमाणः पुरुषो वसन्ततौ 1 (कस्मिंश्चित् यथोदितनक्षत्रादियुते) काले यथावदग्नीनाधाय साङ्गस्य आधानस्य परिसमाप्तिदिन एव सायमग्निहोत्रमारभेत । तद्दिनप्रभृति प्रतिदिनं सायं प्रातश्च अग्निहोत्रं जुह्वदासीत । तदिदं होमपूर्वाधानम् 2॥
आधानानुष्ठानानन्तरं श्रौतं किमपि कर्म अकृत्वा शुक्रास्तादिदोषादूषिते पर्वणि (पौर्णमास्यां) पूर्णमासेष्टिं, तदनन्तरदर्शे दर्शेष्टिं चानुतिष्ठति यदि तदा तत् इष्टिपूर्वाधानमित्युच्यते । अस्मिन् पक्षे कालं सामग्रीसम्पदं च अवाप्य सोमादीननुतिष्ठेद्यागान् । अथ वा वसन्ते कस्मिंश्चिद्दिने शुभे आधानं कृत्वा तत्समनन्तरदिन एव सोमयागाय यदि सङ्कल्पयेत् तत् सोमपूर्वाधानम् । पक्षेऽस्मिन् सोमयागं परिसमाप्य तस्मिन्नेव दिने सायमग्निहोत्रमारभेत । अनन्तरपूर्णिमायां पूर्णमासेष्टिमित्यादि । त्रयाणाममीषां पक्षाणां स्वेच्छया विकल्पः परिग्रहणे । सङ्कल्पे परमेषां वैलक्षण्यम् , न त्वनुष्ठाने ॥ तत्र यदहरग्नीनाधास्यमानः स्यात् तत्पूर्वदिने कृतपापानुगुणप्रायश्चित्तो निष्कल्मषीभूय3, आभ्युदयिकश्राद्धादिकमनुष्ठाय सपत्नीको यजमानो गृहीतनियमो वर्तेत । श्वोभूते कृतनित्यक्रियो भार्यया सह आधानार्थं सङ्कल्पं कुर्यात् । आधानस्य फलमग्नीनां गार्हपत्य-आहवनीय-दक्षिणाग्नीनां त्रयाणां, सभ्य-आवसथ्यसहितानां पञ्चानां वा सिद्धिरेव । अतः आधानं न कस्यचित् कर्मणोऽङ्गभूतम् , किं तु स्वतन्त्रमेव कर्म ॥
[[३]]
तत्र आदौ आधानार्थं यजमानेन सङ्कल्पं कृत्वा ऋत्विग्वरणे कृते, अध्वर्युः शमीवृक्षस्योपरि यः प्ररूढोऽश्वत्थवृक्षः तस्मादेकां छित्त्वा शाखां, तां द्विधा कृत्वा, अरणिद्वयं ताभ्यामेव सम्पाद्य, अरणी ते युगपदेव आधानदेशं प्रत्याहरेत् 4 । पूर्वसम्पादिते वा ते तत्र आहरेत् । ते च चतुरङ्गुलोन्नते द्वादशाङ्गुलविस्तीर्णे षोडशाङ्गुलायते अनातपशुष्के भवतो बौधायनमतात् 5 । चतुर्विंशत्यंगुले इति कात्यायनपक्षः । तयोरेका अधरारणिः; अपरोत्तरारणिरित्युच्यते ॥
ततः सप्तपार्थिवाः सम्भारा आहवनीयादिषु कुण्डेषु क्षेपणाय आनीय स्थापनीयाः । ते यथा-
१. सिकताः २. 6ऊषाः ३. आखुकरीषम् ४. वल्मीकवपा ५. सूदः ६. वराहविहतम् ७. शर्कराः ८. हिरण्यम् ।
एवं वार्क्षाः (वृक्षसम्बन्धिनः) अपि सम्भाराः सप्त । ते च यथा— १. अश्वत्थकाष्ठम् २. उदुम्बरकाष्ठम् ३. पलाशकाष्ठम् ४. शमीकाष्ठम् ५. विकङ्कतकाष्ठम्
६. अशनिहतवृक्षशकलम् ७. पद्मपत्रम् ।
एवमेतान् पार्थिवान् वानस्पत्यांश्च सम्भारान् तस्मात् तस्मात् स्थानात् वृक्षाच्च आहृत्य, एकस्मिन् पात्रे प्रज्ञातान् तान्निदध्यात् ॥
तत आहवनीयाद्यग्नीनां गृहनिर्माणम् । तत्र गार्हपत्यस्य वेदेः पश्चिमतः पृथक् गृहम् । आहवनीयाग्नेः पृथक् । तयोरन्यतरस्मिन् दक्षिणाग्नेः स्थानम् । आहवनीयाग्नेः पुरतः सभ्याग्नेः । तस्य पुरतः आवसथ्यस्य 7॥
ततो यजमानो नापितेन क्षुरकर्म कारयित्वा नखकर्तनादि च, स्नात्वा क्षौमे वस्त्रे (दुकूलद्वयं) परिदध्यात् । एवं यजमानपत्न्यपि क्षौरं
[[४]]
विना नखनिकृन्तनादिकं परं कारयित्वा स्नात्वा क्षौममेव वस्त्रं परिदधीत । ततोऽध्वर्युरपराह्णे यजमानस्यौपासनाग्नेरर्धं पृथक्कृत्य, तं गार्हपत्याग्नेः पश्चान्निधाय, प्रज्वाल्य 8 ब्रह्मौदनपाकार्थं – तण्डुलान्निरुप्य [^ ख_pg५] व्रैहेयान् , तानप्रक्षाल्यैव चतुश्शराव 9 परिमितान् जलपूर्णे महति पात्रे प्रक्षिप्य पचेत् । यथा भक्तेषु तण्डुलांशोऽल्पोऽवशिष्येत तथा पक्तव्यम् । ततः पक्वमन्नमुद्वास्य 10 तत्तो दर्व्या गृहीत्वा तस्मिन्नेवाग्नौ जुहुयात् 11 । ततोऽवशिष्टमोदनं चतुर्धा विभज्य पिण्डं कृत्वा चतुर्भ्यः ऋत्विग्भ्योऽध्वर्य्वादिभ्यो (अध्वर्यु-होतृ-ब्रह्म-आग्नीध्रेभ्यः) दद्यात् । पात्रे च किञ्चिदवशेषयेत् ॥ ततोऽध्वर्युः स्वीयं भागं सव्यहस्ते दक्षिणहस्तेन पात्रस्थेऽन्ने आज्यं प्रस्राव्य, तदन्नं तिसृभिः फलवतीभिः अश्वत्थसमिद्भिरालोड्य, आलोडनसमये लग्नेनाऽन्नेन साकमेव ताः समिधः तस्मिन्नेवाऽग्नौ निदध्यात् 12। तत ऋत्विजो ब्राह्मणाः स्वस्वान्नं भुञ्जीरन् । इदं च समिदाधानं यस्मिन्नहनि अग्रे आधानं चिकीर्षति तत एकस्मात् वत्सरात् पूर्वं, द्वादशाहात् द्व्यहात् [[??]] त्र्यहात् पूर्वं वा, पूर्वस्मिन्नेव वा दिने कर्तव्यम् । ततो यजमानस्तस्यां रात्रौ व्रतग्रहणं (नियमस्वीकारं) कृत्वा वीणावेणु वादनादिभिः जागरणं 13 कुर्यात् । तमग्निमिन्धनादिप्रक्षेपेण सर्वां रात्रिं प्रज्वाल्य रक्षेत् । ततः प्रातरुषःकाल एव तस्मिन्नग्नावरणी पूर्वसम्भृते प्रतप्य, तमग्निं शमयित्वा, यजमानहस्तेऽरणी प्रयच्छेत् । यजमानस्ते प्रतिगृह्य, अभिमन्त्र्य यावन्मथनारम्भं स्वहस्त एव धारयन्नासीत । ततः 14अध्वर्युर्गार्हपत्यायतनस्योद्धननावोक्षणादि कृत्वा, पूर्वस्थापिताः सिकता गृहीत्वा ताः समशो द्वेधा विभज्य, एकमर्धं पुनर्द्वेधा विभज्य, एकं भागं गार्हपत्यायतने, एकं च दक्षिणाग्न्यातने
[[[५]]]
प्रक्षिपेत् । अवशिष्टमर्धं त्रेधा विभज्य, आहवनीय-सभ्य आवसथ्यायतनेषु प्रक्षिपेत् । केचित् सभ्य आवसथ्यौ न आदधते । अस्मिन् पक्षे तस्यार्धस्य आहवनीय एव निवपनं कार्यम् ॥
गार्हपत्याधानम्
अनेनैव प्रकारेणेतरानपि पार्थिवान् सम्भारान् विभज्य, तेषु तेष्वायतनेषु निदध्यात् । एवं सप्त-पार्थिवान् सम्भारान् आयतनेषु न्युप्य, तदुपरि तेनैव प्रकारेण सप्त-वानस्पत्यानपि सम्भारान् न्युप्य, तदुपरि हिरण्यं निवपेत् [^1_pg६]। ततः पूर्वं शमितस्याग्नेः भस्म अपोह्य, तदुपरि अरणी निक्षिप्य, तत्समीपे श्वेतमश्वमेकं बद्ध्वा, अरणी मन्थेत् । ततोऽग्नावुत्पन्ने सति यजमानो वरमध्वर्यवे 15 दद्यात् । ततोऽध्वर्युमथनजातमग्निं करीषकाष्ठशकलप्रक्षेपादिना वर्धयित्वा वेदेः पश्चिमभागावस्थिते गार्हपत्यार्थे कुण्डे पूर्वनिर्मिते स्थापयेत् । इदमेव 16गार्हपत्याधानम् । ततो ब्रह्मा सामगानं कुर्यात् , न वा ॥
दक्षिणाग्न्य्-आधानम्
ततः सूर्यस्य अर्धोदयसमये गार्हपत्यं प्रज्वाल्य, तत्र अश्वत्थकाष्ठान्याधाय, प्रदीप्तानि तान्यंशतो गृहीत्वा, सिकताभिरुपसङ्गृह्य, उपर्युद्धृत्य हस्तेन धारयन्नध्वर्युस्तिष्ठेत् 17 । तदा आग्नीध्रो लौकिकमग्निं यतः
[[६]]]
कुतश्चिदानीय, गार्हपत्याद्वा गृहीत्वा मथित्वा वा दक्षिणाग्न्यायतने सम्भाराणां पूर्वनिहितानामुपरि निदध्यात् । इदमेव दक्षिणाग्न्याधानम् । अत्राहवनीयस्योपर्युद्धरणकाले ब्रह्मा वामदेव्यं साम गायेत् , न वा ॥
आहवनीयाधानम्
ततोऽध्वर्युप्रभृतयः ऋत्विजः कञ्चन अश्वं पूर्वं चालयन्तः, आहवनीयदेशं प्रति प्राञ्चो गच्छेयुः । तेषां दक्षिणभागे ब्रह्मा रथचक्रं त्रिवारं परिवर्तयेत् । अश्व आहवनीयायतनस्य प्राग्भागे तिष्ठेत् । तेन प्रत्यङ्मुखेन आहवनीयसम्भारान् 18आक्रमयेत् । ततो ब्रह्मणि साम गायति सति आहवनीयायतनस्य पुरस्तात् प्रत्यङ्मुखस्तिष्ठन्नेव अध्वर्युराहवनीयमादध्यात् । एवं त्रिष्वग्निष्वाहितेषु [[ त्रिष्वग्निष्वावाहितेषु??]]आज्यहोमेन काष्ठैश्चाग्नीन् वर्धयेयुः ॥
सभ्यावसथ्ययोर् अग्न्योर् आधानम्
ततो लौकिकाग्निना 19 अरणिमथिताग्निना वा सभ्याग्निमावसथ्याग्निं च आदध्यात्तदाधानपक्षे । ततोऽश्वत्थवृक्षीयास्तिस्रस्तिस्रः समिधः शमीवृक्षीयाश्च तिस्रस्ता एकैकस्मिन्नग्नावादध्यात् । ततो मन्त्रवर्जमग्निहोत्रं जुहुयात् । ततः पूर्णाहुतिहोमः । स चाज्यद्रव्येणैव । ततो यजमान आहितानग्नीनुपतिष्ठेत । ततोऽध्वर्यवे यजमानो वरं दद्यात् । ततः प्रायश्चित्तहोमाः । ततो यजमानः सङ्कल्पकरणपूर्वकमाहिताग्निनियमान् धारयेत् । एतावदग्न्याधेयस्य प्रधानकर्म । अतः परमनुष्ठेयान्याग्नेयेष्ट्यादीनि अङ्गान्युच्यन्ते । तत्र प्रथममाग्नेयेष्टिराधानानन्तरमेव कर्तव्या । तत्र अग्निर्दैवता । अष्टाकपालः पुरोडाशो द्रव्यम् । सा च पौर्णमास गताग्नेयेष्टिवत् कार्या ॥
आहवनीयमाधाय तत्समनन्तरमध्वर्युरेव दक्षिणाग्निमादध्यादिति कात्यायनः ॥ [[??]]
[[७]]]
पवमानेष्टयः
तदनन्तरं 20पवमानेष्टयः । तास्तिस्रः । तत्र प्रथमाया अग्निः पवमानो देवता । द्वितीयस्या अग्निः पावकः । तृतीयस्या अग्निः शुचिः । सर्वत्र अष्टाकपालः पुरोडाशो द्रव्यम् । ता एता आधानदिन एव समानतन्त्रेण अनुष्ठेयाः । अथ वा आधानदिनात् द्व्यहे, त्र्यहे चतुरहे, अर्धमासे, मासे, मासद्वये संवत्सरे वा कर्तुं शक्यन्ते । परममीषां कालानां विकल्पः । यस्मिन् दिन एताः पवमानेष्टयः क्रियेरन् तस्मिन्नेव दिने सायमग्निहोत्रमारभेत । आधानात् कालान्तरे पवमानेष्टीनामुत्कर्षे अग्निहोत्रस्याप्युत्कर्षः । (कालान्तरेऽनुष्ठानम् ) ॥
आधान-पवमानेष्टीनाम् अङ्गाङ्गिभावः
पवमानेष्टीनामाधानाङ्गत्वमिति केचन मीमांसकाः 21। तन्मते साङ्गस्यैव कर्मणः फलजनकत्वात् पवमानेष्टीनामनुष्ठानानन्तरमेवाग्नीनां सिद्धेः तदनन्तरमेव अग्निहोत्रारम्भः । केचित्तु न आधानपवमानेष्टीनामङ्गाङ्गिभावः । परमाधानवत् पवमानेष्टीनामपि स्वत एवाहवनीयादिसम्पादकत्वम् । अत उभयेषां समुच्चय इति कथयन्ति । अस्मिन्नपि पक्षे पवमानेष्टीर्विना आहवनीयाद्यनिष्पत्तेः पवमानेष्टीरनुष्ठायैव तदनन्तरमग्निहोत्रारम्भः कर्तव्यः । अस्य सायमेव आरम्भः । सायं प्रातरनुष्ठीयमानं प्रयोगद्वयं मिलित्वैकं कर्म भवति । सायंहोमस्य अग्निदेवताकत्वादेव अस्य कर्मणोऽग्निहोत्रमिति नाम सम्पन्नमिति मीमांसकाः [^१_pg८]॥ इदानीम् आधानापेक्षितानां द्रव्याणां पात्राणां च नामानि विलिख्यन्ते-
[[८]]
आधानौपयिकानि द्रव्याणि पात्राणि च
अरणिद्वयम् (अधरारणिः, उतरारणिश्च) अग्निमथनार्थम् ॥ मन्थिप्रमन्थिनौ । तदर्थमेव ।
अष्टौ22 पार्थिवास्सम्भाराः(मृत्सम्बद्वाः)
(१) सिकताः ।
(२) ऊषरमृत् ।
(३) मूषिकोत्खाता मृत् ।
(४) अशोष्यजलाशयमृत् ।
(५) शर्कराः (क्षुद्रपाषाणाः) ।
(६) वल्मीकमृत् ॥
(७) शूकर(वराह) मुखोत्खाता मृत् ।
(८) हिरण्यम् ।
अग्निनिधानात् पूर्वमेते कुण्डेषु क्षेपणीयाः ॥
सप्तवृक्षसम्बन्धिनः सम्भाराः-
(१) अश्वत्थकाष्ठशकलानि ।
(२) औदुम्बरकाष्ठशकलानि ।
(३) शमीवृक्षकाष्ठशकलानि ।
(४) अशनिहतवृक्षकाष्ठशकलानि ।
(५) पलाशवृक्षकाष्थशकलानि ।
(६) विकङ्कतवृक्षशकलानि ।
(७) पद्मपत्राणि च । 23
शीतजलमुष्णजलं च (पत्नीयजमानयोः स्नानार्थम् )
दुकूलवस्त्राणि (तयोरेव परिधानार्थम् )
ग्रामादिचिह्नभूतस्य अश्वत्थवृक्षस्य फलवत्यः तिस्रः समिधः (ब्राह्मौदनिकाग्नावाधानार्थम् )॥
अश्वत्थवृक्षीयाः समिधो नव । शमीमय्यः समिधो द्वादश । वैकङ्कस्य समिधस्तिस्रः (गार्हपत्यादिषु त्रिष्वप्यग्निषु तदा तदा निक्षेपणार्थमेव विध्यनुरोधेन)
पैत्तलं ताम्रमयं वा पात्रम् (ब्रह्मौदनपाकार्थम् )
शरावाः (तत्तदग्निप्रणयनार्थम् )
दर्वी पैत्तली ताम्रमयी वा (ब्रह्मौदनोद्धरणार्थम् )
घृतं गव्यं माहिषं वा (होमाभिधारणाद्यर्थम् )
[[९]]
वत्सतर्यः 24तिस्रः- (अध्वर्यवे दानाय) यज्ञियवृक्षकाष्ठानि- (अग्निसमिन्धनार्थम् ) अश्वः- (अग्न्यायतनेषु पदनिक्षेपणाद्यर्थम् ) अजः- (आयतनसमीपे बन्धनार्थम् )दक्षिणार्थं च । सिकताः- (अग्निभिः सह ग्रहणार्थम् ) (उपयमनार्थम्)25 रथचक्रम्- (आवर्तनार्थम्)26 गौः- (विदेवनार्थम् )
आधानार्थदक्षिणाद्रव्याणि (१) द्वादशगावः (२) अजः (३) पूर्णपात्रम् 27 (४) वासः (५) मिथुनौ गावौ (स्त्रीपुंसरूपौ) नवीनो रथः (७) वहनसमर्थोऽश्वः (८) अनड्वान् ॥
चत्वार ऋत्विजः-अध्वर्युः, ब्रह्मा, होता, आग्नीध्रश्च ॥ एवं पवमानेष्ट्यादीनामप्यत्र अनुष्ठेयत्वात् ऐष्टिकपात्राणामप्यस्त्यावश्यकता । परं दर्शपूर्णमासप्रकरण एव तानि प्रदर्शनमर्हन्तीति तत्रैव प्रदर्श्यन्ते । अतस्तेषां स्वरूपं तत एव अवगन्तव्यम् ॥ ॥ इत्यग्न्याधानं समाप्तम् ॥
-
आधानस्य ब्राह्मणकर्तृकस्य वसन्तर्तुरेव कालो विहितः श्रुतौ- " वसन्ते ब्राह्मणोऽमीनादधीत" इति ॥ ↩︎
-
होमः अग्निहोत्रहोमः । ततः पूर्वमेव क्रियमाणमाधानं होमपूर्वाधानम् । अतश्च आधानानन्तरमेव अग्निहोत्रारम्भे होमपूर्वाधानम् । आधानानन्तरमेव दर्शपूर्णमासेष्ट्यारम्भे इष्टिपूर्वाधानम् । आधानानन्तरमेव सोमयागसङ्कल्पे सोमपूर्वाधानमिति सिद्धम् ॥ ↩︎
-
मङ्गलकार्येषु क्रियमाणं श्राद्धम् आभ्युदयिकमित्युच्यते । अभ्युदयसम्बन्धि आभ्युदयिकमिति ॥ ↩︎
-
See. आप. श्रौ. ५. १. २. ↩︎
-
See, बौ. श्रौ. २. ६_ ↩︎
-
ऊषरभूमिगता मृत् ऊषा । मूषिकोत्कीर्णा मृत् आखुकरीषम् । वल्मीकस्योपरिभागे स्थिता मृत् वल्मीकवपा । अशोष्यस्य जलाशयस्य मृत् सूदः। वराहेण स्वमुखोत्कीर्णा मृत् वराहविहतम् । क्षुद्रपाषाणाः शर्कराः ‘शुक्कान्कल्’ इति द्राविडभाषायाम् । एवं एते वस्तुविशेषाः सम्भारा इत्युच्यन्ते ॥ ↩︎
-
इदानींतनास्तु याज्ञिकाः स्थानाभावाद्यसौकर्येण एकस्मिन्नेव अपवरके त्रयाणां पञ्चानां वा अग्नीना[[अग्नीनां??]] कुण्डान् निर्माय तत्र तान् स्थापयन्ति ॥ ↩︎
-
ब्राह्मणानामृत्विजां भोजनाय यः पक्व ओदनः स ब्रह्मौदनः ॥ ↩︎
-
शरावः ‘तस्तरी’ इति हिन्दीभाषायाम् ॥ ↩︎
-
अग्नेर्बर्हिर्निस्सार्य स्थापनमुद्वासनम् । ↩︎
-
See आप. श्रौ. ५. ५. ८-११. ↩︎
-
See आप. श्रौ. ५. ५. ८-११. ↩︎
-
See आप, श्रौ. ५. ८. २-५. , ↩︎
-
See आप, श्रौ. ५. ९. ४. ५. ↩︎
-
यत्र यत्र सामान्यतो वरो देयत्वेन विहितस्तत्र सर्वत्र गौरेव अभिप्रेता । गामेका दद्यादिति यावत् । गवागावे तन्मूल्यं निष्कपरिमाणं सुवर्ण वा देयम् ॥ ↩︎
-
गार्हपत्याग्नेरायतनं वृत्ताकारम् । आहवनीयस्य चतुरश्रम् । दक्षिणाग्नेरर्धचन्द्राकृति । गार्हपत्यायतनमध्यात् प्राच्या दिशि पण्णवत्यङ्गुलमिताया भूमावाहवनीयमध्यं स्यात् । केचित् गार्हपत्याहवनीययोरन्तरालगताया एव वेदे स्तावन्मानमिच्छन्ति । गार्हपत्यायतनस्य आग्नेय्या दिशि तत्संलग्नप्रायमेव दक्षिणाग्नेरायतनं भवति ॥ ↩︎
-
आहवनीयाधानार्थ प्रज्वालितान् गार्हपत्याग्नेः कञ्चित् भागमादाय पात्रे कस्मिंश्चिन्निधाय साग्नि तत् पात्रं स्वहस्ते गृहीत्वा तत्रैव तिष्ठत्यध्वर्यौ आग्नीध्रो दक्षिणाग्निमादध्यात् इत्यापस्तम्बः ॥ See. आप. श्रौ. ५. १३. ८. ↩︎
-
आहवनीयायतनस्य पूर्वस्यां दिशि प्रत्यङ्मुखावस्थितोऽश्वः यथा तदाहवनीयस्थानमुल्लङ्घ्य तत्पश्चिमभागे आगच्छेत् तथा यतेत ॥ ↩︎
-
अरणिमथिताग्निनैव सभ्य-आवसथ्यावादध्यादिति कात्यायनः । (see का. श्रौ. ४. ९. १८.) यत्र च्छात्रा अध्याप्यन्ते शास्त्रार्थविचारादिकं वा क्रियते सा सभा । तत्र सभ्याग्नेराधानम् ॥ ↩︎
-
अत्र प्रथमाया एवेष्टेरग्निः पवमानो देवता, नेतरयोः । तथापि तिसृणामपि पवमानेष्टित्वेन व्यवहारो याज्ञिकसम्प्रदाये प्रसिद्धः ॥ ↩︎
-
आधानप्रकरणे पाठात् फलाश्रवणाच्च आधानाङ्गं पवमानेष्टय इति मीमांसावार्तिककारः । ‘यदाहवनीये जुह्वति’ इति स्वतन्त्रविधिना पवमानेष्टीनामग्न्यङ्गत्वविधानात् आधानवत् तासामप्यग्निसम्पादकत्वमेवेति मीमांसाभाष्यकारः । See. पू. मी. ३. १. १२. [^१_pg८]. See. पू . मी. १. ४. ४. ↩︎
-
See. आप, श्रौ. ५. १. २. बौधा. २. १२. ↩︎
-
अरण्ये स्थितस्य वृक्षस्य यस्योपरि अशनिः पतति, तेन च यो हतः सोऽशनिहतो वृक्षः॥ ↩︎
-
वत्सभावमतिक्रान्ताः निवृत्तस्तन्यपानाः वत्सतर्यः । ↩︎
-
पात्रे अमेरधः पार्श्वेषु च सिकतानां स्थापनमुपयमनम् । ↩︎
-
पुनः पुनरश्वस्य दक्षिणभागे रथचक्रस्य भ्रामणम् । ↩︎
-
अष्टाविंशत्युत्तरशतसङ्ख्याकमुष्टिपरिमितं व्रीहियवादिधान्यं पूर्ण पात्रमित्युच्यते । ↩︎