[[१]]
॥ श्रीः॥
॥ श्रीगणेशाय नमः ॥
॥ यज्ञतत्त्वप्रकाशः ॥
महामहोपाध्यायश्रीचिन्नस्वामिशास्त्रिविरचितः
अग्न्याधेयादिचातुर्मास्यान्तहविर्यज्ञनिरूपणरूपः
॥ प्रथमो भागः ॥
मङ्गलाचरणम्
चञ्चच्चन्द्रकलानिरन्तरवहत्पीयूषधारोक्षितो
गङ्गोत्तुङ्गतरङ्गभङ्गनिवहक्लिद्यत्कपर्द्दोज्ज्वलः ।
कल्याणैकनिधिर्जगत्यसुमतां तापत्रयोन्मूलनं
कुर्वञ्छ्रेय इहादधातु जगतां क्षेमङ्करश्शङ्करः ॥ १ ॥
जगत्स्थित्युद्भवलया यत्प्रसादादनेकधा ।
तं नौमि परमात्मानं यज्ञेशं यज्ञरूपिणम् ॥ २ ॥
यज्ञानां प्रक्रिया ह्येषा ह्रसिमानमुपागता ।
उद्धर्तुमेनां यत्नोऽयं प्रीणन्तु सुधियोऽमुना ॥३॥