०१ प्राक्कथनम्

भगवतः परमेशितुः भगवत्या देव्याः सर्वमङ्गलायाश्च असीमया कृपया यज्ञतत्वप्रकाशाख्योऽयं ग्रन्थः पूर्णतामगात् । कलिकाताविश्वविद्यालयेऽत्र संस्कृतविभागे तत्तद्विभागानुसारेण अध्येयत्वेन निर्णीतानां केषाञ्चन याज्ञिकपदार्थानां स्वरूपविवेचने इदन्तया ग्रन्थस्य कस्यचिदनिर्देशात् तन्मूलकम् अध्येतृभिः अनुभूयमानं क्लेशविशेषं परिहर्तुकामस्य मम ग्रन्थस्यास्य विलेखने प्रवृत्तिरुदभूत् । तत्र यज्ञस्वरूपविधिविवरणादौ यजुर्वेद एव प्राधान्यमावहतीति सुविदितमेव । विषयेऽत्र सतीष्वपि यजुर्वेदान्तर्गतास्वेव बह्वीषु शाखासु तैत्तिरीयशाखैव तत्स्वरूपनिरूपणे सामग्र्यं बिभर्ति । इयमेव तैत्तिरीयशाखा तद्वेदीयशाखान्तरापेक्षया प्राचीनतमा च । एतदनन्तरमेव तद्वेदीया अन्याः शाखाः प्रवृत्ताः । सत्यवसरे साध्विदं विस्तरशो निरूप्येत । अतः अत्र निरूपितानां सर्वेषां क्रतूनां यथावत् स्वरूपविवेचनाय प्राधान्येन सैव शाखा आश्रयणीया अभवत् । तदनुसारिणी आपस्तम्बीयं श्रौतसूत्रं बौधायनीयं च विशेषतया आश्रयणीये अभूताम् । अतः प्राधान्येन ग्रन्थाविमाववलम्ब्य अन्यांश्च तत्तद्वेदीयान् श्रौतसूत्रग्रन्थान् , पद्धतीश्च तास्ता यथायोगं परिशील्य, ग्रन्थोऽयं लिखितः। प्राचीनकालेषु वेदाः तदनुसर्पिणः श्रौतसूत्रग्रन्थाश्च भारतीयानामस्माकं निधयः श्रेयोमार्गप्रदर्शकाश्च आसन् । तदुदितान्येव च कर्माणि उच्चावचानि यथावदनुष्ठाय आस्माकीनाः पूर्वतनाः पुरुषाः पारलौकिकीमैहलोकिकीं च सुखसमृद्धिं लभमाना आसन्निति तैस्तैरैतिहासिकैः ग्रन्थरत्नैः अवगच्छामो वयम् ॥

कालेन च वैदिके मार्गेऽस्मिन् दुरवबोधतया बहुकृच्छ्रसाध्यतया च शनैः शनैः शिथिलतामुपगते विद्यान्तरेषु गाढतरमवगाहमाना अपि विषयमिममुपेक्षन्ते स्म ज्ञातारोऽपि । तेनैव च हेतुना उपेक्षाविषयतां प्राप्तोऽयं श्रौतो विषय इदानीं क्रमशः कियतीं दुरवस्थामनुभवतीति न वर्णनीयं विवेचनशीलानाम् । अतः आस्माकीनेयं चिरन्तनी रत्नप्रभा यथा न आत्यन्तिकं लोपमियात् तथा अस्माभिर्यतितव्यम् । अत एव च मयाप्यत्र किञ्चिदिव यतितम् ॥

[[x]]

एतादृशे समये कलिकाताविश्वविद्यालयः-यः भारतीयप्राचीनसभ्यतापरिरक्षणे प्राथम्यमावहति-विषयमिमम् अध्येयकोटौ निवेशयतीति स सर्वथा श्लाघनीय इत्यत्र नास्ति विशयलेशोऽपि । विषयस्वरूपमात्रनिरूपणप्रवणेन मया तत्तच्छ्रौतसूत्रस्वरूपनिर्देशादिकं न कृतम् । साधारण्येन परं तत्तत्स्थलनिर्देशः कृतः अधष्टिप्पण्यां तत्र तत्र । अध्येतृणाम् उपकारमेव विशेषतो मनसिकृत्य तदनुसारेणैव ग्रन्थोऽयमारचित इति तु विज्ञाविजानीयुरेवेति नात्र अधिकं वक्तुमुत्सहे । अतो विद्वद्वराः विशेषेण च विद्यार्थिनः ग्रन्थमिमं यथावदुपयुज्य प्रयत्नं मदीयं सफलयेयुरिति सुदृढं विश्वसिमि ॥

स्थलेषु बहुषु समुत्पन्नान् संशयान् दूरीकृत्य पदार्थयाथार्थ्यं तदा तदा विवेचितवतां श्रौतविद्यायां भारतदेशे इदानीं प्रथमगणनीयानां त्रिश्रौत- भास्करादिविविधोपाधिविभूषितानां नल्लिच्चेरि - श्रीरामनाथश्रौतिमहोदयानां शतश उपकारान् प्रशंसामि कृतज्ञतापूर्वकम् ॥

अमूल्यमतिगभीरमात्मीयमाशयमेतद्ग्रन्थविषयकमाविष्कृत्य ग्रन्थमिमं पाठकानां पुरः कृतवद्भ्यः कलिकाताविश्वविद्यालये संस्कृतविभागीय प्रधानाध्यापकपदं (Asutosh Professor) अलङ्कुर्वद्भयः विद्वत्कुलमूर्धाभिषिक्तेभ्यः श्रीसातकरीमुख्योपाध्यायमहोदयेभ्यो बहुशो धन्यवादान् हार्दिकान् वितरामि ॥

कलिकाता ।
१५-७-‘५१ ।

इति विदुषां वशंवदः
अ. चिन्नस्वामिशास्त्री.

[[xi]]