वेद-नित्यत्वे वैयाकरणाः

(अत्र कोरड-सुब्रह्मण्य-पत्रम् आश्रितम्। )

Under तेन प्रोक्तम् ( पा 4-3-101) - Patanjali says -वेदs are not authored , rather they are नित्य —

तेन प्रोक्तम्

प्रोक्तग्रहणम् अनर्थकम् (वा) ग्रन्थे च दर्शनात् (वा)

भाष्यम् –

छन्दोऽर्थं तर्हीदं वक्तव्यम् ।
न हि छन्दांसि क्रियन्ते , नित्यानि छन्दांसि ।

कर्तुः अस्मरणात् तेषामित्यर्थः

– कैयटः।

छ्न्दोऽर्थमिति चेत्तुल्यम् (वा)

भाष्यम् –

छन्दोऽर्थम् इति चेत् तुल्यम् एतद् भवति ।
ग्रामे ग्रामे कालकं कालापकं च प्रोच्यते तत्र +अदर्शनात् । न च तत्र प्रत्ययो दृश्यते ।

ग्रन्थे च दर्शनात् । यत दृश्यते ग्रन्थः सः, तत्र ’कृते ग्रान्थे’ इत्येव सिद्धम् ।

ननु चोक्तम् - “न हि छन्दांसि क्रियन्ते, नित्यानि छन्दांसि” +इति ।

यद्यपि +अर्थो नित्यः, या त्वसौ वर्णानुपूर्वी सा अनित्या । +++(5)+++
तद्-भेदाच् चैतद् भवति - काठकम् कालापकम् मौदकम् पैप्पलादकम् इति ।

Kaiyata explains –

महा-प्रलयादिषु वर्णानुपूर्वी-विनाशे
पुनर् उत्पद्य ऋषयः संस्कारातिशयात् वेदार्थं स्मृत्वा
शब्दरचनां विदधतीत्यर्थः ।+++(5)+++

नागेशः – काठकेत्यादि ।
अर्थैक्येऽपि आनुपूर्वी-भेदाद् एव काठक-कालापकादि-व्यवहार इति भावः।

“दृष्टं साम” ( पा सू 4-2-7) does not mean - the साम seen by वसिष्ठ etc.

Kaiyata -

“कलिना दृष्टम्” इति ।
यस्य साम्नो विशिष्ट-कार्य-विषये विनियोगो
ज्ञानातिशय-संपत्त्या कलिना अज्ञायि
तत् तेन दृष्टम् इत्य् उच्यते ।

वाक्यपदीयम् – ज्ञानम् अस्मद्-विशिष्टानां सर्वं सर्वेन्द्रियं विदुः ( नेदानीम् …. उपनिषत्) ।

At the end of every महाप्रलय ( not acceptable to पूर्वमीमांसकs - यः कल्पः स कल्पपूर्वः / न कदापि अनीदृशं जगत्) - the Vedas disappear and the sages with their तपश्शक्ति and योगिप्रत्यक्षम् , would discern the वेदमन्त्रs and propagate the same - and the Mantras are named after them - मन्त्रकृतः / मन्त्रद्रष्टारः – प्रतिमन्वन्तरं चैषा श्रुतिरन्या विधीयते ।