आपस्तम्बधर्मसूत्रेषु त्व् अल्पा एव नित्यानध्यायकालाः - अमावास्या यथा।
प्रायेण “द्वाव् एव वर्जयेन् नित्यम्” इति मनूक्तं गृहीतुम् उत्तमम्।
प्रमाणकलनम्
हारीतः—
प्रतिपत्सु चतुर्दश्याम्
अष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां
नाधीयीत कदाचन॥
मनुः—
इमान् नित्यम् +++(उत्सर्गापेक्षयापि)+++ अनध्यायान्
अधीयानो विवर्जयेत् ।
अध्यापनं च कुर्वाणः
शिष्याणां विधिपूर्वकम् ॥ ४.१०१ ॥
…
अमावास्या गुरुं हन्ति
शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्
तस्मात् ताः परिवर्जयेद्॥
इति। किञ्च, स्वयम् अन्ते स्पष्टीकरोति -
द्वाव् एव वर्जयेन् नित्यम्
अनध्यायौ प्रयत्नतः ।
स्वाध्याय-भूमिं चाऽशुद्धम्
आत्मानं चाऽशुचिं द्विजः ॥ ४.१२७ ॥+++(5)+++
तत्र मेधातिथिः -
नित्यग्रहणात् पूर्वत्रानध्यायानां विकल्पः ।
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां
अष्टम्यां राहुसूतके।
जाबालिः—
नाधीयीत नरो नित्यम्
आदावन्ते च पक्षयोः।
आदौ च हीयते बुद्धिर्
अन्ते च ब्रह्म हीयते॥
“पक्षादिः प्रतिपत्, पक्षान्तः चतुर्दशी॥” इति केचित्।
इष्टि-सम्बन्धः
मन्ये स्थालीपाक/इष्टि-दिनेनेदं विज्ञायेत, नोदयकालीनया तिथ्या।
यदाहुः - “पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः।”
तेनैव +उपवासेष्ट्याद्यनुष्टानश्रमेण +अनध्यायनियमस् सङ्गच्छतेतराम्। Source: TW