[[कौशिकसूत्रम् Source: EB]]
[
कौशिकसूत्रम्
(१,१.१) अथ विधिं वक्ष्यामः
(१,१.२) स पुनराम्नायप्रत्ययः
(१,१.३) आम्नायः पुनर्मन्त्राश्च ब्राह्मणानि च
(१,१.४) तद्यथाब्राह्मणं विधिरेवं कर्मलिङ्गा मन्त्राः
(१,१.५) तथान्यार्थः
(१,१.६) तथा ब्राह्मणलिङ्गा मन्त्राः
(१,१.७) तदभावे संप्रदायः
(१,१.८) प्रमुक्तत्वाद्ब्राह्मणानाम्
(१,१.९) यज्ञं व्याख्यास्यामः
(१,१.१०) देवानां पितॄणां च
(१,१.११) प्राङ्मुख उपांशु करोति
(१,१.१२) यज्ञोपवीती देवानाम्
(१,१.१३) प्राचीनवीती पितॄणाम्
(१,१.१४) प्रागुदग्वा देवानाम्
(१,१.१५) दक्षिणा पितॄणाम्
(१,१.१६) प्रागुदगपवर्गं देवानाम्
(१,१.१७) दक्षिणाप्रत्यगपवर्गं पितॄणाम्
(१,१.१८) सकृत्कर्म पितॄणाम्
(१,१.१९) त्र्यवरार्धं देवानाम्
(१,१.२०) यथादिष्टं वा
(१,१.२१) अभिदक्षिणं आचारो देवानाम्
(१,१.२२) प्रसव्यं पितॄणाम्
(१,१.२३) स्वाहाकारवष्ट्कारप्रदाना देवाः
(१,१.२४) स्वधाकारनमस्कारप्रदाना पितरः
(१,१.२५) उपमूललूनं बर्हिः पितॄणाम्
(१,१.२६) पर्वसु देवानाम्
(१,१.२७) <प्र यछ पर्शुं [१२.३.३१अ]> इति दर्भाहाराय दात्रं प्रयछति
(१,१.२८) <ओषधीर्दान्तु पर्वन्[१२.३.३१ब्-]> इति_उपरि पर्वणां लूत्वा तूष्णीं आहृत्य_उत्तरतो_अग्नेरुपसादयति
(१,१.२९) नाग्निं विपर्यावर्तेत
(१,१.३०) नान्तरा यज्ञाङ्गानि व्यवेयात्
(१,१.३१) दक्षिणं जानु प्रभुज्य जुहोति
(१,१.३२) या पूर्वा पौर्णमासी सानुमतिर्या_उत्तरा सा राका[ऐतरेय ब्राह्मण ७.११.२]
(१,१.३३) या पूर्वामावास्या सा सिनीवाली या_उत्तरा सा कुहूः [ऐतरेय ब्राह्मण ७.११.२]
(१,१.३४) अद्य_उपवसथ इति_उपवत्स्यद्भक्तं अश्नाति
(१,१.३५) मधुलवणमांसमाषवर्जम्
(१,१.३६) <ममाग्ने वर्चः [५.३.१]> इति समिध आधाय व्रतं उपैति
(१,१.३७) <व्रतेन त्वां व्रतपते [७.७४.४]> इति वा
(१,१.३८) ब्रह्मचारी व्रती
(१,१.३९) अधः शयीत
(१,१.४०) प्रातर्हुते_अग्नौ <कर्मणे वां वेषाय वां सुकृताय वां [च्फ़्. ठ्ऽ१.१.४.१ एत्च्., Kऔश्ऽ५८.५]> इति पाणी प्रक्षाल्यापरेणाग्नेर्दर्भानास्तीर्य तेषूत्तरं आनडुहं रोहितं चर्म प्राग्ग्रीवं उत्तरलोम प्रस्तीर्य पवित्रे कुरुते
(१,१.४१) दर्भौ_अप्रछिन्नान्तौ प्रक्षाल्यानुलोमं अनुमार्ष्टि <विष्णोर्मनसा पूते स्थः [PS२०.४५.६, ंऽ४.१.५ः७.१५ एत्च्.]> इति
(१,२.१) <त्वं भूमिं अत्येष्योजसा त्वं वेद्यां सीदसि चारुरध्वरे । त्वां पवित्रं ऋषयो भरन्तस्त्वं पुनीहि दुरितान्यस्मत् । । [PS११.१३.३ = ;SS१९.३३.३ (बुत्सकलपाठ!)]> इति पवित्रे अन्तर्धाय हविर्निर्वपति <देवस्य त्वा सवितुः प्रसवे_अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां जुष्टं निर्वपामि [सकल - च्फ़्. १९.५१.२, PS५.४०.१, ठ्ऽ१.१.४.२ एत्च्.]> इति
(१,२.२) एवं <अग्निषोमाभ्यां > इति
(१,२.३) <इन्द्राग्निभ्यां [-]> इति_अमावास्यायाम्
(१,२.४) नित्यं पूर्वं आग्नेयम्
(१,२.५) निरुप्तं पवित्राभ्यां प्रोक्षति <अमुष्मै त्वा जुष्टं [-]> यथादेवतम्
(१,२.६) उलूखलमुसलं शूर्पं प्रक्षालितं चर्मणि_आधाय व्रीहीनुलूखल ओप्यावघ्नंस्त्रिर्हविष्कृता वाचं विसृजति <हविष्कृदा द्रवेहि [च्फ़्. आअप्;SS१.१९.९ एत्च्.]> इति
(१,२.७) +अवहत्य [एद्. अपहत्य] सुफलीकृतान्कृत्वा त्रिः प्रक्षाल्य तण्डुलान्<अग्ने वरुर्यज्ञियस्त्वाधि अरुक्षत्[११.१.१६]> इति चरुं अधिदधाति
(१,२.८) <शुद्धाः पूताः [११.१.१७]> इति_उदकं आसिञ्चति
(१,२.९) <ब्रह्मणा शुद्धाः [११.१.१८]> इति तण्डुलान्
(१,२.१०) <परि त्वाग्ने पुरं वयं [७.७१.१]> इति त्रिः पर्यग्नि करोति
(१,२.११) नेक्षणेन त्रिः प्रदक्षिणं उदायौति
(१,२.१२) अत ऊर्ध्वं यथाकामम्
(१,२.१३) उत्तरतो_अग्नेरुपसादयतीध्मम्
(१,२.१४) उत्तरं बर्हिः
(१,२.१५) <अग्नये त्वा जुष्टं प्रोक्षामि [इ.अ. KS१.१०ः५.२२]> इतीध्मम्
(१,२.१६) <पृथिव्यै [-]> इति बर्हिः
(१,२.१७) दर्भमुष्टिं अभ्युक्ष्य पश्चादग्नेः प्रागग्रं निदधाति <ऊर्णम्रदं प्रथस्व स्वासस्थं देवेभ्यः [चोर्रुप्तः च्फ़्. इ.अ. KS१.११ः६.२-३]> इति
(१,२.१८) दर्भाणां अपादाय <ऋषीणां प्रस्तरो_असि [१६.२.६]> इति दक्षिणतो_अग्नेर्ब्रह्मासनं निदधाति
(१,२.१९) पुरस्तादग्नेरास्तीर्य तेषां मूलानि_अपरेषां प्रान्तैरवछादयन्परिसर्पति दक्षिणेनाग्निं आ पश्चार्धात्
(१,२.२०) <परि स्तृणीहि [७.९९.१]> इति संप्रेष्यति
(१,२.२१) <देवस्य त्वा सवितुः प्रसवे_अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूतः प्रशिषा परिस्तृणामि [-]> इति
(१,२.२२) एवं उत्तरतो_अयुजो धातून्कुर्वन्
(१,२.२३) यत्र समागछन्ति तद्दक्षिणोत्तरं कृणोति
(१,२.२४) स्तीर्णं प्रोक्षति <हविषां त्वा जुष्टं प्रोक्षामि [-]> इति
(१,२.२५) नानभ्युक्षितं संस्तीर्णं उपयोगं लभेत
(१,२.२६) नैधो_अभ्यादानम्
(१,२.२७) नानुत्पूतं हविः
(१,२.२८) नाप्रोक्षितं यज्ञाङ्गम्
(१,२.२९) तस्मिन्प्रक्षालितोपवातानि निदधाति
(१,२.३०) स्रुवं आज्यधानीं च
(१,२.३१) विलीनपूतं आज्यं गृहीत्वाधिश्रित्य पर्यग्नि कृत्वा_उदगुद्वास्य पश्चादग्नेरुपसाद्य_उदगग्राभ्यां पवित्राभ्यां उत्पुनाति
(१,२.३२) <विष्णोर्मनसा पूतं असि [PS२०.४५.७अ]>
(१,२.३३) <देवस्त्वा सविता_उत्पुनातु [PS२०.४५.७ब्]>
(१,२.३४) <अछिद्रेण त्वा पवित्रेण शतधारेण सहस्रधारेण सुप्वोत्पुनामि [PS२०.४५.७च्द्]> इति तृतीयम्
(१,२.३५) तूष्णीं चतुर्थम्
(१,२.३६) शृतं हविरभिघारयति <मध्वा समञ्जन्घृतवत्कराथ [च्फ़्. PS५.१६.३द्]> इति
(१,२.३७) अभिघार्य_उदञ्चं उद्वासयति <उद्वासयाग्नेः शृतं अकर्म हव्यं आ सीद पृष्ठं अमृतस्य धाम [च्फ़्. PS५.१६.३अब्]> इति
(१,२.३८) पश्चादाज्यस्य निधायालंकृत्य समानेन_उत्पुनाति
(१,२.३९) <अदारसृत्[१.२०.१]> इति_अवेक्षते
(१,२.४०) <उत्तिष्ठत [७.७२.१-३]> इति_ऐन्द्रम्
(१,२.४१) <अग्निर्भूयां [१२.१.१९-२१]> इति तिसृभिरुपसमादधाति <अस्मै क्षत्राणि [७.७८.२]> <एतं इध्मं [१०.६.३५]> इति वा
(१,३.१) <युनज्मि त्वा ब्रह्मणा दैव्येन हव्यायास्मै वोढेव [एद्. वोढवेः मिस्प्रिन्त्. Cफ़्. Zएह्न्देर्१९९९ः १९१. ंस्स्.ः वोढेव] जातवेदः । इन्धानास्त्वा सुप्रजसः सुवीरा ज्योग्जीवेम बलिहृतो वयं ते [ंऽ१.४.१ः४७.६ एत्च्.]> इति
(१,३.२) दक्षिणतो जाङ्मायनं उदपात्रं उपसाद्याभिमन्त्रयते <तथोदपात्रं धारय यथाग्रे ब्रह्मणस्पतिः । सत्यधर्मा अदीधरद्देवस्य सवितुः सवे [-]> इति
(१,३.३) अथ_उदकं आसिञ्चति <इहेत देवीरमृतं वसाना हिरण्यवर्णा अनवद्यरूपाः । आपः समुद्रो वरुणश्च राजा संपातभागान्हविषो जुषन्तां [-, च्फ़्. PS२.४०.१अ] । । इन्द्रप्रशिष्टा वरुणप्रसूता अपः समुद्राद्दिवं उद्वहन्तु । इन्द्रप्रशिष्टा वरुणप्रसूता दिवस्पृथिव्या श्रियं उद्वहन्तु [-, च्फ़्. ४.२७.४अ, ऱ्V१०.६६.२अ]> इति
(१,३.४) <ऋतं त्वा सत्येन परिषिञ्चामि जातवेदः [च्फ़्. Vऐत्ऽ७.४, ठ्B्२.१.११.१ एत्च्.]> इति सह हविर्भिः पर्युक्ष्य जीवाभिर्<[१९.६९.१-४]> आचम्य_उत्थाय वेदप्रपद्भिः प्रपद्यते_<ओ;ं प्रपद्ये भूः प्रपद्ये भुवः प्रपद्ये स्वः प्रपद्ये जनत्प्रपद्ये [ठा ४.४२.२-४]> इति
(१,३.५) प्रपद्य पश्चात्स्तीर्णस्य दर्भानास्तीर्य <अहे दैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत्पाकतरः [ठ्ऽ३.२.४.४, Vऐत्ऽ१.२०]>_इति ब्रह्मासनं अन्वीक्षते
(१,३.६) <निरस्तः पराग्वसुः सह पाप्मना निरस्तः सोऽस्तु योऽस्मान्द्वेष्टि यं च वयं द्विष्मः [ङोभ्ङ्ऽ१.६.१४, ;SBं १.५.१.२३ एत्च्.]>_इति दक्षिणा तृणं निरस्यति (च्फ़्. १३९.३८फ़्फ़्.)
(१,३.७) तदन्वालभ्य जपति <इदं अहं अर्वाग्वसोः सदने सीदामि_[ङ्B्२.१.१, ;SBं १.५.१.२४]_ऋतस्य सदने सीदामि सत्यस्य सदने सीदामि_[PB्१.२.२ एत्च्.]_इष्टस्य सदने सीदामि पूर्तस्य सदने सीदामि [-] मामृषद्देव [एम्. B्लूम्फ़िएल्द्ङ्ङा १९०२ ५१४ – एद्. एव] बर्हिः स्वासस्थं त्वाध्यासदेयं ऊर्णम्रदं अनभिशोकं [च्फ़्. आआश्व्;SS१.४.७]>
(१,३.८) <विमृग्वरीं [१२.१.२९]>_इत्युपविश्यासनीयं ब्रह्मजपं जपति <बृहस्पतिर्ब्रह्मा ब्रह्मसदन आसिष्यते (थुस्B्ल्.) [आआश्व्;SS१.१२.९]> <बृहस्पते यज्ञं गोपाय [आआश्व्;SS१.१२.९, ठ्B्३.७.६.३]> <यदुदुद्वत उन्निवतः शकेयं [ठ्ऽ३.२.४.४]> इति
(१,३.९) दर्भैः स्रुवं निर्मृज्य <निष्टप्तं रक्षो निष्टप्ता अरातयः प्रत्युष्टं रक्षः प्रत्युष्टा अरातयः [ठ्ऽ१.१.२.१, ठ्B्३.७.६.३]> इति प्रतप्य मूले स्रुवं गृहीत्वा जपति <विष्णोर्हस्तो_असि दक्षिणः पूष्णा दत्तो बृहस्पतेः । तं त्वाहं स्रुवं आ ददे देवानां हव्यवाहनं [Sअन्ख्ङ्ऽ१.९.३] । । अयं स्रुवो वि दधाति होमान्_शताक्षरछन्दसा जागतेन । सर्वा यज्ञस्य समनक्ति विष्ठा बार्हस्पत्या_इष्टिः शर्मणा दैव्येन [आप्ऽऽ४.७.२]> इति
(१,३.१०) <ओं भूः शं भूत्यै त्वा गृह्णे भूतये [-]> इति प्रथमं ग्रहं गृह्णाति
(१,३.११) <ओं भुवः शं पुष्ट्यै त्वा गृह्णे पुष्टये [-]> इति द्वितीयम्
(१,३.१२) <ओं स्वः शं त्वा गृह्णे सहस्रपोषाय [-]> इति तृतीयम्
(१,३.१३) <ओं जगत्_शं त्वा गृह्णे_अपरिमितपोषाय [-]> इति चतुर्थम्
(१,३.१४) राजकर्माभिचारिकेषु <अमुष्य त्वा प्राणाय गृह्णे_अपानाय व्यानाय समानाय_उदानाय [-]> इति पञ्चमम्
(१,३.१५) <अग्नावग्निः हृदा पूतं [४.३९.९-१०]> <पुरस्ताद्युक्तः [५.२९.१]> <यज्ञस्य चक्षुः [२.३५.५ = १९.५८.५]> इति जुहोति
(१,३.१६) पश्चादग्नेर्मध्यदेशे समानत्र पुरस्ताद्धोमान्
(१,३.१७) दक्षिणेनाग्निं उदपात्र आज्याहुतीनां संपातानानयति
(१,३.१८) पुरस्ताद्धोम आज्यभागः संस्थितहोमः समृद्धिः शान्तानाम्
(१,३.१९) इति_एतौ_आज्यभागौ
(१,४.१) <वृष्णे बृहते स्वर्विदे अग्नये शुल्कं हरामि त्विषीमते । स न स्थिरान्बलवतः कृणोतु ज्योक्च नो जीवातवे दधाति । । [PS१९.५२.७]> <अग्नये स्वाहा> इति_उत्तरपूर्वार्धे_आग्नेयं आज्यभागं जुहोति
(१,४.२) दक्षिणपूर्वार्धे सोमाय <त्वं सोम दिव्यो नृचक्षाः सुगा;ं अस्मभ्यं पथो अनु ख्यः । अभि नो गोत्रं विदुष इव नेषोऽछा नो वाचं उशतीं जिगासि । । [PS१.५१.३]> <सोमाय स्वाहा> इति
(१,४.३) मध्ये हविः
(१,४.४) उपस्तीर्याज्यं संहताभ्यां अङ्गुलिभ्यां द्विर्हविषो_अवद्यति मध्यात्पूर्वार्धात्_च
(१,४.५) अवत्तं अभिघार्य द्विर्हविः प्रत्यभिघारयति
(१,४.६) यतो यतो_अवद्यति तदनुपूर्वम्
(१,४.७) एवं सर्वाणि_अवदानानि
(१,४.८) अन्यत्र सौविष्टकृतात्
(१,४.९) <उदेनं उत्तरं नय [६.५.१]> इति पुरस्ताद्धोमसंहतां पूर्वाम्
(१,४.१०) एवं पूर्वांपूर्वां संहतां जुहोति
(१,४.११) स्वाहान्ताभिः प्रत्यृचं होमाः
(१,४.१२) यां उत्तरां अग्नेराज्यभागस्य जुहोति रक्षोदेवत्या सा यां दक्षिणतः सोमस्य पितृदेवत्या सा
(१,४.१३) तस्मादन्तरा होतव्या देवलोके_एव हूयन्ते
(१,४.१४) यां हुत्वा पूर्वां अपरां जुहोति सापक्रमन्ती स पापीयान्यजमानो भवति
(१,४.१५) यां परांपरां संहतां जुहोति साभिक्रमन्ती स वसीयान्यजमानो भवति
(१,४.१६) यां अनग्नौ जुहोति सान्धा तया चक्षुर्यजमानस्य मीयते सो_अन्धंभावुको यजमानो भवति
(१,४.१७) यां धूमे जुहोति सा तमसि हूयते सो_अरोचको यजमानो भवति
(१,४.१८) यां ज्योतिष्मति जुहोति तया ब्रह्मवर्चसी भवति तस्मात्_ज्योतिष्मति होतव्यम्
(१,४.१९) एवं <अस्मै क्षत्रं अग्नीषोमौ [६.५४.२]> इति_अग्निषोमीयस्य
(१,५.१) <अग्नीषोमा सवेदसा सहूती वनतं गिरः । स देवत्रा बभूवथुः । । युवं एतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तं । युवं सिन्धू;म्रभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गृभीतान् । । अग्नीशोमा य आहुतिं यो वां दाशाद्धविश्कृतिं । स प्रजया सुवीर्यं विश्वं आयुर्व्यश्नवत् । । [ऱ्V१.९३.९,५,३ एत्च्.]>
(१,५.२) <इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः । तद्वां चेति प्र वीर्यं । । [ऱ्V३.१२.९]> <श्नथद्वृत्रं उत सनोति वाजं इन्द्रा यो अग्नी सहुरी सपर्यात् । इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता । । [ऱ्V६.६०.१]> <इन्द्राग्नी अस्मान्रक्षतां यौ प्रजानां प्रजावती । स प्रजया सुवीर्यं विश्वं आयुर्व्यश्नवत् । । [१०.१.२१च्द्+ ऱ्V१.९३.३च्द्]> <गोमद्धिरण्यवद्वसु यद्वां अश्वावदीमहे । इन्द्राग्नी वनेमहि । । [ऱ्V७.९४.९]> <स्वाहा> इति
(१,५.३) ऐन्द्राग्नस्य हविषो_अमावास्यायाम्
(१,५.४) प्राक्स्विष्टकृतः पार्वणहोमौ समृद्धिहोमाः काम्यहोमाश्च
(१,५.५) <पूर्णा पश्चात्[७.८०(=८५).१]> इति पौर्णमास्याम्
(१,५.६) <यत्ते देवा अकृण्वन्भागधेयं [७.७९.१]> इत्यमावास्यायाम्
(१,५.७) <आकूत्यै त्वा स्वाहा । कामाय त्वा स्वाहा । समृधे त्वा स्वाहा । आकूत्यै त्वा कामाय त्वा समृधे त्वा स्वाहा । [च्फ़्. ठ्ऽ३.४.२.१ एत्च्.]> <ऋचा स्तोमं समर्धय गायत्रेण रथन्तरं । बृहद्गायत्रवर्तनि । । [ठ्ऽ३.१.१०.१ एत्च्.]> <स्वाहा>
(१,५.८) <पृथिव्यां अग्नये समनमन्[४.३९.१-८]> इति संनतिभिश्च <प्रजापते न त्वदेतान्यन्यः [७.८०(=८५).३]> इति च
(१,५.९) उपस्तीर्याज्यं सर्वेषां उत्तरतः सकृत्सकृदवदाय द्विरवत्तं अभिघारयति
(१,५.१०) न हवींषि
(१,५.११) <आ देवानां अपि पन्थां अगन्म यच्छक्नवाम तदनुप्रवोढुं । अग्निर्विद्वान्स यजात्स इद्धोता सोऽध्वरान्स ऋतून्कल्पयाति । । [सकल PS१९.४७.६ = ;SS१९.५९.३, ऱ्V१०.२.३ एत्च्.]> <अग्नये स्विष्टकृते स्वाहा> इत्युत्तरपूर्वार्धे_अवयुतं हुत्वा सर्वप्रायश्चित्तीयान्होमान्_जुहोति
(१,५.१२) <स्वाहेष्टेभ्यः स्वाहा । वषडनिष्टेभ्यः स्वाहा । भेषजं स्विष्ट्यै स्वाहा । निष्कृतिर्दुरिष्ट्यै स्वाहा । दैवीभ्यस्तनूभ्यः स्वाहा । [-, च्फ़्. Bौध्;SS१.२१ः३२.१०, ःइर्;SS२.६.१]> <अयाश्चाग्नेऽस्यनभिशस्तिश्च सत्यं इत्त्वं अया असि । अयासा मनसा कृतोऽयास्+सन्[एद्.ऽयास्य] हव्यं ऊहिषे । आ [+अया?] नो धेहि भेषजं । । [ंऽ१.४.३ः५१.१०, KS५.४ः५७.१-४, Kऔश्ऽ९७.४, ःइर्;SS२.६.२ एत्च्.]> <स्वाहा> इति । <ओं स्वाहा भूः स्वाहा भुवः स्वाहा स्वः स्वाहों भूर्भुवः स्वः स्वाहा> इति
(१,६.१) <यन्मे स्कन्नं मनसो जातवेदो यद्वास्कन्दद्धविषो यत्रयत्र । उत्प्रुषो विप्रुषः सं जुहोमि सत्याः सन्तु यजमानस्य कामाः । । [अबः -, च्दः VSK२.५.३]> <स्वाहा> इति
(१,६.२) <यन्मे स्कन्नं [अबः -, च्दः VSK२.३८(=२.५.२)]> <यदस्मृति [७.१०६(=१११).१]> इति च स्कन्नास्मृतिहोमौ
(१,६.३) <यदद्य त्वा प्रयति [७.९७(=१०२).१-८]> इति सष्थितहोमाः
(१,६.४) <मनसस्पते [७.९७(=१०२).८]> इति उत्तमं चतुर्गृहीतेन
(१,६.५) बर्हिराज्यशेषे_अनक्ति [शेषेणानक्ति?]
(१,६.६) <पृथिव्यै त्वा [-]> इति मूलं <अन्तरिक्षाय त्वा [-]> इति मध्यं <दिवे त्वा [-]> इति अग्रं एवं त्रिः
(१,६.७) <सं बर्हिरक्तं [७.९८(=१०३).१]> इत्यनुप्रहरति यथादेवतम्
(१,६.८) स्रुवं अग्नौ धारयति
(१,६.९) यदाज्यधान्यां तत्संस्रावयति <संस्रावभागास्तविषा बृहन्तः प्रस्तरेष्ठा बर्हिषदश्च देवाः । इमं यज्ञं अभि विश्वे गृणन्तः स्वाहा देवा अमृता मादयन्तां । । [PS२०.३५.२, ठ्ऽ१.१.१३.२-३]> इति
(१,६.१०) <स्रुवोऽसि घृतादनिशितः सपत्नक्षयणो दिवि षीद । अन्तरिक्षे सीद पृथिव्यां सीदोत्तरोऽहं भूयासं अधरे मत्सपत्नाः [KS३१.१४ः१५.२०, च्फ़्. भार्;SS४.११.१, आअप्;SS२.४.२ एत्च्.]> इति स्रुवं प्राग्दण्डं निदधाति
(१,६.११) <वि मुञ्चामि ब्रह्मणा जातवेदसं अग्निं होतारं अजरं रथस्पृतं । सर्वा देवानां जनिमानि विद्वान्यथाभागं वहतु हव्यं अग्निः । । [PS१२.१९.९]> <अग्नये स्वाहा> इति समिधं आदधाति
(१,६.१२) <एधोऽसि [७.८९(=९४).४अ]> इति द्वितीयां <समिदसि [७.८९(=९४).४ब्]> इति तृतीयम्
(१,६.१३) <तेजोऽसि [७.८९(=९४).४च्]> इति मुखं विमार्ष्टि
(१,६.१४) दक्षिणेनाग्निं त्रीन्विष्णुक्रमान्क्रमते <विष्णोः क्रमोऽसि [१०.५.२५-२७]> इति दक्षिणेन पादेनानुसंहरति सव्यम्
(१,६.१५) <सूर्यस्यावृतं [१०.५.३७]> इत्यभिदक्षिणं आवर्तते
(१,६.१६) <अगन्म स्वः [१६.९.३-४]> इत्यादित्यं ईक्षते
(१,६.१७) <इन्द्रस्य वचसा वयं मित्रस्य वरुणस्य च । ब्रह्मणा स्थापितं पात्रं पुनरुत्थापयामसि । । [-, च्फ़्. ६.८५.२अब्, PS१९.६.२अब्, आVPअरिश्३७.१९.२]> इत्यपरेणाग्निं उदपात्रं परिहृत्योत्तरेणाग्निं <आपो हि ष्ठा मयोभुवः [१.५.१-५?]> इति मार्जयित्वा बर्हिषि पत्न्याञ्जलौ निनयति <समुद्रं वः प्र हिणोमि [१०.५.२३-२४]> इति <इदं जनासः [१.३२.१-४]?> इति वा
(१,६.१८) <वीरपत्न्यहं भूयासं [-]> इति मुखं विमार्ष्टि
(१,६.१९) <व्रतानि व्रतपतये [च्फ़्. Kऔश्ऽ५.६.१६(=४२.१७)ः PS१९.५१.४]> इति समिधं आदधाति
(१,६.२०) <सत्यं त्वर्तेन [च्फ़्. ठ्B्२.१.११.१]> इति परिषिच्य_उदञ्चि हविरुच्छिष्टान्युद्वासयति
(१,६.२१) पूर्णपात्रं दक्षिणा
(१,६.२२) <नादक्षिणं हविः कुर्वीत यः कुरुते कृत्यां आत्मनः कुरुते [च्फ़्. KS३७.१२ः९३.३फ़्.]> इति ब्राह्मणम्
(१,६.२३) <अन्वाहार्यं ब्राह्मणान्भोजयति
(१,६.२४) यद्वै यज्ञस्यानन्वितं भवति तदन्वाहार्येणान्वाह्रियते
(१,६.२५) एतदन्वाहार्यस्यान्वाहार्यत्वं [-]>
(१,६.२६) <ईड्या वा अन्ये देवाः सपर्येण्या अन्ये । देवा ईड्या देवा ब्राह्मणाः सपर्येण्याः
(१,६.२७) यज्ञेन_एव_ईड्यान्प्रीणाति अन्वाहार्येण सपर्येण्यान्
(१,६.२८) ते_अस्य_उभे प्रीता यज्ञे भवन्तीति [च्फ़्. KS८.१३ः९७.११फ़्फ़्.]>
(१,६.२९) इमौ दर्शपूर्णमासौ व्याख्यातौ
(१,६.३०) दर्शपूर्णमासाभ्यां पाकयज्ञाः
(१,६.३२) कुम्भीपाकादेव व्युद्धारं जुहुयात्
(१,६.३३) अधिश्रयण_पर्यग्निकरण_अभिघारण_उद्वासन_अलंकरण_उत्पवनैः संस्कृत्य
(१,६.३४) अथापि श्लोकौ भवतः <आज्यभागान्तं प्राक्तन्त्रं ऊर्ध्वं स्विष्टकृता सह । हवींषि यज्ञ आवापो यथा तन्त्रस्य तन्तवः [-, अत्त्रिबुतेद्तो ङ्B्ब्य्ऽआयण ई, प्. ३४९] । ।> <पाकयज्ञान्समासाद्य_एकाज्यानेकबर्हिषः । एकस्विष्टकृतः कुर्यात्_नानापि सति दैवते_इति । । [आअश्व्ङ्ऽ१.३.१०]>
(१,६.३५) एतेन_एवामावास्यो व्याख्यातः
(१,६.३६) ऐन्द्राग्नो_अत्र द्वितीयो भवति
(१,६.३७) तयोर्व्यतिक्रमे <त्वं अग्ने व्रतपा असि [१९.५९]> <कामस्तदग्रे [१९.५२]> इति शान्ताः
(१,७.१) अश्नात्यनादेशे स्थालीपाकः
(१,७.२) पुष्टिकर्मसु सारूपवत्से
(१,७.३) आज्यं जुहोति
(१,७.४) समिधं आदधाति
(१,७.५) आवपति व्रीहियवतिलान्
(१,७.६) भक्षयति क्षीरौदनपुरोडाशरसान्
(१,७.७) मन्थ_ओदनौ प्रयछति
(१,७.८) पूर्वं त्रिषप्तीयम्
(१,७.९) उदकचोदनायां उदपात्रं प्रतीयात्
(१,७.१०) पुरस्ताद्_उत्तरतः संभारं आहरति
(१,७.११) गोरनभिप्रापाद्वनस्पतीनाम्
(१,७.१२) सूर्योदयनतः
(१,७.१३) पुरस्ताद्_उत्तरतो_अरण्ये कर्मणां प्रयोगः
(१,७.१४) उत्तरत उदकान्ते प्रयुज्य कर्माण्यपां सूक्तैराप्लुत्य प्रदक्षिणं आवृत्य अप उपस्पृश्यानवेक्षमाणा ग्रामं उदाव्रजन्ति
(१,७.१५) आश्यबन्ध्याप्लवनयानभक्षाणि संपातवन्ति
(१,७.१६) सर्वाण्यभिमन्त्र्याणि
(१,७.१७) स्त्रीव्याधितावाप्लुतावसिक्तौ शिरस्तः प्रक्रम्या प्रपदात्प्रमार्ष्टि
(१,७.१८) पूर्वं प्रपाद्य प्रयछति
(१,७.१९) त्रयोदश्यादयस्तिस्रो दधिमधुनि वासयित्वा बध्नाति
(१,७.२०) आशयति
(१,७.२१) अन्वारब्धायाभिमन्त्रणहोमाः
(१,७.२२) पश्चादग्नेश्चर्मणि हविषां संस्कारः
(१,७.२३) आनडुहः शकृत्पिण्डः
(१,७.२४) जीवघात्यं चर्म
(१,७.२५) अकर्णो_अश्मा
(१,७.२६) आप्लवनावसेचनानां आचामयति च
(१,७.२७) संपातवतां अश्नाति न्यङ्क्ते वा
(१,७.२८) अभ्याधेयानां धूमं नियछति
(१,७.२९) शुचिना कर्मप्रयोगः
(१,८.१) पुरस्ताद्धोमवत्सु निशाकर्मसु पूर्वाह्णे यज्ञोपवीती शालानिवेशमं समूहयत्युपवत्स्यद्भक्तं अशित्वा स्नातो_अहतवसनः प्रयुङ्क्ते
(१,८.२) स्वस्त्ययनेषु च
(१,८.३) ईज्यानां दिश्यान्बलीन्हरति
(१,८.४) प्रतिदिशं उपतिष्ठते
(१,८.५) सर्वत्राधिकरणं कर्तुर्दक्षिणा
(१,८.६) त्रिरुदकक्रिया
(१,८.७) अनन्तराणि समानानि युक्तानि
(१,८.८) शान्तं संभारम्
(१,८.९) अधिकृतस्य सर्वम्
(१,८.१०) विषये [एद्. विशये; सी Cअलन्द्, आZ, अल्.; Sपेइजेरंउसेउं ९ २४९ दिसग्रीस्] यथान्तरम्
(१,८.११) <प्र यछ पर्शुं [१२.३.३१]> इति दर्भलवनं प्रयछति
(१,८.१२) <अरातीयोः [१०.६.१]> इति तक्षति
(१,८.१३) <यत्त्वा शिक्वः [१०.६.३]> इति प्रक्षालयति
(१,८.१४) <यत्_यत्कृष्णः [१२.३.१३]> इति मन्त्रोक्तम्
(१,८.१५) पलाश_उदुम्बर_जम्बु_काम्पील_स्रग्_वङ्घ_शिरीष_स्रक्त्य_वरण_बिल्व_जङ्गिड_कुटक_गर्ह्य_गलावल_वेतस_शिम्बल_सिपुन_स्यन्दन_अरणिका_अश्मयोक्त_तुन्यु_पूतुदारवः शान्ताः
(१,८.१६) चिति_प्रायश्चित्ति_शमी_शमका_सवंशा_शाम्यवाका_तलाश_पलाश_वाशा_शिंशपा_शिम्बल_सिपुन_दर्भ_अपामार्ग_आकृतिलोष्ट_वल्मीकवपा_दूर्वाप्रान्त_व्रीहि_यवाः शान्ताः
(१,८.१७) प्रमन्द_उशीर_शलली_उपधान_शकधूमा जरन्तः
(१,८.१८) सीस_नदीसीसे अयोरजांसि कृकलासशिरः सीनानि
(१,८.१९) दधि घृतं मधूदकं इति रसाः
(१,८.२०) व्रीहि_यवा_गोधूम_उपवाक_तिल_प्रियङ्गु_श्यामाका इति मिश्रधान्यानि
(१,८.२१) ग्रहणं आ ग्रहणात्
(१,८.२२) यथार्थं उदर्कान्योजयेत्
(१,८.२३) <इहैव ध्रुवां [३.१२]> <एह यातु [६.७३]> <यमो मृत्युः [६.९३]> <सत्यं बृहत्[१२.१]> इत्यनुवाको वास्तोष्पतीयानि
(१,८.२४) <दिव्यो गन्धर्वः [२.२]> <इमं मे अग्ने [६.१११]> <यौ ते माता [८.६]> इति मातृनामानि
(१,८.२५) <स्तुवानं [१.७]> <इदं हविः [१.८]> <निस्सालां [२.१४]> <अरायक्षयणं [२.१८.३]> <शं नो देवी पृश्निपर्णी [२.२५]> <आ पश्यति [४.२०]> <तान्त्सत्यौजाः [४.३६]> <त्वया पूर्वं [४.३७]> <पुरस्ताद्युक्तः [५.२९]> <रक्षोहणं [८.३-४]> इति अनुवाकश्चातनानि
(१,९.१) <अम्बयो यन्ति [१.४]> <शंभुमयोभू [१.५-६]> <हिरण्यवर्णाः [१.३३]> <निस्सालां [२.१४]> <ये अग्नयः [३.२१.१-७]> <ब्रह्म जज्ञानं [४.१.१]> इत्येका <उत देवाः [४.१३]> मृगारसूक्तान्युत्तमं वर्जयित्वा [४.२३-२९] <अप नः शोशुचदघं [४.३३]> <पुनन्तु मा [६.१९]> <सस्रुषीः [६.२३]> <हिमवतः प्रस्रवन्ति [६.२४]> <वायोः पूतः पवित्रेण [६.५१]> <शं च नो मयश्च नः [६.५७.३]> <अनडुद्भ्यस्त्वं प्रथमं [६.५९]> <मह्यं आपः [६.६१]> <वैश्वानरो रश्मिभिः [६.६२]> <यमो मृत्युः [६.९३]> <विश्वजित्[६.१०७]> <संज्ञानं नः [७.५२]> <यद्यन्तरिक्षे [७.६६]> <पुनर्मैत्विन्द्रियं [७.६७]> <शिवा नः [७.६८.३]> <शं नो वातो वातु [७.६९]> <अग्निं ब्रूमो वनस्पतीन्[११.६]> इति
(१,९.२) <पृथिव्यै श्रोत्राय [६.१०]> इति त्रिः प्रत्यासिञ्चति
(१,९.३) <अम्बयो यन्ति [१.४]> <शंभुमयोभू [१.५-६]> <हिरण्यवर्णाः [१.३३]> शंततीयं च [४.१३] <यद्यन्तरिक्षे [७.६६]> <पुनर्मैत्विन्द्रियं [७.६७]> <शिवा नः [७.६८.३]> <शं नो वातो वातु [७.६९]> <अग्निं ब्रूमो वनस्पतीन्[११.६]> इति
(१,९.४) <पृथिव्यै श्रोत्राय [६.१०]> इति त्रिः प्रत्यासिञ्चति
(१,९.५) इति शान्तियुक्तानि
(१,९.६) उभयतः सावित्र्युभयतः <शं नो देवी [१.६]>
(१,९.७) अहतवासः कंसे शान्त्युदकं करोति
(१,९.८) <अतिसृष्टो अपां वृषभः [१६.१.१]> इत्यपो_अतिसृज्य सर्वा इमा आप ओषधय इति पृष्ट्वा सर्वा इत्याख्यात ओं बृहस्पतिप्रसूतः करवाणीत्यनुज्ञाप्य_ओं सवितृप्रसूतः कुरुतां भवानित्यनुज्ञातः कुर्वीत
(१,९.९) पूर्वया कुर्वीतेति गार्ग्य_पार्थश्रवस_भागालि_काङ्कायन_उपरिबभ्रव_कौशिक_जाटिकायन_कौरुपथयः
(१,९.१०) अन्यतरया कुर्वीतेति युवा कौशिको युवा कौशिकः
(Kऔश्ऽ१ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे प्रथमोऽध्यायः समाप्तः
(२,१[१०].१) पूर्वस्य मेधाजननानि
(२,१[१०].२) शुकसारिकृशानां जिह्वा बध्नाति
(२,१[१०].३) आशयति
(२,१[१०].४) औदुम्बरपलाशकर्कन्धूनां आदधाति
(२,१[१०].५) आवपति
(२,१[१०].६) भक्षयति
(२,१[१०].७) उपाध्यायाय भैक्षं प्रयछति
(२,१[१०].८) सुप्तस्य कर्णं अनुमन्त्रयते
(२,१[१०].९) उपसीदञ्जपति
(२,१[१०].१०) धानाः सर्पिर्मिश्राः सर्वहुताः
(२,१[१०].११) तिलमिश्रा हुत्वा प्राश्नाति
(२,१[१०].१२) पुरस्तादग्नेः कल्माषं दण्डं निहत्य पश्चादग्नेः कृष्णाजिने धाना अनुमन्त्रयते
(२,१[१०].१३) सूक्तस्य पारं गत्वा प्रयछति
(२,१[१०].१४) सकृज्जुहोति
(२,१[१०].१५) दण्डधानाजिनं ददाति
(२,१[१०].१६) <अहं रुद्रेभिर्[४.३०]> इति शुक्लपुष्पहरितपुष्पे किंस्त्यनाभिपिप्पल्यौ जातरूपशकलेन प्राक्स्तनग्रहात्प्राशयति
(२,१[१०].१७) प्रथमप्रवदस्य मातुरुपस्थे तालूनि संपातानानयति
(२,१[१०].१८) दधिमध्वाशयति
(२,१[१०].१९) उपनीतं वाचयति वार्षशतिकं कर्म
(२,१[१०].२०) <त्वं नो मेधे [६.१०८]> <द्यौश्च म [१२.१.३५]> इति भक्षयति
(२,१[१०].२१) आदित्यं उपतिष्ठते
(२,१[१०].२२) <यदग्ने तपसा [७.६१]> इत्याग्रहायण्यां भक्षयति
(२,१[१०].२३) अग्निं उपतिष्ठते
(२,१[१०].२४) <प्रातरग्निं [३.१६]> <गिरावरगराटेषु [६.६९]> <दिवस्पृथिव्याः [६.१२५.२]> इति संहाय मुखं विमार्ष्टि
(२,२[११].१) पूर्वस्य ब्रह्मचारिसांपदानि
(२,२[११].२) औदुम्बर्यादयः
(२,२[११].३) ब्रह्मचार्यावसथादुपस्तरणान्यादधाति
(२,२[११].४) पिपीलिकोद्वापे मेदोमधुश्यामाकेषीकतूलान्याज्यं जुहोति
(२,२[११].५) आज्यशेषे पिपीलिकोद्वापानोप्य ग्रामं एत्य सर्वहुतान्
(२,२[११].६) ब्रह्मचारिभ्यो_अन्नं धानास्तिलमिश्राः प्रयछति
(२,२[११].७) एतानि ग्रामसा.पदानि
(२,२[११].८) विकार स्थूणामूलावतक्षणानि सभानां उपस्तरणानि
(२,२[११].९) ग्रामीणेभ्यो_अन्नम्
(२,२[११].१०) सुरां सुरापेभ्यः
(२,२[११].११) औदुम्बरादीन्य्भक्षणान्तानि सर्वसांपदानि
(२,२[११].१२) त्रिर्ज्योतिः कुरुते
(२,२[११].१३) उपतिष्ठते
(२,२[११].१४) सव्यात्पाणिहृदयाल्लोहितं रसमिश्रं अश्नाति
(२,२[११].१५) पृश्निमन्थः
(२,२[११].१६) जिह्वाया उत्साद्यं अक्ष्योः +परिस्तरणं मस्तृहणं [एद्. परिस्तरणमस्तृहणं; सी ंऽऽ३४ (१९७६), प्. २३फ़्.] हृदयं दूर्श उपनह्य तिस्रो रात्रीः पल्पूलने वासयति
(२,२[११].१७) चूर्णानि करोति
(२,२[११].१८) मैश्रधान्ये मन्थ ओप्य दधिमधुमिश्रं अश्नाति
(२,२[११].१९) <अस्मिन्वसु [१.९]> <यदाबध्नन्[१.३५]> <नव प्राणान्[५.२८]> इति युग्मकृष्णलं वासितं बध्नाति
(२,२[११].२०) सारूपवत्सं पुरुषगात्रं द्वादशरात्रं संपातवन्तं कृत्वानभिमुखनश्नाति
(२,३[१२].१) <कथं महे [५.११]> इति मादानकशृतं क्षीरौदनं अश्नाति
(२,३[१२].२) चमसे सरूपवत्साया दुग्धे व्रीहियवाववधाय मूर्छयित्वा मध्वासिच्याश्यति
(२,३[१२].३) <पृथिव्यै श्रोत्राय [६.१०]> इति जुहोति
(२,३[१२].४) <वत्सो विराजो [१३.१.३३]> इति मन्थान्तानि
(२,३[१२].५) <सहृदयं [३.३०]> <तदू षु [५.१.५]> <सं जानीध्वं [६.६४]> <एह यातु [६.७३]> <सं वः पृच्यन्तां [६.७४]> <सं वो मनांसि [६.९४]> <संज्ञानं नः [७.५२]> इति सांमनस्यानि
(२,३[१२].६) उदकूलिजं संपातवन्तं ग्रामं परिहृत्य मध्ये निनयति
(२,३[१२].७) एवं सुराकूलिजम्
(२,३[१२].८) त्रिहायण्या वत्सतर्याः शुक्त्यानि [सी Cअलन्द्, Zऱ्] पिशितान्याशयति
(२,३[१२].९) भक्तं सुरां प्रपां संपातवत्करोति
(२,३[१२].१०) पूर्वस्य <ममाग्ने वर्चो [५.३]> इति वर्चस्यानि
(२,३[१२].११) औदुम्बर्यादीनि त्रीणि
(२,३[१२].१२) कुमार्या दक्षिणं ऊरुं अभिमन्त्रयते
(२,३[१२].१३) वपां जुहोति
(२,३[१२].१४) अग्निं उपतिष्ठते
(२,३[१२].१५) <प्रातरग्निं [३.१६]> <गिरावरगराटेषु [६.६९]> <दिवस्पृथिव्याः [६.१२५.२]> इति दधिमध्वाशयति
(२,३[१२].१६) कीलालमिश्रं क्षत्रियं कीलालं इतरान्
(२,४[१३].१) <हस्तिवर्चसं [३.२२]> इति हस्तिनम्
(२,४[१३].२) हास्तिदन्तं बध्नाति
(२,४[१३].३) लोमानि जतुना संदिह्य जातरूपेणापिधाप्य
(२,४[१३].४) <सिंहे व्याघ्रे [६.३८]> <यशो हविर्[६.३९]> इति स्नातकसिंहव्याघ्रबस्तकृष्णवृषभराज्ञां नभिलोमानि
(२,४[१३].५) दशानां शान्तवृक्षाणां शकलानि
(२,४[१३].६) एतयोः <प्रातरग्निं [३.१६]> <गिरावरगराटेषु [६.६९]> <दिवस्पृथिव्याः [६.१२५.२]> इति सप्त मर्माणि स्थालीपाके पृक्तान्यश्नाति
(२,४[१३].७) अकुशलं यो ब्राह्मणो लोहितं अश्नीयादिति गार्ग्यः
(२,४[१३].८) उक्तो लोममणिः
(२,४[१३].९) सर्वैराप्लावयति
(२,४[१३].१०) अवसिञ्चति
(२,४[१३].११) चतुरङ्गुलं तृणं रजोहरणबिन्दुना_ [सी Cअलन्द्, Zऱ्] _अभिश्चोत्य_उपमथ्य
(२,४[१३].१२) शुनि किलासं अजे पलितं तृणे ज्वरो यो_अस्मान्द्वेष्टि यं च वयं द्विष्मस्तस्मिन्राजयक्ष्म इति दक्षिणा तृणं निरस्यति गन्धप्रवादाभिरलं कुरुते
(२,५[१४].१) पूर्वस्य हस्तित्रसनानि
(२,५[१४].२) रथचक्रेण संपातवता प्रतिप्रवर्तयति
(२,५[१४].३) यानेनाभियाति
(२,५[१४].४) वादित्रैः
(२,५[१४].५) दृतिवस्त्योरोप्य शर्कराः
(२,५[१४].६) तोत्त्रेण नग्नप्रछन्नः
(२,५[१४].७) <विद्मा शरस्य [१.२]> <मा नो विदन्[१.१९]> <अदारसृद्[१.२०]> <स्वस्तिदा [१.२१]> <अव मन्युर्[६.६५]> <निर्हस्तः [६.६६]> <परि वर्त्मान्य्[६.६७]> <अभिभूर्[६.९७]> <इन्द्रो जयाति [६.९८]> <अभि त्वेन्द्र [६.९९]> इति सांग्रामिकानि
(२,५[१४].८) आज्यसक्तूञ्जुहोति
(२,५[१४].९) धनुरिध्मे धनुः समिधं आदधाति
(२,५[१४].१०) एवं इष्विध्मे
(२,५[१४].११) धनुः संपातवद्विमृज्य प्रयछति
(२,५[१४].१२) प्रथमस्य_इषुपर्ययणानि
(२,५[१४].१३) द्रुघ्न्यार्त्नीज्यापाशतृणमूलानि बध्नाति
(२,५[१४].१४) <आरे असाव्[१.२६]> इत्यपनोदनानि
(२,५[१४].१५) फलीकरणतुषबुसावतक्षणान्यावपति
(२,५[१४].१६) अन्वाह
(२,५[१४].१७) <अग्निर्नः शत्रून्[३.१]> अग्निर्नो दूतः [३.२]> इति मोहनानि
(२,५[१४].१८) ओदनेन_उपयम्य फलीकरणानुलूखलेन जुहोति
(२,५[१४].१९) एवं अणून्
(२,५[१४].२०) एकविंशत्या शर्कराभिः प्रतिनिष्पुनाति
(२,५[१४].२१) अप्वां यजते
(२,५[१४].२२) <संशितं [३.१९]> इति शितिपदीं संपातवतीं अवसृजति
(२,५[१४].२३) उद्वृधत्सु [Cअलन्दः उद्धृष्यत्सु?] योजयेत्
(२,५[१४].२४) <इमं इन्द्र [४.२२ & ४.२३]> इति युक्तयोः प्रदानान्तानि
(२,५[१४].२५) दिग्युक्ताभ्यां [३.२६ & ३.२७] <नमो देववधेभ्यो [६.१३]> इति उपतिष्ठते
(२,५[१४].२६) <त्वया मन्यो [४.३१]> <यस्ते मन्यो [४.३२]> इति संरम्भणानि
(२,५[१४].२७) सेने समीक्षमाणो जपति
(२,५[१४].२८) भाङ्गमौञ्जान्पाशनिङ्गिडालंकृतान्संपातवतो_अनूक्तान्सेनाक्रमेषु वपति
(२,५[१४].२९) एवं आमपात्राणि
(२,५[१४].३०) इङ्गिडेन संप्रोक्ष्य तृणान्याङ्गिरसेनाग्निना दीपयति
(२,५[१४].३१) यां धूमो_अवतनोति तां जयन्ति
(२,६[१५].१) <ऋधङ्मन्त्रस्[५.१]> <तदिदास [५.२]> इत्याश्वत्थ्यां पात्र्यां त्रिवृति गोमयपरिचये हस्तिपृष्ठे पुरुषशिरसि वामित्राञ्जुह्वदभिप्रक्रम्य निवपति
(२,६[१५].२) +वराहविहताद्[एद्. वराहविहिताद्; Cअलन्द्, Kल्.Sछ्र्. प्. ७०] राजानो वेदिं कुर्वन्ति
(२,६[१५].३) तस्यां प्रदानान्तानि
(२,६[१५].४) एकेष्वा हतस्यादहने_उपसमाधाय दीर्घदण्डेण स्रुवेण रथ्चक्रस्य खेन समया जुहोति
(२,६[१५].५) योजनीयं श्रुत्वा योजयेत्
(२,६[१५].६) <यदि चिन्नु त्वा [५.२.४]> <नमो देववधेभ्यो [६.१३]> इत्यन्वाह
(२,६[१५].७) वैश्याय प्रदानान्तानि
(२,६[१५].८) <त्वया वयं [५.२.५]> इति आयुधिग्रामण्ये
(२,६[१५].९) <नि तद्दधिषे [५.२.६]>_इति राज्ञोदपात्रं द्वौद्वौ_अवेक्षयेत्
(२,६[१५].१०) +यं [एद्.ः यन्; Cअलन्द्, Kल्.Sछ्र्. प्. ५७] न पश्येद्न युध्येत
(२,६[१५].११) <नि तद्दधिषे [५.२.६]> <वनस्पते [१२.३.३३]> <अया विष्ठा [७.३]> <अग्न इन्द्रश्[७.११०]> <दिशस्चतस्रो [८.८.२२]> इति नवं रथं राजानं ससारथिं आस्थापयति
(२,६[१५].१२) <ब्रह्म जज्ञानं [५.६]> इति जीवितविज्ञानम्
(२,६[१५].१३) तिस्रः स्नावरज्जूरङ्गारेषु_अवधाय
(२,६[१५].१४) उत्कुचतीषु कल्याणम्
(२,६[१५].१५) सांग्रामिकं एता व्यादिशति मध्ये मृत्युरितरे सेने
(२,६[१५].१६) पराजेष्यमाणान्मृत्युरतिवर्तते ज्येष्यन्तो मृत्युं [नोते चोन्ज्. Sपेइजेरंउसेउं ९ २४९]
(२,६[१५].१७) अग्रेषूत्कुचत्सु मुख्या हन्यन्ते मध्येषु मध्या अन्तेषु_अवरे
(२,६[१५].१८) एवं इषीकाः
(२,७[१६].१) <उच्चैर्घोषो [५.२०]> <उप श्वासय [६.१२६]> इति सर्ववादित्राणि प्रक्षाल्य तगर_उशीरेण संधाव्य संपातवन्ति त्रिराहत्य प्रयछति
(२,७[१६].२) <विहृदयं [५.२१]> इत्युच्चैस्तरां (?) हुत्वा स्रुवं उद्वर्तयन्
(२,७[१६].३) सोमांशुं हरिणचर्मणि_उत्सीव्य क्षत्रियाय बध्नाति
(२,७[१६].४) <परि वर्त्मानि [६.६७]> <इन्द्रो जयाति [६.९८]> इति राजा त्रिः सेनां परियाति
(२,७[१६].५) उक्तः पूर्वस्य सोमांशुः
(२,७[१६].६) <संदानं वो [६.१०३]> <आदानेन [६.१०४]> इति पाशैरादानसंदानानि
(२,७[१६].७) <मर्माणि ते [७.११८]> इति क्षत्रियं संनाहयति
(२,७[१६].८) अभयानां अप्ययः
(२,७[१६].९) <इन्द्रो मन्थतु [८.८]> इति
(२,७[१६].१०) <पूतिरज्जुर्[८.८.२अब्]> इति पूतिरज्जुं अवधाय
(२,७[१६].११) अश्वत्थबधकयोरग्निं मन्थति
(२,७[१६].१२) <धूमं [८.८.२च्द्]> इति धूमं अनुमन्त्रयते
(२,७[१६].१३) <अग्निं [८.८.२च्द्]> इत्यग्निम्
(२,७[१६].१४) तस्मिन्नरण्ये सपत्नक्षयणीरादधात्यश्वत्थ_बधक_ताजद्भङ्ग_आह्व_खदिर_शराणाम्
(२,७[१६].१५) उक्ताः पाशाः
(२,७[१६].१६) आश्वत्थानि कूटानि भाङ्गानि जालानि
(२,७[१६].१७) बाधकदण्डानि
(२,७[१६].१८) <स्वाहैभ्यो [८.८.२४च्द्]> इति मित्रेभ्यो जुहोति
(२,७[१६].१९) <दुराहामीभ्य [८.८.२४च्द्]> इति सव्येन_इङ्गिडं अमित्रेभ्यो बाधके
(२,७[१६].२०) उत्तरतो_अग्नेर्लोहिताश्वत्थस्य शाखां निहत्य नीललोहिताभ्यां सूत्राभ्यां परितत्य <नीललोहितेनामून्[८.८.२४ए]> इति दक्षिणा प्रहापयति
(२,७[१६].२१) <ये बाहव्[११.९]> <उत्तिष्ठत [११.१०]> इति यथालिङ्गं संप्रेष्यति
(२,७[१६].२२) होमार्थे पृषदाज्यम्
(२,७[१६].२३) प्रदानान्तानि वाप्यानि
(२,७[१६].२४) वाप्यैस्त्रिषन्धीनि वज्ररूपाण्यर्बुदिरूपाणि
(२,७[१६].२५) शितिपदीं संपातवतीं दर्भरज्ज्वा क्षत्रियाय_उपसङ्गदण्डे बध्नाति
(२,७[१६].२६) द्वितीयां अस्यति
(२,७[१६].२७) <अस्मिन्वसु [१.९]> इति राष्ट्रावगमनम्
(२,७[१६].२८) आनुशूकानां व्रीहीणां आव्रस्कजैः काम्पीलैः शृतं सारूपवत्सं आशयति
(२,७[१६].२९) <अभीवर्तेन [१.२९]> इति रथनेमिमणिं अयःसीसलोहरजतताम्रवेष्टितं हेमनाभिं वासितं बद्ध्वा सूत्रोतं बर्हिषि कृत्वा संपातवन्तं प्रत्यृचं भृष्टीरभीवर्त्तोत्तमाभ्यां आचृतति
(२,७[१६].३०) <अचिक्रदत्[३.३]> <आ त्वा गन्[३.४]> इति यस्माद्राष्ट्रादवरुद्धस्तस्याशायां शयनविधं पुरोडाशं दर्भेषूदके निनयति
(२,७[१६].३१) ततो लोष्टेन ज्योतिरायतनं संस्तीर्य क्षीरौदनं अश्नाति
(२,७[१६].३२) यतो लोष्टस्ततः संभाराः
(२,७[१६].३३) तिसृणां प्रातरशिते पुरोडाशे ह्वयन्ते
(२,८[१७].१) <भूतो भूतेषु [४.८]> इति राजानं अभिषेक्ष्यन्महानदे शान्त्युदकं करोत्यादिष्टानाम्
(२,८[१७].२) स्थालीपाकं श्रपयित्वा दक्षिणतः परिगृह्याया दर्भेषु तिष्ठन्तं अभिषिञ्चति
(२,८[१७].३) तल्पार्षभं चर्मारोहयति
(२,८[१७].४) उदपात्रं समासिञ्चेते
(२,८[१७].५) विपरिदधाने
(२,८[१७].६) सहैव नौ सुकृतं सह दुष्कृतं इति ब्रह्मा ब्रूयात्
(२,८[१७].७) यो दुष्कृतं करवत्तस्य दुष्कृतं सुकृतं नौ सहेति
(२,८[१७].८) आशयति
(२,८[१७].९) अश्वं आरोह्यापराजितां प्रतिपादयति
(२,८[१७].१०) सहस्रं ग्रामवरो दक्षिणा
(२,८[१७].११) विपरिधानान्तं एकराजेन व्याख्यातम्
(२,८[१७].१२) तल्पे दर्भेष्वभिशिञ्चति
(२,८[१७].१३) वर्षीयसि वैयाघ्रं चर्मारोहयति
(२,८[१७].१४) चत्वारो राजपुत्रास्ताल्पाः पृथक्पादेषु शयनं परामृश्य सभां प्रापयन्ति
(२,८[१७].१५) दासः पादौ प्रक्षालयति
(२,८[१७].१६) महाशूद्र उपसिञ्चति
(२,८[१७].१७) कृतसंपन्नानक्षाना तृतीयं विचिनोति
(२,८[१७].१८) वैश्यः सर्वस्वजैनं उपतिष्ठते_उत्सृजायुष्मन्निति
(२,८[१७].१९) उत्सृजामि ब्राह्मणाय_उत्सृजामि क्षत्रियाय_उत्सृजामि वैश्याय धर्मो मे जनपदे चर्यतां इति
(२,८[१७].२०) प्रतिपद्यते
(२,८[१७].२१) आशयति
(२,८[१७].२२) अश्वं आरोह्यापराजितां प्रतिपादयति
(२,८[१७].२३) सभां उदायाति
(२,८[१७].२४) मधुमिश्रं ब्राह्मणान्भोजयति
(२,८[१७].२५) रसानाशयति
(२,८[१७].२६) माहिषाण्युपयाति
(२,८[१७].२७) कुर्युर्गां इति गार्ग्यपार्थश्रवसौ नेति भागलिः
(२,८[१७].२८) <इमं इन्द्र वर्धय क्षत्रियं मे [४.२२]> इति क्षत्रियं प्रातः_प्रातरभिमन्त्रयते
(२,८[१७].२९) उक्तं समासेचनं विपरिधानम्
(२,८[१७].३०) <सविता प्रसवानां [५.२४]> इति पौरोहित्ये वत्स्यन्वैश्वलोपीः समिध आधाय
(२,८[१७].३१) <इन्द्र क्षत्रं [७.८४.२]> इति क्षत्रियं उपनयीत
(२,८[१७].३२) तदाहुर्न क्षत्रियं सावित्रीं वाचयेदिति
(२,८[१७].३३) कथं नु तं उपनयीत यन्न वाचयेद्
(२,८[१७].३४) वाचयेदेव वाचयेदेव
(Kऔश्ऽ२ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे द्वितीयोऽध्यायः समाप्तः
(३,१[१८].१) पूर्वस्य पूर्वस्यां पौर्णमास्यां अस्तमित उदकान्ते कृष्णचैलपरिहितो निरृतिकर्माणि प्रयुङ्क्ते
(३,१[१८].२) नाव्याया दक्षिणावर्ते शापेटं निखनेत्
(३,१[१८].३) अपां सूक्तैरवसिञ्चति
(३,१[१८].४) अप्सु कृष्णं जहाति
(३,१[१८].५) अहतवसन उपमुच्य_उपानहौ जीवघात्याया उदाव्रजति
(३,१[१८].६) प्रोष्य तां उत्तरस्यां सांपदं कुरुते
(३,१[१८].७) शापेटं आलिप्याप्सु निबध्य तस्मिन्नुपसमाधाय संपातवन्तं करोति
(३,१[१८].८) अश्नाति
(३,१[१८].९) आधाय कृष्णं प्रवाहयति
(३,१[१८].१०) उपमुच्य जरदुपानहौ सव्येन जरत्_छत्त्रं दक्षिणेन शालातृणाण्यादीप्य जीर्णं वीरिणं अभिन्यस्यति
(३,१[१८].११) अनावृतं आवृत्य सकृज्जुहोति
(३,१[१८].१२) सव्यं प्रहरत्युपानहौ च
(३,१[१८].१३) जीर्णे वीरिण उपसमाधाय <अयं ते योनिर्[३.२०]> इति जरत्कोष्ठाद्व्रीहीञ्शर्करामिश्रानावपति
(३,१[१८].१४) <आ नो भर [५.७]> इति धानाः
(३,१[१८].१५) युक्ताभ्यां सह कोष्ठाभ्यां तृटीयाम्
(३,१[१८].१६) कृष्णशकुनेः सव्यजङ्घायां अङ्कं अनुबध्याङ्के पुरोडाशं <प्र पतेतः [७.११५]> इति अनावृतं प्रपादयति
(३,१[१८].१७) नीलं संधाय लोहितं आछाद्य शुक्लं परिणह्य द्वितीयया_उष्णीषं अङ्केन_उपसाद्य सव्येन सहाङ्केनावाङप्सु_अपविध्यति
(३,१[१८].१८) तृतीयया छन्नं चतुर्थ्या संवीतम्
(३,१[१८].१९) पूर्वस्य चित्राकर्म
(३,१[१८].२०) कुलायशृतं [एद्. कुलाय श्-, बुत्च्फ़्. Cअलन्द्Kल्. Sछ्र्. ५८] हरितबर्हिषं अश्नाति
(३,१[१८].२१) अन्वक्ताः प्रादेशमात्रीरादधाति
(३,१[१८].२२) नाव्ययोः सांवैद्ये पश्चादग्नेर्भूमिपरिलेखे कीलालं मुखेनाश्नाति
(३,१[१८].२३) तेजोव्रतं त्रिरात्रं अश्नाति
(३,१[१८].२४) तद्भक्षः
(३,१[१८].२५) शंभुमयोभुभ्यां [१.५ + १.६]> <ब्रह्म जज्ञानं [४.१.१]> <अस्य वामस्य [९.९]> <यो रोहितो [१३.१.२५]> <उदस्य केतवो [१३.२.१]> <मूर्धाहं [१६.३.१]> <विषासहिं [१७.१.१-५]> इति सलिलैः क्षीरौदनं अश्नाति
(३,१[१८].२६) मन्थान्तानि
(३,१[१८].२७) द्वितीयेन प्रवत्स्यन्हविषां उपदधीत
(३,१[१८].२८) अथ प्रत्येत्य
(३,१[१८].२९) अथ प्रत्येत्य
(३,१[१८].३०) अथ प्रार्थयमाणः
(३,१[१८].३१) अथ प्रार्थयमाणः
(३,१[१८].३२) चत्वारो धायाः पलाशयष्टीनां भवन्ति
(३,१[१८].३३) दर्भाणां उपोलवानां चत्वारः
(३,१[१८].३४) तं व्यतिषक्तं अष्टावरं इध्मं सात्त्रिके_अग्नौ_आधायाज्येनाभिजुहुयात्
(३,१[१८].३५) धूमं नियछेत
(३,१[१८].३६) लेपं प्राश्नीयात्
(३,१[१८].३७) तं उ चेन्न विन्देदथ सत्त्रस्यायतने यज्ञायतनं इव कृत्वा
(३,१[१८].३८) समुद्र इत्याचक्षते कर्म
(३,२[१९].१) <अम्बयो यन्त्य्[१.४.१]> शंभुमयोभुभ्यां [१.५ + १.६] <ब्रह्म जज्ञानं [४.१]> <आ गावो [४.२१.१]> <एका च मे [५.१५.१]> इति गा लवणं पाययत्युपतापिनीः
(३,२[१९].२) प्रजननकामाः
(३,२[१९].३) प्रपां अवरुणद्धि
(३,२[१९].४) <सं सं स्रवन्तु [१.१५.१]> इति नाव्याभ्यां उदकं आहरतः सर्वत उपासेचम्
(३,२[१९].५) तस्मिन्मैश्रधान्यं शृतं अश्नाति
(३,२[१९].६) मन्थं वा दधिमधुमिश्रम्
(३,२[१९].७) यस्य श्रियं कामयते ततो व्रीहि_आज्यपय आहार्य क्षीरौदनं अश्नाति
(३,२[१९].८) तदलाभे हरितगोमयं आहार्य शोषयित्वा त्रिवृति गोमयपरिचये शृतं अश्नाति
(३,२[१९].९) <शेरभक [२.२४.१]> इति सामुद्रं अप्सु कर्म व्याख्यातम्
(३,२[१९].१०) अनपहतधाना लोहिताजाया द्रप्सेन संनीयाश्नाति
(३,२[१९].११) एतावदुपैति
(३,२[१९].१२) तृणानां ग्रन्थीनुद्ग्रथ्नन्नपक्रामति
(३,२[१९].१३) तानुदाव्रजन्नुदपात्रस्य_उदपात्रेणाभिप्लावयति मुखं विमार्ष्टि [नोते चोन्ज्. Sपेइजेरंउसेउं ९ २५०]
(३,२[१९].१४) <एह यन्तु पशवो [२.२६.१]> <सं वो गोष्ठेन [३.२४.१]> <प्रजावतीः [४.२१.७ । ७.७५]> <प्रजापतिर्[६.११.३]> इति गोष्ठकर्माणि
(३,२[१९].१५) गृष्टेः पीयूषं श्लेष्ममिश्रं अश्नाति
(३,२[१९].१६) गां ददाति
(३,२[१९].१७) उदपात्रं निनयति
(३,२[१९].१८) समूह्य सव्येनाधिष्ठायार्धं दक्षिणेन विक्षिपति
(३,२[१९].१९) सारूपवत्से शकृत्पिण्डान्गुग्गुलुलवणे प्रतिनीय पश्चादग्नेर्निखनति
(३,२[१९].२०) तिसृणां प्रातरश्नाति
(३,२[१९].२१) विकृते संपन्नम्
(३,२[१९].२२) <आयं अगन्[३.५.१]> <अयं प्रतिसरो [८.५.१]> <अयं मे वरणो [१०.३.१]> <अरातीयोर्[१०.६.१]> इति मन्त्रोक्तान्वासितान्बध्नाति
(३,२[१९].२३) उत्तमस्य चतुरो जातरूपशकलेनानुसूत्रं गमयित्वावभुज्य त्रैधं पर्यस्यति
(३,२[१९].२४) <एतं इध्मं [१०.६.३५]> इत्युपसमाधाय
(३,२[१९].२५) <तं इमं देवता [१०.६.२९]> इति वासितं उल्लुप्य <ब्रह्मणा तेजसा [१०.६.३०]> इति बध्नाति
(३,२[१९].२६) <उत्तमो असि [६.१५.१]> इति मन्त्रोक्तम्
(३,२[१९].२७) <अक्षितास्त [६.१४२.३]> इति यवमणिम्
(३,२[१९].२८) <प्रथमा ह व्युवास सा [३.१०]> इत्यष्टक्याया वपां सर्वेण सूक्तेन त्रिर्जुहोति
(३,२[१९].२९) समवत्तानां स्थालीपाकस्य
(३,२[१९].३०) सहहुतानाज्यमिश्रान्हुत्वा पश्चादग्नेर्वाग्यतः संविशति
(३,२[१९].३१) महाभूतानां कीर्तयन्संजिहीते
(३,३[२०].१) <सीरा युञ्जन्ति [३.१७.१]> इति युगलाङ्गलं प्रतनोति
(३,३[२०].२) दक्षिणं उष्टारं प्रथमं युनक्ति
(३,३[२०].३) <एहि पूर्णक [-]>_इत्युत्तरम्
(३,३[२०].४) कीनाशा इतरान्
(३,३[२०].५) <अश्विना फालं कल्पयतां उपावतु बृहस्पतिः । यथासद्बहुधान्यं अयक्ष्मं बहुपूरुषं [PS८.१८.६]> इति फालं अतिकर्षति
(३,३[२०].६) <इरावानसि धार्तराष्ट्रे तव मे सत्त्रे राध्यतां [-]> इति प्रतिमिमीते
(३,३[२०].७) <अपहताः प्रतिष्ठाः [-]> इत्यपूपैः प्रतिहत्य कृषति
(३,३[२०].८) सूक्तस्य पारं गत्वा प्रयछति
(३,३[२०].९) तिस्रः सीताः प्राचीर्गमयन्ति कल्याणीर्वाचो वदन्तः
(३,३[२०].१०) <सीते वन्दामहे त्वा [३.१७.८]> इत्यावर्तयित्वा_उत्तरस्मिन्सीतान्ते पुरोडाशेन_इन्द्रं यजते
(३,३[२०].११) अश्विनौ स्थालीपाकेन
(३,३[२०].१२) सीतायां संपातानानयन्ति
(३,३[२०].१३) उदपात्रे_उत्तरान्
(३,३[२०].१४) शष्पहविषां अवधाय
(३,३[२०].१५) सर्वं अनक्ति
(३,३[२०].१६) यत्र संपातानानयति ततो लोष्टं धारयन्तं पत्नी पृछत्यकृक्षत_इति
(३,३[२०].१७) अकृक्षाम_इति
(३,३[२०].१८) किं आहार्षीरिति
(३,३[२०].१९) <वित्तिं भूतिं पुष्टिं प्रजां पशूनन्नं अन्नाद्यं [च्फ़्. इ.अ. PS५.३५.१, PS१९.५३.१९? (= PSK१९.५३.१०)]> इति
(३,३[२०].२०) उत्तरतो मध्यमायां निवपति
(३,३[२०].२१) अभ्यज्य_उत्तरफालं प्रातरायोजनाय निदधाति
(३,३[२०].२२) सीताशिरःसु दर्भानास्तीर्य प्लक्ष_उदुम्बरस्य त्रींस्_त्रींश्चमसान्निदधाति
(३,३[२०].२३) रसवतो दक्षिणे शष्पवतो मध्यमे पुरोडाशवत उत्तरे
(३,३[२०].२४) दर्भान्प्रत्यवभुज्य संवपति
(३,३[२०].२५) सारूपवत्से शकृत्पिण्डान्गुग्गुलुलवणे प्रतिनीयाश्नाति
(३,३[२०].२६) अनडुत्सांपदम्
(३,४[२१].१) <पयस्वतीर्[३.२४]> इति स्फातिकरणम्
(३,४[२१].२) शान्तफलशिलाकृतिलोष्टवल्मीकराशिवापं त्रीणि कूदीप्रान्तानि मध्यमपलाशे दर्भेण परिवेष्ट्य राशिपल्येषु करोति
(३,४[२१].३) सायं भुञ्जते
(३,४[२१].४) प्रत्यावपन्ति शेषम्
(३,४[२१].५) आ भक्तयातनात्
(३,४[२१].६) अनुमन्त्रयते
(३,४[२१].७) <अयं नो नभसस्पतिः [६.७९]> इति पल्ये_अश्मानं संप्रोक्ष्यान्वृचं काशी ओप्यावापयति
(३,४[२१].८) <आ गावो [४.२१]> इति गा आयतीः प्रत्युत्तिष्ठति
(३,४[२१].९) प्रावृषि प्रथमधारस्य_इन्द्राय त्रिर्जुहोति
(३,४[२१].१०) <प्रजावतीः []> इति प्रतिष्ठमाना अनुमन्त्रयते
(३,४[२१].११) कर्कीप्रवादानां द्वादशदाम्न्यां संपातवत्यां <अयं घासो … इह वत्सां [४.३८.७च्द्]> इति मन्त्रोक्तम्
(३,४[२१].१२) <यस्ते शोकाय [५.१.३]> इति वस्त्रसांपदी
(३,४[२१].१३) तिस्रः कूदीमयीरूर्णनाभिकुलाय परिहिता अन्वक्ता आदधाति
(३,४[२१].१४) अत्यन्तेषीकामौञ्जपरिहिता [थुस्wइथ्Cअलन्द्, आZ प्. ५५, न्. ५] मधुना प्रलिप्य चिक्कशेषु पर्यस्य
(३,४[२१].१५) <उत पुत्रः [५.१.८]> इति ज्येष्ठं पुत्रं अवसाययति
(३,४[२१].१६) मितशरणः सांपदं कुरुते
(३,४[२१].१७) <अर्धं अर्धेन [५.१.९]> इत्यार्द्रपाणिरसंज्ञात्वा [सो Cअलन्द्; एद्. आर्द्रपाणी रसं ज्ञात्वा] प्रयछति
(३,४[२१].१८) शान्तशाखया प्राग्भागं अपाकृत्य
(३,४[२१].१९) प्रत्यग्नि परिचृतति
(३,४[२१].२०) तस्या अमावास्यायां तिस्रः प्रादेशमात्रीरादधाति
(३,४[२१].२१) <त्वे क्रतुं [५.२.३]> इति रसप्राशनी
(३,४[२१].२२) रसकर्माणि कुरुते
(३,४[२१].२३) <स्तुष्व वर्ष्मन्[५.२.७]> इति प्राजापत्यामावास्यायां अस्तमिते वल्मीकशिरसि दर्भावस्तीर्णे_अध्यधि दीपं धारयंस्त्रिर्जुहोति
(३,४[२१].२४) तण्डुलसंपातानानीय रसैरुपसिच्याश्नाति
(३,४[२१].२५) एवं पौर्णमास्यां आज्य_ऊतान्
(३,५[२२].१) <ऋधङ्मन्त्रो [५.१]> <तदिदास [५.२]> इति मैश्रधान्यं भृष्टपिष्टं लोहितालंकृतं रसमिश्रं अश्नाति
(३,५[२२].२) अभृष्टं प्लक्ष_उदुम्बरस्य_उत्तरतो_अग्नेस्त्रिषु चमसेषु पूर्वाह्णस्य तेजसाग्रं अन्नस्य प्राशिषं इति पूर्वाह्णे
(३,५[२२].३) मध्यन्दिनस्य तेजसा मध्यं अन्नस्य प्राशि.अं इति मध्यन्दिने
(३,५[२२].४) अपराह्णस्य तेजसा सर्वं अन्नस्य प्राशिषं इत्यपराह्णे
(३,५[२२].५) ऋतुमत्या स्त्रिया अङ्गुलिभ्यां लोहितम्
(३,५[२२].६) यत्क्षेत्रं कामयते तस्मिन्कीलालं दधिमधुमिश्रम्
(३,५[२२].७) संवत्सरं स्त्रियं अनुपेत्य शुक्त्यां रेत आनीय तण्डुलमिश्रं सप्तग्रामम्
(३,५[२२].८) द्वादशीं अमावास्या_इति क्षीरभक्षो भवत्यमावास्यायां दधिमधुभक्षस्तस्य मूत्रे_उदकदधिमधुपल्पूलनानि_आसिच्य
(३,५[२२].९) <क्रव्यादं नाडी प्र विवेशाग्निं प्रजाभाङ्गिरतो माययैतौ । आवां देवी जुषाणे घृताची इमं अन्नाद्याय प्र विशतं स्वाहा [-]> इति
(३,५[२२].१०) निशायां आग्रयणतण्डुलानुदक्यान्मधुमिश्रान्निदधात्या यवानां पङ्क्तेः
(३,५[२२].११) एवं यवानुभयान्समोप्य
(३,५[२२].१२) त्रिवृति गोमयपरिचये शृतं अश्नाति
(३,५[२२].१३) समृद्धं इति काङ्कायनः
(३,५[२२].१४) <ममाग्ने वर्चो [५.३]> इति सात्त्रिकानग्नीन्दर्भपूतीकभाङ्गाभिः परिस्तीर्य गार्हपत्यशृतं सर्वेषु संपातवन्तं गार्हपत्यदेशे_अश्नाति
(३,५[२२].१५) एवं पूर्वस्मिन्नपरयोरुपसंहृत्य
(३,५[२२].१६) एवं द्रोणकलशे रसानुक्तम्
(३,६[२३].१) <यजूंषि यज्ञे [५.२६]> इति नवशालायां सर्पिर्मधुमिश्रं अश्नाति [बुत्Cअलन्दः जुहोति]
(३,६[२३].२) <दोषो गाय [६.१]> इति द्वितीयाम्
(३,६[२३].३) युक्ताभ्यां तृतीयाम्
(३,६[२३].४) आनुमतीं चतुर्थीम्
(३,६[२३].५) शालां अङ्गुलिभ्यां संप्रोक्ष्य गृहपत्न्यासाद उपविश्य_उदपात्रं निनयति
(३,६[२३].६) <इहैव स्त [७.६०.७]> इति वाचं विसृजते
(३,६[२३].७) <ऊर्ध्वा अस्य [५.२७]> इति वार्ष्मणं औदुम्बरं मन्थप्रतिरूपं अभिजुहोति
(३,६[२३].८) असंख्याता अधिशृत्य सप्तागमशष्कुलीः
(३,६[२३].९) <त्वष्टा मे []> इति प्रातर्+विभक्ष्यमाणो [सो Cअलन्द्; एद्. विभुङ्क्ष्यमाणो]_अश्नाति
(३,६[२३].१०) ज्याजुं बद्नाति
(३,६[२३].११) दण्डं संपातवन्तं विमृज्य धारयति
(३,६[२३].१२) <वायुरेनाः [६.१४१]> इति युक्तयोश्चित्राकर्म निशायां संभारान्संपातवतः करोति
(३,६[२३].१३) अपरेद्युर्<वायुरेनाः [६.१४१]> इति शाखया_उदकधारया गाः परिक्रामति
(३,६[२३].१४) प्रथमजस्य शकलं अवधाय_औदुम्बरेणासिना <लोहितेन [६.१४१.२]> इति मन्त्रोक्तम्
(३,६[२३].१५) <यथा चक्रुर्[६.१४१.३]> इतीक्षुकाशकाण्ड्या लोहितं निर्मृज्य रसमिश्रं अश्नाति
(३,६[२३].१६) सर्वं औदुम्बरम्
(३,६[२३].१७) <यस्येदं आ [६.३३]> इत्यायोजनानां अप्ययः
(३,७[२४].१) <उच्छ्रयस्व [६.१४२]> इति बीजोपहरणम्
(३,७[२४].२) आज्यमिश्रान्यवानुर्वरायां कृष्टे फालेन_उदुह्यान्वृचं काशीन्निनयति निवपति
(३,७[२४].३) <अभि त्यं [७.१४]> इति महावकाशे_अरण्य उन्नते विमिते प्राग्द्वारप्रत्यग्द्वारेष्वप्सु संपातानानयति
(३,७[२४].४) कृष्णाजिने सोमांशून्विचिनोति
(३,७[२४].५) सोममिश्रेण संपातवन्तं अश्नाति
(३,७[२४].६) आदीप्ते संपन्नम्
(३,७[२४].७) <तां सवितः [७.१५]> इति गृष्टिदाम बध्नाति
(३,७[२४].८) <सं मा सिञ्चन्तु [७.३३]> इति सर्वोदके मैश्रधान्यम्
(३,७[२४].९) <दिव्यं सुपर्णं [७.३९]> इत्यृषभदण्डिनो वपया_इन्द्रं यजते
(३,७[२४].१०) अनुबद्धशिरःपादेन गोशालां चर्मणावछाद्यावदानकृतं ब्राह्मणान्भोजयति
(३,७[२४].११) प्रोष्य समिध आदाय_ <ऊर्जं बिभ्रद्[७.६०]> इति गृहसंकाशे जपति
(३,७[२४].१२) सव्येन समिधो दक्षिणेन शालावलीकं संस्तभ्य जपति
(३,७[२४].१३) अतिव्रज्य समिध आधाय <सुमङ्गलि प्रजावति सुशीमे [सो Cअलन्द्; एद्. सुसीमे] _अहं वां गृहपतिर्जीव्यासम्> इति स्थूणे गृह्णात्युपतिष्ठते
(३,७[२४].१४) <यद्वदामि [१२.१.५८]> इति मन्त्रोक्तम्
(३,७[२४].१५) गृहपत्न्यासादे_उपविश्य_उदपात्रं निनयति
(३,७[२४].१६) <इहैव स्त [७.६०.७]> इति प्रवत्स्यन्नवेक्षते
(३,७[२४].१७) <सूयवसाद्[७.७३.११]> सूयवसे पशून्निष्ठापयति
(३,७[२४].१८) दूर्वाग्रैरञ्जलौ_अप आनीय दर्शं दार्शीभिरुपतिष्ठते
(३,७[२४].१९) <इन्द्रस्य कुक्षिर्[७.१११]> <साहस्रस्[९.४]> इत्यृषभं संपातवन्तं अतिसृजति
(३,७[२४].२०) रेतोधायै त्वातिसृजामि वयोधायै त्वातिसृजामि यूथत्वायै त्वातिसृजामि गणत्वायै त्वातिसृजामि सहस्रपोषायै त्वातिसृजाम्यपरिमितपोस्.आयै त्वातिसृजामि
(३,७[२४].२१) <एतं वो युवानं [९.४.२४]> इति पुराणं प्रवृत्य नवं उत्सृजते संप्रोक्षति
(३,७[२४].२२) उत्तरेण पुष्टिकाम ऋषभेण_इन्द्रं यजते
(३,७[२४].२३) संपत्कामः श्वेतेन पौर्णमास्याम्
(३,७[२४].२४) <सत्यं बृहद्[१२.१]> इत्याग्रहायण्याम्
(३,७[२४].२५) पश्चादग्नेर्दर्भेषु खदायां सर्वहुतम्
(३,७[२४].२६) द्वितीयं संपातवन्तं अश्नाति
(३,७[२४].२७) तृतीयस्यादितिः सप्तभिर्<भूमे मातर्[१२.१.६३]> इति त्रिर्जुहोति
(३,७[२४].२८) पश्चादग्नेर्दर्भेषु कशिपु_आस्तीर्य <विमृग्वरीं []> इत्युपविशति
(३,७[२४].२९) <यास्ते शिवास्[९.२.२५]> इति संविशति
(३,७[२४].३०) <यच्छयानः []> इति पर्यावर्तते
(३,७[२४].३१) नवभिः <शन्तिवा [१२.१.५९]> इति दशम्या_ <उदायुषा [३.३१.१०]> इत्युपोत्तिष्ठति
(३,७[२४].३२) <उद्वयं [७.५३.७]> इत्युत्क्रामति
(३,७[२४].३३) <उदीराणा [१२.१.२८]> इति त्रीणि पदानि प्राङ्वा_उदङ्वा बाह्येन_उपनिष्क्रम्य <यावत्ते [१२.१.३३]> इति वीक्षते
(३,७[२४].३४) उन्नताच्च
(३,७[२४].३५) पुरस्तादग्नेः सीरं युक्तं उदपात्रेण संपातवतावसिञ्चति
(३,७[२४].३६) आयोजनानां अप्ययः
(३,७[२४].३७) <यस्यां सदोहविर्धाने [१२.१.३८-४०]> इति जुहोति वरो म आगमिष्यतीति
(३,७[२४].३८) <यस्यां अन्नं [१२.१.४२]> इत्युपतिष्ठते
(३,७[२४].३९) <निधिं बिभ्रति [१२.१.४४-४५]> इति मणिं हिरण्यकामः
(३,७[२४].४०) एवं वित्त्वा
(३,७[२४].४१) <यस्यां कृष्णं [१२.१.५२]> इति वार्षकृतस्याचमति शिरस्यानयते
(३,७[२४].४२) <यं त्वा पृषती रथे [१३.१.२१-२६]> इति द्यौः पृषत्यादित्यो रोहितः
(३,७[२४].४३) पृषतीं गां ददाति
(३,७[२४].४४) पृषत्या क्षीरौदनं सर्वहुतम्
(३,७[२४].४५) पुष्टिकर्मणां उपधानोपस्थानम्
(३,७[२४].४६) सलिलैः सर्वकामः सलिलैः सर्वकामः
(Kऔश्ऽ३ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे तृतीयोऽध्यायः समाप्तः
(४,१[२५].१) अथ भैषज्यानि
(४,१[२५].२) लिङ्ग्युपतापो +भिषज्यं [च्फ़्. Cअलन्द्, आZ, प्. ६७, न्.२ बुतल्सो Sपेइजेरंउसेउं ९ २५०]
(४,१[२५].३) वचनादन्यत्
(४,१[२५].४) पूर्वस्य_उदपात्रेण संपातवताङ्क्ते
(४,१[२५].५) वलीर्विमार्ष्टि
(४,१[२५].६) <विद्मा शरस्य [१.२.१]>_<अदो यद्[२.३.१ एत्च्.]> इति मुञ्जशिरो रज्ज्वा बध्नाति
(४,१[२५].७) आकृतिलोष्टवल्मीकौ परिलिख्य पाययति
(४,१[२५].८) सर्पिषालिम्पति
(४,१[२५].९) अपिधमति
(४,१[२५].१०) <विद्मा शरस्य [१.३.१]> _इति प्रमेहणं बध्नाति
(४,१[२५].११) आखुकिरिपूतीकमथितजरत्प्रमन्दसाव्रस्कान्पाययति
(४,१[२५].१२) उत्तमाभ्यां आस्थापयति
(४,१[२५].१३) यानं आरोहयति
(४,१[२५].१४) इषुं विसृजति
(४,१[२५].१५) वस्तिं विष्यति
(४,१[२५].१६) वर्तिं बिभेत्ति
(४,१[२५].१७) एकविंशतिं यवान्दोहन्यां अद्भिरानीय द्रुघ्नीं जघने संस्तभ्य फलतो_अवसिञ्चति
(४,१[२५].१८) आलबिसोलं फाण्टं पाययति
(४,१[२५].१९) उदावर्तिने च
(४,१[२५].२०) <अम्बयो यन्त्य्[१.४.१]>_<वायोः पूतः []> इति च शान्ताः
(४,१[२५].२१) उत्तरस्य ससोमाः
(४,१[२५].२२) चातनानां अपनोदनेन व्याख्यातम्
(४,१[२५].२३) त्रपुसमुसलखदिरतार्ष्टाघानां आदधाति
(४,१[२५].२४) अयुग्मान्खादिरान्_शङ्कून्<अक्ष्यौ नि विध्य [५.२९.४]> इति पश्चादग्नेः समंभूमि निहन्ति
(४,१[२५].२५) एवं आयसलोहान्
(४,१[२५].२६) तप्तशर्कराभिः शयनं राशिपल्याणि परिकिरति
(४,१[२५].२७) अमावास्यायां सकृद्गृहीतान्यवाननपहतानप्रतीहारपिष्टानाभिचारिकं परिस्तीर्य तार्ष्टाघेध्म आवपति
(४,१[२५].२८) य आगछेत्तं ब्रूयात्_शणशुल्बेन जिह्वां निर्मृजानः शालायाः प्रस्कन्द_इति
(४,१[२५].२९) तथाकुर्वन्ननाद्ये ह्नुवाने
(४,१[२५].३०) वीरिणतूलमिश्रं इङ्गिडं प्रपुटे जुहोति
(४,१[२५].३१) इध्माबर्हिः शालायां आसजति
(४,१[२५].३२) अपरेद्युर्विकृते पिशाचतो रुजति
(४,१[२५].३३) उक्तो होमः
(४,१[२५].३४) वैश्रवणायाञ्जलिं कृत्वा जपन्नाचमयति_अभ्युक्षति
(४,१[२५].३५) निशि_उल्मुके संकर्षति
(४,१[२५].३६) स्वस्त्याद्यं कुरुते
(४,१[२५].३७) <अयं देवानां [१.१०.१]> इति_एकविंशत्या दर्भपिञ्जूलीभिर्वलीकैः सार्धं अधिशिरो_अवसिञ्चति
(४,२[२६].१) <जरायुजः [१.१२.१]> इति मेदो मधु सर्पिस्तैलं पाययति
(४,२[२६].२) मौञ्जप्रश्नेन शिरसि_अपिहितः सव्येन तित-उनि पूल्यानि धारयमाणो दक्षिणेनावकिरन्व्रजति
(४,२[२६].३) सव्येन तित-उप्रश्नौ दक्षिणेन ज्यां द्रुघ्नीम्
(४,२[२६].४) प्रैषकृदग्रतः
(४,२[२६].५) यत्र_एनं व्याधिर्गृह्णाति तत्र तित-उप्रश्नौ निदधाति
(४,२[२६].६) ज्यां च
(४,२[२६].७) आव्रजनम्
(४,२[२६].८) घृतं नस्तः
(४,२[२६].९) पञ्चपर्वणा ललाटं संस्तभ्य जपति_ <अमूर्या [१.१७.१]> इति
(४,२[२६].१०) पञ्चपर्वणा पांसुसिकताभिः परिकिरति
(४,२[२६].११) अर्मकपालिकां बध्नाति
(४,२[२६].१२) पाययति
(४,२[२६].१३) चतुर्भिर्दूर्वाग्रैर्दधिपललं पाययति
(४,२[२६].१४) <अनु सूर्यं [१.२२.१]> इति मन्त्रोक्तस्य लोममिश्रं आचमयति
(४,२[२६].१५) पृष्ठे चानीय
(४,२[२६].१६) शङ्कुधानं चर्मणि_आसीनाय दुग्धे संपातवन्तं बध्नाति
(४,२[२६].१७) पाययति
(४,२[२६].१८) हरिद्रौदनभुक्तं उच्छिष्टानुच्छिष्टेना प्रपदात्प्रलिप्य मन्त्रोक्तानधस्तल्पे हरितसूत्रेण सव्यजङ्घासु बद्ध्वावस्नापयति
(४,२[२६].१९) प्रपादयति
(४,२[२६].२०) वदत उपस्थापयति
(४,२[२६].२१) क्रोडलोमानि जतुना संदिह्य जातरूपेणापिधाप्य
(४,२[२६].२२) <नक्तंजाता [१.२३.१]> <सुपर्णो जातः [१.२४.१]> इति मन्त्रोक्तं शकृदा(सी Cअलन्द्, Kल्.Sछ्र्., प्. ५९)_आलोहितं प्रघृष्यालिम्पति
(४,२[२६].२३) पलितानि_आछिद्य
(४,२[२६].२४) मारुतानि_अपिहितः
(४,२[२६].२५) <यदग्निर्[१.२५.१]> इति परशुं जपन्_तापयति क्वाथयति_अवसिञ्चति
(४,२[२६].२६) <उप प्रागाद्[१.२८.१]> इति_उद्विजमानस्य शुक्लप्रसूनस्य वीरिणस्य चतसृणां इषीकाणां उभयतः प्रत्युष्टं बध्नाति
(४,२[२६].२७) त्रिविदग्धं काण्डमणिम्
(४,२[२६].२८) उल्मुके स्वस्त्याद्यम्
(४,२[२६].२९) मातृनाम्नोः सर्वसुरभिचूर्णानि_अन्वक्तानि हुत्वा शेषेण प्रलिम्पति
(४,२[२६].३०) चतुष्पथे च शिरसि दर्भेण्ड्वे_अङ्गारकपाले_अन्वक्तानि
(४,२[२६].३१) तित-उनि प्रतीपं गाहमानो वपतीतरो_अवसिञ्चति पश्चात्
(४,२[२६].३२) आमपात्रे_ओप्यासिच्य मौञ्जे त्रिपादे वयोनिवेशने प्रबध्नाति
(४,२[२६].३३) <अघद्विष्टा [२.७.१]> <शं नो देवी [२.२५.१]> <वरणो [६.८५.१]>_<पिप्पली [६.१०९.१]> <विद्रधस्य [६.१२७.१]> <या बभ्रवो [८.७.१]>_इति
(४,२[२६].३४) उपोत्तमेन पलाशस्य चतुरङ्गुलेनालिम्पति
(४,२[२६].३५) प्रथमेन मन्त्रोक्तं बध्नाति
(४,२[२६].३६) द्वितीयेन मन्त्रोक्तस्य संपातवतानुलिम्पति [नोते Sपेइजेरंउसेउं ९ २५०]
(४,२[२६].३७) तृतीयेन मन्त्रोक्तं बध्नाति
(४,२[२६].३८) चतुर्थेनाशयति
(४,२[२६].३९) पञ्चमेन वरुणगृहीतस्य मूर्ध्नि संपातानानयति
(४,२[२६].४०) उत्तमेन शाकलम्
(४,२[२६].४१) <उदगातां [२.८.१]>_इति_आप्लावयति बहिः
(४,२[२६].४२) <अपेयं [२.८.२]>_इति व्युछन्त्याम्
(४,२[२६].४३) <बभ्रोर्[२.८.३]> इति मन्त्रोक्तं आकृतिलोष्टवल्मीकौ परिलिख्य जीवकोषण्यां उत्सीव्य बध्नाति
(४,३[२७].१) <नमस्ते लाङ्गलेभ्यो [२.८.४]>_इति सीरयोगं अधिशिरो_अवसिञ्चति
(४,३[२७].२) <नमः सनिस्रसाक्षेभ्यो [२.८.५]>_इति शून्यशालायां अप्सु संपातानानयति
(४,३[२७].३) उत्तरं जरत्खाते सशालातृणे
(४,३[२७].४) तस्मिन्नाचमयति आप्लावयति
(४,३[२७].५) <दशवृक्ष [२.९.१]>_इति शाकलः
(४,३[२७].६) दश सुहृदो जपन्तो_अभिमृशन्ति
(४,३[२७].७) <क्षेत्रियात्त्वा [२.१०.१]>_इति चतुष्पथे काम्पीलशकलैः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति
(४,३[२७].८) अवसिञ्चति
(४,३[२७].९) <पार्थिवस्य [२.२९.१]>_इति_उद्यति पृष्ठसंहितौ_उपवेशयति
(४,३[२७].१०) प्राङ्मुखं व्याधितं प्रत्यङ्मुखं अव्याधितं शाखासूपवेश्य वैतसे चमसे_उपमन्थनीभ्यां तृष्णागृहीतस्य शिरसि मन्थं उपमथ्यातृषिताय प्रयछति
(४,३[२७].११) तस्मिन्_तृणां संनयति
(४,३[२७].१२) उद्धृतं उदकं पाययति
(४,३[२७].१३) <सवासिनौ [२.२९.६च्]>_इति मन्त्रोक्तम्
(४,३[२७].१४) <इन्द्रस्य या मही [२.३१.१]>_इति खल्वङ्गानलाण्डून्हननान्घृतमिश्रान्_जुहोति
(४,३[२७].१५) बालान्कल्माषे काण्डे सव्यं परिवेष्ट्य संभिनत्ति
(४,३[२७].१६) प्रतपति
(४,३[२७].१७) आदधाति
(४,३[२७].१८) सव्येन दक्षिणामुखः पांसूनुपमथ्य परिकिरति
(४,३[२७].१९) संमृद्नाति
(४,३[२७].२०) आदधाति
(४,३[२७].२१) <उद्यन्नादित्यः [२.३२.१]>_इति_उद्यति गोनाम_इति_आहासौ_इति
(४,३[२७].२२) सूक्तान्ते ते हता इति
(४,३[२७].२३) दर्भैरभ्यस्यति
(४,३[२७].२४) मध्यन्दिने च
(४,३[२७].२५) प्रतीचीं अपराह्णे
(४,३[२७].२६) बालस्तुकां आछिद्य खल्वादीनि
(४,३[२७].२७) <अक्षीभ्यां ते [२.३३.१]>_इति वीबर्हम्
(४,३[२७].२८) उदपात्रेण संपातवतावसिञ्चति
(४,३[२७].२९) <हरिणस्य [३.७.१]>_इति बन्धनपायनाचमनशङ्कुधानज्वालेनावनक्षत्रे_अवसिञ्चति
(४,३[२७].३०) अमितमात्रायाः सकृद्गृहीतान्यवानावपति
(४,३[२७].३१) भक्तं प्रयछति
(४,३[२७].३२) <मुञ्चामि त्वा [३.११.१]>_इति ग्राम्ये पूतिशफरीभिरोदनम्
(४,३[२७].३३) अरण्ये तिलशणगोमयशान्ताज्वालेनावनक्षत्रे_अवसिञ्चति
(४,३[२७].३४) मृगारैर्मुञ्च_इति_आप्लावयति
(४,४[२८].१) <ब्राह्मणो जज्ञे [४.६.१]>_इति तक्षकायाञ्जलिं कृत्वा जपन्नाचमयति_अभ्युक्स्.अति
(४,४[२८].२) कृमुकशकलं संक्षुद्य दूर्शजरदजिनावकरज्वालेन
(४,४[२८].३) संपातवति_उदपात्रे_ऊर्ध्वफलाभ्यां दिग्धाभ्यां मन्थं उपमथ्य रयिधारणपिण्डानन्वृचं प्रकीर्य छर्दयते
(४,४[२८].४) हरिद्रां सर्पिषि पाययति
(४,४[२८].५) <रोहण्य्[४.१२.१]>_इति_अवनक्षत्रे_अवसिञ्चति
(४,४[२८].६) पृषातकं पाययति_अभ्यनक्ति
(४,४[२८].७) <आ पश्यति [४.२०.१]>_इति सदंपुष्पामणिं बध्नाति
(४,४[२८].८) <भवाशर्वौ [४.२८.१]>_इति सप्त काम्पीलपुटानपां पूर्णान्संपातवतः कृत्वा दक्षिणेनावसिच्य पश्चादपविध्यति
(४,४[२८].९) <त्वया पूर्णं [४.३७.१]> इति कोशेन शमीचूर्णानि भक्ते
(४,४[२८].१०) अलंकारे
(४,४[२८].११) शालां परितनोति
(४,४[२८].१२) <उतामृतासुर्[५.१.७]> इति_अमतिगृहीतस्य भक्तं प्रयछति
(४,४[२८].१३) कुष्ठलिङ्गाभिर्नवनीतमिश्रेणाप्रतीहारं प्रलिम्पति
(४,४[२८].१४) लाक्षालिङ्गाभिर्दुग्धे फाण्टान्पाययति
(४,४[२८].१५) <ब्रह्म जज्ञानं [५.६.१]> इति सूतिकारिष्टकौ प्रपादयति
(४,४[२८].१६) मन्थाचमन_उपस्थानं आदित्यस्य
(४,४[२८].१७) <दिवे स्वाहा [५.९.१]>_<इमं यवं [६.९१.१]> इति चतुर उदपात्रे संपातानानयति
(४,४[२८].१८) द्वौ पृथिव्याम्
(४,४[२८].१९) तौ प्रत्याहृत्याप्लावयति
(४,४[२८].२०) सयवे च_उत्तरेण यवं बध्नाति
(४,५[२९].१) <ददिर्हि [५.१३.१]>_इति तक्षकाय_इति_उक्तम्
(४,५[२९].२) द्वितीयया ग्रहणी
(४,५[२९].३) सव्यं परिक्रामति
(४,५[२९].४) शिखासिचि स्तम्बानुद्ग्रथ्नाति
(४,५[२९].५) तृतीयया प्रसर्जनी
(४,५[२९].६) चतुर्थ्या दक्षिणं <अपेह्य्[७.८८]>_इति दंश्म तृणैः प्रकर्ष्याहिं अभिनिरस्यति
(४,५[२९].७) यतो दष्टः
(४,५[२९].८) पञ्चम्या वलीकपललज्वालेन
(४,५[२९].९) षष्ठ्यार्त्नीज्यापाशेन
(४,५[२९].१०) द्वाभ्यां मधूद्वापान्पाययति
(४,५[२९].११) नवम्या श्वावित्पुरीषम्
(४,५[२९].१२) त्रिःशुक्लया मांसं प्राशयति
(४,५[२९].१३) दशम्यालाबुनाचमयति
(४,५[२९].१४) एकादश्या नाभिं बध्नाति
(४,५[२९].१५) मधुलावृषलिङ्गाभिः खलतुलपर्णीं संक्षुद्य मधुमन्थे पाययति
(४,५[२९].१६) उत्तराभिर्भुङ्क्ते
(४,५[२९].१७) द्वारं सृजति
(४,५[२९].१८) <अग्निस्तक्मानं [५.२२.१]> इति लाजान्पाययति
(४,५[२९].१९) दावे लोहितपात्रेण मूर्ध्नि संपातानानयति
(४,५[२९].२०) <ओते मे [५.२३.१]>_इति करीरमूलं काण्डेन_एकदेशम्
(४,५[२९].२१) ग्रामात्पांसून्
(४,५[२९].२२) पश्चादग्नेर्मातुरुपस्थे मुसलबुध्नेन नवनीतान्वक्तेन त्रिः प्रतीहारं तालूनि तापयति
(४,५[२९].२३) शिग्रुभिर्नवनीतमिश्रैः प्रदेग्धि
(४,५[२९].२४) एकविंशतिं उशीराणि <भिनद्म्य्[५.२३.१३च्]>_इति मन्त्रोक्तम्
(४,५[२९].२५) उशीराणि प्रयछति
(४,५[२९].२६) एकविंशत्या सहाप्लावयति
(४,५[२९].२७) <आ यं विशन्ति [६.२.२]>_इति वयोनिवेशनशृतं क्षीरौदनं अश्नाति
(४,५[२९].२८) <परि द्यां इव [६.१२.१]>_इति मधुशीभं पाययति
(४,५[२९].२९) जपन्_च
(४,५[२९].३०) <अस्थिस्रंसं [६.१४.१]>_इति शकलेनाप्सु_इटे संपातवतावसिञ्चति
(४,६[३०].१) <आबयो [६.१६.१]> इति सार्षपं तैलसंपातं बध्नाति
(४,६[३०].२) काण्डं प्रलिप्य
(४,६[३०].३) पृक्तं शाकं प्रयछति
(४,६[३०].४) चत्वारि शाकफलानि प्रयछति
(४,६[३०].५) क्षीरलेहं आङ्क्ते
(४,६[३०].६) अश्नाति
(४,६[३०].७) <अग्नेरिव [६.२०.१]>_इति_उक्तं दावे
(४,६[३०].८) <इमा यस्तिस्रः [६.२१.१]>_इति वृक्षभूमौ जाताज्वालेनावसिञ्चति
(४,६[३०].९) शीर्षफाण्टाक्षैः
(४,६[३०].१०) निकटाभ्याम्
(४,६[३०].११) <कृष्णं नियानं [६.२२.१]>_इति_ओषध्याभिश्चोतयते
(४,६[३०].१२) मारुतानां अप्ययः
(४,६[३०].१३) <हिमवतः [६.२४.१]>_इति +स्यन्दमाना [एद्.ः स्यन्दमानाद्; Cअलन्द्, Kल्. Sछ्र्., प्. ५९] अन्वीपं आहार्य वलीकैः
(४,६[३०].१४) <पञ्च च या [६.२५.१]>_इति पञ्च पञ्चाशतं परशुपर्णान्काष्ठैरादीपयति
(४,६[३०].१५) कपाले प्रशृतं काष्ठेनालिम्पति
(४,६[३०].१६) किंस्त्यश्वजाम्बीलोदकरक्षिकामशकादीभ्यां दंशयति
(४,६[३०].१७) निश्य्<अव मा पाप्मन्[६.२६.१]>_इति तित-उनि पूल्यानि_अवसिच्यापविध्य
(४,६[३०].१८) अपरेद्युः सहस्राक्षायाप्सु बलीन्_त्रीन्पुरोडाशसंवर्तान्_चतुष्पथे_अवक्षिप्यावकिरति
(४,७[३१].१) <यस्ते मदो [६.३०.२]>_इति शमीलूनपापलक्षणयोः शमीशम्याकेनाभ्युद्य वापयति
(४,७[३१].२) अधिशिरः
(४,७[३१].३) <अन्तर्दावे [६.३२.१]>_इति समन्तं अग्नेः कर्ष्वां उष्णपूर्णायां जपन्_त्रिः परिक्रम्य पुरोडाशं जुहोति
(४,७[३१].४) <प्राग्नये [६.३४.१]> <प्रेतो [७.११४.२]>_उपदधीत
(४,७[३१].५) वैश्वानरीभ्यां पायनानि
(४,७[३१].६) <अस्थाद्द्यौर्[६.४४.१ ।६.७७.१(?)]> इत्यपवातायाः स्वयंस्रस्तेन गोशृङ्गेण संपातवता जपन्
(४,७[३१].७) <यां ते रुद्र [६.९०.१]> इति शूलिने शूलम्
(४,७[३१].८) <उत्सूर्यो [६.५२.१]>_इति शमीबिम्बशीर्णपर्ण्यौ_अधि (ओरः -शीर्णपर्ण्यावधि)
(४,७[३१].९) <द्यौश्च म [६.५३.१]> इत्यभ्यज्यावमार्ष्टि
(४,७[३१].१०) स्थूणायां निकर्षति
(४,७[३१].११) <इदं इद्वा [६.५७.१]> इत्यक्षतं मूत्रफेनेनाभ्युद्य
(४,७[३१].१२) प्रक्षिपति
(४,७[३१].१३) प्रक्षालयति
(४,७[३१].१४) दन्तरजसावदेग्धि
(४,७[३१].१५) स्तम्बरजसा
(४,७[३१].१६) <अपचितः [६.८३.१]>_<आ सुस्रसः [७.७६.१]>_इति किंस्त्यादीनि
(४,७[३१].१७) लोहितलवणं संक्षुद्याभिनिष्ठीवति
(४,७[३१].१८) <अन्तरिक्षेण [६.८०.१]>_इति पक्षहतं मन्त्रोक्तं चङ्क्रमया
(४,७[३१].१९) कीटेन धूपयति
(४,७[३१].२०) <ग्लौर्[६.८३.३च्]> इत्यक्षतेन
(४,७[३१].२१) <वीहि स्वां [६.८३.४]> इत्यज्ञातारुः शान्त्युदकेन संप्रोक्ष्य मनसा संपातवता
(४,७[३१].२२) <या ओषधयः [६.९६.१]>_इति मन्त्रोक्तस्य_ओषधीभिर्धूपयति
(४,७[३१].२३) मधूदश्वित्पाययति
(४,७[३१].२४) क्षीरोदश्वित्
(४,७[३१].२५) उभयं च
(४,७[३१].२६) <देवा अदुः [६.१००.१]>_इति वल्मीकेन बन्धनपायनाचमनप्रदेहनं उष्णेण
(४,७[३१].२७) <यथा मनो [६.१०५.१]>_<अव दिवस्[७.१०७.१]>_इत्यरिष्टेन
(४,७[३१].२८) <देवी देव्यां [६.१३६.१]>_<यां जमदग्निर्[६.१३७.१]> इति मन्त्रोक्ताफलं जीव्यलाकाभ्यां अमावास्यायां कृष्णवसनः कृष्णभक्षः पुरा काकसंपातादवनक्षत्रे_अवसिञ्चति
(४,८[३२].१) <यस्ते स्तनः [७.१०.१]>_इति जम्भगृहीताय स्तनं प्रयछति
(४,८[३२].२) प्रियङ्गुतण्डुलानभ्यवदुग्धान्पाययति
(४,८[३२].३) <अग्नाविष्णू [७.२९.१]> <सोमारुद्रा [७.४२.१]> <सिनीवालि [७.४६.१]> <वि ते मुञ्चामि [७.७८.१]> <शुम्भनी [७.११२.१]> इति मौञ्जैः पर्वसु बद्ध्वा पिञ्जुलीभिराप्लावयति
(४,८[३२].४) अवसिञ्चति
(४,८[३२].५) <तिरश्चिराजेर्[७.५६.१]> इति मन्त्रोक्तम्
(४,८[३२].६) आकृतिलोष्टवल्मीकौ परिलिख्य
(४,८[३२].७) पायनानि
(४,८[३२].८) <अपचितां [७.७४.१]>_इति वैणवेन दार्भ्यूषेण कृष्णोर्णाज्येन कालबुन्दै स्तुकाग्रैरिति मन्त्रोक्तम्
(४,८[३२].९) चतुर्थ्याभिनिधायाभिविध्यति
(४,८[३२].१०) ज्यास्तुकाज्वालेन
(४,८[३२].११) <यः कीकसाः [७.७६.३]>_इति पिशीलवीणातन्त्रीं बध्नाति
(४,८[३२].१२) तन्त्र्या क्षितिकां
(४,८[३२].१३) वीरिणवध्रीं स्वयंम्लानं त्रिः समस्य
(४,८[३२].१४) <अप्सु ते [७.८३.१]>_इति वहन्त्योर्मध्ये विमिते पिञ्जूलीभिराप्लावयति
(४,८[३२].१५) अवसिञ्चति
(४,८[३२].१६) उष्णाः संपातवतीरसंपाताः
(४,८[३२].१७) <नमो रूराय [७.११६.१]>_इति शकुनीनिवेषीकाञ्जिमण्डूकं नीललोहिताभ्यां सूत्राभ्यां सकक्षं बद्ध्वा
(४,८[३२].१८) <शीर्षक्तिं [९.८.१]>_इत्यभिमृशति
(४,८[३२].१९) उत्तमाभ्यां आदित्यं उपतिष्ठते
(४,८[३२].२०) <इन्द्रस्य प्रथमो [१०.४.१]>_इति तक्षकाय_इत्युक्तम्
(४,८[३२].२१) पैद्वं प्रकर्ष्य दक्षिणेनाङ्गुष्ठेन दक्षिणस्यां नस्तः
(४,८[३२].२२) अहिभये सिचि_अवगूहयति
(४,८[३२].२३) <अङ्गादङ्गात्[१०.४.२५]>_इत्या प्रपदात्
(४,८[३२].२४) दंश्मोत्तमया निताप्याहिं अभिनिरस्यति
(४,८[३२].२५) यतो दष्टः
(४,८[३२].२६) ओषधिवनस्पतीनां अनूक्तानि_अप्रतिषिद्धानि भैषज्यानाम्
(४,८[३२].२७) अंहोलिङ्गाभिः
(४,८[३२].२८) पूर्वस्य पुत्रकामावतोकयोरुदकान्ते शान्ता अधिशिरो_अवसिञ्चति
(४,८[३२].२९) आव्रजितायै पुरोडाशप्रमन्दालंकारान्संपातवतः प्रयछति
(४,९[३३].१) <वषट्ते पूषन्न्[१.११.१]> इति चतुर उदपात्रे संपातानानीय चतुरो मुञ्जान्मूर्ध्नि विबृहति प्राचः
(४,९[३३].२) प्रतीचीरिषीकाः
(४,९[३३].३) छिद्यमानासु संशयः
(४,९[३३].४) उष्णेनाप्लावयति दक्षिणात्केशस्तुकात्
(४,९[३३].५) शालान्ग्रन्थीन्विचृतति
(४,९[३३].६) उभयतः पाशं योक्त्रं आबध्नाति
(४,९[३३].७) <यदि सोमस्यासि राज्ञः सोमात्त्वा राज्ञोऽधिक्रीणामि यदि वरुणस्यासि राज्ञो वरुणात्त्वा राज्ञोऽधिक्रीणामि [च्फ़्. ङोभ्ङ्ऽ२.६.६>_इत्येकविंशत्या यवैः स्रजं परिकिरति
(४,९[३३].८) <अन्या वो अन्यां अवत्वन्यान्यस्या उपावत सध्रीचीः सव्रता भूत्वास्या अवत वीर्यं [PS१.६५.४]> इति संनयति
(४,९[३३].९) <मा ते रिषन्खनिता यस्मै च त्वा खनामसि । द्विपाच्चतुष्पादस्माकं मा रिषद्देव्योषधे । । [PS१.६५.३]> <स्रजो नामासि> <प्रजापतिष्ट्वां अखनदात्मने शल्यस्रंसनं । तां त्वा वयं खनामस्यमुष्मै त्वा शल्यस्रंसनं [-]> इत्यस्तमिते छत्त्रेण वान्तर्धाय [एद्. चान्तर्-, सी Cअलन्द्, Kल्. Sछ्र्. प्. ७०] फालेन खनति
(४,९[३३].१०) <अत्र तव राध्यतां [-]> इत्यग्रं अवदधाति
(४,९[३३].११) <इह मम [-]>_इति मूलं उपयछति
(४,९[३३].१२) एकसरे_अनुपलीढे कुमारः
(४,९[३३].१३) दर्भेण परिवेष्ट्य केशेषूपचृतति
(४,९[३३].१४) एवं ह विबृहशाकवृषे
(४,९[३३].१५) अवपन्ने जरायुणि_उपोद्धरन्ति
(४,९[३३].१६) स्रजेन_ओषधिखननं व्याख्यातम्
(४,९[३३].१७) चत्वारि_उमाफलानि पाणौ_अद्भिः श्चोतयते
(४,९[३३].१८) संवर्तमानेषु कुमारः
(४,९[३३].१९) ब्राह्मणायनो_अङ्गानि_अभिमृशति
(४,९[३३].२०) पुंनामधेये कुमारः
(४,१०[३४].१) <इदं जनासो [१.३२.१]>_इत्यस्यै शिंशपाशाखासूदकान्ते शान्ता अधिशिरो_अवसिञ्चति
(४,१०[३४].२) आव्रजितायै
(४,१०[३४].३) <निस्सालां [२.१४.१]> इत्यवतोकायै कृष्णवसनायै त्रिषु विमितेषु प्राग्द्वारप्रत्यग्द्वारेषु_अप्सु संपातानानयति
(४,१०[३४].४) पलाशे सीसेषूत्तरान्
(४,१०[३४].५) सीसानि_अधिष्ठाप्याप्लावयति
(४,१०[३४].६) निधाय कृष्णं व्रजति
(४,१०[३४].७) आदीप्य ब्रह्मा
(४,१०[३४].८) एवं पूर्वयोः पृथक्संभार्ये
(४,१०[३४].९) शाखासूक्तम्
(४,१०[३४].१०) पश्चादग्नेरभितः काण्डे इषीके निधायाध्यधि धायिने औदुम्बरीराधापयति
(४,१०[३४].११) उत्तमाव्रजितायै
(४,१०[३४].१२) पतिवेदनानि
(४,१०[३४].१३) <आ नो अग्ने [२.३६.१]>_इत्यागमकृशरं आशयति
(४,१०[३४].१४) मृगाखराद्वेद्यां मन्त्रोक्तानि संपातवन्ति द्वारे प्रयछति
(४,१०[३४].१५) उदकंसे व्रीहियवौ जाम्यै निशि हुत्वा दक्षिणेन प्रक्रामति
(४,१०[३४].१६) पश्चादग्नेः प्रक्षाल्य संधाव्य संपातवतीं <भगस्य नावं [२.३६.५]> इति मन्त्रोक्तम्
(४,१०[३४].१७) सप्तदाम्न्यां संपातवत्यां वत्सान्प्रत्यन्तान्+प्रचृतन्ती +वहति [एद्.ः प्रचृतन्तो वहन्ति; Cअलन्द्, आZ, प्. ११३, न्. ११]
(४,१०[३४].१८) अहतेन संपातवता ऋषभ अभ्यस्यति
(४,१०[३४].१९) उदर्दयति यां दिशम्
(४,१०[३४].२०) जाम्यै <प्र यदेते [५.१.४]>_इत्यागमकृशरम्
(४,१०[३४].२१) <इमा ब्रह्म [५.२.८]>_इति स्वस्रे
(४,१०[३४].२२) <अयं आ यात्य्[६.६०.१]>_इति पुरा काकसंपातादर्यम्णे जुहोति
(४,१०[३४].२३) अन्तःस्राक्तिषु बलीन्हरन्ति
(४,१०[३४].२४) आपतन्ति यतः
(४,११[३५].१) पुंसवनानि
(४,११[३५].२) रज-उद्वासायाः पुंनक्षत्रे
(४,११[३५].३) <येन वेहद्[३.२३.१]> इति बाणं मूर्ध्नि विबृहति बध्नाति
(४,११[३५].४) फालचमसे सरूपवत्साया दुद्घे व्रीहियवौ_अवधाय मूर्छयित्वाध्यण्डे बृहतीपलाशविदर्यौ वा प्रतिनीय पैद्वं इव
(४,११[३५].५) <पर्वताद्दिवो [५.२५.१]>_इत्यागमकृशरं आशयति
(४,११[३५].६) युगतर्द्मना संपातवन्तं द्वितीयम्
(४,११[३५].७) खे लूनान्_च पलाशत्सरून्निवृत्ते निघृष्याधाय शिश्ने ग्रामं प्रविशति
(४,११[३५].८) <शमीं अश्वत्थ [६.११.१]> इति मन्त्रोक्ते_अग्निं मथित्वा पुंस्याः सर्पिषि पैद्वं इव
(४,११[३५].९) मधुमन्थे पाययति
(४,११[३५].१०) कृष्णोर्णाभिः परिवेष्ट्या बध्नाति
(४,११[३५].११) <यन्तासि [६.८०.२]>_इति मन्त्रोक्तं बध्नाति
(४,११[३५].१२) <ऋधङ्मन्त्रो [५.१.१]>_इत्येका <यथेयं पृथिवी [६.१७.१-४]>_<अच्युता [च्फ़्. सकलपाठ-मन्त्रसत्Kऔश्ऽ९८.२, आVPअरिश्११.१.११]>_इति गर्भदृंहणानि
(४,११[३५].१३) जम्भगृहीताय प्रथमावर्जं ज्यां त्रिरुद्ग्रथ्य बध्नाति
(४,११[३५].१४) लोष्टानन्वृचं प्राशयति
(४,११[३५].१५) श्यामसिकताभिः शयनं परिकिरति
(४,११[३५].१६) यां इछेद्वीरं जनयेदिति +धातृव्याभिर्(एद्.ः धातर्-; च्फ़्. Cअलन्द्, Kल्. Sछ्र्., प्. ६०) उदरं अभिमन्त्रयते
(४,११[३५].१७) <प्रजापतिर्[६.११.३ ।७.१९.१]> इति प्रजाकामाया उपस्थे जुहोति
(४,११[३५].१८) लोहिताजापिशितानि_आशयति
(४,११[३५].१९) प्रपान्तानि [एद्. व्रप्-]
(४,११[३५].२०) <यौ ते माता [८.६.१]>_इति मन्त्रोक्तौ बध्नाति
(४,११[३५].२१) <यथेदं भूम्या अधि [२.३०.१]> <यथा वृक्षं [६.८.१]> <+वाञ्छ मे [६.९.१]> <यथायं वाहो [६.१०२.१]>_इति संस्पृष्टयोर्वृक्षलिबुजयोः शकलावन्तरेषुस्थकराञ्जनकुष्ठमदुघरेष्ममथिततृणं आज्येन संनीय संस्पृशति
(४,११[३५].२२) <उत्तुदस्त्वा [३.२५.१]>_इत्यङ्गुल्या_उपनुदति
(४,११[३५].२३) एकविंशतिं प्राचीनकण्टकानलंकृताननूक्तानादधाति
(४,११[३५].२४) कूदीप्रान्तानि ससूत्राणि
(४,११[३५].२५) नवनीतान्वक्तं कुष्ठं त्रिरह्नः प्रतपति त्रिरात्रे
(४,११[३५].२६) दीर्घोत्पले_अवगृह्य संविशति
(४,११[३५].२७) उष्णोदकं त्रिपादे पत्तः +प्रबध्य_(एद्.ः प्रबद्धा; B्लूम्फ़िएल्द्, SB्E ४२, प्. ३५८, न्. ३]_अङ्गुष्ठाभ्यां अर्दयन्_शेते (एद्. मिस्प्रिन्तः अर्दयञ्छते; सी Cअलन्द्, Kल्. Sछ्र्., प्. ५१)
(४,११[३५].२८) प्रतिकृतिं आवलेखनीं दार्भ्यूषेण भाङ्गज्येन कण्टकशल्यया_उलूकपत्त्रयासितालकाण्डया हृदये विध्यति
(४,१२[३६].१) <सहस्रशृङ्गो [४.५.१]>_इति स्वापनम्
(४,१२[३६].२) उदपात्रेण संपातवता शालां संप्रोक्ष्यापरस्मिन्द्वारपक्षे न्युब्जति
(४,१२[३६].३) एवं नग्नः
(४,१२[३६].४) उलूखलं उत्तरां स्रक्तिं दक्षिणशयनपादं तन्तूनभिमन्त्रयते
(४,१२[३६].५) <अस्थाद्द्यौर्[६.७७.१ ।६.४४.१]> इति निवेष्टनम्
(४,१२[३६].६) आवेष्टनेन वंशाग्रं अवबध्य मध्यमायां बध्नाति
(४,१२[३६].७) शयनपादं उत्पले च
(४,१२[३६].८) आकृष्ते च
(४,१२[३६].९) आकर्षेण तिलान्_जुहोति
(४,१२[३६].१०) <इदं यत्प्रेण्यः [६.८९.१]>_इति शिरःकर्णं अभिमन्त्रयते
(४,१२[३६].११) केशान्धारयति
(४,१२[३६].१२) <भगेन मा [६.१२९.१]> <न्यस्तिका [६.१३९.१]>_<इदं खनामि [७.३८.१]>_इति सौवर्चलं ओषधिवत्_शुक्लप्रसूनं शिरसि_उपचृत्य ग्रामं प्रविशति
(४,१२[३६].१३) <रथजितां [६.१३०.१]>_इति माषस्मरान्निवपति
(४,१२[३६].१४) शरभृष्टीरादीप्ताः प्रतिदिशं अभ्यस्यति_अर्वाच्या आवलेखन्याः
(४,१२[३६].१५) <भगं अस्या वर्च [१.१४.१]> इति मालानिष्प्रमन्ददन्तधावनकेशमीशानहताया अनुस्तरण्या वा कोशं उलूखलदरणे त्रिशिले निखनति
(४,१२[३६].१६) मालां उपमथ्यान्वाह
(४,१२[३६].१७) त्रीणि केशमण्डलानि कृष्णसूत्रेन विग्रथ्य त्रिशिले_अश्मोत्तराणि व्यत्यासम्
(४,१२[३६].१८) अथास्यै भगं उत्खनति <यं ते भगं निचख्नुस्त्रिशिले यं चतुःशिले । इदं तं उत्खनामि प्रजया च धनेन च [-]>_इति
(४,१२[३६].१९) <इमां खनाम्य्[३.१८.१]>_इति बाणापर्णीं लोहिताजाया द्रप्सेन संनीय शयनं अनुपरिकिरति
(४,१२[३६].२०) <अभि तेऽधां [३.१८.६अ]>_इत्यधस्तात्पलाशं उपचृतति
(४,१२[३६].२१) <उप तेऽधां [३.१८.६ब्]>_इत्युपरि_उपास्यति
(४,१२[३६].२२) कामं विनेष्यमाणो_अपाघेनासंख्याताः शर्कराः परिकिरन्व्रजति
(४,१२[३६].२३) संमृद्नन्_जपति
(४,१२[३६].२४) असंमृद्नन्
(४,१२[३६].२५) <ईर्ष्याया ध्राजिं [६.१८.१]> <जनाद्विश्वजनीनात्[७.४५.१]> <त्वाष्ट्रेणाहं [७.७४.३]>_इति प्रतिजापः प्रदानाभिमर्शनानि
(४,१२[३६].२६) प्रथमेन वक्षणासु मन्त्रोक्तम्
(४,१२[३६].२७) <अग्नेरिव [७.४५.२]>_इति परशुफाण्टम्
(४,१२[३६].२८) <अव ज्यां इव [६.४२.१]>_इति दृष्ट्वाश्मानं आदत्ते
(४,१२[३६].२९) द्वितीययाभिनिदधाति
(४,१२[३६].३०) तृतीययाभिनिष्ठीवति
(४,१२[३६].३१) छायायां सज्यं करोति
(४,१२[३६].३२) <अयं दर्भो [६.४३.१]>_इत्योषधिवत्
(४,१२[३६].३३) <अग्ने जातान्[७.३४.१]> इति न वीरं जनयेत्<प्रान्यान्[७.३५.१]> इति न विजायेत_इत्यश्वतरीमूत्रं अश्ममण्डलाभ्यां संघृष्य भक्ते_अलंकारे
(४,१२[३६].३४) सीमन्तं अन्वीक्षते
(४,१२[३६].३५) <अपि वृश्च [७.९०.१]>_इति जायायै जारं अन्वाह
(४,१२[३६].३६) क्लीबपदे बाधकं धनुर्वृश्चति
(४,१२[३६].३७) आशये_अश्मानं प्रहरति
(४,१२[३६].३८) <तृष्टिके [७.११३.१]>_इति बाणापर्णीम्
(४,१२[३६].३९) <आ ते ददे [७.११४.१]>_इति मन्त्रोक्तानि संस्पृशति
(४,१२[३६].४०) अपि चान्वाहापि चान्वाह
(Kऔश्ऽ४ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे चतुर्थोऽध्यायः समाप्तः
(५,१[३७].१) <अम्बयो यन्त्य्[१.४.१]>_इति क्षीरौदन_उत्कुचस्तम्बपाटाविज्ञानानि
(५,१[३७].२) सांग्रामिकं वेदिविज्ञानम्
(५,१[३७].३) <वेनस्तत्[२.१.१]>_इति पञ्चपर्वेषुकुम्भकमण्डलुस्तम्बकाम्पीलशाखायुग_इध्माक्षेषु पाण्योरेकविंशत्यां शर्करासु_ईक्षते
(५,१[३७].४) कुम्भमहतेन परिवेष्ट्याधाय शयने विकृते संपातानतिनयति
(५,१[३७].५) अनतीकाशं अवछाद्यारजोवित्ते कुमार्यौ येन हरेतां ततो नष्टम्
(५,१[३७].६) एवं सीरे साक्षे
(५,१[३७].७) लोष्टानां कुमारीं आह यं इछसि तं आदत्स्व_इति
(५,१[३७].८) आकृतिलोष्टवल्मीकौ कल्याणम्
(५,१[३७].९) चतुष्पथाद्बहुचारिणी
(५,१[३७].१०) श्मशानात्_न चिरं जीवति
(५,१[३७].११) उदकाञ्जलिं निनय_इत्याह
(५,१[३७].१२) प्राचीनं अपक्षिपन्त्यां कल्याणम्
(५,२[३८].१) <जरायुजः [१.१२.१]>_इति दुर्दिनं आयन्प्रत्युत्तिष्ठति
(५,२[३८].२) अन्वृचं उदवज्रैः
(५,२[३८].३) असि_उल्मुककिष्कुरूनादाय
(५,२[३८].४) नग्नो ललाटं उन्मृजानः
(५,२[३८].५) उत्साद्य बाह्यतो_अङ्गारकपाले शिग्रुशर्करा जुहोति
(५,२[३८].६) केरार्कौ_आदधाति
(५,२[३८].७) वर्षपरीतः प्रतिलोमकर्षितस्त्रिः परिक्रम्य खदायां अर्कं क्षिप्रं संवपति
(५,२[३८].८) <नमस्ते अस्तु [१.१३.१]> <यस्ते पृथु स्तनयित्नुर्[७.११.१]> इत्यशनियुक्तं अपादाय
(५,२[३८].९) प्रथमस्य सोमदर्भकेशानीकुष्ठलाक्षामञ्जिष्ठीबदरहरिद्रं भूर्जशकलेन परिवेष्ट्य मन्थशिरसि_उर्वरामध्ये निखनति
(५,२[३८].१०) दधि नवेनाश्नाति_आ संहरणात्
(५,२[३८].११) आशापालीयं तृतीयावर्जं दृंहणानि
(५,२[३८].१२) भ्ॐअस्य दृतिकर्माणि
(५,२[३८].१३) पुरोडाशानश्मोत्तरानन्तःस्रक्तिषु निदधाति
(५,२[३८].१४) उभयान्संपातवतः
(५,२[३८].१५) सभाभागधानेषु च
(५,२[३८].१६) असंतापे ज्योतिरायतनस्य_एकतो_अन्यं शयानो भ्ॐअं जपति
(५,२[३८].१७) <इयं वीरुन्[१.३४.१]>_इति मदुघं खादन्नपराजितात्परिषदं आव्रजति
(५,२[३८].१८) <नेच्छत्रुः [२.२७.१]>_इति पाटामूलं प्रतिप्राशितम्
(५,२[३८].१९) अन्वाह
(५,२[३८].२०) बध्नाति
(५,२[३८].२१) मालां सप्तपलाशीं धारयति
(५,२[३८].२२) <ये भक्षयन्तो [२.३५.१]>_इति परिषदि_एकभक्तं अन्वीक्षमाणो भुङ्क्ते
(५,२[३८].२३) <ब्रह्म जज्ञानं [४.१.१]>_इत्यध्यायानुपाकरिष्यन्नभिव्याहारयति
(५,२[३८].२४) प्राशं आख्यास्यन्
(५,२[३८].२५) ब्रह्मोद्यं वदिष्यन्
(५,२[३८].२६) <ममाग्ने वर्चो [५.३.१]>_इति विभुङ्क्ष्यमाणः प्रमत्तरज्जुं बध्नाति
(५,२[३८].२७) <सभा च मा [७.१२.१]>_इति भक्षयति
(५,२[३८].२८) स्थूणे गृह्णाति_उपतिष्ठते
(५,२[३८].२९) <यद्वदामि [१२.१.५८]>_इति मन्त्रोक्तम्
(५,२[३८].३०) <अहं अस्मि [१२.१.५४]>_इत्यपराजिताथ्परिषदं आव्रजति
(५,३[३९].१) <दूष्या दूषिरसि [२.११.१]>_इति स्राक्त्यं बध्नाति
(५,३[३९].२) पुरस्तादग्नेः पिशङ्गं गां कारयति
(५,३[३९].३) पश्चादग्नेर्लोहिताजम्
(५,३[३९].४) यूषपिशितार्थम्
(५,३[३९].५) मन्त्रोक्ताः
(५,३[३९].६) वाशाकाम्पीलसितीवारसदंपुष्पा अवधाय
(५,३[३९].७) <दूष्या दुषिरसि [२.११.१]> <ये पुरस्ताज्[४.४०.१]>_<ईशानां त्वा [४.१७.१]> <समं ज्योतिः [४.१८.१]>_<उतो अस्यबन्धुकृद्[४.१९.१]>_<सुपर्णस्त्वा [५.१४.१]>_<यां ते चक्रुर्[५.३१.१]> <अयं प्रतिसरो [८.५.१]> <यां कल्पयन्ति [१०.१.१]>_इति महाशान्तिं आवपते
(५,३[३९].८) निशि_अवमुच्य_उष्णीषी_अग्रतः प्रोक्षन्व्रजति
(५,३[३९].९) यतायै यतायै शान्तायै शान्तिवायै भद्रायै भद्रावति स्योनायै शग्मायै शिवायै सुमङ्गलि प्रजावति सुशीमे [एद्.ः +सुसीमे]_अहं वामाभूरिति
(५,३[३९].१०) अभावादपविध्यति
(५,३[३९].११) कृत्ययामित्रचक्षुषा समीक्षन्[नोते Sपेइजेरंउसेउं ९ २५१ः चोन्ज्. समक्षं] <कृतव्यधनि [५.१४.९]>_इत्यवलिप्तं कृत्यया विध्यति
(५,३[३९].१२) उक्तावलेखनीम्
(५,३[३९].१३) <दूष्या दुषिरसि [२.११.१]>_इति दर्व्या त्रिः सारूपवत्सेनापोदकेन मथितेन गुल्फान्परिषिञ्चति
(५,३[३९].१४) शकलेनावसिच्य यूषपिशितानि_आशयति
(५,३[३९].१५) यष्टिभिस्_चर्म पिनह्य प्रैषकृत्परिक्रम्य बन्धान्मुञ्चति संदंशेन
(५,३[३९].१६) अन्यत्पार्श्वीं संवेशयति
(५,३[३९].१७) शकलेनोक्तम्
(५,३[३९].१८) <अभ्यक्ता [१०.१.२५]>_इति नवनीतेन मन्त्रोक्तम्
(५,३[३९].१९) दर्भरज्ज्वा संनह्य_<उत्तिष्ठैव [१०.१.२०च्]>_इत्युत्थापयति
(५,३[३९].२०) सव्येन दीपं दक्षिणेन_उदकालाबु_आदाय वाग्यताः
(५,३[३९].२१) प्रैषकृदग्रतः
(५,३[३९].२२) अनावृतम्
(५,३[३९].२३) अगोष्पदम्
(५,३[३९].२४) अनुदकखातम्
(५,३[३९].२५) दक्षिणाप्रवणे वा स्वयंदीर्णे वा स्वकृते वा_इरिणे_अन्याशायां वा निदधाति
(५,३[३९].२६) अलाबुना दीपं अवसिच्य <यथा सूर्यो [१०.१.३२]>_इत्यावृत्याव्रजति
(५,३[३९].२७) तिष्ठन्_तिष्ठन्तीं महाशान्तिं उच्चैरभिनिगदति
(५,३[३९].२८) मर्माणि संप्रोक्षन्ते
(५,३[३९].२९) कृष्णसीरेण कर्षति
(५,३[३९].३०) अधि सीरेभ्यो दश दक्षिणा
(५,३[३९].३१) अभिचारदेशा मन्त्रेषु विज्ञायन्ते तानि मर्माणि
(५,४[४०].१) <यददः संप्रयतीर्[३.१३.१]> इति येन_इछेत्_नदी प्रतिपद्येत_इति प्रसिञ्चन्व्रजति
(५,४[४०].२) काशदिविधुवकवेतसान्निमिनोति
(५,४[४०].३) <इदं व आपो [३.१३.७अ]>_इति हिरण्यं अधिदधाति
(५,४[४०].४) <अयं वत्स [३.१३.७ब्]> इतीषीकाञ्जिमण्डूकं नीललोहिताभ्यां सकक्षं बद्ध्वा
(५,४[४०].५) <इहेत्थं [३.१३.७च्]> इत्यवकया प्रछादयति
(५,४[४०].६) <यत्रेदं [३.१३.७द्]>_इति निनयति
(५,४[४०].७) मारुतं क्षीरौदनं मारुतशृतं मारुतैः परिस्तीर्य मारुतेन स्रुवेण मारुतेनाज्येन वरुणाय त्रिर्जुहोति
(५,४[४०].८) उक्तं उपमन्थनम्
(५,४[४०].९) दधिमन्थं बलिं हृत्वा संप्रोक्षणीभ्यां प्रसिञ्चन्व्रजति
(५,४[४०].१०) पाणिना वेत्रेण वा प्रत्याहत्य_उपरि निपद्यते
(५,४[४०].११) <अयं ते योनिर्[३.२०.१]> इत्यरण्योरग्निं समारोपयति
(५,४[४०].१२) आत्मनि वा
(५,४[४०].१३) <उपावरोह जातवेदः पुनर्देवो देवेभ्यो हव्यं वह प्रजानन् । आनन्दिनो मोदमानाः सुवीरा इन्धीमहि त्वा शरदां शतानि [च्फ़्. ठ्B्२.५.८.८, ;Sआङ्ख्;SS२.१७.१, ;Sआङ्ह्ङ्ऽ५.१.७]>_इत्युपावरोहयति
(५,४[४०].१४) <यां त्वा गन्धर्वो अखनद्[४.४.१ (= PS४.५.१)]> <वृषणस्ते खनितारो वृषा त्वं अस्योषधे । वृषासि वृष्ण्यावति वृषणे त्वा खनामसि [PS४.५.२]>_इत्युच्छुष्मापरिव्याधावायसेन खनति
(५,४[४०].१५) दुग्धे फाण्टौ_+अधिज्यं उपस्थ+ (एद्.ः अदिज्योपस्थ; च्फ़्. B्लूम्फ़िएल्द्, SB्E ४२, प्. ३६९, न्. २) आधाय पिबति
(५,४[४०].१६) मयूखे मुसले वासीनो <यथासितः [६.७२.१]>_इत्येकार्कसूत्रं आर्कं बध्नाति
(५,४[४०].१७) <यावदङ्गीनं [६.७२.३]>_इत्यसितस्कन्धं असितवालेन
(५,४[४०].१८) <आ वृषायस्व [६.१०१.१]>_इत्युभयं अप्येति
(५,५[४१].१) <समुत्पतन्तु [४.१५.१]> <प्र नभस्व [७.१८.१]>_इति वर्षकामो द्वादशरात्रं अनुशुष्येत्
(५,५[४१].२) सर्वव्रत उपश्राम्यति
(५,५[४१].३) मरुतो यजते यथा वरुणं जुहोति
(५,५[४१].४) ओषधीः संपातवतीः प्रवेश्याभिन्युब्जति
(५,५[४१].५) विप्लावयेत
(५,५[४१].६) श्वशिर-एटकशिरःकेशजरदुपानहो वंशाग्रे प्रबध्य योधयति
(५,५[४१].७) उदपात्रेण संपातवता संप्रोक्ष्यामपात्रं त्रिपादे_अश्मानं अवधायाप्सु निदधाति
(५,५[४१].८) <अयं ते योनिर्[३.२०.१]> <आ नो भर [५.७.१]> <धीती वा [७.१.१]>_इत्यर्थं उत्थास्यन्नुपदधीत
(५,५[४१].९) जपति
(५,५[४१].१०) पूर्वासु_अषाढासु गर्तं खनति
(५,५[४१].११) उत्तरासु संचिनोति
(५,५[४१].१२) आदेवनं संस्तीर्य
(५,५[४१].१३) <उद्भिन्दतीं संजयन्तीं [४.३८.१]>_<यथा वृक्षं अशनिर्[७.५०.१]> <इदं उग्राय [७.१०९.१]>_इति वासितानक्षान्निवपति
(५,५[४१].१४) <अम्बयो यन्त्य्[१.४.१]>_शंभुमयोभू [१.५, १.६] <हिरण्यवर्णाः [१.३३.१]>_<यददः [३.१३.१]> <पुनन्तु मा [६.१९.१]> <सस्रुषीस्[६.२३.१]>_<हिमवतः प्र स्रवन्ति [६.२४.१]> <वायोः पूतः पवित्रेण [६.५१.१]> <शं च नो मयश्च नो [६.५७.३]>_<अनडुद्भ्यस्त्वं प्रथमं [६.५९.१]> <मह्यं आपो [६.६१.१]> <वैश्वानरो रश्मिभिर्[६.६२.१]> इत्यभिवर्षणावसेचनानाम्
(५,५[४१].१५) उत्तमेन वाचस्पतिलिङ्गाभिरुद्यन्तं उपतिष्ठते
(५,५[४१].१६) स्नातो_अहतवसनो निक्त्वाहतं आछादयति
(५,५[४१].१७) ददाति
(५,५[४१].१८) <यथा मांसं [६.७०.१]> इति वचनम्
(५,५[४१].१९) वत्सं संधाव्य गोमूत्रेणावसिच्य त्रिः परिणीय_उपचृतति
(५,५[४१].२०) शिरःकर्णं अभिमन्त्रयते
(५,५[४१].२१) <वातरंहा [६.९२.१]> इति स्नाते_अश्वे संपातानभ्यतिनयति
(५,५[४१].२२) पलाशे चूर्णेषूत्तरान्
(५,५[४१].२३) आचमयति
(५,५[४१].२४) आप्लावयति
(५,५[४१].२५) चूर्णैरवकिरति
(५,५[४१].२६) त्रिर्<एकया च [७.४.१]>_इति
(५,६[४२].१) <भद्रादधि [७.८.१]>_इति प्रवत्स्यन्नुपदधीत
(५,६[४२].२) जपति
(५,६[४२].३) यानं संप्रोक्ष्य विमोचयति
(५,६[४२].४) द्रव्यं संपातवदुत्थापयति
(५,६[४२].५) निर्मृज्य_उपयछति
(५,६[४२].६) <उभा जिग्यथुर्[७.४४.१]> इत्यार्द्रपादाभ्यां सांमनस्यम्
(५,६[४२].७) यानेन प्रत्यञ्चौ ग्रामान्प्रतिपाद्य प्रयछति
(५,६[४२].८) आयातः समिध आदाय_<ऊर्जं बिभ्रद्[७.६०.१]> इत्यसंकल्पयन्नेत्य सकृदादधाति
(५,६[४२].९) <ऋचं साम [७.५४.१]>_इत्यनुप्रवचनीयस्य जुहोति
(५,६[४२].१०) युक्ताभ्यां तृतीयाम्
(५,६[४२].११) आनुमतीं चतुर्थीम्
(५,६[४२].१२) समावर्तनीयसमापनीययोस्_च_एषा_इज्या
(५,६[४२].१३) <आपो दिव्या [७.८९.१ ।१०.५.४६]> इति पर्यवेतव्रत उदकान्ते शान्त्युदकं अभिमन्त्रयते
(५,६[४२].१४) अस्तमिते समित्पाणिरेत्य तृतीयवर्जं समिध आदधाति
(५,६[४२].१५) <इदावत्सराय [PS१९.५१.१-४]>_इति व्रतविसर्जनं आज्यं जुहुयात्
(५,६[४२].१६) समिधो_अभ्यादध्यात्
(५,६[४२].१७) <इदावत्सराय परिवत्सराय संवत्सराय प्रति वेदयाम एनत् । यद्व्रतेषु दुरितं निजग्मिमो दुर्हार्दं तेन शमलेनाञ्ज्मः । । यन्मे व्रतं व्रतपते लुलोभाहोरात्रे सं अधातां म एनत् । उद्यन्पुरस्ताद्भिषगस्तु चन्द्रमाः सूर्यो रश्मिभिरभि गृणात्वेनत् । । यद्व्रतं अतिपेदे चित्त्या मनसा हृदा । आदित्या रुद्रास्तन्मयि वसवश्च सं इन्धतां । । व्रतानि व्रतपतय उपा करोम्यग्नये । स मे द्युम्नं बृहद्यशो दीर्घं आयुः कृणोतु मे । । [PS१९.५१.१-४]>_इति व्रतसमापनीरादधाति
(५,६[४२].१८) त्रिरात्रं अरसाशी स्नातव्रतं चरति
(५,६[४२].१९) <निर्लक्ष्म्यं [१.१८.१]>_इति पापलक्षणाया मुखं उक्षति_अन्वृचं दक्षिणात्केशस्तुकात्
(५,६[४२].२०) पलाशेन फलीकरणान्हुत्वा शेषं प्रत्यानयति
(५,६[४२].२१) फलीकरणतुषबुसावतक्षणानि सव्यायां पादपार्ष्ण्यां निदधाति
(५,६[४२].२२) अपनोदनापाघाभ्यां अन्वीक्षं प्रतिजपति
(५,६[४२].२३) <दीर्घायुत्वाय [२.४.१]>_इति मन्त्रोक्तं बध्नाति
(५,७[४३].१) <कर्शफस्य [३.९.१]>_इति पिशङ्गसूत्रं अरलुदण्डं यदायुधम्
(५,७[४३].२) फलीकरणैर्धूपयति
(५,७[४३].३) <अति धन्वान्य्[७.४१.१]>_इत्यवसाननिवेशनानुचरणातिनयन+_इज्या [एद्.ः चरणानि निनयन्नेज्या; च्फ़्. Cअलन्द्, आZ, प्. १४७, न्. २; बुत्B्लूम्फ़िएल्द्ङ्ङा १९०२ ५१२!]
(५,७[४३].४) वास्तोष्पतीयैः कुलिजकृष्टे दक्षिणतो_अग्नेः संभारं आहरति
(५,७[४३].५) वास्तोष्पत्यादीनि महाशान्तिं आवपते
(५,७[४३].६) मध्यमे गर्ते दर्भेषु व्रीहियवं आवपति
(५,७[४३].७) शान्त्युदकशष्पशर्करं अन्येषु
(५,७[४३].८) <इहैव ध्रुवां [३.१२.१]>_इत्य्मीयमानां उच्छ्रीयमाणां अनुमन्त्रयते
(५,७[४३].९) अभ्यज्य_<ऋतेन [३.१२.६]>_इति मन्त्रोक्तम्
(५,७[४३].१०) <पूर्णं नारि [३.१२.८]>_इत्युदकुम्भं अग्निं आदाय प्रपद्यन्ते
(५,७[४३].११) ध्रुवाभ्यां दृंहयति
(५,७[४३].१२) शंभुमयोभुभ्यां विष्यन्दयति
(५,७[४३].१३) <वास्तोष्पते प्रति जानीह्यस्मान्स्वावेशो अनमीवो न एधि । यत्त्वेमहे प्रति नस्तज्जुषस्व चतुष्पदो द्विपद आ वेशयेह । । [PS७.६.१०]> <अनमीवो वास्तोष्पते विश्वा रूपाण्याविशन् । सखा सुशेव एधि नः । । [PS२०.२३.२]>_इति वास्तोष्पतये क्षीरौदनस्य जुहोति
(५,७[४३].१४) सर्वान्नानि ब्राह्मणान्भोजयति
(५,७[४३].१५) मङ्गल्यानि
(५,७[४३].१६) <ये अग्नयो [३.२१.१-७]>_इति क्रव्यादनुपहत इति पलाशं बध्नाति
(५,७[४३].१७) जुहोति
(५,७[४३].१८) आदधाति
(५,७[४३].१९) उदञ्चनेन_उदपात्र्यां यवानद्भिरानीय_उल्लोपम्
(५,७[४३].२०) <ये अग्नयो [३.२१.१]>_इति पालाश्या दर्व्या मन्थं उपमथ्य काम्पीलीभ्यां उपमन्थनीभ्याम्
(५,७[४३].२१) शमनं च
(५,८[४४].१) <य आत्मदा [४.२.१]> इति वशाशमनम्
(५,८[४४].२) पुरस्तादग्नेः प्रतीचीं धारयति
(५,८[४४].३) पश्चादग्नेः प्राङ्मुख उपविश्यान्वारब्धायै शान्त्युदकं करोति
(५,८[४४].४) तत्र_एतत्सूक्तं अनुयोजयति
(५,८[४४].५) तेन_एनां आचामयति च संप्रोक्षति च
(५,८[४४].६) तिष्ठन्_तिष्ठन्तीं महाशान्तिं उच्चैरभिनिगदति
(५,८[४४].७) <य ईशे पशुपतिः पशूनां [२.३४.१]> इति हुत्वा वशां अनक्ति शिरसि ककुदे जघनदेशे
(५,८[४४].८) अन्यतरां स्वधितिधारां अनक्ति
(५,८[४४].९) अक्तया वपां उत्खनति
(५,८[४४].१०) दक्षिणे पार्श्वे दर्भाभ्यां अधिक्षिपति_अमुष्मै त्वा जुष्टं इति यथादेवतम्
(५,८[४४].११) <निस्सालां [२.१४.१]> इत्युल्मुकेन त्रिः प्रसव्यं परिहरति_अनभिपरिहरनात्मानम्
(५,८[४४].१२) दर्भाभ्यां अन्वारभते
(५,८[४४].१३) पश्चादुत्तरतो_अग्नेः प्रत्यक्शीर्षीं उदक्पादीं निविध्यति
(५,८[४४].१४) <सं अस्यै तन्वा भव [- (नोते अस्यै = ङेनितिवे?)]>_इत्यन्यतरं दर्भं अवास्यति
(५,८[४४].१५) अथ प्राणानास्थापयति <प्रजानन्तः [२.३४.५]>_इति
(५,८[४४].१६) दक्षिणतस्तिष्ठन्रक्षोहणं जपति
(५,८[४४].१७) संज्ञप्तायां जुहोति <यद्वशा मायुं अक्रतोरो वा पड्भिराहत । अग्निर्मा तस्मादेनसो विश्वान्मुञ्चत्वंहसः [-, च्फ़्. ठ्ऽ३.१.४.३, ंअन्B्२.२.८ एत्च्.]>_इति
(५,८[४४].१८) उदपात्रेण पत्नी_अभिव्रज्य मुखादीनि गात्राणि प्रक्षालयते
(५,८[४४].१९) मुखं शुन्धस्व देवज्याया इति
(५,८[४४].२०) प्राणानिति नासिके
(५,८[४४].२१) चक्षुरिति चक्षुषी
(५,८[४४].२२) श्रोत्रं इति कर्णौ
(५,८[४४].२३) <यत्ते क्रूरं यदास्थितं [VSं ६.१५]>_इति समन्तं रज्जुधानम्
(५,८[४४].२४) चरित्राणीति पादात्समाहृत्य
(५,८[४४].२५) नाभिं इति नाभिम्
(५,८[४४].२६) मेढ्रं इति मेढ्रम्
(५,८[४४].२७) पायुं इति पायुम्
(५,८[४४].२८) <यत्ते क्रूरं यदास्थितं तच्छुन्धस्व [-, च्फ़्. VSं ६.१४-१५, ठ्ऽ१.३.९.१, Bौध्;SS४.६ः११८.१५ एत्च्.]>_इति अवशिष्टाः पार्श्वदेशे_अवसिच्य यथार्थं व्रजति
(५,८[४४].२९) वपाश्रपण्यौ_आज्यं स्रुवं स्वधितिं दर्भं आदायाभिव्रज्य_उत्तानां +परिवर्त्यानुलोमं (एद्.ः परिवर्त्मा-; सी Cअलन्द्, Kल्. Sछ्र्., प्. ६१) नाभिदेशे दर्भं आस्तृणाति
(५,८[४४].३०) <ओषधे त्रायस्वैनं स्वधिते मैनं हिंसीः [VSं ६.१५]>_इति शस्त्रं प्रयछति
(५,८[४४].३१) इदं अहं आमुष्यायणस्यामुष्याः पुत्रस्य प्राणापानावपकृन्तामीत्यपकृत्य
(५,८[४४].३२) अधरप्रव्रस्केन लोहितस्यापहत्य
(५,८[४४].३३) इदं अहं आमुष्यायणस्यामुष्याः पुत्रस्य प्राणापानौ निखनामीत्यास्ये निखनति
(५,८[४४].३४) <वपया द्यावापृथिवी प्रोर्णुवाथां [-, च्फ़्. VSं ६.१६]> इति वपाश्रपण्यौ वपया प्रछाद्य
(५,८[४४].३५) स्वधितिना प्रकृत्य_उत्कृत्य
(५,८[४४].३६) आव्रस्कं अभिघार्य
(५,८[४४].३७) <वायो वे [एद्. वायवे, सी B्लूम्फ़िएल्दाJPह्२७ (१९०६), प्.४१६] स्तोकानां [VSं ६.१६]> इति दर्भाग्रं प्रास्यति
(५,८[४४].३८) <प्रत्युष्टं रक्षः [ठ्ऽ१.१.२.१, Kऔश्ऽ१.३.९ एत्च्.]>_इति चरुं अङ्गारे निदधाति
(५,८[४४].३९) <देवस्त्वा सविता श्रपयतु [च्फ़्. VSं १.२२, ठ्B्३.२.८.६]>_इति श्रपयति
(५,८[४४].४०) सुशृतां करोति
(५,९[४५].१) यदि_अष्टापदी स्याद्गर्भमञ्जलौ सहिरण्यं सयवं वा <य आत्मदा [४.२.१]> इति खदायां त्र्यरत्नौ_अग्नौ सकृत्_जुहोति
(५,९[४५].२) विशस्य समवत्तानि_अवद्येत्
(५,९[४५].३) <हृदयं जिह्वा श्येनश्च दोषी पार्श्वे च तानि षट् । यकृद्वृक्कौ गुदश्रोणी तान्येकादश दैवतानि । [-, च्फ़्. आअप्;SS७.२२.६, Kआत्य्;SS६.७.६ एत्च्.]>
(५,९[४५].४) <दक्षिणः कपिललाटः सव्या श्रोणिर्गुदश्च यः । एतानि त्रीणि त्र्यङ्गानि स्विष्टकृद्भाग एव । [-, च्फ़्. आअप्;SS७.२२.६, Kआत्य्;SS६.७.७ एत्च्.]>
(५,९[४५].५) तदवद्य प्रज्ञातानि श्रपयेत्
(५,९[४५].६) होष्यन्द्विर्द्विर्देवतानां अवद्येत्
(५,९[४५].७) सकृत्सकृत्सौविष्टकृतानाम्
(५,९[४५].८) वपायाः <समिद्धो [५.१२.१]>_<ऊर्ध्वा अस्य [५.२७.१]>_इति जुहोति
(५,९[४५].९) युक्ताभ्यां तृतीयाम्
(५,९[४५].१०) आनुमतीं चतुर्थीम्
(५,९[४५].११) <जातवेदो वपया गछ देवांस्त्वं हि होता प्रथमो बभूथ । घृतस्याग्ने तन्वा सं भव सत्याः सन्तु यजमानस्य कामाः स्वाहा । [च्फ़्. ठ्ऽ३.१.४.४]>
(५,९[४५].१२) ऊर्ध्वनभसं [एम्. B्लूम्फ़िएल्द्ङ्ङा १९०२ ५१४ – एद्. ऊर्ध्वं नभसं] गछतं इति वपाश्रपण्यौ_अनुप्रहरति
(५,९[४५].१३) प्राचीं एकशृङ्गां प्रतीचीं द्विशृङ्गाम्
(५,९[४५].१४) <वह वपां जातवेदः पितृभ्यो यत्रैतान्वेत्थ निहितान्पराके । मेदसः कुल्या उप तान्स्रवन्तु सत्या एषां आशिषः सन्तु कामाः स्वाहा स्वधा [सी ८४.१, च्फ़्. ंअन्B्२.३.१८, VSं ३५.२०]>_इति वपायास्त्रिर्जुहोति
(५,९[४५].१५) समवत्तानाम्
(५,९[४५].१६) स्थालीपाकस्य <सम्राडस्यधिश्रयणं नाम सखीनां अभ्यहं विश्वा आशाः साक्षीय । कामोऽसि कामाय त्वा सर्ववीराय सर्वपुरुषाय सर्वगणाय सर्वकामाय जुहोमि । अन्वद्य नोऽनुमतिः पूषा सरस्वती मही । यत्करोमि तदृध्यतां अनुमतये स्वाहा [-]>_इति जुहोति
(५,९[४५].१७) <क इदं कस्मा अदात्[३.२९.७-८]> <कामस्तदग्रे [१९.५२.१]> <यदन्नं [६.७१.१]>_<पुनर्मैत्विन्द्रियं [७.६७.१]>_इति प्रतिगृह्णाति
(५,९[४५].१८) उत्तमा सर्वकामा
(५,९[४५].१९) वशया पाकयज्ञा व्याख्याताः
(५,१०[४६].१) <उतामृतासुर्[५.१.७]>_<शिवास्त [७.४३.१]> इत्यभ्याख्याताय प्रयछति
(५,१०[४६].२) द्रुघणशिरो रज्ज्वा बध्नाति
(५,१०[४६].३) प्रतिरूपं पलाशायोलोहहिरण्यानाम्
(५,१०[४६].४) <येन सोम [६.७.१]>_इति याजयिष्यन्सारूपवत्सं अश्नाति
(५,१०[४६].५) निधने यजते
(५,१०[४६].६) <यं याचाम्य्[५.७.५]>_<यदाशसा [७.५७.१]>_इति याचिष्यन्
(५,१०[४६].७) मन्त्रोक्तानि पतितेभ्यो <देवाः कपोत [६.२७.१]> <ऋचा कपोतं [६.२८.१]>_<अमून्हेतिः [६.२९.१]>_इति महाशान्तिं आवपते
(५,१०[४६].८) <परीमेऽग्निं [६.२८.२]> इत्यग्निं गां आदाय निशि कारयमाणस्त्रिः शालां परिणयति
(५,१०[४६].९) <परोऽपेहि [६.४५.१]> <यो न जीवो [६.४६.१]>_इति स्वप्नं दृष्ट्वा मुखं विमार्ष्टि
(५,१०[४६].१०) अतिघोरं दृष्ट्वा मैश्रधान्यं पुरोडाशं अन्याशायां वा निदधाति
(५,१०[४६].११) <पर्यावर्ते [७.१००.१]>_इति पर्यावर्तते
(५,१०[४६].१२) <यत्स्वप्ने [७.१०१.१]>_इति अशित्वा वीक्षते
(५,१०[४६].१३) <विद्म [एद्. मिस्प्रिन्तः विद्मा] ते स्वप्न [६.४६.२]>_इति सर्वेषां अप्ययः
(५,१०[४६].१४) <नहि ते अग्ने तन्वः [६.४९.१]>_इति ब्रह्मचारी_आचार्यस्यादहन उपसमाधाय त्रिः परिक्रम्य पुरोडाशं जुहोति
(५,१०[४६].१५) त्रिरात्रं अपर्यावर्तमानः शयीत
(५,१०[४६].१६) न_उपशयीत_इति कौशिकः
(५,१०[४६].१७) स्नानीयाभिः स्नायात्
(५,१०[४६].१८) अपर्यवेतव्रतः प्रत्युपेयात्
(५,१०[४६].१९) अवकीर्णिने दर्भशुल्बं आसज्य <यत्ते देवी [६.६३.१]>_इति आवपति
(५,१०[४६].२०) एवं संपातवता_उदपात्रेणावसिच्य
(५,१०[४६].२१) मन्त्रोक्तं शान्त्युदकेन संप्रोक्ष्य
(५,१०[४६].२२) <संसं इद्[६.६३.४]> इति स्वयंप्रज्वलिते_अग्नौ
(५,१०[४६].२३) <अग्नी रक्षांसि सेधति [८.३.२६]>_इति सेधन्तम्
(५,१०[४६].२४) <यदस्मृति [७.१०६.१]>_इति संदेशं अपर्याप्य
(५,१०[४६].२५) <प्रत्नो हि [६.११०.१]>_इति पापनक्षत्रे जाताय मूलेन
(५,१०[४६].२६) <मा ज्येष्ठं [६.११२.१]> <तृते [रेअदः त्रिते] देवा [६.११३.१]> इति परिवित्तिपरिविविदानौ_उदकान्ते मौञ्जैः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति
(५,१०[४६].२७) अवसिञ्चति
(५,१०[४६].२८) फेनेषूत्तरान्पाशानाधाय <नदीनां फेनान्[६.११३.२च्]> इति प्रप्लावयति
(५,१०[४६].२९) सर्वैस्_च प्रविश्यापां सूक्तैः
(५,१०[४६].३०) देवहेडनेन मन्त्रोक्तम्
(५,१०[४६].३१) आचार्याय
(५,१०[४६].३२) उपदधीत
(५,१०[४६].३३) खदाशयस्यावपते
(५,१०[४६].३४) वैवस्वतं यजते
(५,१०[४६].३५) चतुःशरावं ददाति
(५,१०[४६].३६) उत्तमर्णे मृते तदपत्याय प्रयछति
(५,१०[४६].३७) सगोत्राय
(५,१०[४६].३८) श्मशाने निवपति
(५,१०[४६].३९) चतुष्पथे च
(५,१०[४६].४०) कक्षानादीपयति
(५,१०[४६].४१) <दिवो नु मां [६.१२४.१]> इति वीध्रबिन्दून्प्रक्षालयति
(५,१०[४६].४२) मन्त्रोक्तैः स्पृशति
(५,१०[४६].४३) यस्य_उत्तमदन्तौ पूर्वौ जायेते <यौ व्याघ्राव्[६.१४०.१]> इत्यावपति
(५,१०[४६].४४) मन्त्रोक्तान्दंशयति
(५,१०[४६].४५) शान्त्युदकशृतं आदिष्टानां आशयति
(५,१०[४६].४६) पितरौ च
(५,१०[४६].४७) <इदं यत्कृष्णः [७.६४.१]>_इति कृष्णशकुनिनाधिक्षिप्तं प्रक्षालयति
(५,१०[४६].४८) उपमृष्टं पर्यग्नि करोति
(५,१०[४६].४९) <प्रतीचीनफलो [७.६५.१]>_इत्यपामार्गेध्मे_अपमार्गीरादधाति
(५,१०[४६].५०) <यदर्वाचीनं [१०.५.२२]>_इत्याचामति
(५,१०[४६].५१) <यत्ते भूमे [१२.१.३५]>_इति विखनति
(५,१०[४६].५२) <यत्त ऊनं [१२.१.६१च्]>_इति संवपति
(५,१०[४६].५३) <प्रेहि प्र हर [PS२०.५०.५-७, .ऱ्VKह्२.२.२, .ऱ्V२.४३.३, PS२०.५०.८]>_इति कापिञ्जलानि स्वस्त्ययनानि भवन्ति
(५,१०[४६].५४) <प्रेहि प्र हर वा दावान्गृहेभ्यः स्वस्तये । कपिञ्जल प्रदक्षिणं शतपत्त्राभि नो वद । । भद्रं वद दक्षिणतो भद्रं उत्तरतो वद । भद्रं पुरस्तान्नो वद भद्रं पश्चात्कपिञ्जल । । शुनं वद दक्षिणतः शुनं उत्तरतो वद । शुनं पुरस्तान्नो वद शुनं पश्चात्कपिञ्जल । । [PS२०.५०.५-७]> <भद्रं वद पुत्रैर्भद्रं वद गृहेषु च । भद्रं अस्माकं वद भद्रं नो अभयं वद । । [.ऱ्VKह्२.२.२]> <आवदंस्त्वं शकुने भद्रं आ वद तूष्णीं आसीनः सुमतिं चिकिद्धि नः । यदुत्पतन्वदसि कर्करिर्यथा बृहद्वदेम विदथे सुवीराः । । [.ऱ्V२.४३.३]> <यौवनानि महयसि जिग्युषां इव दुन्दुभिः । कपिञ्जल प्रदक्षिणं शतपत्त्राभि नो वद । । [PS२०.५०.८, च्फ़्. .ऱ्VKह्२.२.५]>_इति कापिञ्जलानि स्वस्त्ययनानि भवन्ति
(५,१०[४६].५५) <यो अभ्यु बभ्रुणायसि स्वपन्तं अत्सि पुरुषं शयानं अगत्स्वलं । अयस्मयेन ब्रह्मणाश्ममयेन वर्मणा पर्यस्मान्वरुणो दधत्[PS२०.९.४]>_इत्यभ्यवकाशे संविशति_अभ्यवकाशे संविशति
(Kऔश्ऽ५ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे पञ्चमोऽध्यायः समाप्तः
(६,१[४७].१) उभयतः परिछिन्नं शरमयं बर्हिराभिचारिकेषु
(६,१[४७].२) दक्षिणतः संभारं आहरति_आङ्गिरसम्
(६,१[४७].३) इङ्गिडं आज्यम्
(६,१[४७].४) सव्यानि
(६,१[४७].५) दक्षिणापवर्गाणि
(६,१[४७].६) दक्षिणाप्रवणे इरिणे दक्षिणामुखः प्रयुङ्क्ते
(६,१[४७].७) साग्नीनि
(६,१[४७].८) <अग्ने यत्ते तपस्[२.१९.१]>_इति पुरस्ताद्धोमाः
(६,१[४७].९) <तथा तदग्ने कृणु जातवेदो [५.२९.२]>_इत्याज्यभागौ
(६,१[४७].१०) <निरमुं नुद [६.७५.१]> इति संस्थितहोमाः
(६,१[४७].११) कृत्तिकारोकारोधावाप्येषु
(६,१[४७].१२) भरद्वाजप्रव्रस्केनाङ्गिरसं दण्डं वृश्चति
(६,१[४७].१३) <मृत्योरहं [६.१३३.३]>_इति बाधकीं आदधाति
(६,१[४७].१४) <य इमां [६.१३३.१]>_<अयं वज्रस्[६.१३४.१]>_इति द्विगुणां एकवीरान्संनह्य (संव्यूह्य? Sई Cअलन्द्, आZ, अल्.) पाशान्निमुष्टितृतीयं दण्डं संपातवत्
(६,१[४७].१५) पूर्वाभिर्बध्नीते
(६,१[४७].१६) <वज्रोऽसि सपत्नहा त्वयाद्य वृत्रं साक्षीय । त्वां अद्य वनस्पते वृक्षाणां उदयुष्महि । । स न इन्द्रपुरोहितो [सी B्लूम्फ़िएल्द्, आJPह्२७ (१९०६), ४१६] विश्वतः पाहि रक्षसः । अभि गावो अनूषताभि द्युम्नं बृहस्पते । । प्राण प्राणं त्रयस्वासो असवे मृ;ल । निरृते निरृत्या नः पाशेभ्यो मुञ्च । । [PS१९.४२.४-६ (अल्सो अताVPअरिश्३७.१.८) - च्फ़्. १९.४४.४]> इति दण्डं आदत्ते
(६,१[४७].१७) भक्तस्याहुतेन मेखलाया ग्रन्थिं आलिम्पति
(६,१[४७].१८) <अयं वज्रस्[६.१३४.१]>_इति बाह्यतो दण्डं ऊर्ध्वं अवागग्रं तिसृभिरन्वृचं निहन्ति
(६,१[४७].१९) अन्तरुपस्पृशेत्
(६,१[४७].२०) <यदश्नामि [६.१३५.१]>_इति मन्त्रोक्तम्
(६,१[४७].२१) यत्पात्रं आहन्ति <फड्ढतोऽसौ [च्फ़्. Kऔश्ऽ११६.७, अन्द्VSं ७.३ = ;SBं ४.१.१.२६ एत्च्.]>_इति
(६,१[४७].२२) इदं अहं आमुष्यायणस्यामुष्याः पुत्रस्य प्राणापानावप्यायछामीत्यायछति
(६,१[४७].२३) <येऽमावास्यां [१.१६.१]>_इति संनह्य सीसचूर्णानि भक्ते_अलंकारे
(६,१[४७].२४) पराभूतवेणोर्यष्ट्या बाहुमात्र्यालंकृतयाहन्ति
(६,१[४७].२५) <द्यावापृथिवी उर्व्[२.१२.१]> इति परशुपलाशेन दक्षिणा धावतः पदं वृश्चति
(६,१[४७].२६) अन्वक्त्रिस्तिर्यक्त्रिः
(६,१[४७].२७) अक्ष्णया संस्थाप्य
(६,१[४७].२८) +आव्रस्कात्पांसून्+ (एद्.ः आव्रस्कान्यांशून्; सी Cअलन्द्, आZ, अल्.) पलाशं उपनह्य भ्रष्ट्रे_अभ्यस्यति
(६,१[४७].२९) स्फोटत्सु स्तृतः
(६,१[४७].३०) पश्चादग्नेः कर्ष्वां कूद्युपस्तीर्णायां द्वादशरात्रं अपर्यावर्तमानः शयीत
(६,१[४७].३१) तत उत्थाय त्रिरह्न उदवज्रान्प्रहरति
(६,१[४७].३२) नद्या अनामसंपन्नाया अश्मानं प्रास्यति
(६,१[४७].३३) उष्णे_अक्षतसक्तूननूपमथिताननुच्छ्वसन्पिबति
(६,१[४७].३४) कथं त्रींस्त्रीन्काशीन्_त्रिरात्रम्
(६,१[४७].३५) द्वौद्वौ त्रिरात्रम्
(६,१[४७].३६) एकैकं षड्रात्रम्
(६,१[४७].३७) द्वादश्याः प्रातः क्षीरौदनं भोजयित्वा_उच्छिष्टानुच्छिष्टं बहुमत्स्ये प्रकिरति
(६,१[४७].३८) संधावत्सु स्तृतः
(६,१[४७].३९) लोहितशिरसं कृकलासं अमून्हन्मीति हत्वा सद्यः कार्यो भाङ्गे शयने
(६,१[४७].४०) लोहितालंकृतं कृष्णवसनं अनूक्तं दहति
(६,१[४७].४१) एकपदाभिरन्यो_अनुतिष्ठति
(६,१[४७].४२) अङ्गशः सर्वहुतं अन्यम्
(६,१[४७].४३) पश्चादग्नेः शरभृष्टीर्निधाय_उदग्व्रजति_आ स्वेदजननात्
(६,१[४७].४४) निवृत्य स्वेदालंकृता जुहोति
(६,१[४७].४५) कोश उरःशिरो_अवधाय पदात्पांसून्
(६,१[४७].४६) पश्चादग्नेर्लवणमृडीचीस्तिस्रो_अशीतीर्विकर्णीः शर्कराणाम्
(६,१[४७].४७) विषं शिरसि
(६,१[४७].४८) बाधकेन अवागग्रेण प्रणयन्नन्वाह
(६,१[४७].४९) <पाशे स [२.१२.२च्]> इति कोशे ग्रन्थीनुद्ग्रथ्नाति
(६,१[४७].५०) <आमुं [२.१२.४द्]>_इत्यादत्ते
(६,१[४७].५१) मर्मणि खादिरेण स्रुवेण गर्तं खनति
(६,१[४७].५२) बाहुमात्रं <अतीव यो [२.१२.६]>_इति शरैरवज्वालयति
(६,१[४७].५३) अवधाय संचित्य लोष्टं स्रुवेण समोप्य
(६,१[४७].५४) अमुं उन्नैषं इत्युक्तावलेखनीम्
(६,१[४७].५५) छायां वा
(६,१[४७].५६) उपनिनयते
(६,१[४७].५७) अन्वाह
(६,२[४८].१) <भ्रातृव्यक्षयणं [२.१८.१]>_इत्यरण्ये सपत्नक्षयणीरादधाति
(६,२[४८].२) ग्रामं एत्यावपति
(६,२[४८].३) <पुमान्पुंसः [३.६.१]>_इति मन्त्रोक्तं अभिहुतालंकृतं बध्नाति
(६,२[४८].४) यावन्तः सपत्नास्तावतः पाशानिङ्गिडालंकृतान्संपातवतो_अनूक्तान्ससूत्रान्_चम्वा मर्मणि निखनति
(६,२[४८].५) नावि <प्रैणान्[३.६.८]> <नुदस्व काम [९.२.४]>_इति मन्त्रोक्तं शाखया प्रणुदति
(६,२[४८].६) <तेऽधराञ्चः [३.६.७]>_इति प्रप्लावयति
(६,२[४८].७) <बृहन्नेषां [४.१६.१]> इत्यायन्तं शप्यमानं अन्वाह
(६,२[४८].८) <वैकङ्कतेन [५.८.१]>_इति मन्त्रोक्तम्
(६,२[४८].९) <ददिर्हि [५.१३.१]>_इति साग्नीनि
(६,२[४८].१०) देशकपटु प्रक्षिणाति
(६,२[४८].११) <तेऽवदन्[५.१७.१]>_इति नेतॄणां पदं वृश्चति
(६,२[४८].१२) अन्वाह
(६,२[४८].१३) ब्रह्मगवीभ्यां अन्वाह
(६,२[४८].१४) चेष्टाम्
(६,२[४८].१५) विचृतति
(६,२[४८].१६) ऊबध्ये
(६,२[४८].१७) श्मशाने
(६,२[४८].१८) त्रिरमून्हरस्व_इत्याह
(६,२[४८].१९) द्वितीययाश्मानं ऊबध्यगूहे [एम्. Cअलन्द्, आZ प्. १६८ न्. ९ – एद्.ः ऊबध्ये गूहयति]
(६,२[४८].२०) द्वाशरात्रं सर्वव्रत उपश्राम्यति
(६,२[४८].२१) द्विरुदिते स्तृतः
(६,२[४८].२२) अवागग्रेण निवर्तयति
(६,२[४८].२३) <उप प्रागात्[६.३७.१]>_इति शुने पिण्डं पाण्डुं प्रयछति
(६,२[४८].२४) तार्छं बध्नाति
(६,२[४८].२५) जुहोति
(६,२[४८].२६) आदधाति
(६,२[४८].२७) <इदं तद्युज [६.५४.१]>_<यत्किं चासौ मनसा [७.७०.१]>_इत्याहिताग्निं प्रतिनिर्वपति
(६,२[४८].२८) मध्यमपलाशेन फलीकरणान्_जुहोति
(६,२[४८].२९) <निरमुं [६.७५.१]>_इत्यङ्गुष्ठेन त्रिरनुप्रस्तृणाति
(६,२[४८].३०) शरं कद्विन्दुकोष्ठैरनुनिर्वपति
(६,२[४८].३१) लोहिताश्वत्थपलाशेन विषावध्वस्तं जुहोति
(६,२[४८].३२) <त्वं वीरुधां [६.१३८.१]>_इति मूत्रपुरीषं वत्सशेप्यायां ककुचैरपिधाप्य संपिष्य निखनति
(६,२[४८].३३) शेप्यानडे
(६,२[४८].३४) शेप्यायाम्
(६,२[४८].३५) <यथा सूर्यो [७.१३.१]>_इत्यन्वाह
(६,२[४८].३६) उत्तरया यान्_तान्पश्यति
(६,२[४८].३७) <इन्द्रोतिभिर्[७.३१.१]> <अग्ने जातान्[७.३४.१]> <यो न स्तायद्दिप्सति [७.१०८.१]> <यो नः शपाद्[७.५९.१ ।६.३७.३]> इति वैद्युद्धतीः
(६,२[४८].३८) <सांतपना [७.७७.१]> इत्यूर्ध्वशुषीः
(६,२[४८].३९) घ्रंसशृतं पुरोडाशं घ्रंसविलीनेन सर्वहुतम्
(६,२[४८].४०) <उदस्य श्यावौ [७.९५.१]>_इतीषीकाञ्जिमण्डूकं नीललोहिताभ्यां सूत्राभ्यां सकक्षं बद्ध्वा_उष्णोदके व्यादाय प्रत्याहुति मण्डूकं अपनुदति_अभिन्युब्जति
(६,२[४८].४१) उपधावन्तं <असदन्गावः [७.९६.१]>_इति काम्पीलं संनह्य क्षीरोत्सिक्ते पाययति लोहितानां चैक्कशम्
(६,२[४८].४२) अशिशिषोः क्षीरौदनम्
(६,२[४८].४३) आमपात्रं अभ्यवनेनेक्ति
(६,३[४९].१) <सपत्नहनं [९.२.१]> इत्यृषभं संपातवन्तं अतिसृजति
(६,३[४९].२) आश्वत्थीरवपन्नाः
(६,३[४९].३) स्वयं <इन्द्रस्यौज [१०.५.१अ]> इति प्रक्षालयति
(६,३[४९].४) <जिष्णवे योगाय [१०.५.१ब्]>_इत्यपो युनक्ति
(६,३[४९].५) वातस्य रंहितस्यामृतस्य योनिरिति प्रतिगृह्णाति
(६,३[४९].६) उत्तमाः प्रताप्याधराः प्रदाय_एनं एनानधराचः पराचो_अवाचस्तमसस्[एम्. B्लूम्फ़िएल्द्ङ्ङा १९०२ ५१४ – एद्. तपसस्] तं उन्नयत देवाः पितृभिः संविदानः प्रजापतिः प्रथमो देवतानां इत्यतिसृजति
(६,३[४९].७) इदं अहं <यो मा प्राच्या दिशो_अघायुरभिदासादपवादीदिषुगूहः [च्फ़्. ५.१०, ४.४०]> तस्य_इमौ प्राणापानौ_अपक्रामामि ब्रह्मणा
(६,३[४९].८) दक्षिणायाः प्रतीच्या उदीच्या ध्रुवाया व्यध्वाय ऊर्ध्वायाः
(६,३[४९].९) इदं अहं <यो मा दिशां अन्तर्देशेभ्य [-]> इत्य्<अपक्रामामि [-]>_इति
(६,३[४९].१०) एवं अभिष्ठानापोहननिवेष्टनानि (सी Cअलन्द्, Kल्. Sछ्र्., प्. ५०, ओन्थे रेअदिन्गन्द्सूत्र दिविसिओन्)
(६,३[४९].११) सर्वाणि खलु शश्वद्भूतानि
(६,३[४९].१२) ब्राह्मणाद्वज्रं उद्यछमानात्_शङ्कन्ते मां हनिष्यसि मां हनिष्यसीति तेभ्यो_अभयं वदेत्_शं अग्नये शं पृथिव्यै शं अन्तरिक्षाय शं वायवे शं दिवे शं सूर्याय शं चन्द्राय शं नक्षत्रेभ्यः शं गन्धर्वाप्सरोभ्यः शं सर्पेतरजनेभ्यः शिवं मह्यं इति
(६,३[४९].१३) <यो व आपोऽपां [१०.५.१५]> <यं वयं [१०.५.४२]>_<अपां अस्मै वज्रं [१०.५.५०]>_इत्यन्वृचं उदवज्रान्
(६,३[४९].१४) <विष्णोः क्रमोऽसि [१०.५.२५]>_इति विष्णुक्रमान्
(६,३[४९].१५) <ममाग्ने वर्चो [५.३.१]>_इति बृहस्पतिशिरसं पृषातकेन_उपसिच्याभिमन्त्र्य_उपनिदधाति
(६,३[४९].१६) प्रतिजानन्नानुव्याहरेत्
(६,३[४९].१७) उत्तमेन_उपद्रष्टारम्
(६,३[४९].१८) <उदेहि वाजिन्[१३.१.१अब्]>_इत्यर्धर्चेन नावं मज्जतीं
(६,३[४९].१९) <समिद्धोऽग्निः [१३.१.२८]>_<य इमे द्यावापृथिवी [१३.३.१]> <अजैष्म [१६.६.१]>_इत्यधिपाशानादधाति
(६,३[४९].२०) पदेपदे पाशान्वृश्चति
(६,३[४९].२१) अधिपाशान्बाधकान्_शङ्कून्_तान्संक्षुद्य संनह्य भ्रष्ट्रे_अध्यस्यति
(६,३[४९].२२) अशिशिषोः क्षीरौदनादीनि त्रीणि
(६,३[४९].२३) गर्तेध्मौ_अन्तरेणावलेखनीं स्थाणौ निबध्य द्वादशरात्रं संपातानभ्यतिनिनयति
(६,३[४९].२४) षष्ठ्या_उदवज्रान्प्रहरति
(६,३[४९].२५) सप्तम्याचामति
(६,३[४९].२६) <यश्च गां [१३.१.५६]>_इत्यन्वाह
(६,३[४९].२७) <निर्दुरर्मण्य (एद्. मिस्प्रिन्तः निर्दुर्मण्य) [१६.२.१]> इति संधाव्याभिमृशति
(Kऔश्ऽ६ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे षष्ठोऽध्यायः समाप्तः
(७,१[५०].१) <स्वस्तिदा [१.२१.१]> <ये ते पन्थानो [७.५५.१ ।१२.१.४७]>_इत्यध्वानं दक्षिणेन प्रक्रामति
(७,१[५०].२) व्युदस्यति_असंख्याताः शर्कराः
(७,१[५०].३) तृणानि छित्वा_उपतिष्ठते
(७,१[५०].४) <आरे [१.२६.१]>_<अमूः पारे [१.२७.१]> <पातं न [६.३.१]>_<य एनं परिषीदन्ति [६.७६.१]> यदायुधं दण्डेन व्याख्यातम्
(७,१[५०].५) दिष्ट्या मुखं विमाय संविशति
(७,१[५०].६) त्रीणि पदानि प्रमाय_उत्तिष्ठति
(७,१[५०].७) तिस्रो दिष्टीः
(७,१[५०].८) <प्रेतं पादौ [१.२७.४]>_इत्य्+अवसस्य (एद्.ः अवशस्य; सी Cअलन्द्, Kल्. Sछ्र्., प्. ६१)
(७,१[५०].९) पाययति
(७,१[५०].१०) <उपस्थास्ते [१२.१.६२]>_इति त्रीणि_ओप्यातिक्रामति
(७,१[५०].११) <स्वस्ति मात्र [१.३१.४]> इति निशि_उपतिष्ठते
(७,१[५०].१२) <इन्द्रं अहं [३.१५.१]>_इति पण्यं संपातवदुत्थापयति
(७,१[५०].१३) निमृज्य दिग्युक्ताभ्यां <दोषो गाय [६.१.१]> <पातं न [६.३-६.७]> इति पञ्च_<अनडुद्भ्यस्[६.५९.१]>_<यमो मृत्युर्[६.९३.१]> <विश्वजित्[६.१०७.१]>_<शकधूमं [६.१२८.१]> <भवाशर्वौ [४.२८.१ ।११.२.१ ।११.६.९]>_इत्युपदधीत
(७,१[५०].१४) उत्तमेन सारूपवत्सस्य रुद्राय त्रिर्जुहोति
(७,१[५०].१५) उप_उत्तमेन सुहृदो ब्राह्मणस्य शकृत्पिण्डान्पर्वसु_आधाय शकधूमं किं अद्याहरिति पृछति
(७,१[५०].१६) भद्रं सुमङ्गलिं इति प्रतिपद्यते
(७,१[५०].१७) युक्तयोर्<मा नो देवा [६.५६.१]> <यस्ते सर्पो [१२.१.४६]>_इति शयनशाला_उर्वराः परिलिखति
(७,१[५०].१८) तृणानि युगतर्द्मना संपातवन्ति द्वारे प्रचृतति
(७,१[५०].१९) ऊबध्यं संभिनत्ति
(७,१[५०].२०) निखनति
(७,१[५०].२१) आदधाति
(७,१[५०].२२) अपामार्गप्रसूनान्कुद्रीचीशफान्परीचीनमूलान्
(७,२[५१].१) <उदितस्[४.३.१]>_इति खादिरं शङ्कुं संपातवन्तं उद्गृह्णन्निखनन्गा अनुव्रजति
(७,२[५१].२) निनयनं समुह्य चारे सारूपवत्सस्य_इन्द्राय त्रिर्जुहोति
(७,२[५१].३) दिश्यान्बलीन्हरति
(७,२[५१].४) प्रतिदिशं उपतिष्ठते
(७,२[५१].५) मध्ये पञ्चमं अनिर्दिष्टम्
(७,२[५१].६) शेषं निनयति
(७,२[५१].७) <ब्रह्म जज्ञानं [४.१.१ ।५.६.१]>_<भवाशर्वौ [४.२८.१ ।११.२.१ ।११.६.९]>_इत्यासन्नं अरण्ये पर्वतं यजते
(७,२[५१].८) अन्यस्मिन्भवशर्वपशुपति_उग्ररुद्रमहादेव_ईशानानां पृथगाहुतीः
(७,२[५१].९) गोष्ठे च द्वितीयं अश्नाति
(७,२[५१].१०) दर्भानाधाय धूपयति
(७,२[५१].११) भूत्यै वः पुष्ट्यै व इति प्रथमजयोर्मिथुनयोर्मुखं अनक्ति
(७,२[५१].१२) तिस्रो नलदशाखा वत्सान्पाययति
(७,२[५१].१३) शाखया_उदकधारया गाः परिक्रामति
(७,२[५१].१४) <अश्मवर्म मे [५.१०.१]>_इति षडश्मनः संपातवतः +स्रक्तिषूपरि_(एद्.ः स्रक्तिषु पर्य्; सी Cअलन्द्, Kल्. Sछ्र्., प्. ६१)_अधस्तान्निखनति
(७,२[५१].१५) <अलसाला [६.१६.४]>_इत्यालभेषजम्
(७,२[५१].१६) त्रीणि सिलाञ्जालाग्राणि_उर्वरामध्ये निखनति
(७,२[५१].१७) <हतं तर्दं [६.५०.१]>_इति अयसा सीसं कर्षन्नुर्वरां परिक्रामति
(७,२[५१].१८) अश्मनो_अवकिरति
(७,२[५१].१९) तर्दं अवशिरसं वदनात्केशेन समुह्य_उर्वरामध्ये निखनति
(७,२[५१].२०) उक्तं चारे
(७,२[५१].२१) बलीन्हरति_आशाया आशापतये_अश्विभ्यां क्षेत्रपतये
(७,२[५१].२२) यदा_एतेभ्यः कुर्वीत वाग्यतस्तिष्ठेदास्तमयाद्
(७,३[५२].१) <ये पन्थानो [६.५५.१]>_इति परीत्य_उपदधीत
(७,३[५२].२) प्रयछति
(७,३[५२].३) <यस्यास्ते [६.८४.१]> <यत्ते देवी [६.६३.१]> <विषाणा पाशान्[६.१२१.१]> इत्युन्मोचनप्रतिरूपं संपातवन्तं करोति
(७,३[५२].४) वाचा बद्धाय भूमिपरिलेखम्
(७,३[५२].५) <आयने [६.१०६.१]>_इति शमनं अन्तरा ह्रदं करोति
(७,३[५२].६) शाले च
(७,३[५२].७) अवकया शालां परितनोति
(७,३[५२].८) शप्यमानाय प्रयछति
(७,३[५२].९) निदग्धं प्रक्षालयति
(७,३[५२].१०) <महीं ऊ षु [७.६.२]>_इति तरणानि_आलम्भयति
(७,३[५२].११) दूरात्_नावं संपातवतीं नैमणिं बध्नाति
(७,३[५२].१२) <प्रपथे [७.९.१]>_इति नष्ट_एषिणां प्रक्षालिताभ्यक्तपाणिपादानां दक्षिणान्पाणीन्निमृज्य_उत्थापयति
(७,३[५२].१३) एवं संपातवतः
(७,३[५२].१४) निमृज्य_एकविंशतिं शर्करास्_चतुष्पथे_अवक्षिप्यावकिरति
(७,३[५२].१५) <नमस्कृत्य [७.१०२.१]>_इति मन्त्रोक्तम्
(७,३[५२].१६) अंहोलिङ्गानां आपो भोजनहवींषि_अभिमर्शन_उपस्थानं आदित्यस्य
(७,३[५२].१७) स्वयं हविषां भोजनम्
(७,३[५२].१८) <विश्वे देवा [१.३०.१]>_इत्यायुष्याणि
(७,३[५२].१९) स्थालीपाके घृतपिण्डान्प्रतिनीयाश्नाति
(७,३[५२].२०) <अस्मिन्वसु [१.९.१]> <यदाबध्नन्[१.३५.१]> <नव प्राणान्[५.२८.१> इति युग्मकृष्णलं आदिष्टानां स्थालीपाके_आधाय बध्नाति
(७,३[५२].२१) आशयति
(७,४[५३].१) <आयुर्दा [२.१३.१]> इति गोदानं कारयिष्यन्संभारान्संभरति
(७,४[५३].२) अमम्रिं ओजोमानीं दूर्वां अकर्णं अश्ममण्डलं आनडुहशकृत्पिण्डं षड्दर्भप्रान्तानि कंसं अहते वसने शुद्धं आज्यं शान्ता ओषधीर्नवं उदकुम्भम्
(७,४[५३].३) बाह्यतः शान्तवृक्षस्य_इध्मं प्राञ्चं उपसमाधाय
(७,४[५३].४) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रं उपसाद्य परिचरणेनाज्यं परिचर्य
(७,४[५३].५) नित्यान्पुरस्ताद्धोमान्हुत्वाज्यभागौ च
(७,४[५३].६) पश्चादग्नेः प्राङ्मुख उपविश्यान्वारब्धाय शान्त्युदकं करोति
(७,४[५३].७) तत्र_एतत्सूक्तं अनुयोजयति
(७,४[५३].८) त्रिरेवाग्निं संप्रोक्षति त्रिः पर्युक्षति
(७,४[५३].९) त्रिः कारयमाणं आचामयति च संप्रोक्षति च
(७,४[५३].१०) शकृत्पिण्डस्य स्थालरूपं कृत्वा सुहृदे ब्राह्मणाय प्रयछति
(७,४[५३].११) तत्सुहृद्दक्षिणतो_अग्नेरुदङ्मुख आसीनो धारयति
(७,४[५३].१२) अथास्मै_अन्वारब्धाय करोति
(७,४[५३].१३) <आयुर्दा [२.१३.१]> इत्यनेन सूक्तेनाज्यं जुह्वन्मूर्ध्नि संपातानानयति
(७,४[५३].१४) दक्षिणे पाणौ_अश्ममण्डले_उदपात्रे_उत्तरसंपातान्स्थालरूप आनयति
(७,४[५३].१५) अमम्रिं ओजोमानीं च_उदपात्रे_अवधाय
(७,४[५३].१६) स्थालरूपे दूर्वां शान्त्युदकं उष्णोदकं च_एकधाभिसमासिच्य
(७,४[५३].१७) <आयं अगन्सविता क्षुरेण [६.६८.१]>_इत्युदपात्रं अनुमन्त्रयते
(७,४[५३].१८) <अदितिः श्मश्रु [६.६८.२]>_इत्युन्दति
(७,४[५३].१९) <यत्क्षुरेण [८.२.१७]>_इत्युदक्पत्त्रं क्षुरं अद्भि श्चोत्य त्रिः प्रमार्ष्टि
(७,४[५३].२०) <येनावपत्[६.६८.३]>_इति दक्षिणस्य केशपक्षस्य दर्भपिञ्जुल्या केशानभिनिधाय प्रछिद्य स्थालरूपे करोति
(७,४[५३].२१) एवं एव द्वितीयं करोति
(७,४[५३].२२) एवं तृतीयम्
(७,४[५३].२३) एवं एव_उत्तरस्य केशपक्षस्य करोति
(७,५[५४].१) अथ नापितं समादिशति_अक्षण्वन्वप केशश्मश्रुरोम परिवप नखानि कुरु_इति
(७,५[५४].२) <पुनः प्राणः [६.५३.२]> <पुनर्मैत्विन्द्रियं [७.६७.१]>_इति त्रिर्निमृज्य
(७,५[५४].३) त्वयि महिमानं सादयामीत्यन्ततो योजयेत्
(७,५[५४].४) अथ_एनं उप्तकेशश्मश्रुं कृतनखं (एद्.ः कृत्तनखं; सी Cअलन्द्, Kल्. Sछ्र्., प्. ६१) आप्लावयति
(७,५[५४].५) <हिरण्यवर्णाः [१.३३.१]>_इत्येतेन सूक्तेन गन्धप्रवादाभिरलंकृत्य
(७,५[५४].६) <स्वाक्तं (एद्.ः स्वक्तं; सी Cअलन्द्, Kल्. Sछ्र्., प्. ७८) मे [७.३०.१]>_इत्यानक्ति
(७,५[५४].७) अथ_एनं अहतेन वसनेन परिधापयति <परि धत्त [२.१३.२]>_इति द्वाभ्याम्
(७,५[५४].८) <एह्यश्मानं आ तिष्ठ [२.१३.४]>_इति दक्षिणेन पादेनाश्ममण्डलं आस्थाप्य प्रदक्षिणं अग्निं अनुपरिणीय
(७,५[५४].९) अथास्य वासो निर्मुष्णाति <यस्य ते वासः [२.१३.५]>_इत्यनया
(७,५[५४].१०) अथ_एनं अपरेणाहतेन वसनेनाछादयति_<अयं वस्ते गर्भं पृथिव्या [१३.१.१६]> इति पञ्चभिः
(७,५[५४].११) <यथा द्यौः [२.१५.१]>_<मनसे चेतसे धिय [६.४१.१]> इति महाव्रीहीणां स्थालीपाकं श्रपयित्वा शान्त्युदकेन_उपसिच्याभिमन्त्र्य प्राशयति
(७,५[५४].१२) <प्राणापानौ [२.१६.१]> <ओजोऽसि [२.१७.१]>_इत्युपदधीत
(७,५[५४].१३) <तुभ्यं एव जरिमन्[२.२८.१]>_इति कुमारं मातापितरौ त्रिः संप्रयछेते
(७,५[५४].१४) घृतपिण्डाअनाशयतः
(७,५[५४].१५) चूडाकरणं च गोदानेन व्याख्यातम्
(७,५[५४].१६) परिधापनाश्ममण्डलवर्जम्
(७,५[५४].१७) <शिवे ते स्तां [८.२.१४]>_इति परिदानान्तानि
(७,५[५४].१८) <पार्थिवस्य [२.२९.१]> <मा प्र गाम [१३.१.५९]>_इति चतस्रः सर्वाणि_अपियन्ति
(७,५[५४].१९) अमम्रिं ओजोमानीं च दूर्वां च केशान्_च शकृत्पिण्डं च_एकधाब्दिसमाहृत्य
(७,५[५४].२०) शान्तवृक्षस्य_उपरि_आदधाति
(७,५[५४].२१) अधिकरणं ब्रह्मणः कंसवसनं गौर्दक्षिणा
(७,५[५४].२२) ब्राह्मणान्भक्तेन_उपेप्सन्ति
(७,६[५५].१) उपनयनम्
(७,६[५५].२) <आयं अगन्[६.६८.१]>_इति मन्त्रोक्तम्
(७,६[५५].३) <यत्क्षुरेण [८.२.१७]>_इत्युक्तम्
(७,६[५५].४) <येनावपत्[६.६८.३]>_इति शकृदपिञ्जूलि
(७,६[५५].५) लौकिकं च समानां आ परिधानात्
(७,६[५५].६) उपेतपूर्वस्य नियतं सवान्दास्यतो_अग्नीनाधास्यमानपर्यवेतव्रतदीक्षिष्यमाणानां (एद्.ः आधास्यमानः पर्य्-; सी Cअलन्द्, Kल्. Sछ्र्., प्. ६१)
(७,६[५५].७) सोष्णोदकं शान्त्युदकं प्रदक्षिणं अनुपरिणीय पुरस्तादग्नेः प्रत्यङ्मुखं अवस्थाप्य
(७,६[५५].८) आह ब्रूहि
(७,६[५५].९) ब्रह्मचर्यं आगं उप मा नयस्व_इति
(७,६[५५].१०) को नामासि किंगोत्र इत्यसौ_इति यथा नामगोत्रे भवतस्तथा प्रब्रूहि
(७,६[५५].११) आर्षेयं मा कृत्वा बन्धुं अन्तं उपनय
(७,६[५५].१२) आर्षेयं त्वा कृत्वा बन्धुं अन्तं उपनयामीति
(७,६[५५].१३) ओं भूर्भुवः स्वर्जनदों इत्यञ्जलौ_उदकं आसिञ्चति
(७,६[५५].१४) उत्तरोऽअसानि ब्रह्मचारिभ्य इत्युत्तमं पाणिं अन्वादधाति
(७,६[५५].१५) एष म आदित्यपुत्रस्तन्मे गोपायस्व_इत्यादित्येन समीक्षते
(७,६[५५].१६) <अपक्रामन्पौरुषेयाद्वृणानो [७.१०५.१]> इत्येनं बाहुगृहीतं प्राञ्चं अवस्थाप्य दक्षिणेन पाणिना नाभिदेशे_अभिसंस्तभ्य जपति
(७,६[५५].१७) <अस्मिन्वसु वसवो धारयन्तु [१.९.१]>_<विश्वे देवा वसवो [१.३०.१]>_<आ यतु मित्र [३.८.१]>_<अमुत्रभूयाद्[७.५३.१]> <अन्तकाय मृत्यवे [८.१.१]>_<आ रभस्व [८.२.१]>_<प्राणाय नमो [११.४.१]> <विषासहिं [१७.१.५]> इत्यभिमन्त्रयते
(७,६[५५].१८) अथापि परित्वरमाण <आ यातु मित्र [३.८.१]>_इत्यपि खलु_एतवता_एव_उपनीतो भवति
(७,६[५५].१९) प्रछाद्य त्रीन्प्राणायामान्कृत्वावछाद्य वत्सतरीं उदपात्रे समवेक्षयेत्
(७,६[५५].२०) <सं इन्द्र नो [७.९७.२]>_<सं वर्चसा [६.५३.३]>_इति द्वाभ्यां उत्सृजन्ति गाम्
(७,७[५६].१) <श्रद्धाया दुहिता [६.१३३.४]>_इति द्वाभ्यां भाद्रमौञ्जीं मेखलां बध्नाति
(७,७[५६].२) मित्रावरुणयोस्त्वा हस्ताभ्यां प्रसूतः प्रशिषा प्रयछामीति पालाशं दण्डं प्रयछति
(७,७[५६].३) मित्रावरुणयोस्त्वा हस्ताभ्यां प्रसूतः प्रशिषा प्रतिगृह्णामि । सुश्रवः सुश्रवसं मा कुर्ववक्रोऽविथुरोऽहं भूयासं इति प्रतिगृह्णाति
(७,७[५६].४) <श्येनोऽसि [६.४८.१]>_इति च
(७,७[५६].५) अथ_एनं व्रतादानीयाः समिध आधापयति
(७,७[५६].६) <अग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयं तत्समापेयं तन्मे राध्यतां तन्मे समृध्यतां तन्मे मा व्यनशत्तेन राध्यासं तत्ते प्रब्रवीमि तदुपाकरोमि अग्नये व्रतपतये स्वाहा [च्फ़्. ठ्ऽ१.५.१०.३ एत्च्.]>
(७,७[५६].७) <वायो व्रतपते । सूर्य व्रतपते । चन्द्र व्रतपते । आपो व्रतपत्न्यो । देवा व्रतपतयो । व्रतानां व्रतपतयो व्रतं अचारिषं तदशकं तत्समाप्तं तन्मे राद्धं तन्मे समृद्धं तन्मे मा व्यनशत्तेन राधोऽस्मि तद्वः प्रब्रवीमि तदुपाकरोमि व्रतेभ्यो व्रतपतिभ्यः स्वाह [च्फ़्. ठ्ऽ१.६.६.३ एत्च्.]>
(७,७[५६].८) अथ_एनं बद्धमेखलं आहितसमित्कं सावित्रीं वाचयति
(७,७[५६].९) पच्छः प्रथमम्
(७,७[५६].१०) ततो_अर्धर्चशः
(७,७[५६].११) ततः संहिताम्
(७,७[५६].१२) अथ_एनं संशास्ति_<अग्नेश्चासि ब्रह्मचारिन्मम चापोऽशान कर्म कुरूर्ध्वस्तिष्ठन्मा दिवा स्वाप्सीः समिध आधेहि [च्फ़्. ंअन्B्१.६.२३]>
(७,७[५६].१३) अथ_एनं भूतेभ्यः परिददाति_<अग्नये त्वा परिददामि ब्रह्मणे त्वा परिददाम्युदङ्क्याय त्वा शूल्वाणाय परिददामि शत्रुंजयाय त्वा क्षात्राणाय परिददामि मार्त्युंजयाय त्वा मार्त्यवाय परिददाम्यघोराय त्वा परिददामि तक्षकाय त्वा वैशालेयाय परिददामि हाहाहूहूभ्यां त्वा गन्धर्वाभ्यां परिददामि योगक्षेमाभ्यां त्वा परिददामि भयाय च त्वाभयाय च परिददामि विश्वेभ्यस्त्वा देवेभ्यः परिददामि सर्वेभ्यस्त्वा देवेभ्यः परिददामि विश्वेभ्यस्त्वा भूतेभ्यः परिददामि सर्वेभ्यस्त्वा भूतेभ्यः परिददामि सप्रजापतिकेभ्यः [च्फ़्. भार्ङ्ऽ१.८ः८.१फ़्फ़्.]>
(७,७[५६].१४) <स्वस्ति चरतादिह [च्फ़्. PS२०.५३.२, ःइर्ङ्ऽ१.५.१]>_इति <मयि रमन्तां ब्रह्मचारिणः [-]>_इत्यनुगृह्णीयात्
(७,७[५६].१५) नानुप्रणुदेत्
(७,७[५६].१६) <प्रणीतीरभ्यावर्तस्व [७.१०५.१]>_इत्यभ्यात्मं आवर्तयति
(७,७[५६].१७) <यथापः प्रवता यन्ति यथा मासा अहर्जरं । एवा मा ब्रह्मचारिणो धातरा यन्तु सर्वदा । । [PS२०.५२.९]> स्वाहा_इत्याचार्यः समिधं आदधाति
(७,८[५७].१) <श्रद्धाया [एद्. मिस्प्रिन्तः श्राधया; सी Cअलन्द्, Kल्. Sछ्र्., प्. ५१, B्लूम्फ़िएल्द्ङ्ङा १९०२ ५१४] दुहिता [६.१३३.४]>_इति द्वाभ्यां भाद्रमौञ्जीं मेखलां ब्राह्मणाय बध्नाति
(७,८[५७].२) मौर्वीं क्षत्रियाय धनुर्ज्यां वा
(७,८[५७].३) क्ष्ॐइकीं वैश्याय
(७,८[५७].४) मित्रावरुणयोस्त्वा हस्ताभ्यां प्रसूतः प्रशिषा प्रयछामीति पालाशं दण्डं ब्राह्मणाय प्रयछति
(७,८[५७].५) आश्वत्थं क्षत्रियाय
(७,८[५७].६) न्यग्रोधावरोहं वैश्याय
(७,८[५७].७) यदि_अस्य दण्डो भज्येत <य ऋते चिदभिश्रिषः [१४.२.४७]>_इत्येतयालभ्याभिमन्त्रयते
(७,८[५७].८) सर्वत्र शीर्णे भिन्ने नष्टे_अन्यं कृत्वा <पुनर्मैत्विन्द्रियं [७.६७.१]>_इत्यादधीत
(७,८[५७].९) अथ वासांसि
(७,८[५७].१०) ऐणेयहारिणानि ब्राह्मणस्य
(७,८[५७].११) रौरवपार्षतानि क्षत्रियस्य
(७,८[५७].१२) आजाविकानि वैश्यस्य
(७,८[५७].१३) सर्वेषां क्ष्ॐअशाणकम्बलवस्त्रम्
(७,८[५७].१४) काषायाणि
(७,८[५७].१५) वस्त्रं चापि_अकाषायम्
(७,८[५७].१६) भवति भिक्षां देहीति ब्राह्मणश्चरेत्
(७,८[५७].१७) भिक्षां भवती ददात्विति क्षत्रियः
(७,८[५७].१८) देहि भिक्षां भवतीत्वैश्यः
(७,८[५७].१९) सप्त कुलानि ब्राह्मणश्चरेत्त्रीणि क्षत्रियो द्वे वैश्यः
(७,८[५७].२०) सर्वं ग्रामं चरेद्भैक्षं स्तेनपतितवर्जम्
(७,८[५७].२१) <मय्यग्रे [७.८२.२]>_इति पञ्चप्रश्नेन जुहोति
(७,८[५७].२२) <सं मा सिञ्चन्तु [७.३३.१]>_इति त्रिः पर्युक्षति
(७,८[५७].२३) <यदग्ने तपसा तप [७.६१.१]>_<अग्ने तपस्तप्यामह [७.६२.२]> इति द्वाभ्यां परिसमूहयति
(७,८[५७].२४) <इदं आपः प्रवहत [७.८९.३]>_इति पाणी प्रक्सालयते
(७,८[५७].२५) <सं मा सिञ्चन्तु [७.३३.१]>_इति त्रिः पर्युक्षति
(७,८[५७].२६) <अग्ने समिधं आहार्षं [१९.६४.१]>_इत्यादधाति चतस्रः
(७,८[५७].२७) <एधोऽस्य्[७.८९.४]>_इत्यूष्मभक्षं भक्षयति_आ निधनात्
(७,८[५७].२८) <त्वं नो मेधे [६.१०८.१]>_इत्युपतिष्ठते
(७,८[५७].२९) <यदन्नं [६.७१.१]> इति तिसृभिर्भैक्षस्य जुहोति
(७,८[५७].३०) अहरहः समिध आहृत्य_एवं सायंप्रातरभ्यादध्यात्
(७,८[५७].३१) मेधाजनन आयुष्यैर्जुहुयात्
(७,८[५७].३२) यथाकामं द्वादशरात्रं अरसाशी भवति
(७,९[५८].१) <भद्राय कर्णः क्रोशतु भद्रायाक्षि वि वेपतां । परा दुःष्वप्न्यं सुव यद्भद्रं तन्न आ सुव । । अक्षिवेपं दुःष्वप्न्यं आर्तिं पुरुषरेषिणीं । तदस्मदश्विना युवं अप्रिये प्रति मुञ्चतं । । यत्पार्श्वादुरसो मे अङ्गादङ्गादववेपते । अश्विना पुष्करस्रजा तस्मान्नः पातं अंहसः [PS२०.५४.६-८]>_इति कर्णं क्रोशन्तं अनुमन्त्रयते
(७,९[५८].२) अक्षि वा स्फुरत्
(७,९[५८].३) <वि देवा जरसा [३.३१.१]>_<उत देवा [४.१३.१]> <आवतस्त [५.३०.१]> <उप प्रियं [७.३२.१]>_<अन्तकाय मृत्यवे [८.१.१]>_<आ रभस्व [८.२.१]> <प्राणाय नमो [११.४.१]> <विषासहिं [१७.१.१]>_इत्यभिमन्त्रयते
(७,९[५८].४) ब्राह्मणोक्तं ऋषिहस्तश्च
(७,९[५८].५) <कर्मणे वां वेषाय वां सुकृताय वां [च्फ़्. ठ्ऽ१.१.४.१ एत्च्., Kऔश्ऽ१.१.४०]> इति पाणी प्रक्षाल्य
(७,९[५८].६) <निर्दुरर्मण्य [१६.२.१]> इति संधाव्य
(७,९[५८].७) <शुद्धा न आपस्[१२.१.३०]>_इति निष्ठीव्य जीवाभिराचम्य
(७,९[५८].८) <एहि जीवं [४.९.१]>_इत्याञ्जनमणिं बध्नाति
(७,९[५८].९) <वाताज्जातो [४.१०.१]>_इति कृशनम्
(७,९[५८].१०) <नव प्राणान्[५.२८.१]> इति मन्त्रोक्तम्
(७,९[५८].११) <घृतादुल्लुप्तं [५.२८.१४]> <आ त्वा चृतत्व्[५.२८.१२]> <ऋतुभिष्ट्वा [५.२८.१३]> [च्फ़्. PS२.५९.१०-१२] <मुञ्चामि त्वा [३.११.१]>_<उत देवा [४.१३.१]> <आवतस्त [५.३०.१]> <उप प्रियं [७.३२.१]>_<अन्तकाय मृत्यवे [८.१.१]>_<आ रभस्व [८.२.१]> <प्राणाय नमो [११.४.१]> <विषासहिं [१७.१.१]>_इत्यभिमन्त्रयते
(७,९[५८].१२) <निर्दुरर्मण्य [१६.२.१]> इति सर्वसुरभिचूर्णैररण्ये_अप्रतीहारं प्रलिम्पति
(७,९[५८].१३) अथ नामकरणम्
(७,९[५८].१४) <आ रभस्वेमां [८.२.१]> इत्यविछिन्नां उदकधारां आलम्भयति
(७,९[५८].१५) पूतुदारुं बध्नाति
(७,९[५८].१६) पाययति
(७,९[५८].१७) <यत्ते वासः [८.२.१६]>_इत्यहतेन_उत्तरसिचा प्रछादयति
(७,९[५८].१८) <शिवे ते स्तां [८.२.१४]>_इति कुमारं प्रथमं निर्णयति
(७,९[५८].१९) <शिवौ ते स्तां [८.२.१८]>_इति व्रीहियवौ प्राशयति
(७,९[५८].२०) <अह्ने च त्वा [८.२.२०]>_इत्यहोरात्राभ्यां परिददाति
(७,९[५८].२१) <शरदे त्वा [८.२.२२]>_इत्यृतुभ्यः
(७,९[५८].२२) <उदस्य केतवो [१३.२.१]> <मूर्धाहं [१६.३.१]> <विषासहिं [१७.१.१]> इत्युद्यन्तं उपतिष्ठते
(७,९[५८].२३) मध्यंदिने_अस्तं यन्तं सकृत्पर्यायाभ्याम्
(७,९[५८].२४) अंहोलिङ्गानां आपो भोजनहवींषि_उक्तानि
(७,९[५८].२५) उत्तमासु <यन्मातली रथक्रीतं [११.६.२३]> इति सर्वासां द्वितीया
(७,१०[५९].१) <विश्वे देवा [१.३०.१]> इति विश्वानायुष्कामो यजते
(७,१०[५९].२) उपतिष्ठते
(७,१०[५९].३) <इदं जनास [१.३२.१]> इति द्यावापृथिव्यै पुष्टिकामः
(७,१०[५९].४) संपत्कामः
(७,१०[५९].५) <इन्द्र जुषस्व [२.५.१]>_इतीन्द्रं बलकामः
(७,१०[५९].६) <इन्द्रं अहं [३.१५.१]>_इति पण्यकामः
(७,१०[५९].७) <उदेनं उत्तरं नय [६.५.१]> <योऽस्मान्[६.६.१]> <इन्द्रः सुत्रामा [७.९१.१]>_इति ग्रामकामः
(७,१०[५९].८) ग्रामसांपदानां अप्ययः
(७,१०[५९].९) <यशसं मेन्द्रो [६.५८.१]>_इति यशस्कामः
(७,१०[५९].१०) <मह्यं आपो [६.६१.१]>_इति व्यचस्कामः
(७,१०[५९].११) <आगछत [६.८२.१]> इति जायाकामः
(७,१०[५९].१२) <वृषेन्द्रस्य [६.८६.१]>_इति वृषकामः
(७,१०[५९].१३) <आ त्वाहार्षं [६.८७.१]> <ध्रुवा द्यौर्[६.८८.१]> इति ध्रौव्यकामः
(७,१०[५९].१४) <त्यं ऊ षु [७.८५.१]> <त्रातारं [७.८६.१]> <आ मन्द्रैर्[७.११७.१]> इति स्वस्त्ययनकामः
(७,१०[५९].१५) <समास्त्वाग्ने [२.६.१]>_<अभ्यर्चत [७.८२.१]>_इत्यग्निं संपत्कामः
(७,१०[५९].१६) <पृथिव्यां [४.३९.१]> इति मन्त्रोक्तम्
(७,१०[५९].१७) <तदिदास [५.२.१]> <धीती वा [७.१.१]>_इतीन्द्राग्नी
(७,१०[५९].१८) <यस्येदं आ रजो [६.३३.१]>_<अथर्वाणं [७.२.१]>_<अदितिर्द्यौर्[७.६.१]> <दितेः पुत्राणां [७.७.१]>_<बृहस्पते सवितर्[७.१६.१]> इत्यभ्युदितं ब्रह्मचारिणं बोधयति
(७,१०[५९].१९) <धाता दधातु [७.१७.१]> <प्रजापतिर्जनयति [७.१९.१]>_<अन्वद्य नो [७.२०.१]> <यन्न इन्द्रो [७.२४.१]> <ययोरोजसा [७.२५.१]> <विष्णोर्नु कं [७.२६.१]>_<अग्नाविष्णू [७.२९.१]> <सोमारुद्रा [७.४२.१]> <सिनीवालि [७.४६.१]> <बृहस्पतिर्नः [७.५१.१]>_<यत्ते देवा अकृण्वन्[७.७९.१]> <पूर्णा पश्चाद्[७.८०.१]>_<प्रजापते [७.८०.३]>_<अभ्यर्चत [७.८२.१]> <को अस्या नो [७.१०३.१]>_इति प्रजापतिम्
(७,१०[५९].२०) <अग्न इन्द्रश्च [७.११०.१]>_इति मन्त्रोक्तान्सर्वकामः
(७,१०[५९].२१) <य ईशे [२.३४.१]> <ये भक्षयन्तो [२.३५.१]>_इतीन्द्राग्नी लोककामः
(७,१०[५९].२२) अन्नं ददाति प्रथमम्
(७,१०[५९].२३) पशूपाकरणं उत्तमम्
(७,१०[५९].२४) सवपुरस्ताद्धोमा युज्यन्ते
(७,१०[५९].२५) <दोषो गाय [६.१.१]>_इत्यथर्वाणं समावृत्याश्नाति
(७,१०[५९].२६) <अभयं द्यावापृथिवी [६.४०.१]> <श्येनोऽसि [६.४८.१]>_इति प्रतिदिशं सप्तर्षीनभयकामः
(७,१०[५९].२७) उत्तरेण दीक्षितस्य वा ब्रह्मचारिणो वा दण्डप्रदानं
(७,१०[५९].२८) <द्यौश्च म [६.५३.१]> इति द्यावापृथिव्यै विरिष्यति
(७,१०[५९].२९) <यो अग्नौ [७.८७.१]>_इति रुद्रान्स्वस्त्ययनकामः स्वस्त्ययनकामः
(Kऔश्ऽ७ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे सप्तमोऽध्यायः समाप्तः
(८,१[६०].१) अग्नीनाधास्यमानः सवान्वा दास्यन्संवत्सरं ब्रह्मौदनिकं अग्निं दीपयति
(८,१[६०].२) अहोरात्रौ वा
(८,१[६०].३) याथाकामी वा
(८,१[६०].४) संवत्सरं तु प्रशस्तम्
(८,१[६०].५) सवाग्निसेनाग्नी तादर्थिकौ निर्मथ्यौ वा भवतः
(८,१[६०].६) औपासनौ च_उभौ हि विज्ञायेते
(८,१[६०].७) तस्मिन्देवहेडनेनाज्यं जुहुयात्
(८,१[६०].८) समिधो_अभ्यादध्यात्
(८,१[६०].९) शकलान्वा
(८,१[६०].१०) तस्मिन्यथाकामं सवान्ददाति_एकं द्वौ सर्वान्वा
(८,१[६०].११) अपि वा_एकैकं आत्माशिषो दातारं वाचयति
(८,१[६०].१२) पराशिषो_अनुमन्त्रणं अनिर्दिष्टाशिषश्च
(८,१[६०].१३) दातारौ कर्माणि कुरुतः
(८,१[६०].१४) तौ यथालिङ्गं अनुमन्त्रयते
(८,१[६०].१५) उभयलिङ्गैरुभौ पुंलिङ्गैर्दातारं स्त्रीलिङ्गैः पत्नीम्
(८,१[६०].१६) उदहृत्संप्रैषवर्जम्
(८,१[६०].१७) अथ देवयजनम्
(८,१[६०].१८) तद्यत्समं समूलं अविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणं आकृतिलोष्टवल्मीकेनास्तीर्य दर्भैश्च लोमभिः पशूनाम्
(८,१[६०].१९) <अग्ने जायस्व [११.१.१]>_इति मन्थन्तौ_अनुमन्त्रयते
(८,१[६०].२०) पत्नी मन्त्रं संनमयति
(८,१[६०].२१) यजमानश्च [एम्. Cअलन्द्, Kल्. Sछ्र्. प्. ८९, B्लूम्फ़िएल्द्ङ्ङा १९०२ ५१४]
(८,१[६०].२२) <कृणुत धूमं [११.१.२]>_इति धूमम्
(८,१[६०].२३) <अग्नेऽजनिष्ठा [११.१.३]> इति जातम्
(८,१[६०].२४) <समिद्धो अग्ने [११.१.४]>_इति समिध्यमानम्
(८,१[६०].२५) <परेहि नारि [११.१.१३]>_इत्युदहृतं संप्रेष्यति_अनुगुप्तां अलंकृताम्
(८,१[६०].२६) <एमा अगुर्[११.१.१४अ]> इत्यायतीं अनुमन्त्रयते
(८,१[६०].२७) <उत्तिष्ठ नारि [११.१.१४ब्]>_इति पत्नीं संप्रेष्यति
(८,१[६०].२८) <प्रति कुम्भं गृभाय [११.१.१४द्]>_इति प्रतिगृह्णाति
(८,१[६०].२९) <ऊर्जो भागो [११.१.१५]>_इति निदधाति
(८,१[६०].३०) <इयं मही [११.१.८]>_इति चर्मास्तृणाति प्राग्ग्रीवं उत्तरलोम
(८,१[६०].३१) <पुमान्पुंसो [१२.३.१]>_इति चर्मारोहयति
(८,१[६०].३२) पत्नी ह्वयमानम्
(८,१[६०].३३) तृतीयस्यां अपत्यं अन्वाह्वयति
(८,१[६०].३४) <ऋषिप्रशिष्टा [११.१.१५ब्]>_इत्युदपात्रं चर्मणि निदधाति
(८,१[६०].३५) तद्<आपस्पुत्रासो [१२.३.४]>_इति सापत्यौ_अनुनिपद्येते
(८,२[६१].१) <प्राचींप्राचीं [१२.३.७]>_इति मन्त्रोक्तम्
(८,२[६१].२) चतसृभिरुदपात्रं अनुपरियन्ति
(८,२[६१].३) प्रतिदिशं <ध्रुवेयं विराण्[१२.३.११]>_इत्युपतिष्ठन्ते
(८,२[६१].४) <पितेव पुत्रान्[१२.३.१२]> इत्यवरोह्य भूमिं तेन_उदकार्थान्कुर्वन्ति
(८,२[६१].५) पवित्रैः संप्रोक्षन्ते
(८,२[६१].६) दर्भाग्राभ्यां चर्महविः संप्रोक्षति
(८,२[६१].७) आदिष्टानां सानजानत्यै प्रयछति
(८,२[६१].८) तान्_<त्रेधा भागो [११.१.५]>_इति व्रीहिराशिषु निदधाति
(८,२[६१].९) तेषां यः पितॄणां तं श्राद्धं करोति
(८,२[६१].१०) यो मनुष्याणां तं ब्राह्मणान्भोजयति
(८,२[६१].११) यो देवानां तं <अग्ने सहस्वान्[११.१.६]> इति दक्षिणं जानु_आच्यापराजिताभिमुखः प्रह्वो वा मुष्टिप्रसृताञ्जलिभिः कुम्भ्यां निर्वपति
(८,२[६१].१२) कुम्भ्या वा चतुः
(८,२[६१].१३) तान्<सप्त मेधान्[१२.३.१६]> इति सापत्यौ_अभिमृशतः
(८,२[६१].१४) <गृह्णामि हस्तं [१२.३.१७च्]> इति मन्त्रोक्तम्
(८,२[६१].१५) <त्रयो वरा [११.१.१०च्]> इति त्रीन्वरान्वृणीष्व_इति
(८,२[६१].१६) अनेन कर्मणा ध्रुवानिति प्रथमं वृणीते
(८,२[६१].१७) यौ_अपरौ तौ_एव पत्नी
(८,२[६१].१८) <एतौ ग्रावाणौ [११.१.९]>_<अयं ग्रावा [१२.३.१४]>_इत्युलूखलमुसलं शूर्पं प्रक्षालितं चर्मणि_आधाय
(८,२[६१].१९) <गृहाण ग्रावाणौ [११.१.१०]>_इत्युभयं गृह्णाति
(८,२[६१].२०) <साकं सजातैः [११.१.७]>_इति व्रीहीनुलूखल आवपति
(८,२[६१].२१) <वनस्पतिः [१२.३.१५]>_इति मुसलं उच्छ्रयति
(८,२[६१].२२) <निर्बिन्ध्यंशून्[११.१.९ब्]> <ग्राहिं पाप्मानं [१२.३.१८]> इत्यवहन्ति
(८,२[६१].२३) <इयं ते धीतिर्[११.१.११]> <वर्षवृद्धं [१२.३.१९च्]> इति शूर्पं गृह्णाति
(८,२[६१].२४) <ऊर्ध्वं प्रजां [११.१.९द्]>_<विश्वव्यचा [१२.३.१९]> इत्युदूहन्तीम्
(८,२[६१].२५) <परा पुनीहि [११.१.११च्]> <तुषं पलावान्[१२.३.१९द्]> इति निष्पुनतीम्
(८,२[६१].२६) <पृथग्रूपाणि [१२.३.२१]>_इत्यवक्षिणतीम्
(८,२[६१].२७) <त्रयो लोकाः [१२.३.२०]>_इत्यवक्षीणानभिमृशतः
(८,२[६१].२८) <पुनरा यन्तु शूर्पं [१२.३.२०द्]> इत्युद्वपति
(८,२[६१].२९) <उपश्वसे [११.१.१२]>_इत्यपवेवेक्ति
(८,२[६१].३०) <पृथिवीं त्वा पृथिव्यां [१२.३.२२]> इति कुम्भीं आलिम्पति
(८,२[६१].३१) <अग्ने चरुर्[११.१.१६]>_इत्यधिश्रयति
(८,२[६१].३२) <अग्निः पचन्[१२.३.२४]>_इति पर्यादधाति
(८,२[६१].३३) <ऋषिप्रशिष्टा [११.१.१५ब्]>_इत्युदकं अपकर्षति
(८,२[६१].३४) <शुद्धाः पूताः [११.१.१७]> <पूताः पवित्रैः [१२.३.२५]>_इति पवित्रे अन्तर्धाय
(८,२[६१].३५) उदकं आसिञ्चति
(८,२[६१].३६) <ब्रह्मणा शुद्धाः [११.१.१८]> <संख्याता स्तोकाः [१२.३.२८]>_इत्यापस्तासु निक्त्वा तण्डुलानावपति
(८,२[६१].३७) <उरुः प्रथस्व [११.१.१९]>_<उद्योधन्ति [१२.३.२९]> श्रपयति
(८,२[६१].३८) <प्र यछ पर्शुं [१२.३.३१]>_इति दर्भाहाराय दात्रं प्रयछति
(८,२[६१].३९) <ओषधीर्दान्तु पर्वन्[१२.३.३१ब्]>_इत्युपरि पर्वणां लुनाति
(८,२[६१].४०) <नवं बर्हिर्[१२.३.३२]> इति बर्हि स्तृणाति
(८,२[६१].४१) <उदेहि वेदिं [११.१.२१]> <धर्ता ध्रियस्व [१२.३.३५]>_इत्युद्वासयति
(८,२[६१].४२) <अभ्यावर्तस्व [११.१.२२]>_इति कुम्भीं प्रदक्षिणं आवर्तयति
(८,२[६१].४३) <वनस्पते स्तीर्णं [१२.३.३३]> इति बर्हिषि पात्रीं निदधाति
(८,२[६१].४४) <अंसध्रीं [११.१.२३च्]>_इत्युपदधाति
(८,२[६१].४५) <उप स्तृणीहि [१२.३.२७]>_इत्याज्येन_उपस्तृणाति
(८,२[६१].४६) <उपस्तरीर्[१२.३.२८]> इत्युपस्तीर्णां अनुमन्त्रयते
(८,३[६२].१) <अदितेर्हस्तां [११.१.२४]> <सर्वान्समागा [१२.३.३६]> इति मन्त्रोक्तम्
(८,३[६२].२) तत उदकं आदाय पात्र्यां आनयति
(८,३[६२].३) दर्व्या कुम्भ्यां
(८,३[६२].४) दर्विकृते तत्र_एव प्रत्यानयति
(८,३[६२].५) दर्व्या_उत्तमं अपादाय तत्सुहृद्दक्षिणतो_अग्नेरुदङ्मुख आसीनो धारयति
(८,३[६२].६) अथ_उद्धरति
(८,३[६२].७) उद्धृते यदपादाय धारयति ततुत्तरार्ध आदधाति
(८,३[६२].८) अनुत्तराधरताया ओदनस्य यदुत्तरं तदुत्तरं ओदन एव_ओदनः
(८,३[६२].९) <षष्ठ्यां शरत्सु [१२.३.३४]>_इति पश्चादग्नेरुपसादयति
(८,३[६२].१०) <निधिं निधिपा [१२.३.४२]> इति त्रीणि काण्डानि करोति
(८,३[६२].११) <यद्यज्जाया [१२.३.३९]>_इति मन्त्रोक्तम्
(८,३[६२].१२) सा पत्यौ_अन्वारभते
(८,३[६२].१३) अन्वारब्धेषु_अत ऊर्ध्वं करोति
(८,३[६२].१४) <अग्नी रक्षस्[१२.३.४३]>_इति पर्यग्नि करोति
(८,३[६२].१५) <बभ्रेरध्वर्यो [११.१.३१]> <इदं प्रापं [१२.३.४५]> इत्युपरि_आपानं करोति
(८,३[६२].१६) <बभ्रेर्ब्रह्मन्न्[च्फ़्. ११.१.३१]> इति ब्रूयादनध्वर्युम्
(८,३[६२].१७) <घृतेन गात्रा [११.१.३१च्]>_<आ सिञ्च सर्पिर्[१२.३.४५च्]> इति सर्पिषा विष्यन्दयति
(८,३[६२].१८) <वसोर्या धारा [१२.३.४१]> <आदित्येभ्यो अङ्गिरोभ्यो [१२.३.४४]>_इति रसैरुपसिञ्चति
(८,३[६२].१९) <प्रियं प्रियाणां [१२.३.४९]>_इत्युत्तरतो_अग्नेर्धेन्वादीनि_अनुमन्त्रयते
(८,३[६२].२०) तां <अत्यासरत्प्रथमा [PS५.३१.१]>_इति यथोक्तं दोहयित्वा_उपसिञ्चति
(८,३[६२].२१) <अत्यासरत्प्रथमा धोक्ष्यमाणा सर्वान्यज्ञान्बिभ्रती वैश्वदेवी । उप वत्सं सृजत वाश्यते गौर्व्यसृष्ट सुमना हिं कृणोति । । बधान वत्सं अभि धेहि भुञ्जती निज्य गोधुगुप सीद दुग्धि । इरां अस्मा ओदनं पिन्वमाना कीलालं घृतं मदं अन्नभागं । । सा धावतु यमराज्ञः सवत्सा सुदुघां पथा प्रथमेह दत्ता । अतूर्णदत्ता प्रथमेदं आगन्वत्सेन गां सं सृज विश्वरूपां [PS५.३१.१-३]> इति
(८,३[६२].२२) <इदं मे ज्योतिर्[११.१.२८]>_<सं अग्नयः [१२.३.५०]>_इति हिरण्यं अधिदधाति
(८,३[६२].२३) <एषा त्वचां [१२.३.५१]>_इत्यमा_ऊतं वासो_अग्रतः सहिरण्यं निदधाति
(८,४[६३].१) <यदक्षेषु [१२.३.५२]>_इति समानवसनौ भवतः
(८,४[६३].२) द्वितीयं तत्पापचैलं भवति तन्मनुष्यान्धमाय दद्यादित्येके
(८,४[६३].३) <शृतं त्वा हव्यं [११.१.२५]> इति वतुर आर्षेयान्भृग्वङ्गिरोविदुपसादयति
(८,४[६३].४) <शुद्धाः पूता [११.१.२७]> इति मन्त्रोक्तम्
(८,४[६३].५) <पक्वं क्षेत्रात्[११.१.२८ब्]>_<वर्षं वनुष्व [१२.३.५३]>_इत्यपकर्षति
(८,४[६३].६) <अग्नौ तुषान्[११.१.२९]> इति तुषानावपति
(८,४[६३].७) <परः कम्बूकान्[११.१.२९ब्]> इति सव्येन पादेन फलीकरणानपोहति
(८,४[६३].८) <तन्वं स्वर्गो [१२.३.५४]>_इत्यन्यानावपति
(८,४[६३].९) <अग्ने प्रेहि [४.१४.५]>_<समाचिनुष्व [११.१.३६]>_इत्याज्यं जुहुयात्
(८,४[६३].१०) एष सवानां संस्कारः
(८,४[६३].११) अर्थलुप्तानि निवर्तन्ते
(८,४[६३].१२) यथासवं मन्त्रं संनमयति
(८,४[६३].१३) लिङ्गं परिहितस्य लिङ्गस्यानन्तरं कर्मकर्मानुपूर्वेण लिङ्गं परीक्षेत
(८,४[६३].१४) लिङ्गेन वा
(८,४[६३].१५) कर्मोत्पत्त्यानुपूर्वं प्रशस्तम्
(८,४[६३].१६) अतथा_उत्पत्तेर्यथालिङ्गम्
(८,४[६३].१७) समुच्चयस्तुल्यार्थानां विकल्पो वा
(८,४[६३].१८) अथ_एतयोर्विभागः
(८,४[६३].१९) सूक्तेन पूर्वं संपातवन्तं करोति
(८,४[६३].२०) <श्राम्यतः [११.१.३०]>_इतिप्रभृतिभिर्वा सूक्तेनाभिमन्त्र्याभिनिगद्य दद्याद्दाता वाच्यमानः
(८,४[६३].२१) अनुवाकेन_उत्तरं संपातवन्तं करोति
(८,४[६३].२२) <प्राच्यै त्वा दिशे [१२.३.५५]>_इतिप्रभृतिभिर्वानुवाकेनाभिमन्त्र्याभिनिगद्य दद्याद्दाता वाच्यमानः
(८,४[६३].२३) यथासवं अन्यान्पृथग्वा_इति प्रकृतिः
(८,४[६३].२४) सर्वे यथोत्पत्त्याचार्याणां पञ्चौदनवर्जम्
(८,४[६३].२५) प्रयुक्तानां पुनरप्रयोगम्
(८,४[६३].२६) एके सहिरण्यां धेनुं दक्षिणां
(८,४[६३].२७) गोदक्षिणां वा कौरुपथिः
(८,४[६३].२८) संपातवतो_अभिमन्त्र्याभिनिगद्य दद्याद्दाता वाच्यमानः
(८,४[६३].२९) <एतं भागं [६.१२२.१]>_<एतं सधस्थाः [६.१२३.१]>_<उलूखले [१०.९.२६]>_इति संस्थितहोमाः
(८,४[६३].३०) आवपते
(८,४[६३].३१) अनुमन्त्रणं च
(८,५[६४].१) <आशानां [१.३१.१]> इति चतुःशरावम्
(८,५[६४].२) <यद्राजानो [३.२९.१]>_इत्यवेक्षति
(८,५[६४].३) पदस्नातस्य पृथक्पादेषु_अपूपान्निदधाति
(८,५[६४].४) नाभ्यां पञ्चमम्
(८,५[६४].५) उन्नह्यन्वसनेन सहिरण्यं संपातवन्तम्
(८,५[६४].६) <आ नयैतं [९.५.१]> इत्यपराजितादजमानीयमानं अनुमन्त्रयते
(८,५[६४].७) <इन्द्राय भागं [९.५.२]>_इति अग्निं परिणीयमानम्
(८,५[६४].८) <ये नो द्विषन्ति [९.५.२च्]>_इति संज्ञप्यमानम्
(८,५[६४].९) <प्र पदो [९.५.३]>_इति पदः प्रक्षालयन्तम्
(८,५[६४].१०) <अनुछ्य श्यामेन [९.५.४]>_इति यथापरु विशन्तम्
(८,५[६४].११) <ऋचा कुम्भीं [९.५.५]> इत्यधिश्रयन्तम्
(८,५[६४].१२) <आ सिञ्च [९.५.५ब्]>_इत्यासिञ्चन्तम्
(८,५[६४].१३) <अव धेहि [९.५.५ब्-Pअर्त्]>_इत्यवदधतम्
(८,५[६४].१४) <पर्याधत्त [९.५.५च्]>_इति पर्यादधतम्
(८,५[६४].१५) <शृतो गछतु [९.५.५द्]>_इत्युद्वासयन्तम्
(८,५[६४].१६) <उत्क्रामातः [९.५.६]>_इति पश्चादग्नेर्दर्भेषूद्धरन्तं
(८,५[६४].१७) उद्धृतं <अजं अनज्मि [४.१४.६]>_इत्याज्येनानक्ति
(८,५[६४].१८) <पञ्चौदनं [४.१४.७]>_इति मन्त्रोक्तम्
(८,५[६४].१९) ओदनान्पृथक्पादेषु निदधाति
(८,५[६४].२०) मध्ये पञ्चमम्
(८,५[६४].२१) दक्षिणं पश्चार्धं यूपेन_उपसिच्य
(८,५[६४].२२) <शृतं अजं [४.१४.९]>_इत्यनुबद्धशिरःपादं तु_एतस्य चर्म
(८,५[६४].२३) <अजो हि [४.१४.१]>_इति सूक्तेन संपातवन्तं यथोक्तम्
(८,५[६४].२४) उत्तरो_अमोतं तस्याग्रतः सहिरण्यं निदधाति
(८,५[६४].२५) <पञ्च रुक्मा [९.५.२५(२६)]>_इति मन्त्रोक्तम्
(८,५[६४].२६) धेन्वादीनि_उत्तरतः सोपधानं आस्तरणं वासो हिरण्यं च
(८,५[६४].२७) <आ नयैतं [९.५.१]> इति सूक्तेन संपातवन्तम्
(८,५[६४].२८) आञ्जनान्तं शतौदनायाः पञ्चौदेन व्याख्यातम्
(८,६[६५].१) <अघायतां [१०.९.१]> इत्यत्र मुखं अपिनह्यमानं अनुमन्त्रयते
(८,६[६५].२) <सपत्नेषु वज्रं [१०.९.१ब्]>_<ग्रावा त्वैषो [१०.९.२द्]>_इति निपतन्तम्
(८,६[६५].३) <वेदिष्टे [१०.९.२]>_इति मन्त्रोक्तं आस्तृणाति
(८,६[६५].४) विंशत्योदनासु श्रयणीषु शतं अवदानानि वध्रीसंनद्धानि पृथगोदनेषूपर्यादधति
(८,६[६५].५) मध्यमायाः प्रथमे रन्ध्रिण्यामिक्षां दशमे_अभितः सप्तसप्तापूपान्परिश्रयति
(८,६[६५].६) पञ्चदशे पुरोडाशौ
(८,६[६५].७) अग्रे हिरण्यम्
(८,६[६५].८) <अपो देवीर्[१०.९.२७]>_इत्यग्रत उदकुम्भान्
(८,६[६५].९) <बालास्ते [१०.९.३]>_इति सूक्तेन संपातवतीम्
(८,६[६५].१०) प्रदक्षिणं अग्निं अनुपरिणीय_उपवेशनप्रक्षालनाचमनं उक्तम्
(८,६[६५].११) पाणौ_उदकं आनीय
(८,६[६५].१२) अथामुष्य_ओदनस्यावदानानां च मध्यात्पूर्वार्धात्_च द्विरवदाय_उपरिष्टादुदकेनाभिघार्य जुहोति <सोमेन पूतो जठरे सीद ब्रह्मणां [११.१.२५च्]> <आर्षेयेषु नि दध ओदन त्वा [११.१.३३अ]>_इति
(८,६[६५].१३) अथ प्राश्नाति
(८,६[६५].१४) <अग्नेष्ट्वास्येन प्राश्नामि बृहस्पतेर्मुखेन । इन्द्रस्य त्वा जठरे सादयामि वरुणस्योदरे । तद्यथा हुतं इष्टं प्राश्नीयाद्देवात्मा त्वा प्राश्नाम्यात्मास्यात्मन्नात्मानं मे मा हिंसीर्[PS२०.५७.१४; च्फ़्. PS९.२१.१फ़्फ़्., VSK२.३.५+७, Vऐत्ऽ३.११]> इति प्राशितं अनुमन्त्रयते
(८,६[६५].१५) <योऽग्निर्नृमणा नाम ब्राह्मणेषु प्रविष्टः । तस्मिन्म एष सुहुतोऽस्त्वोदनः स मा मा हिंसीत्परमे व्योमन् । । सो अस्मभ्यं अस्तु परमे व्योमन्न्[च्फ़्. PS२०.५७.१५, PS१६.७२.९]> इति दातारं वाचयति
(८,६[६५].१६) वीक्षणान्तं शतौदनायाः प्रातर्जपेन व्याख्यातम्
(८,७[६६].१) <वाङ्म आसन्[१९.६०.१]>_इति मन्त्रोक्तानि_अभिमन्त्रयते
(८,७[६६].२) <बृहता मनो [५.१०.८]> <द्यौश्च मे [६.५३.१]> <पुनर्मैत्विन्द्रियं [७.६७.१]>_इति प्रतिमन्त्रयते
(८,७[६६].३) प्रतिमन्त्रिते व्यवदायाश्नन्ति
(८,७[६६].४) शतौदनायां द्वादशं शतं दक्षिणाः
(८,७[६६].५) अधिकं ददतः कामप्रं संपद्यते
(८,७[६६].६) <ब्रह्मास्य [४.३४.१]>_इत्योदने ह्रदान्प्रतिदिशं करोति
(८,७[६६].७) उपरि_आपानम्
(८,७[६६].८) तदभितश्चतस्रो दिश्याः कुल्याः
(८,७[६६].९) ता रसैः पूरयति
(८,७[६६].१०) पृथिव्यां सुरयाद्भिराण्डीकादिवन्ति मन्त्रोक्तानि प्रतिदिशं निधाय
(८,७[६६].११) <यं ओदनं [४.३५.१]>_इत्यतिमृत्युम्
(८,७[६६].१२) <अनड्वान्[४.११.१]> इत्यनड्वाहम्
(८,७[६६].१३) <सूर्यस्य रश्मीन्[४.३८.५]> इति कर्कीं सानूबन्ध्यां ददाति
(८,७[६६].१४) <आयं गौः पृश्निर्[६.३१.१]> <अयं सहस्रं [७.२२.१]> इति पृश्निं गाम्
(८,७[६६].१५) <देवा इमं मदुना संयुतं यवं [६.३०.१]> इति पौनःशिलं मधुमन्तं सहिरण्यं संपातवन्तम्
(८,७[६६].१६) <पुनन्तु मा देवजनाः [६.१९.१]>_इति पवित्रं कृशरम्
(८,७[६६].१७) <कः पृश्निं [७.१०४.१]>_इत्युर्वराम्
(८,७[६६].१८) <साहस्रस्[९.४.१]>_इत्यृषभम्
(८,७[६६].१९) <प्रजापतिश्च [९.७.१]>_इत्यनड्वाहम्
(८,७[६६].२०) <नमस्ते जायमानायै [१०.१०.१]> <ददामि [१२.४.१]>_इति वशां उदपात्रेण संपातवता संप्रोक्ष्याभिमन्त्र्याभिनिगद्य दद्याद्दाता वाच्यमानः
(८,७[६६].२१) <भूमिष्ट्वा [३.२९.८]>_इत्येनां प्रतिगृह्णाति
(८,७[६६].२२) <उपमितां [९.३.१ (५.२८.५)]>_इति यत्_शालया सह दास्यन्भवति तदन्तर्भवति_अपिहितम्
(८,७[६६].२३) मन्त्रोक्तं तु प्रशस्तम्
(८,७[६६].२४) <इटस्य ते वि चृतामि [९.३.१८]>_इति द्वारं अवसारयति
(८,७[६६].२५) <प्रतीचीं त्वा प्रतीचीनः [९.३.२२]>_इत्युदपात्रं अग्निं आदाय प्रपद्यन्ते
(८,७[६६].२६) तदन्तरेव सूक्तेन संपातवत्करोति
(८,७[६६].२७) उदपात्रेण संपातवता शालां संप्रोक्ष्याभिमन्त्र्याभिनिगद्य दद्याद्दाता वाच्यमानः
(८,७[६६].२८) <अन्तरा द्यां च पृथिवीं च [९.३.१५]>_इत्येनां प्रतिगृह्णाति
(८,७[६६].२९) <उपमितां [९.३.१]>_इति मन्त्रोक्तानि प्रचृतति
(८,७[६६].३०) <मा नः पाशं [९.३.२४]>_इत्यभिमन्त्र्य धारयति
(८,७[६६].३१) <नास्यास्थीनि [९.५.२३]>_इति यथोक्तम्
(८,७[६६].३२) <सर्वं एनं समादय [९.५.२३च्]>_इत्यद्भिः पूर्णे गर्ते प्रविध्य संवपति
(८,७[६६].३३) शतौदनां च
(८,८[६७].१) संभृतेषु साविकेषु संभारेषु ब्राह्मणं ऋत्विजं वृणीत
(८,८[६७].२) ऋषिं आर्षेयं सुधातुदक्षिणं अनैमित्तिकम्
(८,८[६७].३) एष ह वा ऋषिरार्षेयः सुधातुदक्षिणो यस्य त्र्यवरार्ध्याः पूर्वपुरुषा विद्याचरणवृत्तशीलसंपन्नाः
(८,८[६७].४) उदगयन इत्येके
(८,८[६७].५) अथात ओदनसवानां उपाचारकल्पं व्याख्यास्यामः
(८,८[६७].६) सवान्दत्त्वाग्नीनादधीत
(८,८[६७].७) सार्ववैदिक इत्येके
(८,८[६७].८) सर्वे वेदा द्विकल्पाः
(८,८[६७].९) मासपरार्ध्या दीक्षा द्वादशरात्रो वा
(८,८[६७].१०) त्रिरात्र इत्येके
(८,८[६७].११) हविष्यभक्षा स्युर्ब्रह्मचारिणः
(८,८[६७].१२) अधः शयीरन्
(८,८[६७].१३) कर्तृदातारौ_आ समापनात्कामं न भुञ्जीरन्संतताश्चेत्स्युः
(८,८[६७].१४) अहनि समाप्तं इत्येके
(८,८[६७].१५) यात्रार्थं दातारौ वा दाता केशश्मश्रुरोमनखानि वापयीत
(८,८[६७].१६) केशवर्जं पत्नी
(८,८[६७].१७) स्नातावहतवसनौ सुरभिणौ व्रतवन्तौ कर्मण्यौ_उपवसतः
(८,८[६७].१८) श्वो भूते यज्ञोपवीती शान्त्युदकं कृत्वा यज्ञवास्तु च संप्रोक्ष्य ब्रह्मौदनिकं अग्निं मथित्वा
(८,८[६७].१९) <यद्देवा देवहेडनं [६.११४.१]> <यद्विद्वांसो यदविद्वांसो [६.११५.१]> <ऽपमित्यं अप्रतीत्तं [६.११७.१]>_इत्येतैस्त्रिभिः सूक्तैरन्वारब्धे दातरि पूर्णहोमं जुहुयात्
(८,८[६७].२०) पूर्वाह्णे बाह्यतः शान्तवृक्षस्य_इध्मं प्राञ्चं उपसमाधाय
(८,८[६७].२१) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रं उपसाद्य परिचरणेनाज्यं परिचर्य
(८,८[६७].२२) नित्यान्पुरस्ताद्धोमान्हुत्वाज्यभागौ च
(८,८[६७].२३) पश्चादग्नेः पल्पूलितविहितं औक्षं वानडुहं वा रोहितं चर्म प्राग्ग्रीवं उत्तरलोम परिस्तीर्य
(८,८[६७].२४) पवित्रे कुरुते
(८,८[६७].२५) दर्भौ_अप्रछिन्नप्रान्तौ प्रक्षाल्यानुलोमं अनुमार्ष्टि
(८,८[६७].२६) दक्षिणं जानु_आच्यापराजिताभिमुखः प्रह्वो वा मुष्टिना प्रसृतिनाञ्जलिना यस्यां श्रपयिष्यन्स्यात्तया चतुर्थम्
(८,८[६७].२७) शरावेण चतुःशरावं <देवस्य त्वा सवितुः प्रसवे [PS१६.७०.१, ठ्ऽ२.४.६.१ एत्च्.]>_<ऋषिभ्यस्त्वार्षेयेभ्यस्त्वैकर्षये त्वा जुष्टं निर्वपामि [च्फ़्. PS१६.७०.२]>
(८,९[६८].१) <वसवस्त्वा गायत्रेण छन्दसा निर्वपन्तु । ऊर्जं अक्षितं अक्षीयमाणं उपजीव्यासं [च्फ़्. PS१६.७०.२+३]> इति दातारं वाचयति
(८,९[६८].२) <रुद्रास्त्वा त्रैष्टुभेन छन्दसा । आदित्यास्त्वा जागतेन छन्दसा । विश्वे त्वा देवा आनुष्टुभेन छन्दसा निर्वपन्तु । ऊर्जं अक्षितं अक्षीयमाणं उप जीव्यासं [च्फ़्. PS१६.७०.२+४+५, आइत्B्८.१२]> इति दातारं वाचयति
(८,९[६८].३) निरुप्तं सूक्तेनाभिमृशति
(८,९[६८].४) स्वर्गब्रह्मौदनौ तन्त्रम्
(८,९[६८].५) संनिपाते ब्रह्मौदनमितं उदकं आसेचयेद्द्विभागम्
(८,९[६८].६) यावन्तस्तण्डुलाः स्युर्नावसिञ्चेत्_न प्रतिषिञ्चेत्
(८,९[६८].७) यदि_अवसिञ्चेत्_<मयि वर्चो अथो यशो [६.६९.३]>_इति ब्रह्मा यजमानं वाचयति
(८,९[६८].८) अथ प्रतिषिञ्चेत्
(८,९[६८].९) <आ प्यायस्व [PS२०.५५.४, .ऱ्V१.१९.१६ एत्च्.]> <सं ते पयांसि [PS२०.५५.६, .ऱ्V१.९१.१८ एत्च्.]>_इति द्वाभ्यां प्रतिषिञ्चेत्
(८,९[६८].१०) <आ प्यायस्व सं एतु ते विस्वतः सोम वृष्ण्यं । भवा वाजस्य संगथे । । सं ते पयांसि सं उ यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः । आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानि धिष्व । । [PS२०.५५.४+६, .ऱ्V१.९१.१६+१८]>_इति
(८,९[६८].११) तत्र चेदुपाधिमात्रायां नखेन न लवणस्य कुर्यात्तेन_एवास्य तद्वृथान्नं संपद्यते
(८,९[६८].१२) अहतं वासो दक्षिणत उपशेते
(८,९[६८].१३) तत्सहिरण्यम्
(८,९[६८].१४) तत्र द्वे उदपात्रे निहिते भवतः
(८,९[६८].१५) दक्षिणं अन्यदन्तरं अन्यत्
(८,९[६८].१६) अन्तरं यतो_अधिचरिष्यन्भवति
(८,९[६८].१७) बाह्यं जाङ्मायनम्
(८,९[६८].१८) तत उदकं आदाय पात्र्यां आनयति
(८,९[६८].१९) दर्व्या कुम्भ्याम्
(८,९[६८].२०) दर्विकृते तत्र_एव प्रत्यानयति
(८,९[६८].२१) दर्व्या_उत्तमं अपादाय तत्सुहृद्दक्षिणतो_अग्नेरुदङ्मुख आसीनो धारयति
(८,९[६८].२२) अथ_उद्धरति
(८,९[६८].२३) उद्धृते यदपादाय धारयति तदुत्तरार्ध आधाय रसैरुपसिच्य प्रतिग्रहीत्रे दाता_उपवहति
(८,९[६८].२४) तस्मिन्नन्वारब्धं दातारं वाचयति
(८,९[६८].२५) तन्त्रं सूक्तं पच्छः स्नातेन <यौ ते पक्षौ [PS३.३८.६]> <यदतिष्ठः [PS३.३८.७]>
(८,९[६८].२६) <यौ ते पक्षावजरौ पतत्रिणौ याभ्यां रक्षांस्यपहंस्योदन । ताभ्यां पथ्यास्म सुकृतस्य लोकं यत्र ऋषयः प्रथमजाः पुराणाः । । यदतिष्ठो दिवस्पृष्ठे व्योमन्नध्योदन । अन्वायन्सत्यधर्माणो ब्राह्मणा राधसा सह । । [PS३.३८.६-७, च्फ़्. ठ्ऽ४.७.१३.१, VSं १८.५२]>
(८,९[६८].२७) <क्रमध्वं अग्निना नाकं [४.१४.२]>_<पृष्ठात्पृथिव्या अहं अन्तरिक्षं आरुहं [४.१४.३]>_<स्वर्यन्तो नापेक्षन्त [४.१४.४]> <उरुः प्रथस्व महता महिम्ना [११.१.१९]>_<इदं मे ज्योतिर्[११.१.२८]>_<सत्याय च [१२.३.४६]>_इति तिस्रः <सं अग्नयः [१२.३.५०]>_इति सार्धं एतया
(८,९[६८].२८) अत ऊर्ध्वं वाचिते हुते संस्थिते_अमूं ते ददामीति नामग्राहं उपस्पृशेत्
(८,९[६८].२९) सदक्षिणं <कामस्तद्[१९.५२.१]> इत्युक्तम्
(८,९[६८].३०) <ये भक्षयन्तो [२.३५.१]>_इति पुरस्ताद्धोमाः
(८,९[६८].३१) <अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः । तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनं ईमहे सखिभ्यः । । [.ऱ्V५.२४.१अब्+२च्देत्च्.]> <गयस्फानो अमीवहा वसुवित्पुष्टिवर्धनः । सुमित्रः सुमनो भव [च्फ़्. .ऱ्V१.९१.१२ एत्च्.]>_इत्याज्यभागौ
(८,९[६८].३२) पाणौ_उदकं आनीय_इत्युक्तम्
(८,९[६८].३३) प्रतिमन्त्रणान्तम्
(८,९[६८].३४) प्रतिमन्त्रिते व्यवदायाश्नन्ति
(८,९[६८].३५) <इदावत्सराय [PS१९.५१.१-४]>_इति व्रतविसर्जनं आज्यं जुहुयात्
(८,९[६८].३६) समिधो_अभ्याध्यात्
(८,९[६८].३७) तत्र श्लोकौ । यजुषा मथिते अग्नौ यजुषोपसमाहिते । सवान्दत्त्वा सवाग्नेस्तु कथं उत्सर्जनं भवेत् । । वाचयित्वा सवान्सर्वान्प्रतिगृह्य यथाविधि । हुत्वा संनतिभिस्तत्रोत्सर्गं कौशिकोऽब्रवीत्
(८,९[६८].३८) प्राञ्चो_अपराजितां वा दिशं अवभृथाय व्रजन्ति
(८,९[६८].३९) अपां सूक्तैराप्लुत्य प्रदक्षिणं आवृत्याप उपस्पृश्यानवेक्षमाणाः प्रत्युदाव्रजन्ति
(८,९[६८].४०) ब्राह्मणान्भक्तेन_उपेप्सन्ति
(८,९[६८].४१) यथोक्ता दक्षिणा यथोक्ता दक्षिणा
(Kऔश्ऽ८ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रेऽष्टमोऽध्यायः समाप्तः
(९,१[६९].१) पित्र्यं अग्निं शमयिष्यञ्ज्येष्ठस्य चाविभक्तिन एकाग्निं आधास्यन्
(९,१[६९].२) अमावास्यायं पूर्वस्मिन्नुपशाले गां द्विहायनीं रोहिणीं एकरूपां बन्धयति
(९,१[६९].३) निशि शामूलपरिहितो ज्येष्ठो_अन्वालभते
(९,१[६९].४) पत्नी_अहतवसना ज्येष्ठम्
(९,१[६९].५) पत्नीं अन्वञ्च इतरे
(९,१[६९].६) अथ_एनानभिव्याहारयति_<अध्रिगो शमीध्वं । सुशमि शमीध्वं । शमीध्वं अध्रिगा ओ उ [च्फ़्. ठ्B्३.६.६.४ एत्च्.]> इति त्रिः
(९,१[६९].७) <अयं अग्निः सत्पतिर्[७.६२.१]> <नडं आ रोह [१२.२.१]>_इत्यनुवाकं महाशान्तिं च शान्त्युदक आवपते
(९,१[६९].८) <अग्ने अक्रव्याद्[१२.२.४२]> इति भ्रष्टाद्दीपं धारयति
(९,१[६९].९) भूमेश्च_उपदग्धं समुत्खाय
(९,१[६९].१०) आकृतिलोष्टवल्मीकेनास्तीर्य
(९,१[६९].११) शकृत्पिण्डेनाभिलिप्य
(९,१[६९].१२) सिकताभिः प्रकीर्याभ्युक्ष्य
(९,१[६९].१३) लक्षणं कृत्वा
(९,१[६९].१४) पुनरभ्युक्ष्य
(९,१[६९].१५) पश्चाल्लक्षणस्याभिमन्थनं निधाय
(९,१[६९].१६) गोऽश्वाजावीनां पुंसां लोमभिरास्तीर्य व्रीहियवैश्च शकृत्पिण्डं अभिविमृज्य प्राञ्चौ दर्भौ निदधाति
(९,१[६९].१७) <वृषणौ स्थः [ठ्ऽ१.३.७.१ एत्च्.]>_इत्यभिपाण्यारण्यौ
(९,१[६९].१८) तयोरुपरि_अधरारणिम्
(९,१[६९].१९) दक्षिणतो मूलान्
(९,१[६९].२०) पश्चात्प्रजननां <उर्वश्यसि [ठ्ऽ१.३.७.१ एत्च्.]>_इत्य्<आयुरसि [ठ्ऽ१.३.७.१ एत्च्.]>_इति
(९,१[६९].२१) मूलत उत्तरारणिं उपसंधाय
(९,१[६९].२२) <पृतनाजितं [७.६३.१]>_इत्याहूय
(९,१[६९].२३) अभिदक्षिणं ज्येष्ठस्त्रिरभिमन्थति_<ओं भूर्गायत्रं छन्दोऽनुप्रजायस्व त्रैष्ठुभं जागतं आनुष्ठुबं ओं भूर्भुवः स्वर्जनदों [च्फ़्. ठ्ऽ१.३.७.१ एत्च्.]> इति
(९,१[६९].२४) अत ऊर्ध्वं यथाकामं
(९,२[७०].१) <मन्थामि त्वा जातवेदः सुजातं जातवेदसं । स नो जीवेष्वा भज दीर्घं आयुश्च धेहि नः । । [-]> <जातोऽजनिष्ठा यशसा सहाग्रे प्रजां पशूंस्तेजो रयिं अस्मासु धेहि । आनन्दिनो मोदमानाः सुवीरा अनामयाः सर्वं आयुर्गमेम । । [-, च्फ़्. ;Sआङ्ख्;SS२.१७.८> <उद्दीप्यस्व जातवेदोऽव सेदिं तृणां क्षुधं जहि । अपास्मत्तम उछत्वप ह्रीतमुखो जह्यप दुर्हार्द्दिशो जहि । ।> <इहैवैधि धनसनिरिह त्वा सं इधीमहि । इहैधि पुष्टिवर्धन इह त्वा सं इधीमहि [-, च्फ़्. १८.४.३८अ]>_इति
(९,२[७०].२) प्रथमया मन्थति
(९,२[७०].३) द्वितीयया जातं अनुमन्त्रयते
(९,२[७०].४) तृतीयया_उद्दीपयति
(९,२[७०].५) चतुर्थ्या_उपसमादधाति
(९,२[७०].६) <यत्त्वा क्रुद्धाः [१२.२.५, च्फ़्. ंऽ१.७.१ एत्च्.]>_इति च_<ओं भूर्भुवः स्वर्जनदोम्> इत्य्<अङ्गिरसां त्वा देवानां आदित्यानां व्रतेना दधे [च्फ़्. KS७.१३ः७६.१५फ़्फ़्. एत्च्.]> । <द्यौर्मह्नासि भूमिर्भूम्ना तस्यास्ते देव्यदितिरुपस्थेऽन्नादायान्नपत्याया दधत्[च्फ़्. KS७.१३ः७६.१७फ़्. एत्च्.]> इति
(९,२[७०].७) लक्षणे प्रतिष्ठाप्य_उपोत्थाय
(९,२[७०].८) अथ_उपतिष्ठते
(९,२[७०].९) <अग्ने गृहपते सुगृहपतिरहं त्वयाग्ने गृहपतिना भूयासं । सुगृहपतिस्त्वं मयाग्ने गृहपतिना भूयाः । अस्थूरि णौ गार्हपत्यानि दीदिहि शतं समाः [च्फ़्. VSं २.२७ एत्च्.]>_इति
(९,२[७०].१०) <व्याकरोमि [१२.२.३२]>_इति गार्हपत्यक्रव्यादौ समीक्षते
(९,२[७०].११) शान्तं आज्यं गार्हपत्याय_उपनिदधाति
(९,२[७०].१२) माषमन्थं क्रव्यादम्
(९,२[७०].१३) <उप त्वा नमसा [३.१५.७]>_इति पुरोऽनुवाक्या
(९,२[७०].१४) <विश्वहा ते [३.१५.८]>_इति पूर्णाहुतिं जुहोति
(९,२[७०].१५) <यो नो अग्निः [१२.२.३३]>_इति सह कर्त्रा हृदयानि_अभिमृशन्ते
(९,३[७१].१) <अंशो राजा विभजतीमावग्नी विधारयन् । क्रव्यादं निर्णुदामसि हव्यवाडिह तिष्ठतु [-]>_इति विभागं जपति
(९,३[७१].२) <सुगार्हपत्यो [१२.२.४५च्]>_इति दक्षिणेन गार्हपत्ये समिधं आदधाति
(९,३[७१].३) <यः क्रव्यात्तं अशीशमं [च्फ़्. ३.२१.९]> इति सव्येन नडमयीं क्रव्यादि
(९,३[७१].४) <अपावृत्य [१२.२.३४]>_इति मन्त्रोक्तं बाह्यतो निधाय
(९,३[७१].५) <नडं आ रोह [१२.२.१]> <सं इन्धते [१२.१.११]>_<इषीकां जरतीं [१२.१.५४]>_<प्रत्यञ्चं अर्कं [१२.१.५५]>_इत्युपसमादधाति
(९,३[७१].६) <यद्यग्निः [१२.२.४]>_<यो अग्निः [१२.२.७]>_<अविः कृष्णा [१२.२.५३]> <मा नो रुरोः शुचद्विदः शिवो नो अस्तु भरतो रराणः । अतिव्याधी व्याधो अग्रभीष्ट क्रव्यादो अग्नीञ्शमयामि सर्वान्[-]> इति शुक्त्या माषपिष्टानि जुहोति
(९,३[७१].७) सीसं दर्व्यां अवधाय_उद्ग्रथ्य मन्थं जुह्वन्_शमयेत्
(९,३[७१].८) <नडं आ रोह [१२.२.१]>_इति चतस्रो_<अग्ने अक्रव्याद्[१२.२.४२]> <इमं क्रव्याद्[१२.२.४३]> <यो नो अश्वेषु [१२.२.१५]>_<अन्येभ्यस्त्वा [१२.२.१६]> <हिरण्यपाणिं [३.२१.८]>_इति शमयति
(९,३[७१].९) दक्षिणतो जरत्कोष्ठे शीतं भस्माभिविहरति
(९,३[७१].१०) शान्त्युदकेन सुशान्तं कृत्वावदग्धं समुत्खाय
(९,३[७१].११) <परं मृत्यो [१२.२.२१]> इत्युत्थापयति
(९,३[७१].१२) <क्रव्यादं [१२.२.८]> इति तिसृभिर्ह्रीयमाणं अनुमन्त्रयते
(९,३[७१].१३) दीपादि_आभिनिगदनात्प्रतिहरणेन व्याख्यातम्
(९,३[७१].१४) <अविः कृष्णा [१२.२.५३]>_इति निदधाति
(९,३[७१].१५) उत्तमवर्जं ज्येष्ठस्याञ्जलौ सीसानि
(९,३[७१].१६) <अस्मिन्वयं १२.२.१३]> <यद्रिप्रं [१२.२.४०]> <सीसे मृड्ढ्वं [१२.२.१९]>_इत्यभ्यवनेजयति
(९,३[७१].१७) कृष्णोर्णया पाणिपादान्निमृज्य
(९,३[७१].१८) <इमे [एद्.ः इमा; सी Cअलन्द्, Kल्. Sछ्र्., प्. ७८] जीवा [१२.२.२२]> <उदीचीनैः [१२.२.२९]>_इति मन्त्रोक्तं
(९,३[७१].१९) <त्रिः सप्त [१२.२.२९च्]>_इति कूद्या पदानि लोपयित्वा [एद्. योपयित्वा – चोर्रिगेन्द एद्. प्. ४२४] नदीभ्यः
(९,३[७१].२०) <मृत्योः पदं [१२.२.३०]>_इति द्वितीयया नावः
(९,३[७१].२१) <परं मृत्यो [१२.२.२१]> इति प्राग्दक्षिणं कूदीं प्रविध्य
(९,३[७१].२२) सप्त नदीरूपाणि कारयित्वा_उदकेन पूरयित्वा
(९,३[७१].२३) <आ रोहत सवितुर्नावं एतां [१२.२.४८च्]> <सुत्रामाणं [७.६.३]> <महीं ऊ षु [७.६.२]>_इति सहिरण्यां सयवां नावं आरोहयति
(९,३[७१].२४) <अश्मन्वती रीयते [१२.२.२६]>_<उत्तिष्ठता प्र तरता सखायो [१२.२.२७]>_इत्युदीचस्तारयति
(९,४[७२].१) उत्तरतो गर्त उदक्प्रस्रवणे_अश्मान निदधात्यन्तश्छिन्नम्
(९,४[७२].२) <तिरो मृत्युं [१२.२.२३द्]>_इत्यश्मानं अतिक्रामति
(९,४[७२].३) <ता अधरादुदीचीर्[१२.२.४१]> इत्यनुमन्त्रयते
(९,४[७२].४) <निस्सालां [२.१४.१]> इति शालानिवेशनं संप्रोक्ष्य
(९,४[७२].५) <ऊर्जं बिभ्रद्[७.६०.१]> इति प्रपादयति
(९,४[७२].६) <वैश्वदेवीं [१२.२.२८]>_इति वत्सतरीं आलम्भयति
(९,४[७२].७) <इमं इन्द्रं [१२.२.४७]> इत्य्वृषम्
(९,४[७२].८) <अनड्वाहं [१२.२.४८]> <अहोरात्रे [१२.२.४९]> इति तल्पं आलम्भयति
(९,४[७२].९) <आ रोहतायुर्[१२.२.२४]> इत्यारोहति
(९,४[७२].१०) <आसीना [१२.२.३०च्]> इत्यासीनां अनुमन्त्रयते
(९,४[७२].११) पिञ्जूलीराञ्जनं सर्पिषि पर्यस्य_<इमा नारीर्[१२.२.३१]> इति स्त्रीभ्यः प्रयछति
(९,४[७२].१२) <इमे जीवा अविधवाः सुजामय [च्फ़्. १२.२.२२,३१अ अन्द्PS१७.३३.२]> इति पुंभ्य एक_एकस्मै तिस्रस्तिस्रस्ता अध्यध्युदधानं परिचृत्य प्रयछति
(९,४[७२].१३) <परं मृत्यो [१२.२.२१]> <व्याकरोमि [१२.२.३२]>_<आ रोहत [१२.२.२४(४८)]>_<अन्तर्धिर्[१२.२.४४]>_<प्रत्यञ्चं अर्कं [१२.२.५५]> <ये अग्नयो [३.२१.१]> <नमो देववधेभ्यो [६.१३.१]>_<अग्नेऽभ्यावर्तिन्न्[PS१.४१.१]> <अग्ने जातवेदः [PS१.४१.२]> <सह रय्या [PS१.४१.३]> <पुनरूर्जा [PS१.४१.४]>_इति
(९,४[७२].१४) <अग्नेऽभ्यावर्तिन्नभि न आ ववृत्स्व । आयुषा वर्चसा सन्या मेधया प्रजया धनेन । । अग्ने जातवेदः शतं ते सहस्रं त उपावृतः । अधा पुष्टस्येशानः पुनर्नो रयिं आ कृधि । । सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया । विश्वप्स्न्या विश्वतस्परि । । पुनरूर्जा ववृत्स्व पुनरग्न इषायुषा । पुनर्नः पाह्यंहसः । । [PS१.४१.१-४]>
(९,४[७२].१५) शर्करान्स्वयमातृणान्_शणरज्जुभ्यां विबध्य धारयति
(९,४[७२].१६) समया खेन जुहोति
(९,४[७२].१७) <इमं जीवेभ्यः [१२.२.२३]> इति द्वारे निदधाति
(९,४[७२].१८) जुहोति_एतया_ऋचा । <आयुर्दावा धनधावा बलदावा पशुदावा पुष्टिदावा प्रजापतये स्वाहा []>_इति
(९,४[७२].१९) षट्संपातं माता पुत्रानाशयते
(९,४[७२].२०) उच्छिष्टं जायाम्
(९,४[७२].२१) संवत्सरं अग्निं न_उद्वायात्_न हरेत्_नाहरेयुः
(९,४[७२].२२) द्वासशरात्र इत्येके
(९,४[७२].२३) दश दक्षिणा
(९,४[७२].२४) पश्चादग्नेर्वाग्यतः संविशति
(९,४[७२].२५) अपरेद्युर्च_इन्द्राग्नी च यजेत
(९,४[७२].२६) स्थालीपाकाभ्यां अग्निं चाग्निषोमौ च पौर्णमास्याम्
(९,४[७२].२७) सायंप्रातर्व्रीहीनावपेद्यवान्वा_<अग्नये स्वाहा प्रजापतये स्वाहा>_इति सायं [सूत्र-दिविसिओन्wइथ्Cअलन्द्, Kल्. Sछ्र्., प्. ३०]
(९,४[७२].२८) <सूर्याय स्वाहा प्रजापतये स्वाह>_इति प्रातः [सूत्र-दिविसिओन्wइथ्Cअलन्द्, Kल्. Sछ्र्., प्. ३०]
(९,४[७२].२९) द्वादशरात्रे_अग्निं पशुना यजेत
(९,४[७२].३०) स्थालीपाकेन वा_उभयोर्विरिष्यति
(९,४[७२].३१) संवत्सरतम्यां शान्त्युदकं कृत्वा
(९,४[७२].३२) <घृताहुतिर्नो भवाग्ने अक्रव्याहुतिर्घृताहुतिं त्वा वयं अक्रव्याहुतिं उप नि षदेम जातवेदः [-]>_इति चतुर उदपात्रे संपातानानीय
(९,४[७२].३३) तान्+उल्लुप्य [एद्.ः उल्लप्य]
(९,४[७२].३४) पुरस्तादग्नेः प्रत्यङासीनो जुहोति । <हुते रभस्व हुतभाग एधि मृडास्मभ्यं मोत हिंसीः पशून्नः [-]>_इति
(९,४[७२].३५) यद्युद्वायाद्भस्मनारणिं संस्पृश्य तूष्णीं मथित्वा_उद्दीप्य
(९,४[७२].३६) पूर्णहोमं हुत्वा
(९,४[७२].३७) संनतिभिराज्यं जुहुयाद्व्याहृतिभिर्वा
(९,४[७२].३८) संसृष्टे चैवं जुहुयात्
(९,४[७२].३९) अग्नौ_अनुगते जायमाने
(९,४[७२].४०) आनडुहेन शकृत्पिण्डेनाग्न्यायतानि परिलिप्य
(९,४[७२].४१) होम्यं उपसाद्य
(९,४[७२].४२) <प्राणापानाभ्यां स्वहा समानव्यानाभ्यां स्वाहा_उदानरूपाभ्यां स्वाहा>_इत्यात्मनि_एव जुहुयात्
(९,४[७२].४३) अथ प्रातरुत्थायाग्निं निर्मथ्य यथास्थानं प्रणीय यथापुरं अग्निहोत्रं जुहुयात्
(९,४[७२].४४) सायामाशप्रात्राशौ यज्ञौ_ऋत्विजौ
(९,५[७३].१) <पुरोदयादस्तमयाच्च पावकं प्रबोधयेद्गृहिणी शुद्धहस्ता । समतीते संधिवर्णेऽथ हावयेत्सुसमिद्धे पावक आहुतीषहिः [-]>
(९,५[७३].२) <अग्नये च प्रजापतये च रात्रावादित्यश्च दिवा प्रजापतिश्च । उदकं च समिधश्च होमेहोमे पुरो वरं [-]>
(९,५[७३].३) <होम्यैः समिद्भिः पयसा स्थालीपाकेन सर्पिषा । सायंप्रातर्होम एतेषां एकेनापि सिध्यति [-]>
(९,५[७३].४) <अभ्युद्धृतो हुतोऽग्निः प्रमादादुपशाम्यति । मथिते व्याहृतीर्जुहुयात्पूर्णहोमौ यथऋत्विजौ [-]>
(९,५[७३].५) <वनस्पतिभ्यो वानस्पतेभ्य ओषधिभ्यो वीरुद्भ्यः सर्वेभ्यो देवेभ्यो देवजनेभ्यः पुण्यजनेभ्यः [-, च्फ़्. ११.६.२४]>_इति प्राचीनं तदुदकं निनीयते
(९,५[७३].६) <स्वधा प्रपितामहेभ्यः स्वधा पितामहेभ्यः स्वधा पितृभ्यः [-]>_इति दक्षिणतः
(९,५[७३].७) <तार्क्ष्यायारिष्टनेमयेऽमृतं मह्यं [-]> इति पश्चात्
(९,५[७३].८) <सोमाय सप्तर्षिभ्यः [-]>_इति उत्तरतः
(९,५[७३].९) <परिमृष्टे परिलिप्ते च पर्वणि व्रातपतं हावयेदन्नं अग्नौ । भूयो दत्त्वा स्वयं अल्पं च भुक्त्वापराह्णे व्रतं उपैति याज्ञिकं [-]>
(९,५[७३].१०) <अनशनं ब्रह्मचर्यं च भूमौ शुचिरग्निं उपशेते सुगन्धिः [-]>
(९,५[७३].११) <अग्नीषोमाभ्यां दर्शन इन्द्राग्निभ्यां अदर्शने । आग्नेयं तु पूर्वं नित्यं अन्वाहार्यं प्रजापतेः [-]>
(९,५[७३].१२) <अर्धाहुतिस्तु सौविष्टकृती सर्वेषां हविषां स्मृता । आनुमती वा भवति स्थालीपाकेष्वथर्वणां [-]>
(९,५[७३].१३) <उभौ च संधिजौ यौ वैश्वदेवौ यथऋत्विजौ । वर्जयित्वा सबर्हिषः साज्या यज्ञाः सदक्षिणाः [-]>
(९,५[७३].१४) यथाशक्ति यथाबलं <हुतादोऽन्ये अहुतादोऽन्ये । वैश्वदेवं हविरुभये सं चरन्ति । ते सम्यञ्च इह मादयन्तां इषं ऊर्जं यजमाना यं इछत [PS५.१५.२]> [सूत्र दिविसिओनेमेन्देद्!]
(९,५[७३].१५) <विश्वे देवा इदं हविरादित्यासः सपर्यत । अस्मिन्यज्ञे मा व्यथिष्यमृताय हविष्कृतं [PS१९.३५.१]>
(९,५[७३].१६) <वैश्वदेवस्य हविषः सायंप्रातर्जुहोति । सायमाशप्रातराशौ यज्ञावेतौ स्मृतावुभौ [-]>
(९,५[७३].१७) <अप्रतिभुक्तौ शुचिकार्यौ च नित्यं वैश्वदेवौ जानता यज्ञश्रेष्ठौ । नाश्रोत्रियो नानवनिक्तपाणिर्नामन्त्रविज्जुहुयान्नाविपश्चित्[-]>
(९,५[७३].१८) <बीभत्सवः शुचिकामा हि देवा नाश्रद्दधानस्य हविर्जुषन्ते । ब्राह्मणेन ब्रह्मविदा तु हावयेन्न स्त्रीहुतं शूद्रहुतं च देवगं [-]>
(९,५[७३].१९) <यस्तु विद्यादाज्यभागौ यज्ञान्मन्त्रपरिक्रमान् । देवताज्ञानं आवृत आशिषश्च कर्म स्त्रिया अप्रतिषिद्धं आहुः [-]>
(९,६[७४].१) तयोर्बलिहरणम्
(९,६[७४].२) <अग्नय इन्द्राग्निभ्यां वास्तोष्पतये प्रजापतयेऽनुमतये>_इति हुत्वा
(९,६[७४].३) निष्क्रम्य बहिः प्रचीनं <ब्रह्मणे वैश्रवणाय विश्वेभ्यो देवेभ्यः सर्वेभ्यो देवेभ्यो विश्वेभ्यो भूतेभ्यः सर्वेभ्यो भूतेभ्यः>_इति बहुशो बलिं हरेत्
(९,६[७४].४) द्विः प्रोक्षन्प्रदक्षिणं आवृत्यान्तरुपातीत्य द्वारे
(९,६[७४].५) द्वार्ययोर्<मृत्यवे धर्माधर्माभ्याम्>
(९,६[७४].६) उदधाने धन्वन्तरये <समुद्रायौषधिवनस्पतिभ्यो द्यावापृथिवीभ्याम्> इति
(९,६[७४].७) स्थूणावंशयोर्<दिग्भ्योऽन्तर्देशेभ्यः>_इति
(९,६[७४].८) स्रक्तिषु <वासुकये चित्तसेनाय चित्तरथाय तक्षोपतक्षाभ्याम्> इति
(९,६[७४].९) समन्तं अग्नेर्<आशायै श्रद्धायै मेधायै श्रियै ह्रियै विद्यायै>_इति
(९,६[७४].१०) प्राचीनं अग्नेः <गृह्याभ्यो देवजामिभ्यः>_इति
(९,६[७४].११) भूयो_अभ्युद्धृत्य ब्राह्मणान्भोजयेत्
(९,६[७४].१२) तदपि श्लोको वदति । <माब्राह्मण अग्रतः [एम्. B्लूम्फ़िएल्द्ङ्ङा १९०२ ५१४ – एद्. माब्राह्मणाग्रतः] कृतं अश्नीयाद्विषवदन्नं अन्नकाम्या । देवानां देवो ब्राह्मणो भःवो नामैष देवता>_इति
(९,६[७४].१३) आग्रयणे शान्त्युदकं कृत्वा यथर्तु तण्डुलानुपसाद्य
(९,६[७४].१४) अप्सु स्थालीपाकं श्रपयित्वा पयसि वा
(९,६[७४].१५) <सजूरृतुभिः सजूर्विधाभिः सजूरग्नये स्वाहा । सजूरिन्द्राग्निभ्यां सजूर्द्यावापृथिवीभ्यां सजूर्विश्वेभ्यो देवेभ्यः सजूरृतुभिः सजूर्विधाभिः सजूः सोमाय स्वाहा>_इत्येकहविर्वा स्यात्_नानाहवींषि वा
(९,६[७४].१६) स्ॐयं तन्वत्_श्यामाकं शरदि
(९,६[७४].१७) अथ यजमानः प्राशित्रं गृह्णीते
(९,६[७४].१८) <प्रजापतेष्ट्वा ग्रहं गृह्णामि । मह्यं भूत्यै मह्यं पुष्ट्यै मह्यं श्रियै मह्यं ह्रियै मह्यं यशसे मह्यं आयुषे मह्यं अन्नाय मह्यं अन्नाद्याय मह्यं सहस्रपोषाय मह्यं अपरिमितपोषाय [च्फ़्. ;Sआङ्ख्ङ्ऽ३.८.२]>_इति
(९,६[७४].१९) अथ प्राश्नाति । <भद्रान्नः श्रेयः सं अनैष्ट देवास्त्वयावसेन सं अशीमहि त्वा । स नः पितो मधुमा;ं आ विवेश शिवस्तोकाय तन्वो न एहि [च्फ़्. ठ्ऽ५.७.२.४, ;Sआङ्ख्ङ्ऽ३.८.३ एत्च्.]>_इति
(९,६[७४].२०) प्राशितं अनुमन्त्रयते । <अमोऽसि प्राण तदृतं ब्रवीम्यमासि सर्वाङसि प्रविष्ट । स मे जरां रोगं अपनुद्य शरीरादनामयैधि मा रिषाम इन्दो [च्फ़्. ;Sआङ्ख्ङ्ऽ३.८.४ एत्च्.]> इति
(९,६[७४].२१) वत्सः प्रथमजो ग्रीष्मे वासः शरदि दक्षिणा
(९,६[७४].२२) शक्त्या वा दक्षिणां दद्यात्
(९,६[७४].२३) नातिशक्तिर्विधीयते नातिशक्तिर्विधीयत इति
(Kऔश्ऽ९ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे नवमोऽध्यायः समाप्तः
(१०,१[७५].१) अथ विवाहः
(१०,१[७५].२) ऊर्ध्वं कार्त्तिक्या आ वैशाख्याः
(१०,१[७५].३) याथाकामी वा
(१०,१[७५].४) चित्रापक्षं तु वर्जयेत्
(१०,१[७५].५) <मघासु हन्यन्ते गावः फल्गुनीषु व्युह्यते [१४.१.१३च्द्]>_इति विज्ञायते मङ्गलं च
(१०,१[७५].६) <सत्येनोत्तभिता [१४.१.१]> <पूर्वापरं [१४.१.२३]>_इत्युपदधीत
(१०,१[७५].७) पतिवेदनं च
(१०,१[७५].८) <युवं भगं [१४.१.३१अ]>_इति संभलं सानुचरं प्रहिणोति
(१०,१[७५].९) <ब्रह्मणस्पते [१४.१.३१च्]>_इति ब्रह्माणम्
(१०,१[७५].१०) तद्विवृहात्_शङ्कमानो निशि कुमारीकुलाद्वलीकानि_आदीप्य
(१०,१[७५].११) <देवा अग्रे [१४.२.३२]>_इति पञ्चभिः सकृत्पूल्यानि_आवापयति
(१०,१[७५].१२) <अनृक्षरा [१४.१.३४अ]> इति कुमारीपालं प्रहिणोति
(१०,१[७५].१३) उदाहारस्य प्रतिहितेषुरग्रतो जघनतो ब्रह्मा
(१०,१[७५].१४) <यो अनिध्मो [१४.१.३७]>_इत्यप्सु लोगं प्रविध्यति
(१०,१[७५].१५) <इदं अहं [१४.१.३८अ]>_इत्यपोह्य
(१०,१[७५].१६) <यो भद्रो [१४.१.३८च्]>_इत्यन्वीपं उदच्य
(१०,१[७५].१७) <आस्यै ब्राह्मणाः [१४.१.३९अ]>_इति प्रयछति
(१०,१[७५].१८) आव्रजतां अग्रतो ब्रह्मा जघनतो_अधिज्यधन्वा
(१०,१[७५].१९) बाह्यतः प्लक्षोदुम्बरस्य_उत्तरतो_अग्नेः शाखायां आसजति
(१०,१[७५].२०) तेन_उदकार्थान्कुर्वन्ति
(१०,१[७५].२१) ततश्चान्वासेचनं अन्येन
(१०,१[७५].२२) अन्तरुपातीत्य_<अर्यमणं [१४.१.१७]>_इति जुहोति
(१०,१[७५].२३) <प्र त्वा मुञ्चामि [१४.१.१९]>_इति वेष्टं विचृतति
(१०,१[७५].२४) <उशतीः [१४.२.५२]>_इत्येतया त्रिराधापयति
(१०,१[७५].२५) सप्तभिरुष्णाः संपातवतीः करोति
(१०,१[७५].२६) <यदासन्द्यां [१४.२.६५]> इति पूर्वयोरुत्तरस्यां स्रक्त्यां तिष्ठन्तीं आप्लावयति
(१०,१[७५].२७) <यच्च वर्चो [१४.१.३५]> <यथा सिन्धुर्[१४.१.४३]> इत्युत्क्रान्तां अन्येनावसिञ्चति
(१०,२[७६].१) <यद्दुष्कृतं [१४.२.६६]>_इति वाससाङ्गानि प्रमृज्य कुमारीपालाय प्रयछति
(१०,२[७६].२) तुम्बरदण्डेन प्रतिपाद्य निर्व्रजेत्
(१०,२[७६].३) तद्वन आसजति
(१०,२[७६].४) <या अकृन्तंस्[१४.१.४५]> <त्वष्टा वासो [१४.१.५३]>_इत्यहतेनाछायति
(१०,२[७६].५) <कृत्रिमः [१४.२.६८]>_इति शतदता_इषीकेण कङ्कतेन सकृत्प्रलिख्य
(१०,२[७६].६) कृतयामं इत्यवसृजति
(१०,२[७६].७) <आशासाना [१४.१.४२]> <सं त्वा नह्यामि [१४.२.७०]> इत्युभयतः पाशेन योक्त्रेण (एद्. मिस्प्रिन्तः योक्त्रेन; सी Cअलन्द्, Kल्. Sछ्र्., प्. ५१) संनह्यति
(१०,२[७६].८) <इयं वीरुद्[१.३४.१ (७.५६.२)]> इति मदुघमणिं लाक्षारक्तेन सूत्रेण विग्रथ्यानामिकायां बध्नाति
(१०,२[७६].९) अन्ततो ह मणिर्भवति बाह्यो ग्रन्थिः
(१०,२[७६].१०) <भगस्त्वेतो [१४.१.२०]>_इति हस्तेगृह्य निर्णयति
(१०,२[७६].११) शाखायां युगं आधाय दक्षिणतो_अन्यो धारयति
(१०,२[७६].१२) दक्षिणस्यां युगधुरि_उत्तरस्मिन्युगतर्द्मनि दर्भेण विग्रथ्य <शं ते [१४.१.४०]>_इति ललाटे हिरण्यं संस्तभ्य जपति
(१०,२[७६].१३) तर्द्म समयावसिञ्चति
(१०,२[७६].१४) उपगृह्य_उत्तरतो_अग्नेर्<अङ्गादङ्गाद्[१४.२.६९]> इति निनयति
(१०,२[७६].१५) <स्योनं [१४.१.४७अ]>_इति शकृत्पिण्डे_अश्मानं निदधाति
(१०,२[७६].१६) <तं आ तिष्ठ [१४.१.४७च्]>_इत्यास्थाप्य
(१०,२[७६].१७) <इयं नारी [१४.२.६३]>_इति ध्रुवां तिष्ठन्तीं पूल्यानि_आवापयति
(१०,२[७६].१८) त्रिरविछिन्दतीं चतुर्थीं कामाय
(१०,२[७६].१९) <येनाग्निर्[१४.१.४८]> इति पाणिं ग्राहयति
(१०,२[७६].२०) <अर्यम्णो [१४.१.३९च्]>_इत्यग्निं त्रिः परिणयति
(१०,२[७६].२१) <सप्त मर्यादाः [५.१.६]>_इत्युत्तरतो_अग्नेः सप्त लेखा लिखति प्राच्यः
(१०,२[७६].२२) तासु पदानि_उत्क्रामयति
(१०,२[७६].२३) इषे त्वा सुमङ्गलि प्रजावति सुशीम [एद्.ः +सुसीम] इति प्रथमम्
(१०,२[७६].२४) ऊर्जे त्वा रायस्पोषाय त्वा सौभाग्याय त्वा साम्राज्याय त्वा संपदे त्वा जीवातवे त्वा सुमङ्गलि प्रजावति सुशीम [एद्.ः +सुसीम] इति सप्तमं सखा सप्तपदी भव_इति
(१०,२[७६].२५) <आ रोह तल्पं [१४.२.३१]> <भगस्ततक्ष [१४.१.६०]>_इति तल्प उपवेशयति
(१०,२[७६].२६) उपविष्टायाः सुहृत्पादौ प्रक्षालयति
(१०,२[७६].२७) प्रक्षाल्यमानौ_अनुमन्त्रयते । <इमौ पादौ सुभगौ सुशेवौ सौभाग्याय कृणुतां नो अघाय । प्रक्षाल्यमानौ सुभगौ सुपत्न्याः प्रजां पशून्दीर्घं आयुश्च धत्तां [-]> इति
(१०,२[७६].२८) <अहं वि ष्यामि [१४.१.५७]> <प्र त्वा मुञ्चामि [१४.१.५८]>_इति योक्त्रं विचृतति
(१०,२[७६].२९) अपरस्मिन्भृत्याः संरभन्ते
(१०,२[७६].३०) ये जयन्ति ते बलीयांस एव मन्यन्ते
(१०,२[७६].३१) <बृहस्पतिना [१४.२.५३]>_इति सर्वसुरभिचूर्णानि_ऋचर्चा काम्पीलपलाशेन मूर्ध्नि_आवपति
(१०,२[७६].३२) <उद्यछध्वं [१४.१.५९]>_<भगस्ततक्ष [१४.१.६०]>_<अभ्रातृघ्नीं [१४.१.६२]>_इत्येक_एकया_उत्थापयति
(१०,२[७६].३३) <प्रति तिष्ठ [१४.२.१५]>_इति प्रतिष्ठापयति
(१०,३[७७].१) <सुकिंशुकं [१४.१.६१]> <रुक्मप्रस्तरणं [१४.२.३०]>_इति यानं आरोहयति
(१०,३[७७].२) <एममं पन्थां [१४.२.८]>_<ब्रह्मापरं [१४.१.६४]>_इत्यग्रतो ब्रह्मा प्रपद्यते
(१०,३[७७].३) <मा विदन्न्[१४.२.११]> <अनृक्षरा [१४.१.३४]> अध्वानं इत्युक्तम्
(१०,३[७७].४) <येदं पुर्वा [१४.२.७४]>_इति तेनान्यस्यां ऊढायां वाधूयस्य दशां चतुष्पथे दक्षिणैरभितिष्ठति
(१०,३[७७].५) स चेदुभयोः शुभकामो भवति <सूर्यायै देवेभ्यो [१४.२.४६]>_इत्येतां ऋचं जपति
(१०,३[७७].६) <सं ऋछत स्वपथोऽनवयन्तः सुशीमकामाव्[एद्.ः +सुसीम-] उभे विराजावुभे सुप्रजसौ [-]>_इत्यतिक्रमयतोऽन्तरा ब्रह्माणम्
(१०,३[७७].७) <य ऋते चिदभिश्रिषः [१४.२.४७]>_इति यानं संप्रोक्ष्य विनिष्कारयति
(१०,३[७७].८) <सा मन्दसाना [१४.२.६]>_इति तीर्थे लोगं प्रविध्यति
(१०,३[७७].९) <इदं सु मे [१४.२.९]>_इति महावृक्षेषु जपति
(१०,३[७७].१०) <सुमङ्गलीर्[१४.२.२८]> इति वध्वीक्षीः प्रति जपति
(१०,३[७७].११) <या ओषधयो [१४.२.७]>_इति मन्त्रोक्तेषु
(१०,३[७७].१२) <ये पितरो [१४.२.७३]>_इति श्मशानेषु
(१०,३[७७].१३) <प्र बुध्यस्व [१४.२.७५]>_इति सुप्तां प्रबोधयेत्
(१०,३[७७].१४) <सं काशयामि [१४.२.१२]>_इति गृहसंकाशे जपति
(१०,३[७७].१५) <उद्व ऊर्मिः [१४.२.१६]>_इति यानं संप्रोक्ष्य विमोचयति
(१०,३[७७].१६) <उत्तिष्ठेतः [१४.२.१९]>_इति पत्नी शालां संप्रोक्षति
(१०,३[७७].१७) <स्योनं [१४.१.४७]>_इति दक्षिणतो वलीकानां शकृत्पिण्डे_अश्मानं निदधाति
(१०,३[७७].१८) तस्य_उपरि मध्यमपलाशे सर्पिषि चत्वारि दूर्वाग्राणि
(१०,३[७७].१९) <तं आ तिष्ठ [१४.१.४७च्]>_इत्यास्थाप्य
(१०,३[७७].२०) <सुमङ्गली प्रतरणी [१४.२.२६]>_<इह प्रियं [१४.१.२१]> <मा हिंसिष्टं [१४.१.६३]> <ब्रह्मापरं [१४.१.६४]>_इति प्रत्यृचं प्रपादयति
(१०,३[७७].२१) सुहृत्पूर्णकंसेन प्रतिपादयति
(१०,३[७७].२२) <अघोरचक्षुर्[१४.२.१७]> इत्यग्निं त्रिः परिणयति
(१०,३[७७].२३) <यदा गार्हपत्यं [१४.२.२०]>_<सूर्यायै देवेभ्यो [१४.२.४६]>_इति मन्त्रोक्तेभ्यो नमस्कुर्वतीं अनुमन्त्रयते
(१०,४[७८].१) <शर्म वर्म [१४.२.२१]>_इति रोहितचर्माहरन्तम्
(१०,४[७८].२) <चर्म चोपस्तृणीथन [१४.२.२२ब्]>_इत्युपस्तृणन्तम्
(१०,४[७८].३) <यं बल्बजं [१४.२.२२]>_इति बल्बजं न्यस्यन्तं
(१०,४[७८].४) <उप स्तृणीहि [१४.२.२३]>_इत्युपस्तृणन्तम्
(१०,४[७८].५) <तदा रोहतु [१४.२.२२च्]>_इत्यारोहयति
(१०,४[७८].६) <तत्रोपविश्य [१४.२.२३च्]>_इत्युपवेशयति
(१०,४[७८].७) दक्षिणोत्तरं उपस्थं कुरुते
(१०,४[७८].८) <सुज्यैष्ठ्यो [१४.२.२४द्]>_इति कल्याणनामानं ब्राह्मणायनं उपस्थ उपवेशयति
(१०,४[७८].९) <वि तिष्ठन्तां [१४.२.२५]>_इति प्रमदनं प्रमाय_उत्थापयति
(१०,४[७८].१०) <तेन भूतेन [६.७८.१]> <तुभ्यं अग्रे [१४.२.१]> <शुम्भनी [१४.२.४५]> <अग्निर्जनविन्मह्यं जायां इमां अदात्सोमो वसुविन्मह्यं जायां इमां अदात्पूषा ज्ञातिविन्[एद्. मिस्प्रिन्त्जातिविन्] मह्यं जायां इमां अदादिन्द्रः सहीयान्मह्यं जायां अदादग्नये जनविदे स्वाहा सोमाय वसुविदे स्वाहा पूष्णे ज्ञातिविदे [एद्. मिस्प्रिन्त्जातिविदे] स्वाहेन्द्राय सहीयसे स्वाहा [PS१.३४+१.३५>_इति [एद्. इत्यागछतःः आगछतः मोवेद्तो नेxत्सूत्र अफ़्तेर्B्लूम्फ़िएल्द्ङ्ङा १९०२ ५१४]
(१०,४[७८].११) <आगछतः [६.८२.१]><सविता प्रसवानां [५.२४.१]> इति मूर्ध्नोः संपातानानयति [प्रतीक ओफ़् ६.८२.१ प्रेफ़िxएदफ़्तेर्B्लूम्फ़िएल्द्ङ्ङा १९०२ ५१४]
(१०,४[७८].१२) उदपात्र उत्तरान्
(१०,४[७८].१३) शुम्भन्याञ्जल्योर्निनयति
(१०,४[७८].१४) <तेन भूतेन [६.७८.१]>_इति समशनम्
(१०,४[७८].१५) रसानाशयति स्थालीपाकं च
(१०,४[७८].१६) यवानां आज्यमिश्राणां पूर्णाञ्जलिं जुहोति
(१०,५[७९].१) <सप्त मर्यादाः [५.१.६]>_इति तिसृणां प्रातरावपते
(१०,५[७९].२) <अक्ष्यौ नौ [७.३६.१]>_इति समाञ्जाते
(१०,५[७९].३) <महीं उ षु [७.६.२]>_इति तल्पं आलम्भयति
(१०,५[७९].४) <आ रोह तल्पं [१४.२.३१]>_इत्यारोहयति
(१०,५[७९].५) <तत्रोपविश्य [१४.२.२३च्]>_इत्युपवेशयति
(१०,५[७९].६) <देवा अग्रे [१४.२.३२]>_इति संवेशयति
(१०,५[७९].७) <अभि त्वा [७.३७.१]>_इत्यभिछादयति
(१०,५[७९].८) <सं पितराव्[१४.२.३७]> इति समावेशयति
(१०,५[७९].९) <इहेमाव्[१४.२.६४]> इति त्रिः संनुदति
(१०,५[७९].१०) मदुघमणिं औक्षे_अपनीय_<इयं वीरुद्[१.३४.१]> <अमोऽहं [१४.२.७१]> इति संस्पृशतः
(१०,५[७९].११) <ब्रह्म जज्ञानं [४.१.१ (५.६.१)]>_इत्यङ्गुष्ठेन व्यचस्करोति
(१०,५[७९].१२) <स्योनाद्योनेर्[१४.२.४३]> इत्युत्थापयति
(१०,५[७९].१३) परिधापनीयाभ्यां अहतेनाछादयति
(१०,५[७९].१४) <बृहस्पतिः [१४.१.५५]>_इति शष्पेणाभिघार्य व्रीहियवाभ्यां अभिनिधाय दर्भपिञ्जुल्या सीमन्तं विचृतति
(१०,५[७९].१५) शणशकलेन परिवेष्ट्य तिस्रो रात्रीः प्रति सुप्तास्ते
(१०,५[७९].१६) अनुवाकाभ्यां अन्वारब्धाभ्यां उपदधीत
(१०,५[७९].१७) <इहेदसाथ [१४.१.३२]>_इत्येतया शुल्कं अपाकृत्य
(१०,५[७९].१८) द्वाभ्यां निवर्तयतीह मम राध्यतां अत्र तव_इति
(१०,५[७९].१९) यथा वा मन्यन्ते
(१०,५[७९].२०) <परा देहि [१४.१.२५]>_इति वाधूयं ददतं अनुमन्त्रयते
(१०,५[७९].२१) <देवैर्दत्तं [१४.२.४१]>_इति प्रतिगृह्णाति
(१०,५[७९].२२) <अपास्मत्तम [१४.२.४८]> इति स्थाणौ_आसजति
(१०,५[७९].२३) <यावतीः कृत्या [१४.२.४९]> इति व्रजेत्
(१०,५[७९].२४) <या मे प्रियतमा [१४.२.५०]>_इति वृक्षं प्रतिछादयति
(१०,५[७९].२५) शुम्भन्याप्लुत्य
(१०,५[७९].२६) <ये अन्ता [१४.२.५१]> इत्याछादयति
(१०,५[७९].२७) <नवं वसानः [१४.२.४४]>_इत्याव्रजति
(१०,५[७९].२८) <पूर्वापरं [१४.१.२३]> यत्र नाधिगछेद्<ब्रह्मापरं [१४.१.६४]>_इति कुर्यात्
(१०,५[७९].२९) गौर्दक्षिणा प्रतीवाहः
(१०,५[७९].३०) <जीवं रुदन्ति [१४.१.४६]> <यदीमे केशिनो [१४.२.५९]>_इति जुहोति
(१०,५[७९].३१) एष सौर्यो विवाहः
(१०,५[७९].३२) <ब्रह्मापरं [१४.१.६४]>_इति ब्राह्म्यः
(१०,५[७९].३३) आवृतः प्राजापत्याः प्राजापत्याः
(Kऔश्ऽ१० Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे दशमोऽध्यायः समाप्तः
(११,१[८०].१) अथ पितृमेधं व्याख्यास्यामः
(११,१[८०].२) दहननिधानदेशे परिवृक्षाणि निधानकाल इति ब्राह्मणोक्तम्
(११,१[८०].३) दुर्बलीभवन्तं शालातृणेषु दर्भानास्तीर्य <स्योनास्मै भव [१८.२.१९]>_इत्यवरोहयति
(११,१[८०].४) मन्त्रोक्तौ_अनुमन्त्रयते
(११,१[८०].५) <यत्ते कृष्णः [१८.३.५५]>_इत्यवदीपयति
(११,१[८०].६) आहिताग्नौ प्रेते संभारान्संभरति
(११,१[८०].७) आज्यं च पृषदाज्यं चाजं च गां च
(११,१[८०].८) वसनं पञ्चमम्
(११,१[८०].९) हिरण्यं षष्ठम्
(११,१[८०].१०) शरीरं नान्वालभते
(११,१[८०].११) अन्यं चेष्टन्तं अनुमन्त्रयते
(११,१[८०].१२) शान्त्युदकं करोति_असकलं चातनानां चान्वावपते
(११,१[८०].१३) शान्त्युदकोदकेन केशश्मश्रुरोमनखानि संहारयन्ति
(११,१[८०].१४) आप्लावयन्ति
(११,१[८०].१५) अनुलिम्पन्ति
(११,१[८०].१६) स्रजो_अभिहरन्ति
(११,१[८०].१७) एवंस्नातं अलंकृतं अहतेनावाग्दशेन वसनेन प्रछादयति_<एतत्ते देवः [१८.४.३१]>_<एतत्त्वा वासः प्रथमं न्वागन्न्[१८.२.५७अ]> इति
(११,१[८०].१८) <अपेमं [१८.२.२७]>_इत्यग्निषु जुहोति
(११,१[८०].१९) उखाः कुर्वन्ति
(११,१[८०].२०) ताः शकृदाभ्यन्तरं लिम्पन्ति शुष्केण वा पूरयन्ति
(११,१[८०].२१) ताः पृथगग्निभिः संतापयन्ति_आ शकृदादीपनात्
(११,१[८०].२२) तेषां हरणानुपूर्वं आहवनीयं प्रथमं ततो दक्षिणाग्निं ततो गार्हपत्यम्
(११,१[८०].२३) अथ विदेशे प्रेतस्य_<आ रोहत जनित्रीं जातवेदसः [१८.४.१]>_इति पृथगरणीषु_अग्नीन्समारोपयन्ति
(११,१[८०].२४) तेषु यथोक्तं करोति
(११,१[८०].२५) अपिवान्यवत्साया वा संधिनीक्षीरेण_एकशलाकेन वा मन्थेनाग्निहोत्रं जुहोति_आ दहनात्
(११,१[८०].२६) दर्शपूर्णमासयोः कृष्णकतण्डुलानां तस्या आज्येन नान्तं न बहिः
(११,१[८०].२७) पलालानि बर्हिः
(११,१[८०].२८) तिल्पिञ्ज्या इध्माः
(११,१[८०].२९) ग्रहानाज्यभागौ पुरस्ताद्धोमसंस्थितहोमानुद्धृत्य
(११,१[८०].३०) प्राणापानौ_+अवरुध्योंनिधनाभिर्(एद्.ः अवरुध्यै निधनाभिर्; सी Cअलन्द्, Kल्. Sछ्र्., प्. ४५) जुहुयात्
(११,१[८०].३१) अथ_उभयोर्<उत्तिष्ठ [१८.३.८]>_इत्युत्थापयति
(११,१[८०].३२) <प्र च्यवस्व [१८.३.९]>_इति त्रिः संहापयति यावत्कृत्वश्च_उत्थापयति
(११,१[८०].३३) एवं एव कूदीं जघने निबध्य
(११,१[८०].३४) <इमौ युनज्मि [१८.२.५६]>_इति गावौ युनक्ति पुरुषौ वा
(११,१[८०].३५) <उत्तिष्ठ प्रेहि [१८.३.८]> <प्र च्यवस्व [१८.३.९]>_<उदन्वती [१८.२.४८]>_<इत एते [१८.१.६१]>_<अग्नीषोमा [१८.२.५३]>_<इदं पूर्वं [१८.४.४४]> इति हरिणीभिर्हरेयुर्<अति द्रव [१८.२.११-१८]>_इत्यष्टभिः
(११,१[८०].३६) <इदं त [१८.३.७]> इत्यग्निं अग्रतः
(११,१[८०].३७) <प्रजानत्यघ्न्ये [१८.३.४]>_इत्य्+जघन्यां (एद्.ः जघन्यं; सी Cअलन्द्, Kल्. Sछ्र्., प्. ४) गां एधं अग्निं परिणीय
(११,१[८०].३८) <स्योनास्मै भव [१८.२.१९]>_इत्युत्तरतो_अग्नेः शरीरं निदधाति
(११,१[८०].३९) अध्वर्यव इष्टिं निर्वपन्ति
(११,१[८०].४०) तस्यां यथादेवतं पुरस्ताद्धोमसंस्थितहोमानुद्धृत्य
(११,१[८०].४१) प्राणापानौ_+अवरुध्योंनिधनाभिर्(सी सूत्र ८०.३०) जुहुयात्
(११,१[८०].४२) अथ_उभयोर्<अपेत [१८.१.५५]> <ददामि [१८.२.३७]>_इत्य्शान्त्युदकं कृत्वा संप्रोक्षणीभ्यां काम्पीलशाखाया दहनं संप्रोक्ष्य
(११,१[८०].४३) <उदीरतां [१८.१.४४]> इत्य्+उद्धत्य (एद्.ः उद्धृत्य)_अभ्युक्ष्य लक्षणं कृत्वा पुनरभ्युक्ष्य प्राग्दक्षिणं एधश्चिन्वन्ति
(११,१[८०].४४) <इयं नारी [१८.३.१]>_इति पत्नीं उपसंवेशयति
(११,१[८०].४५) <उदीर्ष्व [१८.३.२]>_इत्युत्थापयति
(११,१[८०].४६) यद्द्धिरण्यं बिभर्ति तद्दक्षिणे पाणौ_+आधाय (एद्.ः आदाय)_आज्येनाभिघार्य ज्येष्ठेन पुत्रेणादापयति_<इदं हिरण्यं [१८.४.५६]>_इति
(११,१[८०].४७) <स्वर्गं यतः [१८.४.५६च्]>_इति दक्षिणं हस्तं निर्मार्जयति
(११,१[८०].४८) <दण्डं हस्ताद्[१८.२.५९]> इति मन्त्रोक्तं ब्राह्मणस्यादापयति
(११,१[८०].४९) <धनुर्हस्ताद्[१८.२.६०]> इति क्षत्रियस्य
(११,१[८०].५०) <अष्ट्रां [च्फ़्. १८.२.५९-६०]> इति वैश्यस्य
(११,१[८०].५१) <इदं पितृभ्यो [१८.४.५१, सी Cअलन्द्, Kल्. Sछ्र्., प्. ४]>_इति दर्भानेधान्स्तृणाति
(११,१[८०].५२) तत्र_एनं उत्तानं आदधीत_<ईजानश्+चितं (एद्.ः चित्तम्; च्फ़्. व्ल्. इन्;SS-एदितिओन्ब्य्;SPP) आरुक्षदग्निं [१८.४.१४]>_इति
(११,१[८०].५३) <प्राच्यां त्वा दिशि [१८.३.३०]>_इति प्रतिदिशम्
(११,१[८०].५४) न_इत्युपरिबभ्रवः
(११,१[८०].५५) अनुमन्त्रयते
(११,१[८०].५६) अथास्य सप्तसु प्राणेषु सप्त हिरण्यशकलानि_अवास्यति_<अमृतं अस्यमृतत्वायामृतं अस्मिन्धेहि>_इति
(११,२[८१].१) अथाहिताग्नेर्दर्भेषु कृष्णाजिनं अन्तर्लोमास्तीर्य
(११,२[८१].२) तत्र_एनं उत्तानं आधाय
(११,२[८१].३) अथास्य यज्ञपात्राणि पृषदाज्येन पूरयित्वानुरूपं निदधति
(११,२[८१].४) दक्षिणे हस्ते जुहूम्
(११,२[८१].५) सव्य उपभृतम्
(११,२[८१].६) कण्ठे ध्रुवां मुखे_अग्निहोत्रहवनीं नासिकयोः स्रुवम्
(११,२[८१].७) तानि_अनुमन्त्रयते <जुहूर्दधार द्यां [१८.४.५]>_<ध्रुव आ रोह [१८.४.६]>_इति
(११,२[८१].८) ललाटे प्राशित्रहरणम्
(११,२[८१].९) <इमं अग्ने चमसं [१८.३.५३]>_इति शिरसीडाचमसम्
(११,२[८१].१०) <देवा यज्ञं [१८.४.२]> इत्युरसि पुरोडाशम्
(११,२[८१].११) दक्षिणे पार्श्वे स्फ्यं सव्य उपवेषम्
(११,२[८१].१२) उदरे पात्रीं
(११,२[८१].१३) अष्ठीवतोरुलूखलमुसलम्
(११,२[८१].१४) श्रोण्योः शकटम्
(११,२[८१].१५) अन्तरेण_ऊरू अन्यानि यज्ञपात्रानि
(११,२[८१].१६) पादयोः शूर्पम्
(११,२[८१].१७) अपो मृन्मयानि_उपहरन्ति
(११,२[८१].१८) अयस्मयानि निदधति
(११,२[८१].१९) अमा +पुत्रस्य (एद्.ः पुत्रा च; सी Cअलन्द्, Kल्. Sछ्र्., प्. ४) दृषत्
(११,२[८१].२०) अथ_उभयोर्<अपश्यं युवतिं [१८.३.३]> <प्रजानत्यघ्न्ये [१८.३.४]>_इति जघन्यां गां प्रसव्यं परिणीयमानां अनुमन्त्रयते
(११,२[८१].२१) तां नैरृतेन जघनताघ्नन्त उपवेशयन्ति
(११,२[८१].२२) तस्याः पृष्ठतो वृक्कौ_उद्धार्य पाण्योरस्यादधति_<अति द्रव श्वानौ [१८.२.११]>_इति
(११,२[८१].२३) दक्षिणे दक्षिणं सव्ये सव्यम्
(११,२[८१].२४) हृदये हृदयम्
(११,२[८१].२५) <अग्नेर्वर्म [१८.२.५८]>_इति वपया सप्तछिद्रया मुखं प्रछादयन्ति
(११,२[८१].२६) यथागात्रं गात्राणि
(११,२[८१].२७) दक्षिणैर्दक्षिणानि सव्यैः सव्यानि
(११,२[८१].२८) अनुबद्धशिरःपादेन गोशालां चर्मणावछाद्य
(११,२[८१].२९) <अजो भागस्[१८.२.८]>_<उत्त्वा वहन्तु [१८.२.२२]>_इति दक्षिणतो_अजं बध्नाति
(११,२[८१].३०) <अस्माद्वै त्वं अजायथा अयं त्वदधि जायतां असौ स्वाहा [च्फ़्. JB्१.२, १.४७, च्फ़्. ठा ६.२.१, ६.४.२, आआश्व्ङ्ऽ४.३.२७]>_इत्युरसि गृहे जुहोति
(११,२[८१].३१) तथाग्निषु जुहोति_<अग्नये स्वाहा कामाय स्वाहा लोकाय स्वाहा [च्फ़्. आआश्व्ङ्ऽ४.३.२६]>_इति
(११,२[८१].३२) दक्षिणाग्नौ_इत्येके
(११,२[८१].३३) <मैनं अग्ने वि दहः [१८.२.४]> <शं तप [१८.२.३६]> <आ रभस्व [१८.३.७१ ए.अ.]> <प्रजानन्तः [२.३४.५]>_इति कनिष्ठ आदीपयति
(११,२[८१].३४) आदीप्ते स्रुवेण यामान्होमान्_जुहोति <परेयिवांसं प्रवतो महीरिति [१८.१.४९]>
(११,२[८१].३५) <यमो नो गातुं प्रथमो विवेद [१८.१.५०]> इति द्वे प्रथमे
(११,२[८१].३६) <अङ्गिरसो नः पितरो नवग्वा [१८.१.५८]> इति संहिताः सप्त
(११,२[८१].३७) <यो ममार प्रथमो मर्त्यानां [१८.३.१३]> <ये नः पितुः पितरो ये पितामहा [१८.२.४९]> इत्येकादश
(११,२[८१].३८) अथ सारस्वताः
(११,२[८१].३९) <सरस्वतीं देवयन्तो हवन्ते [१८.१.४१]> <सरस्वतीं पितरो हवन्ते [१८.१.४२]> <सरस्वति या सरथं ययाथ [१८.१.४३]> <सरस्वति व्रतेषु ते [७.६८.१]>_<इदं ते हव्यं घृतवत्सरस्वति [७.६८.२]>_<इन्द्रो मा मरुत्वान्[१८.३.२५]> इति
(११,२[८१].४०) दक्षिणतो_अन्यस्मिन्ननुष्ठाता जुहोति
(११,२[८१].४१) सर्वैरुपतिष्ठन्ति त्रीणि प्रभृतिर्वा
(११,२[८१].४२) अपि वानुष्ठानीभिः
(११,२[८१].४३) एता अनुष्ठान्यः
(११,२[८१].४४) <मैनं अग्ने वि दहो [१८.२.४]>_इतिप्रभृति_<अव सृज [१८.२.१०]>_इति वर्जयित्वा <सहस्रनीथाः [१८.२.१८]>_इत्यातः
(११,२[८१].४५) <आ रोह जनित्रीं जातवेदसः [१८.४.१]>_इति पञ्चदशभिराहिताग्निम्
(११,२[८१].४६) <मित्रावरुणा परि मां अधातां [१८.३.१२]> इति पाणी प्रक्षालयते
(११,२[८१].४७) <वर्चसा मां [१८.३.१०(११)]>_इत्याचामति
(११,२[८१].४८) <विवस्वान्नो [१८.३.६१]>_इत्युत्तरतो_अन्यस्मिन्ननुष्ठाता जुहोति
(११,३[८२].१) यवीयःप्रथमानि कर्माणि प्राङ्मुखानां यज्ञोपवीतिनां दक्षिणावृतम्
(११,३[८२].२) अथ_एषां सप्तसप्त शर्कराः पाणिषु_+आवपति (एद्.ः आवपते; थुस्Cअलन्द्, Kल्. Sछ्र्., प्. ४७)
(११,३[८२].३) तासां एक_एकां सव्येनावाचीनहस्तेनावकिरन्तो_अनवेक्षमाणा व्रजन्ति
(११,३[८२].४) अपाघेनानुमन्त्रयते
(११,३[८२].५) सर्वे_अग्रतो ब्रह्मणो व्रजन्ति
(११,३[८२].६) <मा प्र गाम [१३.१.५९]>_इति जपन्त उदकान्ते +व्यघापघे जपति+ (एद्.ः व्यपाद्ये जपन्ति; सी Cअलन्द्, Kल्. Sछ्र्., प्. ७१-७२)
(११,३[८२].७) पश्चादवसिञ्चति
(११,३[८२].८) <उदुत्तमं [१८.४.६९]>_इति ज्येष्ठः
(११,३[८२].९) <पयस्वतीर्[१८.३.५६ (ए.अ.)]> इति ब्रह्मा_ । ।_उक्ताः पिञ्जूलीरावपति
(११,३[८२].१०) शान्त्युदकेनाचम्याभ्युक्ष्य_<अश्वावतीं [१८.२.३१]>_इति नदीं तारयते
(११,३[८२].११) नक्षत्रं दृष्ट्वा_उपतिष्ठते <नक्षत्राणां मा संकाशश्च प्रतीकाशश्चावतां [च्फ़्. Vऐत्ऽ११.१३]> इति
(११,३[८२].१२) शाम्याकीः समिध +आदाय (एद्.ः आधाय; सी Cअलन्द्, Kल्. Sछ्र्., प्. ४७)_अग्रतो ब्रह्मा जपति
(११,३[८२].१३) <यस्य त्रया गतं अनुप्रयन्ति देवा मनुष्याः पशवश्च सर्वे । तं नो देवं मनो अधि ब्रवीतु सुनीतिर्नो नयतु द्विषते मा रधाम [PS१.७८.४]>_इति शान्त्युदकेनाचम्याभ्युक्ष्य
(११,३[८२].१४) <निस्सालां [२.१४.१]> इति शालानिवेशनं संप्रोक्ष्य
(११,३[८२].१५) <ऊर्जं बिभ्रद्[७.६०.१]> इति प्रपादयति
(११,३[८२].१६) नदीं आलम्भयति गां अग्निं अश्मानं च
(११,३[८२].१७) <यवोऽसि यवयास्मद्द्वेषो यवयारातिं [च्फ़्. ठ्ऽ१.३.१.१ एत्च्.]> इति यवान्
(११,३[८२].१८) <खल्वकास्य (एम्. B्लूम्फ़िएल्दः +खल्वकासि ?) [-]>_इति खल्वान्खलकुलान्_च
(११,३[८२].१९) +व्यघापघाभ्यां (एद्.ः व्यपाद्याभ्यां; Cअलन्द्, Kल्. Sछ्र्., प्. ७१-७२) शाम्याकीराधापयति
(११,३[८२].२०) तासां धूमं भक्षयन्ति
(११,३[८२].२१) यद्यत्क्रव्याद्गृह्येद्यदि क्रव्यादा नान्तेऽपरेद्युः । <दिवो नभः शुक्रं पयो दुहाना इषं ऊर्जं पिन्वमानाः । । अपां योनिं अपाध्वं स्वधा याश्चकृषे जीवंस्तास्ते सन्तु मधुश्चुतः [च्फ़्. PS१९.५२.१-३]> इत्यग्नौ स्थालीपाकं निपृणाति
(११,३[८२].२२) आदहने चापिवान्यवत्सां दोहयित्वा तस्याः पृष्ठे जुहोति <वैश्वानरे हविरिदं जुहोमि [१८.४.३५ एत्च्.]>_इति
(११,३[८२].२३) तस्याः पयसि
(११,३[८२].२४) स्थालीपक इत्येके
(११,३[८२].२५) <ये अग्नयो [३.२१.१]>_इति पालाश्या दर्व्या मन्थं उपमथ्य काम्पीलीभ्यां उपमन्थनीभ्यां तृतीयस्यां अस्थीनि_अभिजुहोति
(११,३[८२].२६) <उप द्यां [१८.३.५]>_<शं ते नीहारो [१८.३.६०]>_इति मन्त्रोक्तानि_अवदाय
(११,३[८२].२७) क्षीरोत्सिक्तेन ब्राह्मणस्यावसिञ्चति मधूत्सिक्तेन क्षत्रियस्य_उदकेन वैश्यस्य
(११,३[८२].२८) <अव सृज [१८.२.१०]>_इत्यनुमन्त्रयते
(११,३[८२].२९) <मा ते मनो [१८.२.२४]> <यत्ते अङ्गं [१८.२.२६]> इति संचिनोति (एमेन्देद्तेxत्+ सूत्र-दिविसिओन्[२९-३०-३१] अच्च्. तो Cअलन्द्, Kल्. Sछ्र्., प्. ४७)
(११,३[८२].३०) +पत्तः (थुस्Cअलन्द्; एद्.ः पच्छः) प्रथमं शीर्षकपालानि पश्चात्
(११,३[८२].३१) कलशे समोप्य सर्वसुरभिचूर्णैरवकीर्य_उत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः
(११,३[८२].३२) <मा त्वा वृक्षः [१८.२.२५]>_इति वृक्षमूले निदधाति
(११,३[८२].३३) <स्योनास्मै भव [१८.२.१९]>_इति भूमौ त्रिरात्रं अरसाशिनः कर्माणि कुर्वते
(११,३[८२].३४) दशरात्र इत्येके
(११,३[८२].३५) यथाकुलधर्मं वा
(११,३[८२].३६) ऊर्ध्वं तृतीयस्या वैवस्वतं स्थालीपाकं श्रपयित्वा <विवस्वान्नो [१८.३.६१]>_इति जुहोति
(११,३[८२].३७) युक्ताभ्यां तृतीयाम्
(११,३[८२].३८) आनुमतीं चतुर्थीम्
(११,३[८२].३९) शेषं शान्त्युदकेन_उपसिच्याभिमन्त्र्य प्राशयति
(११,३[८२].४०) <आ प्र च्यवेथां [१८.४.४९]> इति गावौ_उपयछति
(११,३[८२].४१) <एयं अगन्न्[१८.४.५०]> इति दशगवावरार्ध्या दक्षिणा
(११,३[८२].४२) द्वादशरात्रं कर्ता यमव्रतं चरेत्
(११,३[८२].४३) एकचैलस्त्रिचैलो चा
(११,३[८२].४४) हविष्यभक्षः
(११,३[८२].४५) सायंप्रातरुपस्पृशेत्
(११,३[८२].४६) ब्रह्मचारी व्रती_अधः शयीत
(११,३[८२].४७) स्वस्त्ययनानि प्रयुञ्जीत
(११,४[८३].१) पितॄन्निधास्यन्संभारान्संभरति
(११,४[८३].२) एकादश +चरूनचक्रकृतान्+ (एद्.ः चरूञ्चक्रकृतान्; सी Cअलन्द्, ङेब्रएउछे, प्. १३४, न्. ४९३) कारयति
(११,४[८३].३) शतातृण्णसहस्रातृण्णौ च पाशीं ऊषं सिकताः शङ्खं शालूकं सर्वसुरभिशमीचूर्णकृतं शान्तवृक्षस्य नावं त्रिपादकम्
(११,४[८३].४) द्वे निःशीयमाने नीललोहिते सूत्रे सव्यरज्जुं शान्तवृक्षस्य चतुरः शङ्कून्_चतुरः परिधीन्वारणं शामीलं औदुम्बरं पालाशं वृक्षस्य शान्तौषधीः
(११,४[८३].५) माघे निदध्यात्_माघं भूदिति
(११,४[८३].६) शरदि निदध्यात्_शाम्यत्वघं इति
(११,४[८३].७) निदाघे निदध्यात्_निदह्यतां अघं इति
(११,४[८३].८) अमावास्यायां निदध्यादमा हि पितरो भवन्ति
(११,४[८३].९) अथावसानम्
(११,४[८३].१०) तद्यत्समं समूलं अविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणम्
(११,४[८३].११) यत्राकण्टका वृक्षाश्च_ओषधयश्च
(११,४[८३].१२) उन्नतं स्वर्गकामश्च
(११,४[८३].१३) श्वोऽमावास्या_इति गां कारयते
(११,४[८३].१४) तस्याः सव्यं चापघनं प्रपाकं च निधाय
(११,४[८३].१५) भिक्षां कारयति
(११,४[८३].१६) ग्रामे यामसारस्वतान्होमान्हुत्वा
(११,४[८३].१७) संप्रोक्षणीभ्यां काम्पीलशाखया निवेशनं अनुचर्य
(११,४[८३].१८) प्राग्दक्षिणं शाखां प्रविध्य सीरेण कर्षयित्वा शाखाभिः परिवार्य
(११,४[८३].१९) <पुनर्देहि [१८.३.७०]>_इति वृक्षमूलादादत्ते
(११,४[८३].२०) <यत्ते कृष्णः [१८.३.५५]>_इति भूमेर्वसने समोप्य सर्वसुरभिचूर्णैरवकीर्य_उत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः
(११,४[८३].२१) अविदन्तो देशात्पांसून्
(११,४[८३].२२) अपि वा_उदकान्ते वसनं आस्तीर्यासौ_इति ह्वयेत्
(११,४[८३].२३) तत्र यो जन्तुर्निपतेत्तं उत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः
(११,४[८३].२४) अपि वा त्रीणि षष्टिशतानि पलाशत्सरूणाम्
(११,४[८३].२५) ग्रामे दक्षिणोदग्द्वारं विमितं दर्भैरास्तारयति
(११,४[८३].२६) उत्तरं जीवसंचरो दक्षिणं पितृसंचरः
(११,४[८३].२७) अनस्तमिते_<आ यात [१८.४.६२]>_इत्यायापयति
(११,४[८३].२८) <आच्या जानु [१८.१.५२]>_इत्युपवेशयति
(११,४[८३].२९) <सं विशन्त्व्[१८.२.२९]> इति संवेशयति
(११,४[८३].३०) <एतद्वः पितरः पात्रं [च्फ़्. VSं २.३२, ंअन्B्२.३.१४ एत्च्.]> इति त्रीण्युदकंसान्निनयति
(११,४[८३].३१) त्रीन्स्नातानुलिप्तान्ब्राह्मणान्मधुमन्थं पाययति
(११,४[८३].३२) ब्रह्मणे मधुपर्कं आहारयति
(११,४[८३].३३) गां वेदयन्ते
(११,४[८३].३४) कुरुत_इत्याह
(११,४[८३].३५) तस्या दक्षिणं अर्धं ब्राह्मणान्भोजयति सव्यं पितॄन्
(११,५[८४].१) <वह वपां जातवेदः पितृभ्यो यत्रैतान्वेत्थ निहितान्पराके । मेदसः कुल्या उप तान्स्रवन्तु सत्या एषां आशिषः सन्तु कामाः स्वाहा स्वधा [सी ४५.१४, च्फ़्. ंअन्B्२.३.१८, VSं ३५.२०]>_इति वपायास्त्रिर्जुहोति
(११,५[८४].२) <इमं यम [१८.१.६०]>_इति यमाय चतुर्थीम्
(११,५[८४].३) एकविंशत्या यवैः कृशरं रन्धयति युतं अन्यत्प्रपाकं च
(११,५[८४].४) सयवस्य जीवाः प्राश्नन्ति
(११,५[८४].५) अथ_इतरस्य पिण्डं निपृणाति
(११,५[८४].६) <यं ते मन्थं [१८.४.४२]>_इति मन्त्रोक्तं विमिते निपृणाति
(११,५[८४].७) तदुद्गतोष्म हर्तारो [एद्. -ओष्महर्त्-, Cअलन्दाह्नेन्चुल्त्प्. २६४] दासा भुञ्जते
(११,५[८४].८) वीणा वदन्तु_इत्याह
(११,५[८४].९) महयत पितॄनिति रिक्तकुम्भं विमितमध्ये निधाय तं जरदुपानहाघ्नन्ति
(११,५[८४].१०) <कस्ये मृजाना [१८.३.१७]> इति त्रिः प्रसव्यं प्रकीर्णकेश्यः परियन्ति दक्षिणानूरूनघ्नानाः
(११,५[८४].११) एवं मध्यरात्रे_अपरात्रे च
(११,५[८४].१२) पुरा विवाहात्समांसः पिण्डपितृयज्ञः
(११,५[८४].१३) उत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः
(११,५[८४].१४) अथ_<अवसाय [?, .ऱ्V१०.१६९.१द्, PS१९.५१.५द्? णोते Cअलन्द्, Kल्. Sछ्र्., प्. ४८)]>_इति पश्चात्पूर्वकृतेभ्यः पूर्वाणि पूर्वेभ्यो_अपराणि यवीयसाम्
(११,५[८४].१५) प्राग्दक्षिणां दिशं अभ्युत्तरां अपरां दिशं अभितिष्ठन्ति
(११,५[८४].१६) यथा चितिं तथा श्मशानं दक्षिणापरां दिशं अभि प्रवणम्
(११,६[८५].१) अथ मानानि
(११,६[८५].२) दिष्टिकुदिष्टिवितस्तिनिमुष्ट्यरत्निपदप्रक्रमाः
(११,६[८५].३) प्रादेशेन धनुषा च_<इमां मात्रां मिमीमहे [१८.२.३८]>_इति
(११,६[८५].४) सप्त दक्षिणतो मिमीते सप्त_उत्तरतः पञ्च पुरस्तात्त्रीणि पश्चात्
(११,६[८५].५) नव दक्षिणतो मिमीते नव_उत्तरतः सप्त पुरस्तात्पञ्च पश्चात्
(११,६[८५].६) एकादश दक्षिणतो मिमीत एकादश_उत्तरतो नव पुरस्तात्सप्त पश्चात्
(११,६[८५].७) एकादशभिर्देवदर्शिनाम्
(११,६[८५].८) अयुग्ममानानि परिमण्डलानि चतुरस्राणि वा शौनकिनाम्
(११,६[८५].९) तथा हि दृश्यन्ते
(११,६[८५].१०) यावान्पुरुष ऊर्ध्वनाहुस्तावानग्निश्चितः
(११,६[८५].११) सव्यानि दक्षिणाद्वाराणि_अयुग्मशिलानि_अयुग्मेष्टिकानि च
(११,६[८५].१२) <इमां मात्रां मिमीमहे [१८.२.३८]>_इति दक्षिणतः सव्यरज्जुं मीत्वा
(११,६[८५].१३) वारयतां अघं इति वारणं परिधिं परिदधाति शङ्कुं च निचृतति
(११,६[८५].१४) पुरस्तान्मीत्वा शं एभ्यो अस्त्वघं इति शामीलं परिधिं परिदधाति शङ्कुं च निचृतति
(११,६[८५].१५) उत्तरतो मीत्वा शाम्यत्वघं इत्यौदुम्बरं परिधिं परिदधाति शङ्कुं च निचृतति
(११,६[८५].१६) पश्चान्मीत्वा शान्तं अघं इति पालाशं परिधिं परिदधाति शङ्कुं च निचृतति
(११,६[८५].१७) <अमासि [१८.२.४५]>_इत्यनुमन्त्रयते
(११,६[८५].१८) अक्ष्णया लोहितसूत्रेण निबध्य
(११,६[८५].१९) <स्तुहि श्रुतं [१८.१.४०]>_इति मध्ये गर्तं खात्वा पाशिसिकता_ऊष_उदुम्बरशङ्खशालूकसर्वसुरभिशमीचूर्णानि निवपति
(११,६[८५].२०) निःशीयतां अघं इति निःशीयमानं आस्तृणाति
(११,६[८५].२१) असंप्रत्यघम्
(११,६[८५].२२) वि लुम्पतां अघं इति परि चैलं दूर्शं विलुम्पति
(११,६[८५].२३) उक्तो होमो दक्षिणत स्तरणं च
(११,६[८५].२४) <एतदा रोह [१८.३.७३]> <ददामि [१८.२.३७]>_इति कनिष्ठो निवपति
(११,६[८५].२५) <एदं बर्हिर्[१८.४.५२]> इति स्थितसूनुर्यथापरु संचिनोति
(११,६[८५].२६) <मा ते मनो [१८.२.२४]> <यत्ते अङ्गं [१८.२.२६]> <इन्द्रो मा [१८.३.२५]>_<उदपूर्[१८.३.३७]> इत्यातो_अनुमन्त्रयते
(११,६[८५].२७) धानाः सलिङ्गाभिरावपति
(११,७[८६].१) <इदं कसाम्बु [१८.४.३७]>_इति सजातानवेक्षयति
(११,७[८६].२) <ये च जीवा [१८.४.५७]> <ये ते पूर्वे परागता [१८.३.७२]> इति सर्पिर्मधुभ्यां चरुं पूरयित्वा शीर्षदेशे निदधाति
(११,७[८६].३) <अपूपवान्[१८.४.१६]> इति मन्त्रोक्तं दिक्षु_अष्टमदेशेषु निदधाति
(११,७[८६].४) मध्ये पचन्तम्
(११,७[८६].५) <सहस्रधारं शतधारं [१८.४.३६]> इत्यद्भिरभिविष्यन्द्य
(११,७[८६].६) <पर्णो राजा [१८.४.५३]>_इति मध्यमपलाशैरभिनिदधाति
(११,७[८६].७) <ऊर्जो भागो [१८.४.५४]>_इत्यश्मभिः
(११,७[८६].८) <उत्ते स्तभ्नामि [१८.३.५२]>_इति लोगान्यथापरु
(११,७[८६].९) निःशीयतां अघं इति निःशीयमानेनावछाद्य दर्भैरवस्तीर्य
(११,७[८६].१०) <इदं इद्वा उ न [१८.२.५०]>_<उप सर्प [१८.३.४९]>_<असौ हा [१८.४.६६]> इति चिन्वन्ति
(११,७[८६].११) <यथा यमाय [१८.४.५५]>_इति संश्रित्य
(११,७[८६].१२) शृणात्वघं इत्युपरिशिर स्तम्बं आदधाति
(११,७[८६].१३) प्रतिषिद्धं एकेषाम्
(११,७[८६].१४) अकल्माषाणां काण्डानां अष्टाङ्गुलीं तेजनीं अन्तर्हितं अघं इति ग्रामदेशादुच्छ्रयति
(११,७[८६].१५) प्रसव्यं परिषिच्य कुम्भान्भिन्दन्ति
(११,७[८६].१६) <समेत [७.२१.१ (थुसेम्.!)]>_इति अपरस्यां श्मशानस्रक्त्यां ध्रुवनानि_ उपयछन्ते
(११,७[८६].१७) पश्चादुत्तरतो_अग्नेर्<वर्चसा मां [१८.३.१०]> <विवस्वान्[१८.३.६१]> <इन्द्र क्रतुं [१८.३.६७]>_इत्यातः
(११,७[८६].१८) <सं इन्धते [१८.४.४१ (ए.अ.)]>_इति पश्चात्संकसुकं उद्दीपयति
(११,७[८६].१९) <अस्मिन्वयं [१२.२.१३]> <यद्रिप्रं [१२.२.४०]> <सीसे मृड्ढ्वं [१२.२.१९]>_इत्यभ्यवनेजयति
(११,७[८६].२०) कृष्णोर्णया पाणिपादान्निमृज्य
(११,७[८६].२१) <इमे जीवा [१२.२.२२]> <उदीचीनैः [१२.२.२९]>_इति मन्त्रोक्तं
(११,७[८६].२२) <त्रिः सप्त [१२.२.२९च्]>_इति कूद्या पदानि लोपयित्वा [एद्. योपयित्वा – चोर्रिगेन्द एद्. प्. ४२४] श्मशानात्
(११,७[८६].२३) <मृत्योः पदं [१२.२.३०]>_इति द्वितीयया नावः
(११,७[८६].२४) <परं मृत्यो [१२.२.२१]> इति प्राग्दक्षिणं कूदीं प्रविध्य
(११,७[८६].२५) सप्त नदीरूपाणि कारयित्वा_उदकेन पूरयित्वा
(११,७[८६].२६) <आ रोहत सवितुर्नावं एतां [१२.२.४८च्]> <सुत्रामाणं [७.६.३]> <महीं ऊ षु [७.६.२]>_इति सहिरण्यां सयवां नावं आरोहयति
(११,७[८६].२७) <अश्मन्वती रीयते [१२.२.२६]>_<उत्तिष्ठता प्र तरता सखायो [१२.२.२७]>_इत्युदीचस्तारयति
(११,७[८६].२८) शर्करादि_आ समिदाधानात्
(११,७[८६].२९) वैवस्वतादि समानम्
(११,७[८६].३०) प्राप्य गृहान्समानः पिण्डपितृयज्ञः
(११,८[८७].१) अथ पिण्डपितृयज्ञः
(११,८[८७].२) अमावास्यायां सायं न्यह्ने_अहनि विज्ञायते [च्फ़्. १८.४.६५?]
(११,८[८७].३) <मित्रावरुणा परि मां अधातां [१८.३.१२]> इति पाणी प्रक्षालयते
(११,८[८७].४) <वर्चसा मां [१८.३.१०]>_इत्याचामति
(११,८[८७].५) पुनः सव्येनाचमनादपसव्यं कृत्वा प्रैषकृतं समादिशति
(११,८[८७].६) उलूखलमुसलं शूर्पं चरुं कंसं प्रक्षालय बर्हिरुदकुम्भं आ हर_इति
(११,८[८७].७) यज्ञोपवीती दक्षिणपूर्वं अन्तर्देशं अभिमुखः शूर्प एकपवित्रान्तर्हितान्हविष्यान्निर्वपति
(११,८[८७].८) इदं <अग्नये कव्यवाहनाय [१८.४.७१]> <स्वधा पितृभ्यः पृथिविषद्भ्यः [१८.४.७८]>_इतीदं <सोमाय पितृमते स्वधा [१८.४.७२]> <पितृभ्यः सोमवद्भ्यः [१८.४.७३]> <पितृभ्यो वान्तरिक्षसद्भ्यः [१८.४.७९]>_इतीदं <यमाय पितृमते [१८.४.७४]> <स्वधा पितृभ्यश्च दिविषद्भ्यः [१८.४.८०]>_इति त्रीनवाचीनकाशीन्निर्वपति
(११,८[८७].९) उलूखल ओप्य त्रिरवहन्ति_<इदं वः पितरो हविः>_इति
(११,८[८७].१०) यथा हविस्तथा परिचरति
(११,८[८७].११) हविर्हि_एव पितृयज्ञः
(११,८[८७].१२) प्रैषकृतं समादिशन्ति चरुं प्रक्षालयाधिश्रयाप ओप्य तण्डुलानावपस्व नेक्षणेन योधयन्नास्व मा शिरो ग्रहीः
(११,८[८७].१३) शिरोग्रहं परिचक्षते
(११,८[८७].१४) बाह्येन_उपनिष्क्रम्य यज्ञोपवीती दक्षिणपूर्वं अन्तर्देशं अभिमुख <उदीरतां [१८.१.४४]> इति कर्षूं खनति प्रादेशमात्रीं तिर्यगङ्गुरिम्
(११,८[८७].१५) अवागङ्गुरिं पर्वमात्रीं इत्येके
(११,८[८७].१६) <अपहता असुरा रक्षांसि ये पितृषदः [च्फ़्. VSं २.२९, ंअन्B्२.३.३]>_इति प्राग्दक्षिणं पांसूनुदूहति
(११,८[८७].१७) कर्षूं च पाणी च प्रक्षाल्य_<एतद्वः पितरः पात्रम्> इति कर्षूं उदकेन पूरयित्वा
(११,८[८७].१८) अन्तरुपातीत्य मस्तुना नवनीतेन वा प्रतिनीय दक्षिणाञ्चं उद्वास्य
(११,८[८७].१९) द्वे काष्ठे गृहीत्वा_<उशन्तस्[१८.१.५६]>_इत्यादीपयति
(११,८[८७].२०) आदीप्तयोरेकं प्रतिनिदधाति
(११,८[८७].२१) <इहैवैधि धनसनिर्[१८.४.३८]> इत्येकं हृत्वा
(११,८[८७].२२) पांसुषु_आधाय_उपसमादधाति <ये निखाताः [१८.२.३४]> <सं इन्धते [१८.४.४१ (ए.अ.)]> <ये तातृषुर्[१८.३.४७]> <ये सत्यासो [१८.३.४८]>_इति
(११,८[८७].२३) संभारानुपसादयति
(११,८[८७].२४) पर्युक्षणीं बर्हिरुदकुम्भं कंसं दर्विं आज्यं आयवनं चरुं वासांस्याञ्जनं अभ्यञ्जनं इति
(११,८[८७].२५) यदत्र_उपसमाहार्यं भवति तदुपसमाहृत्य
(११,८[८७].२६) अतो यज्ञोपवीती पित्र्युपवीती बर्हिर्गृहीत्वा विचृत्य संनहनं दक्षिणापरं अष्टमदेशं अभ्यवास्येत्
(११,८[८७].२७) बर्हिरुदकेन संप्रोक्ष्य <बर्हिषदः पितर [१८.१.५१]> <उपहूता नः पितरः [१८.३.४५]>_<अग्निष्वात्ताः पितरो [१८.३.४४]> <ये नः पितुः पितरो [१८.३.४६]> <येऽस्माकं [१८.४.६८]>_इति प्रस्तृणाति
(११,८[८७].२८) आयापनादीनि त्रीणि
(११,८[८७].२९) <उदीरतां [१८.१.४४]> इति तिसृभिरुदपात्राणि_अन्वृचं निनयेत्
(११,८[८७].३०) अतः पित्र्युपवीती यज्ञोपवीती <ये दस्यवः [१८.२.२८]>_इत्युभयत आदीप्तं उल्मुकं त्रिः प्रसव्यं परिहृत्य निरस्यति
(११,८[८७].३१) पर्युक्ष्य
(११,९[८८].१) <ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । त्वं तानग्ने अप सेध दूरान्सत्याः नः पितॄणां सन्त्वाशिषः स्वहा स्वधा [-, च्फ़्. VS२.२०, ंअन्B्२.३.४]>_इति हुत्वा कुम्भीपाकं अभिघारयति
(११,९[८८].२) <अग्नय कव्यवाहनाय [१८.४.७१]>_इति जुहोति
(११,९[८८].३) यथानिरुप्तं द्वितीयाम्
(११,९[८८].४) <यमाय पितृमते [१८.४.७४] <स्वधा पितृभ्यः [१८.४.७८]> इति तृतीयाम्
(११,९[८८].५) <यद्वो अग्निर्[१८.४.६४]> इति सायवनान्_तण्डुलान्
(११,९[८८].६) <सं बर्हिर्[७.९८.१]> इति सदर्भान्_तण्डुलान्पर्युक्ष्य
(११,९[८८].७) अतो यज्ञोपवीती पित्र्युपवीती दर्व्या_उद्धरति
(११,९[८८].८) द्यौर्दर्विरक्षितापरिमितानुपदस्ता सा यथा द्यौर्दर्विरक्षितापरिमितानुपदस्ता_एवा [रेअद्_एवं? ;Sरौतकोश ई ऍग्. ई प्. ४८८] प्रततामहस्य_इयं दर्विरक्षितापरिमितानुपदस्ता
(११,९[८८].९) अन्तरिक्षं दर्विरक्षितापरिमितानुपदस्ता सा यथान्तरिक्षं दर्विरक्षितापरिमितानुपदस्ता_एवा [रेअद्_एवं? ;Sरौतकोश ई ऍग्. ई प्. ४८८] ततामहस्य_इयं दर्विरक्षितापरिमितानुपदस्ता
(११,९[८८].१०) पृथिवी दर्विरक्षितापरिमितानुपदस्ता सा यथा पृथिवी दर्विरक्षितापरिमितानुपदस्ता_एवा [रेअद्_एवं? ;Sरौतकोश ई ऍग्. ई प्. ४८८] ततस्य_इयं दर्विरक्षितापरिमितानुपदस्ता_इति
(११,९[८८].११) उद्धृत्याज्येन संनीय त्रीन्पिण्डान्संहतान्निदधाति_<एतत्ते प्रततामह [१८.४.७५]>_इति
(११,९[८८].१२) दक्षिणतः पत्नीभ्यः_<इदं वः पत्न्यः>_इति
(११,९[८८].१३) इदं आशंसूनां इदं आशंसमानानां स्त्रीणां पुंसां प्रकीर्णावशीर्णानां <येषां वयं दातारो ये चास्माकं उपजीवन्ति । तेभ्यः सर्वेभ्यः सपत्नीकेभ्यः स्वधावदक्षय्यं अस्तु [-]>_इति त्रिः प्रसव्यं तण्डुलैः परिकिरति
(११,९[८८].१४) पिञ्जूलीराञ्जनं सर्पिषि पर्यस्य_<अद्ध्वं पितरः>_इति न्यस्यति
(११,९[८८].१५) <वद्ध्वं पितरो मा वोऽतोऽन्यत्पितरो योयुवत [-]>_इति सूत्राणि
(११,९[८८].१६) <अञ्जते व्यञ्जते [१८.३.१८]>_इत्यभ्यञ्जनम्
(११,९[८८].१७) आज्येनाविछिन्नं पिण्डानभिघारयति <ये च जीवा [१८.४.५७]> <ये ते पूर्वे परागता [१८.३.७२]> इति
(११,९[८८].१८) <अत्र पितरो मादयध्वं यथाभागं यथालोकं आवृषायध्वं [च्फ़्. VSं २.३१, ंअन्B्२.३.६ एत्च्.]> इति
(११,९[८८].१९) <अत्र पत्न्यो मादयध्वं यथाभागं यथालोकं आवृषायध्वं [च्फ़्. VSं २.३१, ंअन्B्२.३.६ एत्च्.]> इति
(११,९[८८].२०) यो_असौ_अन्तरग्निर्भवति तं प्रदक्षिणं अवेक्ष्य तिस्रस्तामीस्ताम्यति
(११,९[८८].२१) प्रतिपर्यावृत्य_<अमीमदन्त पितरो यथाभागं यथालोकं आवृषायिषत [च्फ़्. VSं २.३१, ंअन्B्२.३.७ एत्च्.]>_इति
(११,९[८८].२२) <अमीमदन्त पत्न्यो यथाभागं यथालोकं आवृषायिषत [च्फ़्. VSं २.३१, ंअन्B्२.३.७ एत्च्.]>_इति
(११,९[८८].२३) <आपो अग्निं [१८.४.४०]>_इत्यद्भिरग्निं अवसिच्य
(११,९[८८].२४) <पुत्रं पौत्रं अभितर्पयन्तीर्[१८.४.३९]> इत्य्<आचामत मम प्रततामहास्ततामहास्तताः सपत्नीकास्तृप्यन्त्वाचामन्तु [-]>_इति प्रसव्यं परिषिच्य
(११,९[८८].२५) <वीरान्मे प्रततामहा दत्त वीरान्मे ततामहा दत्त वीरान्मे पितरो दत्त> पितॄन्वीरान्याचति
(११,९[८८].२६) <नमो वः पितर [१८.४.८१फ़्फ़्.]> इत्युपतिष्ठते
(११,९[८८].२७) <अक्षन्न्[१८.४.६१]> इत्युत्तरसिचं अवधूय
(११,९[८८].२८) <परा यात [१८.४.६३]>_इति परायापयति
(११,९[८८].२९) अतः पित्र्युपवीती यज्ञोपवीती <यन्न इदं पितृभिः सह मनोऽभूत्तदुपाह्वयामि [-]>_इति मन उपाह्वयति
(११,१०[८९].१) <मनो न्वा ह्वामहे नाराशंसेन [चोर्र्. B्लूम्फ़िएल्द्ङ्ङा १९०२ ५१४ – एद्. नार-] स्तोमेन । पितॄणां च मन्मभिः । । आ न एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक्च सूर्यं दृशे । । पुनर्नः पितरो मनो ददातु दैव्यो [एद्. दैव्यः] जनः । जीवं व्रातं सचेमहि । । वयं सोम व्रते तव मनस्तनूषु बिभ्रतः प्रजावन्तः सचेमहि [PS१९.२४.१०-१३, Vऐत्ऽ२०.९]> । । <ये सजाताः सुमनसो जीवा जीवेषु मामकाः । तेषा;ं श्रीर्मयि कल्पतां अस्मिन्गोष्ठे शत;ं समाः [VSं १९.४६ एत्च्.]>_इति
(११,१०[८९].२) यत्_चरुस्थाल्यां ओदनावशिष्टं भवति तस्य_ऊष्मभक्षं भक्षयित्वा ब्राह्मणाय दद्यात्
(११,१०[८९].३) यदि ब्राह्मणो न लभ्येताप्सु_अभ्यवहरेत्
(११,१०[८९].४) निजाय दासाय_इत्येके
(११,१०[८९].५) मध्यमपिण्डं पत्न्यै पुत्रकामायै प्रयछति
(११,१०[८९].६) <आ धत्त पितरो गर्भं कुमारं पुष्करस्रजं । यथेह पुरुषोऽसत् । । [VSं २.३३ एत्च्.]> <आ त्वारुक्षद्वृषभः पृश्निरग्रियो मेधाविनं पितरो गर्भं आ दधुः । आ त्वायं पुरुषो गमेत्पुरुषः पुरुषादधि । स ते श्रैष्ठ्याय जायतां स सोमे साम गायतु [-, च्फ़्. .ऱ्V९.८३.३]>_इति
(११,१०[८९].७) यदि_अन्या द्वितीया भवति_अपरं तस्यै
(११,१०[८९].८) प्राग्रतमं श्रोत्रियाय
(११,१०[८९].९) अथ यस्य भार्या दासी वा प्रद्राविणी भवति ये_अमी तण्डुलाः प्रसव्यं परिकीर्णा भवन्ति तान्_तस्यै प्रयछति
(११,१०[८९].१०) <अर्वाच्य्+उपसंक्राम [एद्. उपसंक्रमे] मा पराच्यप वर्तथाः [एद्. उप वस्तथा] । अन्नं प्राणस्य बन्धनं तेन बध्नामि त्वा मयि [-, एमेन्दतिओन्स्Cअलन्द्, आह्नेन्चुल्त्प्. १९२, च्फ़्. ंअन्B्१.३.१०]>_इति
(११,१०[८९].११) पर्युक्षणीं समिधश्चादाय <मा प्र गाम [१३.१.५९]>_इत्याव्रज्य_<ऊर्जं बिभ्रद्[७.६०.१]> इति गृहानुपतिष्ठते
(११,१०[८९].१२) <रमध्वं मा बिभीतनास्मिन्गोष्ठे करीषिणः । ऊर्जं दुहानाः शुचयः शुचिव्रता गृहा जीवन्त उप वः सदेम । । ऊर्जं मे देवा अददुरूर्जं मनुष्या उत । ऊर्जं पितृभ्य आहार्षं ऊर्जस्वन्तो गृहा मम । । पयो मे देवा अददुः पयो मनुष्या उत । पयः पितृभ्य आहार्षं पयस्वन्तो गृहा मम । । [PS१८.८२.३-५]> <वीर्यं मे देवा अददुः वीर्यं मनुष्या उत । वीर्यं पितृभ्य आहार्षं वीरवन्तो गृहा मम । । [-, च्फ़्. PS१८.८२.४-५]>_इति
(११,१०[८९].१३) अन्तरुपातीत्य समिधोऽभ्यादधाति । <अयं नो अग्निरध्यक्षोऽयं नो वसुवित्तमः । अस्योपसद्ये मा रिषामायं रक्षतु नः प्रजां । । अस्मिन्सहस्रं पुष्यास्मैधमानाः स्वे गृहे । इमं सं इन्धिषीमह्यायुष्मन्तः सुवर्चसः । । [PS२०.६१.५-६]> <त्वं अग्न ईडितो [१८.३.४२]>_<आ त्वाग्न इन्धीमहि [१८.४.८८]>_इति
(११,१०[८९].१४) <अभूद्दूतः [१८.४.६५]>_इत्यग्निं प्रत्यानयति
(११,१०[८९].१५) यदि सर्वः प्रणीतः स्याद्दक्षिणाग्नौ तु_एतदाहिताग्नेः
(११,१०[८९].१६) गृह्ये +ऽपि_अनाहिताग्नेः [एद्. गृह्येष्व्, च्फ़्. Cअलन्दाह्नेन्चुल्त्प्. १५]
(११,१०[८९].१७) <इदं चिन्मे कृतं अस्तीदं चिच्छक्नवानि । पितरश्चिन्मा वेदन्[-]>_इति
(११,१०[८९].१८) यो ह यजते तं देवा विदुर्यो ददाति तं मनुष्या यः श्राद्धानि कुरुते तं पितरस्तं पितरः
(Kऔश्ऽ११ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे एकादशोऽध्यायः समाप्तः
(१२,१[९०].१) मधुपर्कं आहारयिष्यन्दर्भानाहारयति
(१२,१[९०].२) अथ विष्टरान्कारयति
(१२,१[९०].३) स खलु_एकशाखं एव प्रथमं पाद्यं द्विशाखं आसनं त्रिशाखं मधुपर्काय
(१२,१[९०].४) स यावतो मन्येत तावत उपादाय विविच्य संपर्याप्य मूलानि च प्रान्तानि च यथाविस्तीर्ण इव स्यादित्युपोत्कृष्य मध्यदेशे_अभिसंनह्यति
(१२,१[९०].५) <ऋतेन त्वा सत्येन त्वा तपसा त्वा कर्मणा त्वा>_इति संनह्यति
(१२,१[९०].६) अथ ह सृजति_<अतिसृष्टो द्वेष्टा योऽस्मान्द्वेष्टि यं च वयं द्विष्मः>
(१२,१[९०].७) अस्य च दातुरिति दातारं ईक्षते
(१२,१[९०].८) अथ_उदकं आहारयति पाद्यं भो इति
(१२,१[९०].९) हिरण्यवर्णाभिः प्रतिमन्त्र्य दक्षिणं पादं प्रथमं प्रकर्षति । मयि ब्रह्म च तपश्च धारयाणीति
(१२,१[९०].१०) दक्षिणे प्रक्षालिते सव्यं प्रकर्षति । मयि क्षत्रं च विशस्च धारयाणीति
(१२,१[९०].११) प्रक्षालितौ_अनुमन्त्रयते । <इमौ पादाववनिक्तौ ब्राह्मणं यशसावतां । आपः पादावनेजनीर्द्विषन्तं निर्दहन्तु मे [-, च्फ़्. आइत्B्८.२७]>
(१२,१[९०].१२) अस्य च दातुरिति दातारं ईक्षते
(१२,१[९०].१३) अथासनं आहारयति । सविष्टरं आसनं भो इति
(१२,१[९०].१४) तस्मिन्प्रत्यङ्मुख उपविशति
(१२,१[९०].१५) <विमृग्वरीं पृथिवीं [१२.१.२९]> इत्येतया विष्टरे पादौ प्रतिष्ठाप्य_<अधिष्ठितो द्वेष्टा योऽस्मान्द्वेष्टि यं च वयं द्विष्मः>
(१२,१[९०].१६) अस्य च दातुरिति दातारं ईक्षते
(१२,१[९०].१७) अथ_उदकं आहारयति_अर्घ्यं भो इति
(१२,१[९०].१८) तत्प्रतिमन्त्रयते । <अन्नानां मुखं असि मुखं अहं श्रेष्ठः समानानां भूयासं । आपोऽमृतं स्थामृतं मा कृणुत दासास्माकं बहवो भवन्त्यश्वावद्गोमन्मय्यस्तु पुष्टों (एद्. पुष्टं ओं; च्फ़्. Cअलन्द्, Kल्. Sछ्र्., प्. ४५, न्. १) भूर्भुवः स्वर्जनदोम्> इति
(१२,१[९०].१९) तूष्णीं अध्यात्मं निनयति
(१२,१[९०].२०) <तेजोऽस्यमृतं असि>_इति ललाटं आलभते
(१२,१[९०].२१) अथ_उदकं आहारयति_आचमनीयं भो इति
(१२,१[९०].२२) जीवाभिराचम्य
(१२,१[९०].२३) अथास्मै मधुपर्कं वेदयन्ते द्व्यनुचरो मधुपर्को भो इति
(१२,१[९०].२४) द्वाभ्यां शाखाभ्यां अधस्तादेकया_उपरिष्टाद्सापिधानम्
(१२,१[९०].२५) <मधु वाता ऋतायते [PS१९.४५.५]>_इत्येताभिरेवाभिमन्त्रणम्
(१२,१[९०].२६) तथा प्रतिमन्त्रणम्
(१२,२[९१].१) <मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्गावो भवन्तु नः । । मधु नक्तं उतोषसो मधुमत्पार्थिवं रजः । माध्वीर्नः सन्त्वोषधीः । । मधुमान्नो वनस्पतिर्मधुमा;ं अस्तु सूर्यः । मधु द्यौरस्तु नः पिता । । [PS१९.४५.५-७]>
(१२,२[९१].२) तत्<सूर्यस्य त्वा चक्षुषा प्रतीक्षे [PS२०.५७.११, Vऐत्ऽ३.८, ङ्B्२.१.२, एत्च्.]> इति प्रतीक्षते
(१२,२[९१].३) <अयुतोऽहं [१९.५१.१]> <देवस्य त्वा सवितुः [१९.५१.२]>_इति प्रतिगृह्य पुरोमुखं प्राग्दण्डं निदधाति
(१२,२[९१].४) <पृथिव्यास्त्वा नाभौ सादयाम्यदित्या उपस्थे [Vऐत्ऽ३.१०, एत्च्.]>_इति भूमौ प्रतिष्ठाप्य
(१२,२[९१].५) द्वाभ्यां अङ्गुलिभ्यां प्रदक्षिणं आचाल्यानामिकयाङ्गुल्याङ्गुष्ठेन च संगृह्य प्राश्नाति
(१२,२[९१].६) <ओं भूस्तत्सवितुर्वरेण्यं भूः स्वाहा [.ऱ्V३.६२.१०अ ए.अ.]>_इति प्रथमम्
(१२,२[९१].७) <भर्गो देवस्य धीमहि भुवः स्वाहा [.ऱ्V३.६२.१०बे.अ.]>_इति द्वितीयम्
(१२,२[९१].८) <धियो यो नः प्रचोदयात्स्वः स्वाहा [.ऱ्V३.६२.१०चे.अ.]>_इति तृतीयम्
(१२,२[९१].९) <वयं देवस्य धीमहि जनत्स्वाहा [.ऱ्V३.६२.१०दे.अ.]>_इति चतुर्थम्
(१२,२[९१].१०) <तुरं देवस्य भोजनं वृधत्स्वाहा [-, च्फ़्. .ऱ्V५.८२.१]>_इति पञ्चमम्
(१२,२[९१].११) <करत्स्वाहा>_इति षष्ठम्
(१२,२[९१].१२) <रुहत्स्वाहा>_इति सप्तमम्
(१२,२[९१].१३) <महत्स्वाहा>_इत्यष्टमम्
(१२,२[९१].१४) <तत्स्वाहा>_इति नवमम्
(१२,२[९१].१५) <शं स्वाहा>_इति दशमम्
(१२,२[९१].१६) <ओम्> इति एकादशम्
(१२,२[९१].१७) तूष्णीं द्वादशम्
(१२,२[९१].१८) तस्य भूयोमात्रं इव भुक्त्वा ब्राह्मणाय श्रोत्रियाय प्रयछेत्
(१२,२[९१].१९) श्रोत्रियालाभे वृषलाय प्रयछेत्
(१२,२[९१].२०) अथाप्ययं निगमो भवति । <सोमं एतत्पिबति यत्किं चाश्नीत ब्राह्मणाः । माब्राह्मणायोच्छिष्टं +दात्[एम्. Fअल्क्, म्.च्.; एद्. ।लाट्य्;SSदात] मा सोमं पात्वसोमपः [च्फ़्. लाट्य्;SS२.१२.१७]>_इति
(१२,३[९२].१) दधि च मधु ब्राह्मो मधुपर्कः
(१२,३[९२].२) पायस ऐन्द्रो मधुपर्कः
(१२,३[९२].३) मधु चाज्यं च स्ॐयो मधुपर्कः
(१२,३[९२].४) मन्थश्चाज्यं च पौष्णो मधुपर्कः
(१२,३[९२].५) क्षीरं चाज्यं च सारस्वतो मधुपर्कः
(१२,३[९२].६) सुरा चाज्यं च मौसलो मधुपर्कः
(१२,३[९२].७) स खलु_एष द्वये भवति सौत्रामण्यां च राजसूये च
(१२,३[९२].८) उदकं चाज्यं च वारुणो मधुपर्कः
(१२,३[९२].९) तैलं चाज्यं च श्रावणो मधुपर्कः
(१२,३[९२].१०) तैलश्च पिण्डश्च पारिव्राजको मधुपर्कः
(१२,३[९२].११) इति खलु_एष नवविधो मधुपर्को भवति
(१२,३[९२].१२) अथास्मै गां वेदयन्ते गौर्भो इति
(१२,३[९२].१३) तान्प्रतिमन्त्रयते । <भूतं असि भवदस्यन्नं प्राणो बहुर्भव । ज्येष्ठं यन्नाम नामत ओं भूर्भुवः स्वर्जनदों [-]> इति
(१२,३[९२].१४) अतिसृजति । <मातादित्यानां दुहिता वसूनां स्वसा रुद्राणां अमृतस्य नाभिः । प्र णो वोचं चिकितुषे जनाय मा गां अनागां अदितिं वधिष्ट । । [च्फ़्. .ऱ्V८.१०१.१५]> ओं तृणानि गौरत्त्विति आह
(१२,३[९२].१५) <सूयवसाद्[७.७३.११]> इति प्रतिष्ठमानां अनुमन्त्रयते
(१२,३[९२].१६) नालोहितो मधुपर्को भवति
(१२,३[९२].१७) नानुज्ञानं अधीमहे_इति कुरुत_इत्येव ब्रूयात्
(१२,३[९२].१८) <स्वधिते मैनं हिंसीः [VSं ६.१५, ंअन्B्१.६.६]>_इति शस्त्रं प्रयछति
(१२,३[९२].१९) पाप्मानं मेऽप जहीति कर्तारं अनुमन्त्रयते
(१२,३[९२].२०) आग्नेयीं वपां कुर्युः
(१२,३[९२].२१) अपि वा ब्राह्मण एव प्राश्नीयात्तद्देवतं हि तद्धविर्भवति
(१२,३[९२].२२) अथास्मै स्नानं अनुलेपनं मालाभ्यञ्जनं इति
(१२,३[९२].२३) यदत्र_उपसमाहार्यं भवति तदुपसमाहृत्य
(१२,३[९२].२४) अथ_उपासकाः प्राय_उपासकाः स्मो भो इति वेदयन्ते
(१२,३[९२].२५) तान्प्रतिमन्त्रयते । <भूयांसो भूयास्म ये च नो भूयसः कार्ष्टापि च नोऽन्ये भूयांसो जायन्ताम्>
(१२,३[९२].२६) अस्य च दातुरिति दातारं ईक्षते
(१२,३[९२].२७) अथान्नाहाराः प्राप्यान्नाहाराः स्मो भो इति वेदयन्ते
(१२,३[९२].२८) तान्प्रतिमन्त्रयते । <अन्नादा भूयास्म ये च नोऽनादान्कार्ष्टापि च नोऽन्येऽन्नादा भूयांसो जायन्ताम्>
(१२,३[९२].२९) अस्य च दातुरिति दातारं ईक्षते
(१२,३[९२].३०) आहृते_अन्ने जुहोति <यत्काम कामयमाना [१९.५२.१, सकल फ़ोल्लोwस्थुस्PS१.३०.५]> इत्येतया
(१२,३[९२].३१) <यत्काम कामयमाना इदं कृण्मसि ते हविः । तन्नः सर्वं सं ऋध्यतां अथैतस्य हविषो वीहि स्वाहा [१९.५२.१, सकल थुस्PS१.३०.५]>_इति
(१२,३[९२].३२) एष आचार्यकल्प एष ऋत्विक्कल्प एष संयुक्तकल्प एष विवाहकल्प एषो_अतिथिकल्प एषोऽतिथिकल्पः
(Kऔश्ऽ१२ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे द्वादशोऽध्यायः समाप्तः
(१३,१[९३].१) अथाद्भुतानि
(१३,१[९३].२) वर्षे
(१३,१[९३].३) यक्षेषु
(१३,१[९३].४) गोमायुवदने
(१३,१[९३].५) कुले कलहिनि
(१३,१[९३].६) भूमिचले
(१३,१[९३].७) आदित्योपप्लवे
(१३,१[९३].८) चन्द्रमसश्च
(१३,१[९३].९) औषस्यां अनुद्यत्याम्
(१३,१[९३].१०) समायां दारुणायाम्
(१३,१[९३].११) उपतारकशङ्कायाम्
(१३,१[९३].१२) ब्राह्मणेषु_आयुधिषु
(१३,१[९३].१३) दैवतेषु नृत्यत्सु च्योदत्सु हसत्सु गायत्सु
(१३,१[९३].१४) लाङ्गलयोः संसर्गे
(१३,१[९३].१५) रज्ज्वोस्तन्वोश्च
(१३,१[९३].१६) अग्निसंसर्गे
(१३,१[९३].१७) यमवत्सायां हवि
(१३,१[९३].१८) वडवागर्दभ्योर्मानुष्यां च
(१३,१[९३].१९) यत्र धेनवो लोहितं दुहते
(१३,१[९३].२०) अनडुहि धेनुं धयति
(१३,१[९३].२१) धेनौ धेनुं धयन्त्याम्
(१३,१[९३].२२) आकाशफेने
(१३,१[९३].२३) पिपीलिकानाचारे
(१३,१[९३].२४) नीलमक्षानाचारे
(१३,१[९३].२५) मधुमक्षानाचारे
(१३,१[९३].२६) अनाज्ञाते
(१३,१[९३].२७) अवदीर्णे
(१३,१[९३].२८) अनुदक उदकोन्मीले
(१३,१[९३].२९) तिलेषु समतैलेषु
(१३,१[९३].३०) हविःषु_अभिमृष्टेषु
(१३,१[९३].३१) प्रसव्येषु_आवर्तेषु
(१३,१[९३].३२) यूपे विरोहति
(१३,१[९३].३३) उल्कायाम्
(१३,१[९३].३४) धूमकेतौ सप्तर्षीनुपधूपयति
(१३,१[९३].३५) नक्षत्रेषु पतापतेषु
(१३,१[९३].३६) मांसमुखे निपतति
(१३,१[९३].३७) अनग्नौ_अवभासे
(१३,१[९३].३८) अग्नौ श्वसति
(१३,१[९३].३९) सर्पिषि तैले मधुनि च विष्यन्दे
(१३,१[९३].४०) ग्राम्ये_अग्नौ शालां दहति
(१३,१[९३].४१) आगन्तौ च
(१३,१[९३].४२) वंशे स्फोटति
(१३,१[९३].४३) कुम्भोदधाने विकसति_उखायां सक्तुधान्यां च
(१३,२[९४].१) अथ यत्र_एतानि वर्षाणि वर्षन्ति घृतं मांसं मधु च यद्धिरण्यं यानि चापि_अन्यानि घोराणि वर्षाणि वर्षन्ति तत्पराभवति कुलं वा ग्रामो वा जनपदो वा
(१३,२[९४].२) तत्र राजा भूमिपतिर्विद्वांसं ब्रह्माणं इछेत्
(१३,२[९४].३) एष ह वै विद्वान्यद्भृग्वङ्गिरोवित्
(१३,२[९४].४) एते ह वा अस्य सर्वस्य शमयितारः पालयितारो यद्भृग्वङ्गिरसः
(१३,२[९४].५) स आह_उपकल्पयध्वं इति
(१३,२[९४].६) तदुपकल्पयन्ते कंसमहते वसने शुद्धं आज्यं शान्ता ओषधीर्नवं उदकुम्भम्
(१३,२[९४].७) त्रीणि पर्वाणि कर्मणः पौर्णमास्यमावास्ये पुण्यं नक्षत्रम्
(१३,२[९४].८) अपि चेदेव यदा कदा आर्ताय कुर्यात्
(१३,२[९४].९) स्नातो_अहतवसनः सुरभिर्व्रतवान्कर्मण्य उपवसति_एकरात्रं त्रिरात्रं षड्रात्रं द्वादशरात्रं वा
(१३,२[९४].१०) द्वादश्याः प्रातर्यत्र_एवादः पतितं भवति तत उत्तरं अग्निं उपसमाधाय
(१३,२[९४].११) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रं उपसाद्य परिचरणेनाज्यं परिचर्य
(१३,२[९४].१२) नित्यान्पुरस्ताद्धोमान्हुत्वाज्यभागौ च
(१३,२[९४].१३) अथ जुहोति
(१३,२[९४].१४) <घृतस्य धारा इह या वर्षन्ति पक्वं मांसं मधु च यद्धिरण्यं । द्विषन्तं एता अनु यन्तु वृष्टयोऽपां वृष्टयो बहुलाः सन्तु मह्यं । । लोहितवर्षं मधुपांसुवर्षं यद्वा वर्षं घोरं अनिष्टं अन्यत् । द्विषन्तं एते अनु यन्तु सर्वे पराञ्चो यन्तु निर्वर्तमानाः । । अग्नये स्वाहा [-]>_इति हुत्वा
(१३,२[९४].१५) <दिव्यो गन्धर्वो [२.२.१]>_इति मातृनामभिर्जुहुयात्
(१३,२[९४].१६) वरं अनड्वाहं ब्राह्मणः कर्त्रे दद्यात्
(१३,२[९४].१७) सीरं वैश्यो_अश्वं प्रादेशिको ग्रामवरं राजा
(१३,२[९४].१८) सा तत्र प्रायश्चित्तिः
(१३,३[९५].१) अथ यत्र_एतानि यक्षाणि दृश्यन्ते तद्यथा_एतत्_मर्कटः श्वापदो वायसः पुरुषरूपं इति तदेवं आशङ्क्यं एव भवति
(१३,३[९५].२) तत्र जुहुयात्
(१३,३[९५].३) <यन्मर्कटः श्वापदो वायसो यदीदं राष्ट्रं जातवेदः पताति पुरुषरक्षसं इषिरं यत्पताति । द्विषन्तं एते अनु यन्तु सर्वे पराञ्चो यन्तु निवर्तमानाः । । अग्नये स्वाहा [-]>_इति हुत्वा
(१३,३[९५].४) <दिव्यो गन्धर्वो [२.२.१]>_इति मातृनामभिर्जुहुयात्
(१३,३[९५].५) सा तत्र प्रायश्चित्तिः
(१३,४[९६].१) अथ ह गोमायू नाम मण्डूकौ यत्र वदतस्तद्यत्_मन्यन्ते मां प्रति वदतो मां प्रति वदत इति तदेवं आशङ्क्यं एव भवति
(१३,४[९६].२) तत्र जुहुयात्
(१३,४[९६].३) <यद्गोमायू वदतो जातवेदोऽन्यया वाचाभि जञ्जभातः । रथंतरं बृहच्च सामैतद्द्विषन्तं एतावभि नानदैतां । । रथंतरेण त्वा बृहच्छमयामि बृहता त्वा रथटरं शमयामि । इन्द्राग्नी त्वा ब्रह्मणा वावृधानावायुष्मन्तावुत्तमं त्वा कराथः । । इन्द्राग्निभ्यां स्वाहा [-, PS१.८३.४च्द्]>_इति हुत्वा
(१३,४[९६].४) <दिव्यो गन्धर्वो [२.२.१]>_इति मातृनामभिर्जुहुयात्
(१३,४[९६].५) सा तत्र प्रायश्चित्तिः
(१३,५[९७].१) अथ यत्र_एतत्कुलं कलहि भवति तन्निरृतिगृहीतं इत्याचक्षते
(१३,५[९७].२) तत्र जुहुयात्
(१३,५[९७].३) <आरादरातिं [८.२.१२]> इति द्वे
(१३,५[९७].४) <अयाश्चाग्नेऽस्यनभिशस्तिश्च सत्यं इत्त्वं अया असि । अयासा मनसा कृतोऽयास्+सन्[एद्.ऽयास्य] हव्यं ऊहिषे । आ [+अया?] नो धेहि भेषजं । [ंऽ१.४.३ः५१.१०, KS५.४ः५७.१-४, Kऔश्ऽ१.५.१२ एत्च्.]> । । <स्वाहा>_इत्यग्नौ हुत्वा
(१३,५[९७].५) तत्र_एव_एतान्होमाञ्जुहुयात्
(१३,५[९७].६) <आरादग्निं क्रव्यादं निरूहञ्जिवातवे ते परिधिं दधामि । इन्द्राग्नी त्वा ब्रह्मणा वावृधानावायुष्मन्तावुत्तमं त्वा कराथः । । इन्द्राग्निभ्यां स्वाहा [८.२.९च्द्, PS१६.३.८च्द्; PS१.८३.४च्द्]>_इति हुत्वा
(१३,५[९७].७) <अपेत एतु निरृतिर्[PS१९.२३.४फ़्फ़्.]> इत्यनेन सूक्तेन जुहुयात्
(१३,५[९७].८) <अपेत एतु निरृतिर्नेहास्या अपि किं चन । अपास्याः सत्वनः पाशान्मृत्यूनेकशतं नुदे । । ये ते पाशा एकशतं मृत्यो मर्त्याय हन्तवे । तांस्ते यज्ञस्य मायया सर्वा;ं अप यजामसि । । निरितो यन्तु नैरृत्या मृत्यव एकशतं परः सेधामैषां यत्तमः प्राणं ज्योतिश्च दध्महे । । [PS१९.२३.४-६]> <ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता महान्तः । तेभ्यो अस्मान्वरुणः सोम इन्द्रो विश्वे मुञ्चन्तु मरुतः स्वर्काः । । [PS१८.८२.७]> <ब्रह्म भ्राजदुदगादन्तरिक्षं दिवं च ब्रह्मावाधूष्टामृतेन मृत्युं । ब्रह्मोपद्रष्टा सुकृतस्य साक्षाद्ब्रह्मास्मदप हन्तु शमलं तमश्च । । [PS१६.१५०.२]>
(१३,५[९७].९) वरं अनड्वाहं इति समानम्
(१३,६[९८].१) अथ यत्र_एतद्भूमिचलो भवति तत्र जुहुयात्
(१३,६[९८].२) <अच्युता द्यौरच्युतं अन्तरिक्षं अच्युता भूमिर्दिशो अच्युता इमाः । अच्युतोऽयं रोधावरोधाद्ध्रुवो राष्ट्रे प्रति तिष्ठामि जिष्णुः । । यथा सूर्यो दिवि रोचते यथान्तरिक्षं मातरिश्वाभिवस्ते । यथाग्निः पृथिवीमा विवेशैवायं ध्रुवो अच्युतो अस्तु जिष्णुः । । यथा देवो दिवि स्तनयन्वि राजति यथा वर्षं वर्षकामाय वर्षति । यथापः पृथिवीमा विविशुरेवायं ध्रुवो अच्युतो अस्तु जिष्णुः । । यथा पुरीषं नद्यः समुद्रं अहोरात्रे अप्रमादं क्षरन्ति । एवा विशः संमनसो हवं मेऽप्रमादं इहोप यन्तु सर्वाः । । दृंहतां देवी सह देवताभिर्ध्रुवा दृढाच्युता मे अस्तु भूमिः । सर्वपाप्मानं अपनुद्यास्मदमित्रान्मे द्विषतोऽनु विध्यतु । । पृथिव्यै स्वाहा [च्फ़्. आVPअरिश्११.१.११]>_इति हुत्वा
(१३,६[९८].३) <आ त्वाहार्षं [६.८७.१]>_<ध्रुवा द्यौर्[६.८८.१]>_<सत्यं बृहद्[१२.१.१]> इत्येतेनानुवाकेन जुहुयात्
(१३,६[९८].४) सा तत्र प्रायश्चित्तिः
(१३,७[९९].१) अथ यत्र_एतदादित्यं तमो गृह्णाति तत्र जुहुयात्
(१३,७[९९].२) <दिव्यं चित्रं ऋतूया कल्पयन्तं ऋतूनां उग्रं भ्रमयन्नुदेति । तदादित्यः प्रतरन्नेतु सर्वत आप इमां लोकाननुसंचरन्ति । । ओषधीभिः संविदानाविन्द्राग्नी त्वाभि रक्षतां । ऋतेन सत्यवाकेन तेन सर्वं तमो जहि । । आदित्याय स्वाहा [-]>_इति हुत्वा
(१३,७[९९].३) <विषासहिं सहमानं [१७.१.१]>_इत्यनेन सूक्तेन जुहुयात्
(१३,७[९९].४) रोहितैरुपतिष्ठते
(१३,७[९९].५) सा तत्र प्रायश्चित्तिः
(१३,८[१००].१) अथ यत्र_एतत्_चन्द्रमसं उपप्लवति तत्र जुहुयात्
(१३,८[१००].२) <राहू राजानं त्सरति स्वरन्तं ऐनं इह हन्ति पूर्वः । सहस्रं अस्य तन्व इह नाश्याः शतं तन्वो वि नश्यन्तु । । चन्द्राय स्वाहा [-]>_इति हुत्वा
(१३,८[१००].३) <शकधूमं नक्षत्राणि [६.१२८.१]>_इत्येतेन सूक्तेन जुहुयात्
(१३,८[१००].४) सा तत्र प्रायश्चित्तिः
(१३,९[१०१].१) अथ यत्र_एतदौषसी न_उदेति तत्र जुहुयात्
(१३,९[१०१].२) <उदेतु श्रीरुषसः कल्पयन्ती पूल्यान्कृत्वा पलित एतु चारः । ऋतून्बिभ्रती बहुधा विरूपान्मह्यं भव्यं विदुषी कल्पयाति । । औषस्यै स्वाहा [-]>_इति हुत्वा
(१३,९[१०१].३) <दिव्यो गन्धर्वो [२.२.१]>_इति मातृनामभिर्जुहुयात्
(१३,९[१०१].४) सा तत्र प्रायश्चित्तिः
(१३,१०[१०२].१) अथ यत्र_एतत्समा दारुणा भवति तत्र जुहुयात्
(१३,१०[१०२].२) <या समा रुशत्येति प्राजापत्यान्वि धूनुते । तृप्तिं यां देवता विदुस्तां त्वा सं कल्पयामसि । । व्याधकस्य मातरं हिरण्यकुक्षीं हरिणीं । तां त्वा सं कल्पयामसि । । यत्ते घोरं यत्ते विषं तद्द्विषत्सु नि दध्मस्यमुष्मिन्न्[-]> इति ब्रूयात्
(१३,१०[१०२].३) <शिवेनास्माकं समे शान्त्या सहायुषा समायै स्वाहा [-]>_इति हुत्वा
(१३,१०[१०२].४) <समास्त्वाग्न [२.६.१]>_इत्येतेन सूक्तेन जुहुयात्
(१३,१०[१०२].५) सा तत्र प्रायश्चित्तिः
(१३,११[१०३].१) अथ यत्र_एतदुपतारकाः शङ्कन्ते तत्र जुहुयात्
(१३,११[१०३].२) <रेवतीः शुभ्रा इषिरा मदन्तीस्त्वचो धूमं अनु ताः सं विशन्तु । परेणापः पृथिवीं सं विशन्त्वाप इमां लोकाननुसंचरन्तु । । अद्भ्यः स्वाहा [-]>_इति हुत्वा
(१३,११[१०३].३) <समुत्पतन्तु [४.१५.१]> <प्र नभस्व [७.१८.१]>_इति वर्षीर्जुहुयात्
(१३,११[१०३].४) सा तत्र प्रायश्चित्तिः
(१३,१२[१०४].१) अथ यत्र_एतद्ब्राह्मणा आयुधिनो भवन्ति तत्र जुहुयात्
(१३,१२[१०४].२) <य आसुरा मनुष्या आत्तधन्वः पुरुषमुखाश्चरानिह । देवा वयं मनुष्यास्ते देवाः प्र विशामसि । । इन्द्रो नो अस्तु पुरोगवः स नो रक्षतु सर्वतः । इन्द्राय स्वाहा [-, च्फ़्. आVPअरिश्३२.२९]>_इति हुत्वा
(१३,१२[१०४].३) <मा नो विदन्[१.१९.१]> <नमो देववधेभ्यो [६.१३.१]>_इति एताभ्यां सूक्ताभ्यां जुहुयात्
(१३,१२[१०४].४) सा तत्र प्रायश्चित्तिः
(१३,१३[१०५].१) अथ यत्र_एतद्दैवतानि नृत्यन्ति च्योतन्ति हसन्ति गायन्ति वान्यानि वा रूपाणि कुर्वन्ति <य आसुरा मनुष्या [-, च्फ़्. Kऔश्ऽ१०४.२]> <मा नो विदन्[१.१९.१]> <नमो देववधेभ्यो [६.१३.१]>_इति अभयैर्जुहुयात्
(१३,१३[१०५].२) सा तत्र प्रायश्चित्तिः
(१३,१४[१०६].१) अथ यत्र_एतत्_लाङ्गले संसृजतः पुरोडाशं श्रपयित्वा
(१३,१४[१०६].२) अरण्यस्यार्धं अभिव्रज्य
(१३,१४[१०६].३) प्राचीं सीतां स्थापयित्वा
(१३,१४[१०६].४) सीताया मध्ये प्राञ्चं इध्मं उपसमाधाय
(१३,१४[१०६].५) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिः शम्याः परिधीन्कृत्वा
(१३,१४[१०६].६) अथ जुहोति । <वित्तिरसि पुष्टिरसि श्रीरसि प्राजापत्यानां तां त्वाहं मयि पुष्टिकामो जुहोमि स्वाहा [-]>
(१३,१४[१०६].७) <कुमुद्वती पुष्करिणी सीता सर्वाङ्गशोभनी । कृषिः सहस्रप्रकारा प्रत्यष्टा श्रीरियं मयि । । उर्वीं त्वाहुर्मनुष्याः श्रियं त्वा मनसो विदुः । आशयेऽन्नस्य नो धेह्यनमीवस्य शुष्मिणः । । [-, च्फ़्. ;Sआङ्ख्ङ्ऽ१.२७.७ एत्च्.]> <पर्जन्यपत्नि हरिण्यभिजितास्यभि नो वद । कालनेत्रे हविषो नो जुषस्व तृप्तिं नो धेहि द्विपदे चतुष्पदे । । याभिर्देवा असुरानकल्पयन्यातून्मनून्गन्धर्वान्राक्षसांश्च । ताभिर्नो अद्य सुमना उपा गहि सहस्रापोषं सुभगे रराणा । । [-, च्फ़्. ७.४८.२च्द्]> <हिरण्यस्रक्पुष्करिणी श्यामा सर्वाङ्गशोभनी । कृषिर्हिरण्यप्रकारा प्रत्यष्टा श्रीरियं मयि । । अश्विभ्यां देवि सह संविदाना इन्द्रेण राधेन सह पुष्ट्या न आ गहि । विशस्त्वा रासन्तां प्रदिशोऽनु सर्वा अहोरात्रार्धमासमासा आर्तवा ऋतुभिः सह । । भर्त्री देवानां उत मर्त्यानां भर्त्री प्रजानां उत मानुषाणां । हस्तिभिरितरासैः क्षेत्रसारथिभिः सह । हिरण्यैरश्वैरा गोभिः प्रत्यष्टा श्रीरियं मयि । । [-]>
(१३,१४[१०६].८) अत्र शूनासीराणि_अनुयोजयेत्
(१३,१४[१०६].९) वरं अनड्वाहं इति समानम्
(१३,१५[१०७].१) अथ यत्र_एतत्सृजन्त्योर्वा कृतन्त्योर्वा नाना तन्तू संसृजतो <मनायै तन्तुं प्रथमं [PS२.८७.१]>_इत्येतेन सूक्तेन जुहुयात्
(१३,१५[१०७].२) <मनायै तन्तुं प्रथमं पश्येदन्या अतन्वत । तन्नारीः प्र ब्रवीमि वः साध्वीर्वः सन्तूर्वरीः । । साधुर्वस्तन्तुर्भवतु साधुरेतु रथो वृतः । अथो होर्वरीर्यूयं प्रातर्वोढवे धावत । । खर्गला इव पत्वरीरपां उग्रं इवायनं । पतन्तु पत्वरीरिवोर्वरीः साधुना पथा । । अपाच्यौ ते तोतुद्येते तोदेनाश्वतराविव । प्र स्तोमं उर्वरीणां शशयानां अस्ताविषं । । नारी पञ्चमयूखं सूत्रवत्कृणुते वसु । अरिष्टो अस्य वस्ता प्रेन्द्र वास उतोदिर । । [PS२.८७]>
(१३,१५[१०७].३) वासः कर्त्रे दद्यात्
(१३,१५[१०७].४) सा तत्र प्रायश्चित्तिः
(१३,१६[१०८].१) अथ यत्र_एतदग्निनाग्निः संसृज्यते <भवतं नः समनसौ समोकसाव्[-]> इत्येतेन सूक्तेन जुहुयात्
(१३,१६[१०८].२) <भवतं नः समनसौ समोकसावरेपसौ । मा हि;म्सिष्टं यज्ञपतिं मा यज्ञं जातवेदसौ शिवौ भवतं अद्य नः [च्फ़्. VSं ५.३ एत्च्.]> <अग्निनाग्निः संसृज्यसे कविर्बृहस्पतिर्युवा । हव्यवाङ्जुह्वास्यः । । [च्फ़्. .ऱ्V१.१२.६ एत्च्.]> <त्वं ह्यग्ने अग्निना विप्रो विप्रेण सन्सता । सखा सख्या समिध्यसे । । [च्फ़्. .ऱ्V८.४३.१४]> <पाहि नो अग्न एकया पाहि न उत द्वितीयया । पाहि गीर्भिस्तिसृभिरूर्जांपते पाहि चतसृभिर्वसो । । समीची माहनी पातां आयुष्मत्या ऋचो मा सत्सि । तनूपात्साम्नो वसुविदं लोकं अनुसंचराणि । । [PS२०.५२.४-५]>
(१३,१६[१०८].३) रुक्मं कर्त्रे दद्यात्
(१३,१६[१०८].४) सा तत्र प्रायश्चित्तिः
(१३,१७[१०९].१) अथ यत्र_एतदयमसूर्यमौ जनयति तां शान्त्युदकेनाभ्युक्ष्य दोहयित्वा
(१३,१७[१०९].२) तस्या एव गोर्दुग्धे स्थालीपाकं श्रपयित्वा
(१३,१७[१०९].३) प्राञ्चं इध्मं उपसमाधाय
(१३,१७[१०९].४) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रं उपसाद्य
(१३,१७[१०९].५) <एकैकयैषा सृष्ट्या सं बभूव [३.२८.१]> इत्येतेन सूक्तेनाज्यं जुह्वन्
(१३,१७[१०९].६) उदपात्रे संपातानानयति
(१३,१७[१०९].७) उत्तमं संपातं ओदने प्रत्यानयति
(१३,१७[१०९].८) ततो गां च प्राशयति वत्सौ च_उदपात्रादेनानाचामयति च संप्रोक्षति च
(१३,१७[१०९].९) तां तस्य_एव दद्यात्
(१३,१७[१०९].१०) सा तत्र प्रायश्चित्तिः
(१३,१८[११०].१) अथ चेद्वडवा वा गर्दभी वा स्यादेवं एव प्राञ्चं इध्मं उपसमाधाय
(१३,१८[११०].२) एवं परिस्तीर्य
(१३,१८[११०].३) एवं उपसाद्य
(१३,१८[११०].४) एतेन_एव सूक्तेनाज्यं जुह्वन्
(१३,१८[११०].५) उदपात्रे संपातानानयति
(१३,१८[११०].६) उदपात्रादेनानाचामयति च संप्रोक्षति च
(१३,१८[११०].७) तां तस्य_एव दद्यात्
(१३,१८[११०].८) सा तत्र प्रायश्चित्तिः
(१३,१९[१११].१) अथ चेद्_मानुषी स्यादेवं एव प्राञ्चं इध्मं उपसमाधाय
(१३,१९[१११].२) एवं परिस्तीर्य
(१३,१९[१११].३) एवं उपसाद्य
(१३,१९[१११].४) उपस्थे जातकौ_आधाय
(१३,१९[१११].५) एतेन_एव सूक्तेनाज्यं जुह्वन्
(१३,१९[१११].६) अमीषां मूर्ध्नि स मातुः पुत्रयोरित्यनुपूर्वं संपातानानयति
(१३,१९[१११].७) उदपात्र उत्तरान्संपातान्
(१३,१९[१११].८) उदपात्रादेनानाचामयति च संप्रोक्षति च
(१३,१९[१११].९) तां तस्य_एव दद्यात्
(१३,१९[१११].१०) सा तत्र प्रायश्चित्तिः
(१३,१९[१११].११) तस्या निष्क्रयो यथार्हं यथासंपद्वा
(१३,२०[११२].१) अथ यत्र_एतद्धेनवो लोहितं दुहते <यः पौरुषेयेण क्रविषा समङ्क्ते [८.३.१५]> इत्येताभिश्चतसृभिर्जुहुयात्
(१३,२०[११२].२) वरां धेनुं कर्त्रे दद्यात्
(१३,२०[११२].३) सा तत्र प्रायश्चित्तिः
(१३,२१[११३].१) अथ यत्र_एतदनड्वान्धेनुं धयति तत्र जुहुयात्
(१३,२१[११३].२) <अनड्वान्धेनुं अधयदिन्द्रो गो रूपं आविशत् । स मे भूतिं च पुष्टिं च दीर्घं आयुश्च धेहि नः । । इन्द्राय स्वाहा [-]>_इति हुत्वा
(१३,२१[११३].३) <मा नो विदन्[१.१९.१]> <नमो देववधेभ्यो [६.१३.१]>_इति एताभ्यां सूक्ताभ्यां जुहुयात्
(१३,२१[११३].४) सा तत्र प्रायश्चित्तिः
(१३,२२[११४].१) अथ यत्र_एतद्धेनुर्धेनुं धयति तत्र जुहुयात्
(१३,२२[११४].२) <योगक्षेमं धेनुं वाजपत्नीं इन्द्राग्निभ्यां प्रेषिते जञ्जभाने । तस्मान्मां अग्ने परि पाहि घोरात्प्र +णो जायन्तां मिथुनानि रूपशः । । इन्द्राग्निभ्यां स्वाहा [-, च्फ़्. Kऔश्ऽ१२८.२]>_इति हुत्वा
(१३,२२[११४].३) <दिव्यो गन्धर्वो [२.२.१]>_इति मातृनामभिर्जुहुयात्
(१३,२२[११४].४) सा तत्र प्रायश्चित्तिः
(१३,२३[११५].१) अथ यत्र_एतद्गौर्वाश्वो वाश्वतरो वा पुरुषो वाकाशफेनं अवगन्धयति तत्र जुहुयात्
(१३,२३[११५].२) <पयो देवेषु पय ओषधीषु पय आशासु पयोऽन्तरिक्षे । तन्मे धाता च सविता च धत्तां विश्वे तद्देवा अभि सं गृणन्तु । । पयो यदप्सु पय उस्रियासु पय उत्सेषूत पर्वतेषु । तन्मे धाता च सविता च धत्तां विश्वे तद्देवा अभि सं गृणन्तु । । यन्मृगेषु पय आविष्टं अस्ति यदेजति पतति यत्पतत्रिषु [चोर्र्. B्लूम्फ़िएल्द्ङ्ङा १९०२ ५१४ – एद्. पततत्रिषु] । तन्मे धाता च सविता च धत्तां विश्वे तद्देवा अभि सं गृणन्तु । । यानि पयांसि दिव्यार्पितानि यान्यन्तरिक्षे बहुधा बहूनि । तेषां ईशानं वशिनी नो अद्य प्र दत्ता द्यावापृथिवी अहृणीयमाना । । [PS१.९१]> इत्येतेन सूक्तेन जुहुयात्
(१३,२३[११५].३) सा तत्र प्रायश्चित्तिः
(१३,२४[११६].१) अथ यत्र_एतत्पिपीलिका अनाचाररूपा दृश्यन्ते तत्र जुहुयात्
(१३,२४[११६].२) <भुवाय स्वाहा भुवनाय स्वाहा भुवनपतये स्वाहा भुवां पतये स्वाहावोषाय स्वाहा विनताय स्वाहा शतारुणाय स्वाहा>
(१३,२४[११६].३) <यः प्राच्यां दिशि श्वेतपिपीलिकानां राजा तस्मै स्वाहा । यो दक्षिणायां दिशि कृष्णपिपीलिकानां राजा तस्मै स्वाहा । यः प्रतीच्यां दिशि रजतपिपीलिकानां राजा तस्मै स्वाहा । य उदीच्यां दिशि रोहितपिपीलिकानां राजा तस्मै स्वाहा । यो ध्रुवायां दिशि बभ्रुपिपीलिकानां राजा तस्मै स्वाहा । यो व्यध्वायां दिशि हरितपिपीलिकानां राजा तस्मै स्वाहा । य ऊर्ध्वायां दिश्यरुणपिपीलिकानां राजा तस्मै स्वाहा>
(१३,२४[११६].४) ताश्चेदेतावता न शाम्येयुस्तत उत्तरं अग्निं उपसमाधाय
(१३,२४[११६].५) शरमयं बर्हिरुभयतः परिछिन्नं प्रसव्यं परिस्तीर्य
(१३,२४[११६].६) विषावध्वस्तं इङ्गिडं आज्यं शाकपलाशेन_उत्पूतं बाधकेन स्रुवेण जुहोति
(१३,२४[११६].७) <उत्तिष्ठत निर्द्रवत न व इहास्त्वित्यञ्चनं । इन्द्रो वः सर्वासां साकं गर्भानाण्डानि भेत्स्यति [PS१७.१३.३]> <फड्ढताः पिपीलिकाः [च्फ़्. Kऔश्ऽ४७.२१]>_इति
(१३,२४[११६].८) <इन्द्रो वो यमो वो वरुणो वोऽग्निर्वो वायुर्वः सूर्यो वश्चेन्द्रो वः प्रजापतिर्व ईशानो वः>_इति
(१३,२५[११७].१) अथ यत्र_एतत्_नीलमक्षा अनाचाररूपा दृश्यन्ते तत्र जुहुयात्
(१३,२५[११७].२) <या मत्यैः सरथं यान्ति घोरा मृत्योर्दूत्यः क्रविशः सं बभूवुः । शिवं चक्षुरुत घोषः शिवानां शं नो अस्तु द्विपदे शं चतुष्पदे । । शान्तं चक्षुरुत वायसीनां या चासां घोरा मनसो विसृष्टिः । मनसस्पते तन्वा मा पाहि घोरान्मा वि रिक्षि तन्वा मा प्रजया मा पशुभिर्वायवे स्वाहा [-]>_इति हुत्वा
(१३,२५[११७].३) <वात आ वातु भेषजं [PS१९.४६.७ एत्च्.]>_इत्येतेन सूक्तेन जुहुयात्
(१३,२५[११७].४) <वात आ वातु भेषजं शंभु मयोभु नो हृदे । प्र ण आयूंषि तारिषत् । । उत वात पितासि न उत भ्रातोत नः सखा । स नो जीवातवे कृधि । । यददो वात ते गृहे निहितं भेषजं गुहा । तस्य नो देहि जीवसे [PS१९.४६.७-९, Vऐत्ऽ३८.१ एत्च्.]>_इत्येतेन सूक्तेन जुहुयात्
(१३,२५[११७].५) सा तत्र प्रायश्चित्तिः
(१३,२६[११८].१) अथ यत्र_एतत्_मधुमक्षिका अनाचाररूपा दृश्यन्ते <मधु वाता [एद्. वात] ऋतायते [PS१९.४५.५, च्फ़्. Kऔश्ऽ९०.२५-९१.१]> इत्येतेन सूक्तेन जुहुयात्
(१३,२६[११८].२) सा तत्र प्रायश्चित्तिः
(१३,२७[११९].१) अथ यत्र_एतदनाज्ञातं अद्भुतं दृश्यते तत्र जुहुयात्
(१३,२७[११९].२) <यदज्ञातं अनाम्नातं अर्थस्य कर्मणो मिथः । अग्ने त्वं नस्तस्मात्पाहि स हि वेत्थ यथायथं । । अग्नये स्वाहा [-]>
(१३,२७[११९].३) <वायो सूर्य चन्द्र>_इति च
(१३,२७[११९].४) <पुरुषसंमितोऽर्थः कर्मार्थः पुरुषसंमितः । वायुर्मा तस्मात्पातु स हि वेत्थ यथायथं । । वायवे स्वाहा [-]>
(१३,२७[११९].५) <अग्निर्मा सूर्यो मा चन्द्रो मा>_इति च
(१३,२८[१२०].१) अथ यत्र_एतद्ग्रामे वावसाने वाग्निशरणे समज्यायां वावदीर्येत चतस्रो धेनव उपक्ल्प्ता भवन्ति श्वेता कृष्णा रोहिणी सुरूपा चतुर्थी
(१३,२८[१२०].२) तासां एतद्द्वादशरात्रं संदुग्धं नवनीतं निदधाति
(१३,२८[१२०].३) द्वादश्याः प्रातर्यत्र_एवादो_अवदीर्णं भवति तत उत्तरं अग्निं उपसमाधाय
(१३,२८[१२०].४) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिः श्वेताया आज्येन संनीय
(१३,२८[१२०].५) <अग्निर्भूम्यां [१२.१.१९]> इति तिसृभिरभिमन्त्र्यालभ्य
(१३,२८[१२०].६) अथ जुहुयात्
(१३,२८[१२०].७) तथा दक्षिणार्धे
(१३,२८[१२०].८) तथा पश्चार्धे
(१३,२८[१२०].९) उत्तरार्धे संस्थाप्य वास्तोष्पत्यैर्जुहुयात्
(१३,२८[१२०].१०) अवदीर्णे संपातानानीय संस्थाप्य होमान्
(१३,२८[१२०].११) अवदीर्णं शान्त्युदकेन संप्रोक्ष्य
(१३,२८[१२०].१२) ता एव ब्राह्मणो दद्यात्
(१३,२८[१२०].१३) सीरं वैश्यो_अश्वं प्रादेशिको ग्रामवरं राजा
(१३,२८[१२०].१४) सा तत्र प्रायश्चित्तिः
(१३,२९[१२१].१) अथ यत्र_एतदनुदक उदकोन्मीलो भवति <हिरण्यवर्णाः [१.३३.१]>_इत्यपां सूक्तैर्जुहुयात्
(१३,२९[१२१].२) सा तत्र प्रायश्चित्तिः
(१३,३०[१२२].१) अथ यत्र_एतत्तिलाः समतैला भवन्ति तत्र जुहुयात्
(१३,३०[१२२].२) <अनूनाय स्वाहा । अक्षिताय स्वाहा । अपरिमिताय स्वाहा । परिपूर्णाय स्वाहा>
(१३,३०[१२२].३) स यं द्विष्यात्तस्याशायां <लोहितं ते प्र सिञ्चामि>_इति दक्षिणामुखः प्रसिञ्चेत्
(१३,३१[१२३].१) अथ यत्र_एतद्वपां वा हवींषि वा वयांसि द्विपदचतुष्पदं वाभिमृश्यावगछेयुर्<ये अग्नयो [३.२१.१]> <नमो देववधेभ्यो [६.१३.१]>_इत्येताभ्यां सूक्ताभ्यां जुहुयात्
(१३,३१[१२३].२) सा तत्र प्रायश्चित्तिः
(१३,३२[१२४].१) अथ यत्र_एतत्कुमारस्य कुमार्या वा द्वौ_आवर्तौ मूर्धन्यौ भवतः सव्यावृदेको देशावर्तस्तत्र जुहुयात्
(१३,३२[१२४].२) <त्वष्टा रूपाणि बहुधा विकुर्वञ्जनयन्प्रजा बहुधा विश्वरूपाः । स मे करोत्वविपरीतं अस्माननुपूर्वं कल्पयतां इहैव । । त्वष्ट्रे स्वाहा [-]>
(१३,३२[१२४].३) <अन्तर्गर्भेषु बहुधा सं तनोति जनयन्प्रजा बहुधा विश्वरूपाः । स मे करोत्वविपरीतं अस्माननुपूर्वं कल्पयतां इहैव । । त्वष्ट्रे स्वाहा [-]>
(१३,३२[१२४].४) <यद्युन्मृष्टं यदि वाबिमृष्टं तिरश्चीनर्थ उत मर्मृजन्ते । शिवं तद्देवः सविता कृणोतु प्रजापतिः प्रजाभिः संविदानः । । त्वष्ट्रे स्वाहा [-]>
(१३,३२[१२४].५) <सव्यावृत्तान्युत या विश्वरूपा प्रत्यग्वृत्तान्युत या ते परुषः । तान्यस्य देव बहुधा बहूनि स्योनानि शग्मानि शिवानि सन्तु । । त्वष्ट्रे स्वाहा [-]>_इति हुत्वा
(१३,३२[१२४].६) <त्वष्टा मे दैव्यं वचः [६.४.१]>_इत्येतेन सूक्तेन जुहुयात्
(१३,३२[१२४].७) सा तत्र प्रायश्चित्तिः
(१३,३३[१२५].१) अथ यत्र_एतद्यूपो विरोहति तत्र जुहुयात्
(१३,३३[१२५].२) <यूपो विरोहञ्छतशाखो अध्वरः समावृतो मोहयिष्यन्यजमानस्य लोकान् । वेदाभिगुप्तो ब्रह्मणा परिवृतोऽथर्वभिः शान्तः सुकृतां एतु लोकान् । । यूपो ह्यरुक्षद्द्विषतां वधाय न मे यज्ञो यजमानश्च रिष्यात् । सप्तर्षीणां सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेहि । । वनस्पते स्वाहा [-, च्फ़्. Kआत्य्;SS२.२.८]]>_इति हुत्वा
(१३,३३[१२५].३) <वनस्पतिः सह देवैर्न आगन्न्[१२.३.१५]> इति जुहुयात्
(१३,३३[१२५].४) सा तत्र प्रायश्चित्तिः
(१३,३४[१२६].१) अथ यत्र_एतद्दिवोल्का पतति तदयोगक्षेमाशङ्कं भवति_अवृष्ट्याशङ्कं वा
(१३,३४[१२६].२) तत्र राजा भूमिपतिर्विद्वांसं ब्रह्माणं वृणीयात्
(१३,३४[१२६].३) स वृतो_अरण्यस्यार्धं अभिव्रज्य तत्र द्वादशरात्रं अनुशुष्येत्
(१३,३४[१२६].४) स खलु पूर्वं नवरात्रं आरण्यशाकमूलफलभक्षश्चाथ_उत्तरं त्रिरात्रं नान्यदुदकात्
(१३,३४[१२६].५) श्वो भूते सप्त धेनव उपक्ल्प्ता भवन्ति श्वेता कृष्णा रोहिणी नीला पाटला सुरूपा बहुरूपा सप्तमी
(१३,३४[१२६].६) तासां एतद्द्वादशरात्रं संदुग्धं नवनीतं निदधाति
(१३,३४[१२६].७) द्वादश्याः प्रातर्यत्र_एवासौ पतिता भवति तत उत्तरं अग्निं उपसमाधाय
(१३,३४[१२६].८) परिसमूह्य पर्युक्ष्य परिस्तीर्य बर्हिः
(१३,३४[१२६].९) अथामुं नवनीतं सौवर्णे पात्रे विलाप्य सौवर्णेन स्रुवेण रक्षोघ्नैश्च सूक्तैर्<यां आहुस्तारकैषा विकेशीति [५.१७.४]>_एतेन सूक्तेनाज्यं जुह्वन्
(१३,३४[१२६].१०) अवपतिते संपातानानीय संस्थाप्य होमान्
(१३,३४[१२६].११) अवपतितं शान्त्युदकेन संप्रोक्ष्य
(१३,३४[१२६].१२) ता एव ब्राह्मणो दद्यात्
(१३,३४[१२६].१३) सीरं वैश्यो_अश्वं प्रादेशिको ग्रामवरं राजा
(१३,३४[१२६].१४) सा तत्र प्रायश्चित्तिः
(१३,३५[१२७].१) अथ यत्र_एतद्धूमकेतुः सप्तर्षीनुपधूपयति तदयोगक्षेमाशङ्कं इत्युक्तम्
(१३,३५[१२७].२) पञ्च पशवस्तायन्ते वारुणः कृष्णो गौर्वाजो वाविर्वा हरिर्वायव्यो बहुरूपो दिश्यो मारुती मेष्याग्नेयः प्राजापत्यश्च क्षीरौदनो_अपां नप्त्र उद्रः
(१३,३५[१२७].३) <उतेयं भूमिर्[४.१६.३]> इति त्रिर्वरुणं अभिष्टूय
(१३,३५[१२७].४) <अप्सु ते राजन्न्[७.८३.१]> इति चतसृभिर्वारुणस्य जुहुयात्
(१३,३५[१२७].५) <वायवा रुन्धि नो मृगानस्मभ्यं मृगयद्भ्यः । स नो नेदिष्ठं आ कृधि वातो हि रशनाकृतः [PS२०.५१.४]>_इति वायव्यस्य
(१३,३५[१२७].६) <आशानां [१.३१.१]> इति दिश्यस्य
(१३,३५[१२७].७) <प्रति त्यं चारुं अध्वरं गोपीथाय प्र हूयसे । मरुद्भिरग्न आ गहि [PS६.१७.१, .ऱ्V१.१९.१]>_इति मारुतस्य
(१३,३५[१२७].८) <अपां अग्निस्[४.१५.१०]>_इत्याग्नेयस्य
(१३,३५[१२७].९) <प्रजापतिः सलिलाद्[४.१५.११]>_इति प्राजापत्यस्य
(१३,३५[१२७].१०) अपां सूक्तैर्हिरण्यशकलेन सह_उद्रं अप्सु प्रवेशयेत्
(१३,३५[१२७].११) प्र हैव वर्षति
(१३,३५[१२७].१२) सर्वस्वं तत्र दक्षिणा
(१३,३५[१२७].१३) तस्य निष्क्रयो यथार्हं यथासंपद्वा
(१३,३६[१२८].१) अथ यत्र_एतत्_नक्षत्राणि पतापतानीव भवन्ति तत्र जुहुयात्
(१३,३६[१२८].२) <यन्नक्षत्रं पतति जातवेदः सोमेन राज्ञेषिरं पुरस्तात् । तस्मान्मां अग्ने परि पाहि घोरात्प्र णो जायन्तां मिथुनानि रूपशः । । इन्द्राग्निभ्यां स्वाहा [-, च्फ़्. Kऔश्ऽ११४.२]>_इति हुत्वा
(१३,३६[१२८].३) <सोमो राजा सविता च राजा [PS१९.३३.१]>_इत्येतेन सूक्तेन जुहुयात्
(१३,३६[१२८].४) <सोमो राजा सविता च राजा भुवो राजा भुवनं च राजा । शर्वो राजा शर्म च राजा त उ नः शर्म यछन्तु देवाः । । आदित्यैर्नो बृहस्पतिर्भगः सोमेन नः सह । विश्वे देवा उर्वन्तरिक्षं त उ नः शर्म यछन्तु देवाः । । उताविद्वान्निष्कृदयाथोस्रघ्नी यथायथं । मा नो विश्वे देवा मरुतो हेतिं इछत [PS१९.३३.१-३]>
(१३,३६[१२८].५) रुक्मं कर्त्रे दद्यात्
(१३,३६[१२८].६) सा तत्र प्रायश्चित्तिः
(१३,३७[१२९].१) अथ यत्र_एतत्_मांसमुखो निपतति तत्र जुहुयात्
(१३,३७[१२९].२) <घोरो वज्रो देवसृष्टो न आगन्यद्वा गृहान्घोरं उता जगाम । तन्निर्जगाम हविषा घृतेन शं नो अस्तु द्विपदे शं चतुष्पदे । । रुद्राय स्वाहा [-]>_इति हुत्वा
(१३,३७[१२९].३) <भवाशर्वौ मृडतं माभि यातं [११.२.१]>_इत्येतेन सूक्तेन जुहुयात्
(१३,३७[१२९].४) सा तत्र प्रायश्चित्तिः
(१३,३८[१३०].१) अथ यत्र_एतदनग्नौ_अवभासो भवति तत्र जुहुयात्
(१३,३८[१३०].२) <या तेऽवदीप्तिरवरूपा जातवेदोऽपेतो रक्षसां भाग एषः । रक्षांसि तया दह जातवेदो या नः प्रजां मनुष्यां संसृजन्ते । । अग्नये स्वाहा [-]>_इति हुत्वा
(१३,३८[१३०].३) <अग्नी रक्षांसि सेधति [८.३.२६]>_इति प्रायश्चित्तिः
(१३,३९[१३१].१) अथ यत्र_एतदग्निः श्वसतीव तत्र जुहुयात्
(१३,३९[१३१].२) <श्वेता कृष्णा रोहिणी जातवेदो यास्ते तनूस्तिरश्चीना निर्दहन्तीः श्वसन्तीः । रक्षांसि ताभिर्दह जातवेदो या नः प्रजां मनुष्यां संसृजन्ते । । अग्नये स्वाहा [-]>_इति हुत्वा
(१३,३९[१३१].३) <अग्नी रक्षांसि सेधति [८.३.२६]>_इति प्रायश्चित्तिः
(१३,४०[१३२].१) अथ यत्र_एतत्सर्पिर्वा तैलं वा मधु वा विष्यन्दति <यद्यामं चक्रुर्निखनन्तो [६.११६.१]>_इत्येतेन सूक्तेन जुहुयात्
(१३,४०[१३२].२) सा तत्र प्रायश्चित्तिः
(१३,४१[१३३].१) अथ यत्र_एतद्ग्राम्यो_अग्निः शालां दहति_<अपमित्यं अप्रतीत्तं [६.११७-११९]>_इत्येतैस्त्रिभिः सूक्तैर्मैश्रधान्यस्य पूर्णाञ्जलिं हुत्वा
(१३,४१[१३३].२) <ममोभा मित्रावरुणा [PS१.४०]> <मह्यं आपो मधुमदेरयन्तां [६.६१.१]>_इत्येताभ्यां सूक्ताभ्यां जुहुयात्
(१३,४१[१३३].३) <ममोभा मित्रावरुणा ममोभेन्द्राबृहस्पती । मम त्वष्टा च पूषा च ममैव सविता वशे । । मम विष्णुश्च सोमश्च ममैव मरुतो भवन् । सरस्वांश्च भगश्च विश्वे देवा वशे मम । । ममोभे [एद्. मिस्प्रिन्त्ममोभा] द्यावापृथिवी अन्तरिक्षं स्वर्मम । ममेमाः सर्वा ओषधीरापः सर्वा वशे मम । । मम गावो ममाश्वा ममाजाश्चावयश्च ममैव पुरुषा भवन् । ममेदं सर्वं आत्मन्वदेजत्प्राणद्वशे मम । । [PS१.४०]>_इति
(१३,४१[१३३].४) अरणी प्रताप्य स्थण्डिलं परिमृज्य
(१३,४१[१३३].५) अथाग्निं जनयेत्
(१३,४१[१३३].६) <इत एव प्रथमं जज्ञे अग्निराभ्यो योनिभ्यो अधि जातवेदाः । स गायत्र्या त्रिष्टुभा जगत्यानुष्टुभा देवो देवेभ्यो हव्यं वहतु प्रजानन्न्[-]> इति जनित्वा
(१३,४१[१३३].७) <भवतं नः समनसौ समोकसाव्[-, च्फ़्. Kऔश्ऽ१०८.२]> इत्येतेन सूक्तेन जुहुयात्
(१३,४१[१३३].८) सा तत्र प्रायश्चित्तिः
(१३,४२[१३४].१) अथ चेदागन्तुर्दहति_एवं एव कुर्यात्
(१३,४२[१३४].२) सा तत्र प्रायश्चित्तिः
(१३,४३[१३५].१) अथ यत्र_एतद्वंश स्फोटति कपाले_अङ्गारा भवन्ति_उदपात्रं बर्हिराज्यं तदादाय
(१३,४३[१३५].२) शालायाः पृष्ठं उपसर्पति
(१३,४३[१३५].३) तत्राङ्गारान्वा कपालं वा_उपनिदधाति_आ संतपनात्
(१३,४३[१३५].४) प्राञ्चं इध्मं उपसमाधाय
(१३,४३[१३५].५) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रं उपसाद्य
(१३,४३[१३५].६) परिचरणेनाज्यं परिचर्य
(१३,४३[१३५].७) नित्यान्पुरस्ताद्धोमान्हुत्वाज्यभागौ च
(१३,४३[१३५].८) अथ जुहोति
(१३,४३[१३५].९) <असौ वै नाम ते मातासौ वै नाम ते पिता । असौ वै नाम ते दूतः स्ववंशं अधि तिष्ठति । । उत्तमरात्री णाम मृत्यो ते माता तस्य ते अन्तकः पिता । समंदधानस्ते दूतः स्ववंशं अधि तिष्ठति । । बहवोऽस्य पाशा वितताः पृथिव्यां असंख्येया अपर्यन्ता अनन्ताः । याभिर्वंशानभिनिदधाति प्राणिनां यान्कांश्चेमान्प्राणभृतां जिघांसन् । स इमं दूतं नुदतु वंशपृष्ठात्स मे गछतु द्विषतो निवेशं मृत्यवे स्वाहा । । बृहस्पतिराङ्गिरसो ब्रह्मणः पुत्रो विश्वे देवाः प्र ददुर्विश्वं एजत् । स इमं दूतं नुदतु वंशपृष्ठात्स मे गछतु द्विषतो निवेशं बृहस्पतय आङ्गिरसाय स्वाहा । । यस्य तेऽन्नं न क्षीयते भूय एवोपजातये । यस्मै भूतं च भव्यं च सर्वं एतत्प्रतिष्ठितं । स इमं दूतं नुदतु वंशपृष्ठात्स मे गछतु द्विषतो निवेशं इन्द्राय स्वाहा । । मुखं देवानां इह यो बभूव यो जानाति वयुनानां समीपे । यस्मै हुतं देवता भक्षयन्ति वायुनेत्रः सुप्रणीतिः सुनीतिः । स इमं दूतं नुदतु वंशपृष्ठात्स मे गछतु द्विषतो निवेशं अग्नये स्वाहा । । यः पृथिव्यां च्यावयन्नेति वृक्षान्प्रभञ्जनेन रथेन सह संविदानः । रसान्गन्धान्भावयन्नेति देवो मातरिश्वा भूतभव्यस्य कर्ता । स इमं दूतं नुदतु वंशपृष्ठात्स मे गछतु द्विषतो निवेशं वायवे स्वाहा । । ब्रह्मचारी चरति ब्रह्मचर्यं ऋचं गाथां ब्रह्म परं जिगांसन् । तं विघ्ना अनुपरियन्ति सर्वे ये अन्तरिक्षे ये च दिवि श्रितासः । तं विशो अनुपर्यन्ति सर्वाः कर्माणि लोके
परिमोहयन्ति । स इमं दूतं नुदतु वंशपृष्ठात्स मे गछतु द्विषतो निवेशं आदित्याय स्वाहा । । यो नक्षत्रैः सरथं याति देवः संसिद्धेन रथेन सह संविदानः । रूपंरूपं कृण्वानश्चित्रभानुः सुभानुः । स इमं दूतं नुदतु वंशपृष्ठात्स मे गछतु द्विषतो निवेशं चन्द्राय स्वाहा । । ओषधयः सोमराज्ञीर्यशस्विनीः । ता इमं दूतं नुदन्तु वंशपृष्ठात्स मे गछतु द्विषतो निवेशं ओषधीभ्यः सोमराज्ञीभ्यः स्वाहा । । ओषधयो वरुणराज्ञीर्यशस्विनीः । ता इमं दूतं नुदन्तु वंशपृष्ठात्स मे गछतु द्विषतो निवेशं ओषधीभ्यो वरुणराज्ञीभ्यः स्वाहा । । अष्टस्थूणो दशपक्षो यदृछजो वनस्पते । पुत्रांश्चैव पशूंश्चाभि रक्ष वनस्पते । । यो वनस्पतीनां उपतापो बभूव यद्वा गृहान्घोरं उता जगाम तन्निर्जगाम हविषा घृतेन शं नो अस्तु द्विपदे शं चतुष्पदे । । यो वनस्पतीनां उपतापो न आगद्यद्वा यज्ञं नोऽद्भुतं आ जगाम । सर्वं तदग्ने हुतं अस्तु भागशः शिवान्वयं उत्तरेमाभि वाजान् । । त्वष्ट्रे स्वाहा [-]>_इति हुत्वा
(१३,४३[१३५].१०) <त्वष्टा मे दैव्यं वचः [६.४.१]>_इत्यत्र_उदपात्रं निनयति
(१३,४३[१३५].११) कपाले_अग्निं चादाय_उपसर्पति
(१३,४३[१३५].१२) सा तत्र प्रायश्चित्तिः
(१३,४४[१३६].१) अथ यत्र_एतत्कुम्भोदधानः सक्तुधानी वा_उखा वानिङ्गिता विकसति तत्र जुहुयात्
(१३,४४[१३६].२) <भूमिर्भूमिं अगान्[एद्. एम्.ः अवागान्, बुत्नोते आVPअरिश्४०.६.५ अन्द्Kएशव] माता मातरं अप्यगात् । ऋध्यास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यतां [-]> इति
(१३,४४[१३६].३) सदसि सन्मे भूयादिति सक्तूनावपते
(१३,४४[१३६].४) अथ चेदोदनस्य_<अन्नं अस्यन्नं मे देह्यन्नं मा मा हिंसीर्> इति त्रिः प्राश्य
(१३,४४[१३६].५) अथ यथाकामं प्राश्नीयात्
(१३,४४[१३६].६) अथ चेदुदधानः स्यात्<समुद्रं वः प्र हिणोमि [१०.५.२३-२४]>_इत्येताभ्यां अभिमन्त्र्य
(१३,४४[१३६].७) अन्यं कृत्वा ध्रुवाभ्यां दृंहयित्वा
(१३,४४[१३६].८) तत्र <हिरण्यवर्णाः [१.३३.१]>_इत्युदकं आसेचयेत्
(१३,४४[१३६].९) स खलु_एतेषु कर्मसु सर्वत्र शान्त्युदकं कृत्वा सर्वत्र चातनानि_अनुयोजयेत्_मातृनामानि च
(१३,४४[१३६].१०) सर्वत्र वरां धेनुं कर्त्रे दद्यात्
(१३,४४[१३६].११) सर्वत्र कंसवसनं गौर्दक्षिणा
(१३,४४[१३६].१२) ब्राह्मणान्भक्तेन_उपेप्सन्ति
(१३,४४[१३६].१३) यथोद्दिष्टं चादिष्टासु_इति प्रायश्चित्तिः प्रायश्चित्तिः
(Kऔश्ऽ१३ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे त्रयोदशोऽध्यायः समाप्तः
(१४,१[१३७].१) यथावितानं यज्ञवास्तु_अध्यवसेत्
(१४,१[१३७].२) वेदिर्यज्ञस्याग्नेरुत्तरवेदिः
(१४,१[१३७].३) उभे प्रागायते किंचिद्प्रथीयस्यौ पश्चादुद्यततरे
(१४,१[१३७].४) अपृथुसंमितां वेदिं विदध्यात्
(१४,१[१३७].५) षट्शमीं प्रागायतां चतुःशमीं श्रोण्याम्
(१४,१[१३७].६) त्रीन्मध्ये अर्धचतुर्थानग्रतः
(१४,१[१३७].७) त्रयाणां पुरस्तादुत्तरवेदिं विदध्यात्
(१४,१[१३७].८) द्विःशमीं प्रागायतां ऋज्वीं अध्यर्धशमीं श्रोण्याम्
(१४,१[१३७].९) <ग्रीष्मस्ते भूमे [१२.१.३६]>_इत्युपस्थाय
(१४,१[१३७].१०) <वि मिमीष्व पयस्वतीं [१३.१.२७]>_इति मिमानं अनुमन्त्रयते
(१४,१[१३७].११) <बृहस्पते परि गृहाण वेदिं सुगा वो देवाः सदनानि सन्तु । अस्यां बर्हिः प्रथतां साध्वन्तरहिंस्रा णः पृथिवी देव्यस्तु [Kआत्य्;SS२.२.१२]>_इति परिगृह्णाति
(१४,१[१३७].१२) <यत्ते भूमे [१२.१.३५]>_इति विखनति
(१४,१[१३७].१३) <यत्ते ऊनं [१२.१.६१च्]>_इति संवपति
(१४,१[१३७].१४) <त्वं अस्यावपनी जनानां [१२.१.६१]> इति ततह्पांसूनन्यतोदाहार्य [-उदाहार्य]
(१४,१[१३७].१५) <बृहस्पते परि गृहाण वेदिं [Kआत्य्;SS२.२.१२, सी Kऔश्ऽ१३७.११]>_इति उत्तरवेदिं ओप्यमानाण्परिगृह्णाति
(१४,१[१३७].१६) <असंबाधं मध्यतो [एद्.ः बध्यतो] मानवानां [१२.१.२]>_इति प्रथयति
(१४,१[१३७].१७) <यस्याश्चतस्रः प्रदिशः पृथिव्या [१२.१.४]> इति चतुरस्रां करोति
(१४,१[१३७].१८) <देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां आ ददे [च्फ़्. १९.५१.२ एत्च्.]>_इति लेखनं आदाय यत्राग्निं निधास्यन्भवति तत्र लक्षणं करोति
(१४,१[१३७].१९) <इन्द्रः सीतां नि गृह्णातु [३.१७.४]>_इति दक्षिणत आरभ्य_उत्तर आलिखति
(१४,१[१३७].२०) प्राचीं आवृत्य दक्षिणतः प्राचीम्
(१४,१[१३७].२१) अपरास्तिस्रो मध्ये
(१४,१[१३७].२२) तस्यां व्रीहियवौ_ओप्य
(१४,१[१३७].२३) <वर्षेण भूमिः पृथिवी वृतावृता [१२.१.५२च्]>_इत्यद्भिः संप्रोक्ष्य
(१४,१[१३७].२४) <यस्यां अन्नं व्रीहियवौ [१२.१.४२]>_इति भूमिं नमस्कृत्य
(१४,१[१३७].२५) अथाग्निं प्रणयेत् । <त्वां अग्ने भृगवो नयन्तां अङ्गिरसः सदनं श्रेय एहि । विश्वकर्मा पुर एतु प्रजानन्धिष्ण्यं पन्थां अनु ते दिशाम [-]>_इति
(१४,१[१३७].२६) भद्रश्रेयःस्वस्त्या वा
(१४,१[१३७].२७) <अग्ने प्रेहि [४.१४.५]>_इति वा
(१४,१[१३७].२८) <विश्वंभरा वसुधानी प्रतिष्ठा [१२.१.६]>_इति लक्षणे प्रतिष्ठाप्य
(१४,१[१३७].२९) अथ_इध्मं उपसमादधाति
(१४,१[१३७].३०) <अग्निर्भूम्यां ओषधीष्व्[१२.१.१९]> <अग्निर्दिव आ तपत्य्[१२.१.२०]> <अग्निवासाः पृथिव्यसितज्ञूर्[चोर्र्. B्लूम्फ़िएल्द्ङ्ङा १९०२ ५१४ – एद्.ः असितजूर्] [१२.१.२१]> <एतं इध्मं समाहितं जुषाणो [१०.६.३५]>_<अस्मै क्षत्राणि धारयन्तं अग्ने [७.७८.२]>_इति पञ्चभि स्तरणम्
(१४,१[१३७].३१) अत ऊर्ध्वं बर्हिषः
(१४,१[१३७].३२) <त्वं भूमिं अत्येष्योजसा [PS११.१३.३, सी Kऔश्ऽ२.१]>_इति दर्भान्संप्रोक्ष्य
(१४,१[१३७].३३) <ऋषीणां प्रस्तरोऽसि [१६.२.६]>_इति दक्षिणतो_अग्नेर्ब्रह्मासनं निदधाति
(१४,१[१३७].३४) पुरस्तादग्नेरुदक्संस्तृणाति
(१४,१[१३७].३५) तथा प्रत्यक्
(१४,१[१३७].३६) प्रदक्षिणं बर्हिषां मूलानि छादयन्तोत्तरस्या [-उत्तरस्या] वेदिश्रोणेः पूर्वोत्तरतः संस्थाप्य
(१४,१[१३७].३७) <अहे दैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत्पाकतरः [ठ्ऽ३.२.४.४, Vऐत्ऽ१.२०]>_इति ब्रह्मासनं अन्वीक्षते
(१४,१[१३७].३८) <निरस्तः पराग्वसुः सह पाप्मना निरस्तः सोऽस्तु योऽस्मान्द्वेष्टि यं च वयं द्विष्मः [ङोभ्ङ्ऽ१.६.१४, ;SBं १.५.१.२३ एत्च्.]>_इति दक्षिणा तृणं निरस्यति (च्फ़्. Kऔश्ऽ३.५फ़्फ़्.)
(१४,१[१३७].३९) तदन्वालभ्य जपति_<इदं अहं अर्वाग्वसोः सदने सीदामि_[ङ्B्२.१.१, ;SBं १.५.१.२४]_ऋतस्य सदने सीदामि सत्यस्य सदने सीदामि_[PB्१.२.२ एत्च्.]_इष्टस्य सदने सीदामि पूर्तस्य सदने सीदामि [-] मामृषदेव बर्हिः स्वासस्थं त्वाध्यासदेयं ऊर्णम्रदं अनभिशोकं [च्फ़्. आआश्व्;SS१.४.७]>
(१४,१[१३७].४०) <विमृग्वरीं [१२.१.२९]>_इत्युपविश्यासनीयं ब्रह्मजपं जपति <बृहस्पतिर्ब्रह्मा ब्रह्मसदन आसिष्यते [थुस्B्लूम्फ़िएल्द्] [आआश्व्;SS१.१२.९]> <बृहस्पते यज्ञं गोपाय [आआश्व्;SS१.१२.९, ठ्B्३.७.६.३]> <यदुदुद्वत उन्निवतः शकेयं [ठ्ऽ३.२.४.४]>
(१४,१[१३७].४१) <पातं मा द्यावापृथिवी अद्याह्न [एम्. B्लूम्फ़िएल्द्ङ्ङा १९०२ ५१४ – एद्. अघान्न] [-]> इति द्यावापृथिव्यौ समीक्षते
(१४,१[१३७].४२) <सविता प्रसवानां [५.२४.१]> इति कर्मणिकर्मणि_अभितो_अभ्यातानैराज्यं जुहुयात्
(१४,१[१३७].४३) व्याख्यातं सर्वपाकयज्ञियं तन्त्रम्
(१४,२[१३८].१) अष्टकायां अष्टकाहोमाञ्जुहुयात्
(१४,२[१३८].२) तस्या हवींषि धानाः करम्भः शष्कुल्यः पुरोडाश उदौदनः क्षिरौदनस्तिलौदनो यथोपपादिपशुः
(१४,२[१३८].३) सर्वेषां हविषां समुद्धृत्य
(१४,२[१३८].४) दर्व्या जुहुयात्<प्रथमा ह व्युवास सा [३.१०.१]>_इति पञ्चभिः
(१४,२[१३८].५) <आयं आगन्संवत्सर [३.१०.८]>_इति चतसृभिर्विज्ञायते
(१४,२[१३८].६) <ऋतुभ्यस्त्वा [३.१०.१०]>_इति विग्राहं अष्टौ
(१४,२[१३८].७) <इन्द्रपुत्रे [३.१०.१३]> इत्यष्टादशीम्
(१४,२[१३८].८) <अहोरात्राभ्यां [६.१२८.३]>_इत्यूनविंशीम्
(१४,२[१३८].९) पशौ_उपपद्यमाने दक्षिणं बाहुं निर्लोमं सचर्मं सखुरं प्रक्षाल्य
(१४,२[१३८].१०) <इडायास्पदं [३.१०.६]>_इति द्वाभ्यां विंशीम्
(१४,२[१३८].११) अनुपद्यमान आज्यं जुहुयात्
(१४,२[१३८].१२) हविषां दर्विं पूरयित्वा <पूर्णा दर्वे [३.१०.७च्]>_इति सदर्वीं एकविंशीम्
(१४,२[१३८].१३) एकविंशतिसंस्थो यज्ञो विज्ञायते [च्फ़्. ङ्B्१.१.१२]
(१४,२[१३८].१४) सर्वा एव यज्ञतनूरवरुन्द्धे सर्वा एवास्य यज्ञतनूः पितरं उपजीवन्ति य एवं अष्टकां उपैति
(१४,२[१३८].१५) न दर्विहोमे न हस्तहोमे न पूर्णहोमे तन्त्रं क्रियेत_इत्येके
(१४,२[१३८].१६) अष्टकायां क्रियेत_इतीषुफालिमाठरौ
(१४,३[१३९].१) अभिजिति शिष्यानुपनीय श्वो भूते संभारान्संभरति
(१४,३[१३९].२) दधिसक्तून्पालाशं दण्डं अहते वसने शुद्धं आज्यं शान्ता ओषधीर्नवं उदकुम्भम्
(१४,३[१३९].३) बाह्यतः शान्तवृक्षस्य_इध्मं प्राञ्चं उपसमाधाय
(१४,३[१३९].४) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रं उपसाद्य परिचरणेनाज्यं परिचर्य
(१४,३[१३९].५) नित्यान्पुरस्ताद्धोमान्हुत्वाज्यभागौ च
(१४,३[१३९].६) पश्चादग्नेर्दधिसक्तूञ्जुहोति_अग्नये ब्रह्मप्रजापतिभ्यां भृग्वङ्गिरोभ्य उशनसे काव्याय
(१४,३[१३९].७) ततो_अभयैरपराजितैर्गणकर्मभिर्विश्वकर्मभिरायुष्यैः स्वस्त्ययनैराज्यं जुहुयात्
(१४,३[१३९].८) <मा नो देवा अहिर्वधीत्[६.५६.१]>_<अरसस्य शर्कोटस्य [७.५६.५]>_<इन्द्रस्य प्रथमो रथो [१०.४.१]> <यस्ते सर्पो वृश्चिकस्तृष्टदंश्मा [१२.१.४६]> <नमस्ते अस्तु विद्युते [१.१३.१]>_<आरेऽसावमदस्तु [१.२६.१]> <यस्ते पृथु स्तनयित्नुर्[७.११.१]> इति संस्थाप्य होमान्
(१४,३[१३९].९) प्रतिष्ठाप्य स्रुवं दधिसक्तून्प्राश्याचम्य_उदकं उपसमारभन्ते
(१४,३[१३९].१०) <अव्यचसश्च [१९.६८.१]>_इति जपित्वा सावित्रीं <ब्रह्म जज्ञानं [४.१.१]>_इत्येकां त्रिषप्तीयं च पच्छो वाचयेत्
(१४,३[१३९].११) शेषं अनुवाकस्य जपन्ति
(१४,३[१३९].१२) योयो भोगः कर्तव्यो भवति तंतं कुर्वते
(१४,३[१३९].१३) स खलु_एतं पक्षं अपक्षीयमाणः पक्षं अधीयान उपश्राम्येता दर्शात्
(१४,३[१३९].१४) दृष्टे चन्द्रमसि फल्गुनीषु द्वयान्रसानुपसादयति
(१४,३[१३९].१५) <विश्वे देवा [१.३०.१]> <अहं रुद्रेभिर्[४.३०.१]>_<सिंहे व्याघ्रे [६.३८.१]> <यशो हविर्[६.३९.१]> <यशसं मेन्द्रो [६.५८.१]> <गिरावरगराटेषु (एद्.ः अरागराटेषु) [६.६९.१]> <यथा सोमः प्रातःसवने [९.१.११]> <यच्च वर्चो अक्षेषु [१४.१.३५]> <येन महानघ्न्या जघनं [१४.१.३६]>_स्वाहा_इत्यग्नौ हुत्वा
(१४,३[१३९].१६) रसेषु संपातानानीय संस्थाप्य होमान्
(१४,३[१३९].१७) तत एतान्प्राशयति रसान्मधु घृतान्_शिष्यान्
(१४,३[१३९].१८) योयो भोगः कर्तव्यो भवति तटं कुर्वते
(१४,३[१३९].१९) नान्यत आगतान्_शिष्यान्परिगृह्णीयात्परसंदीक्षितत्वात्
(१४,३[१३९].२०) त्रिरात्रोनान्_चतुरो मासान्_शिष्येभ्यः प्रब्रूयादर्धपञ्चमान्वा
(१४,३[१३९].२१) पादं पूर्वरात्रे_अधीयानः पादं अपररात्रे मध्यरात्रे स्वपन्
(१४,३[१३९].२२) अभुक्त्वा पूर्वरात्रे_अधीयान इत्येके
(१४,३[१३९].२३) यथाशक्त्यपररात्रे दुष्परिमाणो ह पादः
(१४,३[१३९].२४) पौषस्यापरपक्षे त्रिरात्रं नाधीयीत
(१४,३[१३९].२५) तृतीयस्याः प्रातः समासं संदिश्य <यस्मात्कोशाद्[१९.७२.१, PS१९.३५.३]> इत्यन्तः
(१४,३[१३९].२६) <यस्मात्कोशादुदभराम वेदं तस्मिन्नन्तरव दध्म एनं । अधीतं [सिच्!] इष्टं ब्रह्मणो वीर्येण तेन मा देवास्तपसावतेह [१९.७२.१ (बुत्नोते सकलपाठ) = PS१९.३५.३]>_इति
(१४,३[१३९].२७) योयो भोगः कर्तव्यो भवति तंतं कुर्वते
(१४,३[१३९].२८) ये परिमोक्षं कामयन्ते ते परिमुच्यन्ते
(१४,४[१४०].१) अथ राज्ञां इन्द्रमहस्य_उपाचारकल्पं व्याख्यास्यामः
(१४,४[१४०].२) प्रोष्ठपदे शुक्लपक्षे_अश्वयुजे वाष्टम्यां प्रवेशः
(१४,४[१४०].३) श्रवणेन_उत्थापनम्
(१४,४[१४०].४) संभृतेषु संभारेषु ब्रह्मा राजा च_उभौ स्नातौ_अहतवसनौ सुरभिणौ व्रतवन्तौ कर्मण्यौ_उपवसतः
(१४,४[१४०].५) श्वो भूते शं नो देव्याः पादैरर्धर्चाभ्यां ऋचा षट्कृत्वा_उदकं आचामतः
(१४,४[१४०].६) <अर्वाञ्चं इन्द्रं [५.३.११]>_<त्रातारं [७.८६.१]> <इन्द्रः सुत्रामा [७.९१.१]>_इत्याज्यं हुत्वा
(१४,४[१४०].७) अथ_इन्द्रं उत्थापयन्ति
(१४,४[१४०].८) <आ त्वाहार्षं [६.८७.१]>_<ध्रुवा द्यौर्[६.८८.१]> <विशस्त्वा सर्वा वाञ्छन्तु [६.८७.१च्]>_इति सर्वतो_अप्रमत्ता धारयेरन्
(१४,४[१४०].९) अद्भुतं हि विमानोत्थितं उपतिष्ठन्ते
(१४,४[१४०].१०) <अभिभूर्यज्ञो [६.९७.१]>_इत्येतैस्त्रिभिः सूक्तैरन्वारब्धे राजनि पूर्णहोमं जुहुयात्
(१४,४[१४०].११) अथ पशूनां उपाचारम्
(१४,४[१४०].१२) इन्द्रदेवताः स्युः
(१४,४[१४०].१३) ये राज्ञो भृत्याः स्युः सर्वे दीक्षिता ब्रह्मचारिणः स्युः
(१४,४[१४०].१४) इन्द्रं च_उपसद्य यजेरन्_त्रिरात्रं पञ्चरात्रं वा
(१४,४[१४०].१५) त्रिरयनं अह्नां उपतिष्ठन्ते हविषा च यजन्ते
(१४,४[१४०].१६) आवृत <इन्द्रं अहं [३.१५.१]>_इति
(१४,४[१४०].१७) <इन्द्र क्षत्रं [७.८४.२]> इति हविषो हुत्वा ब्राह्मणान्परिचरेयुः
(१४,४[१४०].१८) न संस्थितहोमाञ्जुहुयादित्याहुराचार्याः
(१४,४[१४०].१९) इन्द्रस्यावभृथादिन्द्रं अवभृथाय व्रजन्ति
(१४,४[१४०].२०) अपां सूक्तैराप्लुत्य प्रदक्षिणं आवृत्याप उपस्पृश्यानवेक्षमाणाः प्रत्युदाव्रजन्ति
(१४,४[१४०].२१) ब्राह्मणान्भक्तेन_उपेप्सन्ति
(१४,४[१४०].२२) श्वःश्वो_अस्य राष्ट्रं ज्यायो भवति_एको_अस्यां पृथिव्यां राजा भवति न पुरा जरसः प्रमीयते य एवण्वेद यश्च_एवं विद्वानिन्द्रमहेण चरति
(१४,५[१४१].१) अथ वेदस्याध्ययनविधिं वक्ष्यामः
(१४,५[१४१].२) श्रावण्यां प्रौष्ठपद्यां वा_उपाकृत्यार्धपञ्चमान्मासानधीयीरन्
(१४,५[१४१].३) एवं छन्दांसि
(१४,५[१४१].४) लोम्नां चानिवर्तनम्
(१४,५[१४१].५) <अर्धमासं चोपाकृत्य क्षपेरंस्त्र्यहं उत्सृज्य । आरम्भः श्रावण्यां उक्तः पौष्यां उत्सर्ग उच्यते [-]>
(१४,५[१४१].६) अथानध्यायान्वक्ष्यामः
(१४,५[१४१].७) ब्रह्मज्येषु निवर्तते
(१४,५[१४१].८) श्राद्धे
(१४,५[१४१].९) सूतकोत्थानछर्दनेषु त्रिषु चरणम्
(१४,५[१४१].१०) आचार्यास्तमिते वा येषां च मानुषी योनिः
(१४,५[१४१].११) यथाश्राद्धं तथा_एव तेषु
(१४,५[१४१].१२) सर्वं च श्राद्धिकं द्रव्यमदसाहव्यपेतं प्रतिगृह्यानध्यायः
(१४,५[१४१].१३) प्राणि चाप्राणि च
(१४,५[१४१].१४) दन्तधावने
(१४,५[१४१].१५) क्षुरसंस्पर्शे
(१४,५[१४१].१६) प्रादुष्कृतेषु_अग्निषु
(१४,५[१४१].१७) विद्युतार्धरात्रे स्तनिते
(१४,५[१४१].१८) सप्तकृत्वो वर्षेण विरत आ प्रातराशम्
(१४,५[१४१].१९) वृष्टे
(१४,५[१४१].२०) निर्घाते
(१४,५[१४१].२१) भूमिचलने
(१४,५[१४१].२२) ज्योतिषा_उपसर्जन ऋतौ_अपि_आ कालम्
(१४,५[१४१].२३) विषमे न प्रवृत्तिः
(१४,५[१४१].२४) अथ प्रमाणं वक्ष्यामः समानं विद्युदुल्कयोः । मार्गशीर्षपौषमाघापरपक्षेषु तिस्रो_अष्टकाः
(१४,५[१४१].२५) अमावास्यायां च
(१४,५[१४१].२६) त्रीणि चानध्यानि
(१४,५[१४१].२७) <जनने मरणे चैव दशरात्रो विधीयते । आचार्ये दशरात्रं स्यात्सर्वेषु च स्वयोनिषु [-]>
(१४,५[१४१].२८) सूतके तु_एको नाधीयीत त्रिरात्रं उपाध्यायं वर्जयेत्
(१४,५[१४१].२९) आचार्यपुत्रभार्याश्च
(१४,५[१४१].३०) अथ शिष्यं सहाध्यायिनं अप्रधानगुरुं च_उपसन्नं अहोरात्रं वर्जयेत्
(१४,५[१४१].३१) तथा सब्रह्मचारिणं राजानं च
(१४,५[१४१].३२) अपर्तुदैवं आ कालम्
(१४,५[१४१].३३) <अविशेषर्तुकालेन सर्वे निर्घातादयः स्मृताः । यच्चान्यद्दैवं अद्भुतं सर्वं निर्घातवद्भवेत्[-]>
(१४,५[१४१].३४) <ऋतावध्यायश्छान्दसः काल्प्य आपर्तुकः स्मृतः । ऋतावूर्ध्वं प्रातराशाद्यस्तु कश्चिदनध्यायः । संध्यां प्राप्नोति पश्चिमां [-]>
(१४,५[१४१].३५) सर्वेण प्रदोषो लुप्यते
(१४,५[१४१].३६) निशि निगदायां च विद्युति शिष्टं नाधीयीत
(१४,५[१४१].३७) <अस्तमिते द्विसत्तायां त्रिसत्तायां च पाटवः । अथ तावत्कालं भुक्त्वा प्रदोष [चोर्र्. B्लूम्फ़िएल्द्ङ्ङा १९०२ ५१४ – एद्. पदोष] उभे संध्ये [-]>
(१४,५[१४१].३८) <अप्सु श्मशाने शय्यायां अभिशस्ते खिलेषु च । अन्तःशवे रथ्यायां ग्रामे चाण्डालसंयुते [-]>
(१४,५[१४१].३९) <दुर्गन्धे शूद्रसंश्रावे पैङ्गे शब्दे भये रुते । वैधृत्ये नगरेषु च [-]>
(१४,५[१४१].४०) <अनिक्तेन च वाससा चरितं येन मैथुनं । शयानः प्रौढपादो चाग्रतोपस्थान्तिके गुरोः [-]>
(१४,५[१४१].४१) <विरम्य मारुते शीघ्रे प्रत्यारम्भो विभाषितः । सर्वेणापररात्रेण विरम्य प्रत्यारम्भो न विद्युते [-]>
(१४,५[१४१].४२) पौषी प्रमाणं अभ्रेषु_आपर्तु चेदधीयानाम्
(१४,५[१४१].४३) वर्षं विद्युत्स्तनयित्नुर्वा विपद्यते
(१४,५[१४१].४४) त्रिरात्रं स्थानासनं ब्रह्मचर्यं अरसाशं च_उपयेयुः
(१४,५[१४१].४५) सा तत्र प्रायश्चित्तिः सा तत्र प्रायश्चित्तिः
(Kऔश्ऽ१४ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे चतुर्दशोऽध्यायः समाप्तः
(Kऔश्ऽPओस्त्Cओलोफोन्) इति कौशिकसूत्रं समाप्तम्
]