०१.०१
विश्वास-प्रस्तुतिः
अथ महाद्भुतानि व्याख्यास्यामः ॥
मूलम्
अथ महाद्भुतानि व्याख्यास्यामः ॥
०१.०२
विश्वास-प्रस्तुतिः
क्षिप्रविपाकीन्य् अमोघानि घोराणि ग्रहोपहतम् उल्काभिहतं ग्रस्तं निरस्तम् उपधूपितं वा यदा स्याज् जन्मनक्षत्रं कर्मनक्षत्रम् अभिषेचनीयजनपदनक्षत्रम्

०१.०३
विश्वास-प्रस्तुतिः
एतेषु क्षिप्रम् एव महाशान्तिम् अमृतां कारयेद् राजाष्टमे च चन्द्रमसः स्थाने

०१.०४
विश्वास-प्रस्तुतिः
अथ वा नानावर्णे बहुरूपे शृङ्गिणि चादित्ये कीलवति च्[आद्भुतान्य्] उल्काभिहते

०१.०५
विश्वास-प्रस्तुतिः
कचन्ध एव निश्वसति हसति भ्रमति
मूलम्
कचन्ध एव निश्वसति हसति भ्रमति
०१.०६
विश्वास-प्रस्तुतिः
हासे भासे नादे शब्दे वासने च वैश्वानरे ऽप्रज्वलिते ऽन्तरिक्षे भस्मास्थ्यश्माङ्गारा वीथी चेन्द्रधनुषि रात्रौ वीध्र एव तु ॥

०२.०१
विश्वास-प्रस्तुतिः
चन्द्रार्कौ यस्य राष्ट्रे परिविष्येतातां तान् विपक्षान् परोलकसंस्थाञ् जनपदांस्

०२.०२
विश्वास-प्रस्तुतिः
तथैव काककपोतकङ्कगृध्रयक्षराक्षसपिशाचश्वापदेषु नक्तं वदत्स्व् अभिवदत्सु गायत्सु रायत्सु वा चक्रध्वजवेश्मावसथप्रासादाग्रे

०२.०३
विश्वास-प्रस्तुतिः
वापीकूप उदपाने चोद्गिरति नदति विद्योतति वा
मूलम्
वापीकूप उदपाने चोद्गिरति नदति विद्योतति वा
०२.०४
विश्वास-प्रस्तुतिः
रथयन्त्रवारणप्रवहणवादित्रादिषूल्कादयो ऽङ्गारा धूमो ऽर्चिर् वा प्रादुर्भावे

०२.०५
विश्वास-प्रस्तुतिः
लिङ्गं विलिङ्गे राज्ञः
मूलम्
लिङ्गं विलिङ्गे राज्ञः
०२.०६
विश्वास-प्रस्तुतिः
कालोलूककृकलासश्येननिपतिते राजछत्त्रे भग्ने ध्वजे चक्रस्य राज्ञो दण्डे राज्ञश् च दन्ते

०२.०७
विश्वास-प्रस्तुतिः
हस्तिन्यां च मत्तायां ग्रामे च प्रसूतायाम्
मूलम्
हस्तिन्यां च मत्तायां ग्रामे च प्रसूतायाम्
०२.०८
विश्वास-प्रस्तुतिः
राजरथश् च राजाधिरूढो भग्नाक्षः सप्तरात्राद् राज्ञो हन्ति पुरोहितम् अमात्यं सेनापतिं जायां हस्तिनं महिषीं कुमारं राजानम् एव वा ऋध्नुयाद् य एवं वेद

०२.०९
विश्वास-प्रस्तुतिः
द्वादशं शतं गवां धेनूनां कंसवसनं हिरण्यं निष्को ऽश्व एताश् च दक्षिणाः ॥

०३.०१
विश्वास-प्रस्तुतिः
नानुत्पन्नेषु दैवेषु राज्ञां शान्तिर् विधीयते । अस्थानेषु कृता शान्तिर् निमित्तायोपपद्यते । तस्मात् स्थानं समुद्दिश्य कारयेच् छान्तिम् आत्मनः ॥

०३.०२
विश्वास-प्रस्तुतिः
सर्पसमितौ वायुसम्भ्रमे उदकप्रादुर्भावगमनेषु
मूलम्
सर्पसमितौ वायुसम्भ्रमे उदकप्रादुर्भावगमनेषु
०३.०३
विश्वास-प्रस्तुतिः
धनुःसन्ध्योल्कापरिवेषविद्युद्दण्डाशनिपरिघपरिधिनिर्घाते

०३.०४
विश्वास-प्रस्तुतिः
रजोवर्षम् उपलवर्षं दधिमधुघृतक्षीरवर्षं मज्जारुधिर<varṣam> वर्षति

०३.०५
विश्वास-प्रस्तुतिः
हीनगभस्ती द्वे मार्गे वीथ्यौ वित्तक्षये सोमस्य क्षये ऽपूर्णपूरणे क्षयस्यावभासाः सद्यो ऽपररात्राद् दिग्दाहोपधूपनम्

०३.०६
विश्वास-प्रस्तुतिः
ग्रहवैषम्यम् आरोहणम् आक्रमणं गन्धर्वनगरं मारुतप्रकोपस् तिथिकरणमुहूर्तनक्षत्रग्रहादीनां सोमवियोगः

०३.०७
विश्वास-प्रस्तुतिः
प्रतिस्रोतोगामिन्यो नद्यः प्रासादतोरणध्वजेषु वायससमवाया वृकशकटारोहणं वृषदंशातिमार्जनम् उलूकप्रतिगर्जनं श्येनगृध्रादीनां ध्वजाभिलपनम्

०३.०८
विश्वास-प्रस्तुतिः
विकृताश् च मानुषामानुषप्रभवाः स्त्रीबालवृद्धप्रलापाः प्रदीप्तेन्द्रयष्टिपादभग्ने ऽद्रव्येष्व् एकवृक्षे द्विछाये प्रतिछाये परिवृक्तम्

०३.०९
विश्वास-प्रस्तुतिः
अत ऊर्ध्वम् [छायो] ऽकस्माच् चैत्यवृक्षस्तम्भपतने विरोहत्स्व् अविरोहेष्व् अछिन्नपर्णप्रपाताच् छुष्कशाखिनो द्रुमा धूमरजोदकप्रादुर्भावगमनेषु वनस्पतिषु

०३.१०
विश्वास-प्रस्तुतिः
बहुशस्त्रभङ्ग इन्द्रकीलगोपुराट्टालकध्वजादीनां भङ्ग उचितानां व्युच्छेदने ऽनुचितानां प्रवर्धने दृढभङ्गेसु

०३.११
विश्वास-प्रस्तुतिः
शुष्कविरोहे गृहे वल्मीके शयनदेशे दर्हस्तम्बोत्पत्तौ मित्रविरोधे ऽमित्रप्रीतौ च देवतार्चयो तथछेदने

०३.१२
विश्वास-प्रस्तुतिः
यत्र राजाप्रसादमुखः पौरेषु च भृत्यादिषु भवति भवन्ति चात्र श्लोकाः

०३.१३
विश्वास-प्रस्तुतिः
यदा तु प्रतिपत् सोमो विकृत्या विकृतो भवेत् । अनुद्भिन्नो विलूनो वा राज्ञो मरणम् आदिशेत् ॥

०३.१४
विश्वास-प्रस्तुतिः
आयुधाकाररूपाणि श्वेतवर्णाकृतीनि च । पञ्चवर्णानि चाभ्राणि तथा दण्डनिभानि च ॥

०३.१५
विश्वास-प्रस्तुतिः
यदा चन्द्रार्कयोर् मध्ये कृष्णं भवति मण्डलम् । स शङ्कुर् इति विज्ञेयो ग्रहः परमदारुणः ॥

०३.१६
विश्वास-प्रस्तुतिः
तत्र राज्ञो वधं विद्यात् सर्वभूतभयावहम् । तत्र कुर्यान् महाशान्तिम् अमृतां विश्वभेषजीम् इति ॥

०४.०१
विश्वास-प्रस्तुतिः
अथ यस्मिन्न् एव जनपदे गोब्राह्मणसूतसांवत्सरवैद्यानां परिव्राजकचारणवानप्रस्थब्रह्मचारिणां वापि सङ्करः प्रवर्तते तद् अद्भुतं विद्यात्

०४.०२
विश्वास-प्रस्तुतिः
कर्मसङ्करं यज्ञसङ्करं व्यवहारसङ्करं च यत्र च धर्मो ऽधर्मेष पीड्यते तद् अद्भुतं विद्यात्

०४.०३
विश्वास-प्रस्तुतिः
तेषाम् अज्ञातप्रायश्चित्तं यद् अज्ञातम् अनाम्नातम् इति मध्ये जुहुयात् पुरुषसूक्तं च तेष्व् अकृतप्रायश्चित्तेषु महाद्भुतानि प्रादुर्भवन्ति ॥

०४.०४
विश्वास-प्रस्तुतिः
दिव्यानीत्य् आचक्षते देवगृहेष्व् अथ हसन्ति गायन्ति रुदन्ति क्रोशन्ति प्रस्विद्यन्ति प्रधूमायन्ति प्रज्वलन्ति प्रकम्पन्त्य् उन्मीलयन्ति निमीलयन्ति लिहितं स्रवन्ति परिवर्तयन्ति वा

०४.०५
विश्वास-प्रस्तुतिः
तेषाम् प्रादुर्भावगमनेष्व् अन्यराजागमनं वा विद्याद् उदग्रं वा[ङ्गेगम्] अवृष्टिशस्त्रभयं बुभुक्षामारं जानपदम् अमात्यानां राज्ञो विनाशम्

०४.०६
विश्वास-प्रस्तुतिः
तेषु सर्वेषु भृग्वङ्गिरोविदम् इत्य् उक्तं स चतुष्पथ ईशानं प्रपद्येत ॥ ॐ प्रपद्ये भूः प्रपद्ये भुवः प्रपद्ये स्वः प्रपद्ये जनत् प्रपद्य इति प्रपद्येत

०४.०७
विश्वास-प्रस्तुतिः
कपिलानाम् अष्टशतस्य क्षीरेण पायसं श्रपयित्वा कपिलास्व् अलभ्यमानासु दोग्ध्रीणां शतस्य क्षीरेण पायसं शरपयित्वा प्राञ्चम् इध्मम् उपसमाधाय परिस्तीर्य बर्ही रौद्रेण गणेन शान्ता जुहुयात् ॥ सर्पिर् जुहुयात् पायसं जुहुयाच् छुक्लाः सुमनस उपहरेद् ब्राह्मणान् भक्तेनोपेपसन्ति ता एव गा दद्याद् राज्यं वा परिमितकालं तस्य परितुष्टये गोसहस्रं कर्त्रे दद्याद् ग्रामवरं च ॥

०५.०१
विश्वास-प्रस्तुतिः
अथ यत्रैतच् छयने वाथ वस्त्रे वा जायते यद् धुताशनः । एतद् अत्यद्भुतं नाम सर्वक्षयकरं नृणाम् ॥

०५.०२
विश्वास-प्रस्तुतिः
अत्र ब्राह्मीं महाशान्तिं कारयेद् बहुदक्षिणाम् । बह्वन्नां बहुसम्भाराम् अनूचानसुदक्षिणाम् । राज्यकामो ऽर्थकामो वा पूजयेत् तु बृहस्पतिम् ॥

०५.०३
विश्वास-प्रस्तुतिः
सृजन्ति देवा दिव्याद्भुतानि प्राग् उपसर्गात् प्रतिबोधनार्थम् । कार्याणि विघ्नानि तथा जनानां कर्माकुले वर्णसमाकुले च ॥

०५.०४
विश्वास-प्रस्तुतिः
दैव्योपसृष्टेन बलेन कार्यं कार्य च शान्तिः प्रणिपत्य देवान् । ततोपसर्गाद् विघ्नात् प्रमुच्यते दिवि चेद् अनिष्टं न पुनः स कुर्यात् ॥

०५.०५
विश्वास-प्रस्तुतिः
पृथिव्याम् अन्तरिक्षे च दिवि चाप्य् उपलक्षयेत् । चेष्टितं सर्वभूतानां रुतं च मृगपक्षिणाम् ॥

०६.०१
विश्वास-प्रस्तुतिः
ग्रामे कुले वा यदि वापि देशे राजन्य् अमात्येषु तथा द्विजेषु । भावः पशूनां विकृतो विरूपस् तद् अद्भुतं तस्य देशस्य विद्यात् ॥

०६.०२
विश्वास-प्रस्तुतिः
अमात्यभेदो विविधैकशीर्ष एकद्विशीर्षे भवति द्विराज्यम् । अपादहस्ते म्रियते ह्य् अमात्यो जाते कवन्धे नृपतिर् विनश्येत् ॥

०६.०३
विश्वास-प्रस्तुतिः
यदाधिकाङ्गो यदि वाङ्गहीनो भवेत् पशूनां विकृतो विरूपः । स्त्रीणां तथैव विकृतो विरूपस् तद् अद्भुतं तस्य देशस्य विद्यात् ॥

०६.०४
विश्वास-प्रस्तुतिः
अनास्यं वाप्य् अनोष्ठं वा जायते चेद् विदूलकम् । अरूपम् असरूपं वा जायते चेद् विदूलकम् ॥

०६.०५
विश्वास-प्रस्तुतिः
अधरादीन्न् अचक्षुर् वा जायते चेद् विदूलकम् । एतद् अत्यद्भुतं नाम राष्ट्रे राज्यक्षयङ्करम् ॥

०६.०६
विश्वास-प्रस्तुतिः
तम् अद्भिः स्नातं सुरभिं सुगन्धिं गतासुम् अग्नौ जुहुयाद् घृताक्तम् । गनेण रौद्रेण घृतं च हुत्वा तथा महात्मा शिवम् अस्य कुर्यात् ॥

Source history
Atharvavedaparisistas
Atharvavedaparisistas
Based on the edition by George Melville Bolling and Julius von Negelein:
“The Pariśiṣṭas of the Atharvaveda”, Vol. 1, parts 1 and 2 (all published),
Leipzig : Harrassowitz 1909-1910.
Input by Yuri Ishii (Tokai University)
Revised by Arlo Griffiths (EFEO)
in collaboration with Reinhold Gruenendahl (Niedersaechsische Staats- und Universitaetsbibliothek, Goettingen)