७१ औशनसाद्भुतानि

०१.०१

विश्वास-प्रस्तुतिः

पप्रच्छोशनसं काव्यं नारदः पर्यवस्थितः । दिव्यांश् चैवान्तरिक्षांश् च उत्पातान् पार्थिवांस् तथा ॥

मूलम्

०१.०२

विश्वास-प्रस्तुतिः

ऋतूनां च विपर्यासे तथैव मृगपक्षिणाम् । अमानुषाणां व्याहारे स्थावराणां व्यतिक्रमे ॥

०१.०३

विश्वास-प्रस्तुतिः

योनिव्यतिकरे चैव मांसशोनितवर्षणे । अनग्निज्वलने चैव तथा यानानुसर्पणे ॥

०१.०४

विश्वास-प्रस्तुतिः

शस्त्रप्रज्वलने चैव चैत्यशुष्कविरोहणे । लिङ्गायतनचित्राणां रोदने गर्जने तथा ॥

०१.०५

विश्वास-प्रस्तुतिः

उदपानतडागाबान् ज्वलने गर्जने ऽपि वा । मत्स्यसर्पद्विजातीनां रसानां च प्रवर्षणे ॥

०२.०१

विश्वास-प्रस्तुतिः

आयुधानां प्रज्वलने गर्जने च विशेषतः । पुष्पे फले च वृक्षाणाम् अकाले च विरोहणे ॥

०२.०२

विश्वास-प्रस्तुतिः

प्रासादाद्रिविमानानां प्राकाराणां च कम्पने । गीतवादित्रशब्दाश् च यत्र स्युर् अनिमित्ततः ॥

०२.०३

विश्वास-प्रस्तुतिः

ये चान्ये के चिद् उत्पाता जायन्ते विकृतात्मकाः । तेषां फलं च कालं च तत्त्वेनाचक्ष्व भार्गव ॥

०२.०४

विश्वास-प्रस्तुतिः

स तस्मै पृच्छते सम्यङ् नारदायाशनाः कविः । त्रिविधान् अप्य् अथोत्पातान् व्याख्यातुम् उपचक्रमे ॥

०२.०५

विश्वास-प्रस्तुतिः

यदा शीते भवत्य् उष्णम् उष्णे शीतम् अतीव च । नवमासात् परं विद्यात् तेषु देशेषु वै भयम् ॥

०३.०१

विश्वास-प्रस्तुतिः

यत्रानृतौ प्रबद्धेन त्र्यहाद् ऊर्ध्वं प्रवर्षति । तस्मिन् देशे प्रधानस्य पुरुषस्य वधो भवेत् ॥

०३.०२

विश्वास-प्रस्तुतिः

कोकिलाश् च मयूराश् च अकाले मदभागिनः । संसर्गं वापि गच्छेयुर् विद्याज् जानपदं भयम् ॥

०३.०३

विश्वास-प्रस्तुतिः

रुरवश् चैव रौद्राश् च पृषता हरिणास् तथा । येषु देशेषु दृश्यन्ते तान् अरण्याय निर्दिशेत् ॥

०३.०४

विश्वास-प्रस्तुतिः

प्रधानाश् चैव वध्यन्ते पक्षे सप्तदशे तथा । तस्मिञ् जनपदे चैव महद् उत्पद्यते भयम् ॥

०३.०५

विश्वास-प्रस्तुतिः

गावो ऽश्वाः कुञ्जराः श्वानः खरोष्ट्रा वानरोरगाः । नकुलाः पक्षिणो व्यालाः सूकरा महिषा मृगाः ॥

०४.०१

विश्वास-प्रस्तुतिः

सत्त्वान्य् एतानि जल्पन्ति येषु देशेषु मानुषम् । तेषु देशेषु राजा तु षष्ठे मासि विनश्यति ॥

०४.०२

विश्वास-प्रस्तुतिः

उत्पाता विकृतात्मानो दृश्यन्ते यत्र तत्र वै । देशे भवति शीघ्रं हि षण्मासाद् भयम् उत्तमम् ॥

०४.०३

विश्वास-प्रस्तुतिः

आसनं शयनं यानं यदा यत्र प्रसर्पति । विपक्षात् तत्र तत्स्वामी भयं प्राप्नोति दारुणम् ॥

०४.०४

विश्वास-प्रस्तुतिः

धान्यकोष्ठायुधागाराः पाषाणाः कूपपर्वताः । एतानि यत्र सर्पन्ति विकृतानि वदन्ति च ॥

०४.०५

विश्वास-प्रस्तुतिः

बहु वा जायते तीव्रं तस्मिन् देशे भयं महत् । त्रीन् मासान् परकाले तु शेषे सौम्यातिकं फलम् ॥

०५.०१

विश्वास-प्रस्तुतिः

देशे वा यदि वा ग्रामे योनिव्यतिकरो भवेत् । तत्र संवत्सराद् ऊर्ध्वं महद् उत्पद्यते भयम् ॥

०५.०२

विश्वास-प्रस्तुतिः

गौर् अश्वं वडवा वापि यस्मिन् देशे प्रसूयते । अभ्यन्तरेण तद्वर्षाद् राज्ञो मरणम् आदिशेत् ॥

०५.०३

विश्वास-प्रस्तुतिः

मानुषी जनयेद् यत्र तृणादान् विविधान् पशून् । षण्मासोत्थं भयं तीव्रं तत्र तूत्पद्यते महत् ॥

०५.०४

विश्वास-प्रस्तुतिः

परचक्रागमं चैव निर्दिशेद् इह शास्त्रवित् । सङ्ग्रामाश् चात्र विपुला जायन्ते विकृतात्मकाः ॥

०५.०५

विश्वास-प्रस्तुतिः

सर्पं वा पक्षिणं वापि जनयेद् यत्र मानुषी । प्रचलस् तस्य देशस्य षण्मासात् तु परं भवेत् ॥

०६.०१

विश्वास-प्रस्तुतिः

उष्ट्रं वा या प्रसूयेत वानरं वापि मानुषी । अन्यद् वा जङ्गमं किं चित् स्थावरं वापि किं चन ॥

०६.०२

विश्वास-प्रस्तुतिः

रोगेण शस्त्रपातेन दुर्भिक्षेण च पीडितः । स देशो व्यथते शीघ्रं राजा तत्र विनश्यति ॥

०६.०३

विश्वास-प्रस्तुतिः

अमानुषी मानुषं वा मानुषी वाप्य् अमानुषम् । प्रसूयते तु जानीयात् परचक्रागमं ध्रुवम् ॥

०६.०४

विश्वास-प्रस्तुतिः

चतुरक्षं द्विशीर्षं वा गात्रैर् न्यूनाधिकैस् तथा । व्यञ्जनैश् चोपसम्पन्नं मानुषी या प्रसूयते ॥

०६.०५

विश्वास-प्रस्तुतिः

द्विसंवत्सरपर्यन्ताद् राजा तत्र विनश्यति । उष्ट्रो वृषो वाप्य् अश्वो वा गजो वा यत्र जायते ॥

०६.०६

विश्वास-प्रस्तुतिः

पक्षान् मासाच् च भवति राज्ञस् तत्र भयं महत् । परचक्रसमुत्थं वा स देशो भयम् ऋच्छति ॥

०७.०१

विश्वास-प्रस्तुतिः

योनिव्यतिकरं यत्र कुर्युर् एवंविधं स्त्रियः । गौर् वा सूयेत् तथान्यानि तत्र राज्यं विनश्यति ॥

०७.०२

विश्वास-प्रस्तुतिः

वसन्ति येषु देशेषु तेषु विद्यान् महद् भयम् । तस्माद् एतानि सत्त्वानि राजा क्षिप्रं प्रवासयेत् ॥

०७.०३

विश्वास-प्रस्तुतिः

अश्वा किशोरं जनयेच् छृङ्गिणं यत्र तत्र तु । आदिशेन् मरणं राज्ञो वर्षाभ्यन्तर एव हि ॥

०७.०४

विश्वास-प्रस्तुतिः

माघे बुधे च महिषी श्रावणे वडवा दिवा । सिंहे गावः प्रसूयन्ते स्वामिनो मृत्युदायकाः । इति शास्त्रसमुच्चयात् ॥

०७.०५

विश्वास-प्रस्तुतिः

नारी खरवृषोष्ट्राश्वाञ् शुनः सूकरगर्दभान् । राक्षसान् वा पिशाचान् वा यदाप्य् एवं प्रसूयते ॥

०७.०६

विश्वास-प्रस्तुतिः

व्यापद्यन्ते ऽत्र धान्यानि सस्यानि च धनानि च । चतुर्विधं भयं घोरं क्षिप्रं तत्र प्रवर्तते ॥

०८.०१

विश्वास-प्रस्तुतिः

वध्यन्ते हि प्रधानास् तु सार्धमासाष्टमे तथा । व्याधींश् च तेषु देशेषु त्रीणि वर्षाणि निर्दिशेत् ॥

०८.०२

विश्वास-प्रस्तुतिः

अनग्निर् ज्वलते यत्र देशे तूर्णम् अनिन्धनः । यो राजा तस्य देशस्य सदेशः स विनश्यति ॥

०८.०३

विश्वास-प्रस्तुतिः

मांसवर्षेण मघवा यत्र देशे प्रवर्षति । अस्थीनि रुधिरं मज्जां वसां चैतेषु वै ध्रुवम् ॥

०८.०४

विश्वास-प्रस्तुतिः

परचक्रागमः शीघ्रं विज्ञेयस् तु महद् भयम् । आहवाश् चात्र जायन्ते विपुला विकृतात्मकाः ॥

०८.०५

विश्वास-प्रस्तुतिः

अङ्गारवालुकाधान्यं यत्र देवः प्रवर्षति । क्षिप्रं तत्र भयं घोरं प्रवर्तेत चतुर्विधम् ॥

०९.०१

विश्वास-प्रस्तुतिः

सर्पान् मत्स्यान् पक्षिणो वा यत्र देवः प्रवर्षति । तत्र सस्योपघातः स्याद् भयं चातिप्रवर्तते ॥

०९.०२

विश्वास-प्रस्तुतिः

सुरासवं तथा क्षौद्रं सर्पिस् तैलं पयो दधि । यत्र वर्षति पर्जन्यः क्षुद्रोगस् तत्र जायते ॥

०९.०३

विश्वास-प्रस्तुतिः

उल्काताराश् च धिष्ण्येषु यदाङ्गारांश् च वर्षति । तदा व्याधिभयं घोरं तेषु देशेषु निर्दिशेत् ॥

०९.०४

विश्वास-प्रस्तुतिः

पुमान् अश्वो गजो वापि यदा यत्र प्रदीप्यते । दशमासात् परं तत्र जानीयाद् राष्ट्रसम्प्लवम् ॥

०९.०५

विश्वास-प्रस्तुतिः

नाराचाः शक्तयः खड्गाः प्रदीप्यन्ते यदा मुहुः । तदा शस्त्रभयं घोरं तेषु देशेषु निर्दिशेत् ॥

१०.०१

विश्वास-प्रस्तुतिः

चैत्यवृक्षाः प्रभज्यन्ते विस्वरं विनदन्ति च । प्रहसन्ति प्रसर्पन्ति गायन्ति च रुदन्ति च ॥

१०.२

विश्वास-प्रस्तुतिः

आगमः परचक्रस्य तेषु चापद्यते त्वरम् । सचक्रा वापि नश्यन्ति प्रधानश् चात्र वध्यते ॥

१०.३

विश्वास-प्रस्तुतिः

यत्र स्रवेच् चैत्यवृक्षः सहसा विविधान् रसान् । पृथक्पृथक् समस्तान् वा तत् प्रवक्ष्यामि लक्षणम् ॥

१०.४

विश्वास-प्रस्तुतिः

घृते मधुनि दुग्धे च घृते दुग्धे तथाम्भसि । क्षौद्रे मधुनि तैले वा व्याधयः स्युः सुदारुणाः ॥

१०.५

विश्वास-प्रस्तुतिः

सुरासवे मिथोभेदः शोणिते शस्त्रपातनम् । तैले प्रधाना वध्यन्ते भक्षे क्षुद्भयम् आदिशेत् ॥

११.१

विश्वास-प्रस्तुतिः

अनृतौ चेत् फलं यत्र पुष्पं वा सूयते द्रुमः । विद्याद् द्वादशमे मासि राज्ञस् तत्र विपर्ययम् ॥

११.२

विश्वास-प्रस्तुतिः

पुष्पे पुष्पं भवेद् यत्र फले वा स्यात् तथा फलम् । पर्णे पर्णं विजानीयात् तत्र जानपदं भयम् ॥

११.३

विश्वास-प्रस्तुतिः

शुक्लेन वाससा यत्र चैत्यवृक्षः समावृतः । ब्राह्मणानां भयं घोरम् आशु तीव्रं विनिर्दिशेत् ॥

११.४

विश्वास-प्रस्तुतिः

रक्तवस्त्रावृतैश् चान्यैः क्षत्रियाणां महद् भयम् । पीतवस्त्रैस् तु वैश्यानां शूद्राणां कृष्णवाससैः ॥

११.५

विश्वास-प्रस्तुतिः

नीलैः सस्योपघातः स्याच् चित्रैस् तु मृगपक्षिणाम् । विवर्णैर् व्याधयस् तीव्राः परं स्युर् दशमासतः ॥

१२.१

विश्वास-प्रस्तुतिः

दैवतानि प्रसर्पन्ति यत्र राष्ट्रे हसन्ति वा । उदीक्षन्ते ऽथ रोधांसि तत्र विद्यान् महद् भयम् ॥

१२.२

विश्वास-प्रस्तुतिः

विहसन्ति निमीलन्ति गायन्ति विकृतानि च । मांसशोनितगन्धानि यत्र तत्र महद् भयम् ॥

१२.३

विश्वास-प्रस्तुतिः

यत्र चित्रम् उदीक्षेत गायते चेष्टते मुहुः । एतेष्व् अष्टसु मासेषु राज्ञो मरणम् आदिशेत् ॥

१२.४

विश्वास-प्रस्तुतिः

चित्राणि यत्र लिङ्गानि तथैवायतनानि च । विकारं कुर्युर् अत्यर्थं तत्र विद्यान् महद् भयम् ॥

१२.५

विश्वास-प्रस्तुतिः

उदपानं तडागं वा सरः पर्वत एव वा । समुद्देशेषु दीप्यन्ते विद्याद् भयम् उपस्थितम् ॥

१३.१

विश्वास-प्रस्तुतिः

[प्रहसेयुः स्तनेयुर् वा] श्वा वा मार्जारवद् वदेत् । तस्य देशस्य राजा तु पीडाम् आप्नोति दारुणाम् ॥

१३.२

विश्वास-प्रस्तुतिः

शङ्खवैणवतूर्याणां दुन्दुभीनां च निस्वनः । देशे यत्र भृशं तत्र राजदण्डो निपात्यते ॥

१३.३

विश्वास-प्रस्तुतिः

यस्य राज्ञो जनपदे नित्योद्विग्नाः प्रजाः क्षयम् । गच्छन्ति न चित्रात् तत्र विनाशम् अपि निर्दिशेत् ॥

१३.४

विश्वास-प्रस्तुतिः

यस्य राज्ञो जनपदे नित्यम् एव गवां क्षयः । भयं तत्र विजानीयाद् अचिरात् समुपस्थितम् ॥

१३.५

विश्वास-प्रस्तुतिः

यस्य राज्ञो जनपदे नदी वहति कर्दमम् । काष्ठं तृणं चोपलं वा मृतमत्स्यान् ग्रहांस् तथा ॥

१४.१

विश्वास-प्रस्तुतिः

मद्यं क्षौद्रं च मांसं च सर्पिस् तैलं पयो दधि । अन्यराजागमभयं तत्र देशे समादिशेत् ॥

१४.२

विश्वास-प्रस्तुतिः

यस्य राज्ञो जनपदे प्रतिस्रोतो नदी वहेत् । मासाष्टकाज् जानपदं भयं स्याच् छस्त्रपाणिनः ॥

१४.३

विश्वास-प्रस्तुतिः

कूपो वा गर्जते यत्र यदा वाप्य् अवदीर्यते । लोहितं वाथ पूयं वा भयं तत्र विनिर्दिशेत् ॥

१४.४

विश्वास-प्रस्तुतिः

आयुधानि प्रधावन्ति तीव्रं प्रत्याहरन्ति च । तूणीरात् सहसा बाणा उद्गिरन्ति नदन्ति च ॥

१४.५

विश्वास-प्रस्तुतिः

स्वभावतश् च पूर्यन्ते धनूम्षि प्रज्वलन्ति च । सङ्ग्रामो दारुणस् तत्र देशे भवति बिश्चितः ॥

१५.१

विश्वास-प्रस्तुतिः

अकाले पुष्पवन्तश् च फलवन्तश् च पादपाः । दृश्यन्ते यस्य राष्ट्रेषु तस्य नाशो विभाव्यते ॥

१५.२

विश्वास-प्रस्तुतिः

वृक्षा वल्ल्यश् च तरुणा यत्र स्युः फलपुष्पदाः । अकाले चापि दृश्येयुस् तत्र विद्यान् महद् भयम् ॥

१५.३

विश्वास-प्रस्तुतिः

प्रासादानि विमानानि प्रज्वलन्ति तु यत्र वै । दृढानि च विशीर्यन्ते यस्य स म्रियते ऽचिरात् ॥

१५.४

विश्वास-प्रस्तुतिः

वदन्त्य् अरण्ये तूर्याणि श्रूयन्ते व्योम्नि नित्यशः । निवसेत तदा राजा समागम्य दिशो दश ॥

१५.५

विश्वास-प्रस्तुतिः

यस्य वेश्मनि श्रूयन्ते गीतवादित्रनिस्वनाः । अकस्मान् म्रियते सम्यग् धनं चास्य विलुप्यते ॥

१५.६

विश्वास-प्रस्तुतिः

शङ्खवैणववीणाश् च भेरीमुरजगोमुखाः । वाद्यमानाः प्रदृश्यन्ते देशे यत्राप्य् अघट्टिताः ॥

१५.७

विश्वास-प्रस्तुतिः

सम्भृत्यैव ततो भारम् अन्यं जनपदं व्रजेत् । मृगवांस् तु स देशो हि वायुश् चात्रोपजायते ॥

१५.८

विश्वास-प्रस्तुतिः

अनाहता दुन्दुभयो वादित्राणि वदन्ति च । छिद्राणि च गृहे यस्य स शीघ्रं भयम् ऋच्छति ॥

१५.९

विश्वास-प्रस्तुतिः

देवराजध्वजानां च पतनं भङ्ग एव वा । क्रव्यादानां प्रवेशं च राज्ञः पीडाकरं भवेत् ॥

१५.१०

विश्वास-प्रस्तुतिः

वाजिवारणमुख्यानाम् अकस्मान् मरणं भवेत् । इतरक्षमापतेस् तत्र विज्ञेया सत्वरागतिः ॥

१६.१

विश्वास-प्रस्तुतिः

अश्वत्थे पुष्पिते क्षत्रं ब्राह्मणं चाप्य् उदुम्बरे । प्लक्षे वैश्याश् तु पीड्यन्ते न्यग्रोधे दस्यवस् तथा ॥

१६.२

विश्वास-प्रस्तुतिः

श्वेतम् इन्द्रायुधं विप्रान् रक्तं क्षत्रियनाशनम् । वैश्यानां पीतकं रात्रौ कृष्णं शूद्रविनाशनम् ॥

१६.३

विश्वास-प्रस्तुतिः

निर्घाते भूमिकम्पे च चैत्यशुष्कविरोहणे । देशपीडां विजानीयात् प्रधानश् चात्र वध्यते ॥

१६.४

विश्वास-प्रस्तुतिः

इन्द्रयष्टिर् भज्यते वा विशस्तो वा पशुर् व्रजेत् । यदा तदा विजानीयाद् राज्ञः पीडाम् उपस्थिताम् ॥

१६.५

विश्वास-प्रस्तुतिः

पितामहे वासुदेवे सोमधर्मार्यमेष्व् अपि । निमित्तम् अशुभं यत्र ब्राह्मणानां भयावहम् ॥

१७.१

विश्वास-प्रस्तुतिः

बृहस्पतौ वा शुक्रे वा पावके पाकशासने । यानि रूपाणि दृश्यन्ते विद्यात् तानि पुरोहिते ॥

१७.२

विश्वास-प्रस्तुतिः

महादेवे कुबेरे च तथा स्कन्दविशाखयोः । निमित्तं तत् पार्थिवेषु विज्ञेयं सम्प्रवर्तितम् ॥ [अकस्माद् दृश्यते यत् तु निमित्तं सम्प्रकीर्तितम् ॥]

१७.३

विश्वास-प्रस्तुतिः

देवानां पार्थिवानां च रथो यत्र निमज्जति । भयं तत्र विजानीयात् पार्थिवस्याशुरद्भुतम् ॥

१७.४

विश्वास-प्रस्तुतिः

सोमे च वासुदेवे च वरुणे पाकशासने । यद् भयं दृश्यते तद्द् हि ज्ञेयं भाण्डाधिके कने ॥

१७.५

विश्वास-प्रस्तुतिः

वाते प्राजापतौ चैव विश्वकर्मणि चैव हि । प्रवर्तते यन् निमित्तं तज् जानपदिकं भवेत् ॥

१७.६

विश्वास-प्रस्तुतिः

कुमारीषु कुमारीणां कुमाराणां कुमारजम् । तथा प्रेष्येषु सर्वेषु कल्पयेच् छास्त्रतः फलम् ॥

१७.७

विश्वास-प्रस्तुतिः

इन्द्राणि वरुणानी च भद्रकाली महाबला । वीरमाता च यद् ब्रूयुस् तद् राजमहिषीभयम् ॥

१७.८

विश्वास-प्रस्तुतिः

एकैवासां तथा चान्या याश् चान्या देवताः स्त्रियः । कुर्युर् निमित्तं तत् स्त्रीणां प्रधानानां च निर्दिशेत् ॥

१७.९

विश्वास-प्रस्तुतिः

गन्धर्वेषु निमित्तं यत् तद् अन्येषु प्रदृश्यते । सेनापतीनां भयकृत् सचिवानां भयाय च ॥

१७.१०

विश्वास-प्रस्तुतिः

रक्षपन्नगयक्षेषु लिङ्गस्यायतनेषु च । यथारूपं यथाकर्म पुरुषेषु व्यवस्थितम् ॥

१८.१

विश्वास-प्रस्तुतिः

दक्षिणेषु शरीरेषु देवतानां च वेश्मसु । सर्वेष्व् अङ्गेषु नारीणां तुल्यं स्याद् उभयोर् भयम् ॥

१८.२

विश्वास-प्रस्तुतिः

स्वशरीरे यथोत्पाता विहिता दैवचिन्तकैः । तथैव परिसङ्ख्येयं सर्वत्रैव शुभाशुभम् ॥

१८.३

विश्वास-प्रस्तुतिः

माणिभद्रादयो यक्षा गन्धर्वाश् चित्रसेनयः । तद्भयं तु प्रधानानाम् अमात्यानां विभावयेत् ॥

१८.४

विश्वास-प्रस्तुतिः

येषु देशेषु दृश्येत दैवतेषु शुभाशुभम् । ते च देशा विनश्यन्ति राजा वाथ विनश्यति ॥

१८.५

विश्वास-प्रस्तुतिः

ब्राह्मणा यत्र वध्यन्ते ग्रामे राष्ट्रे ऽथ वा पुरे । राजधानीषु वा यत्र तद् अभावस्य लक्षणम् ॥

१९.१

विश्वास-प्रस्तुतिः

यत्राबलं वध्यमानं राजा नैवाभिरक्षति । तत्र दैवकृतो दण्डो निपतत्य् आशु राजनि ॥

१९.२

विश्वास-प्रस्तुतिः

छत्त्रध्वजपताकासु देवस्थाने गृहेषु च । द्वाराट्टालक^हर्म्येषु [कारयेद्द् होमवाचनम्] ॥

१९.३

विश्वास-प्रस्तुतिः

यत्र प्रकृतिभूतानि लिङ्गानि विकृतानि च । देवताश् चापि नद्यश् च क्षरक्षाममहीरुहाः ॥

१९.४

विश्वास-प्रस्तुतिः

सेना चैव न दृश्येत हस्त्यश्वैश् च पदातिभिः । हीनाङ्गा विकृताङ्गा वा प्रलयं तत्र निर्दिशेत् ॥

१९.५

विश्वास-प्रस्तुतिः

स्तम्भवृक्षा ध्वजा यत्र स्रवेयू रुधिराम्बु च । धूमयेयुर् ज्वलेयुर् वा मन्त्रिणां तत्र वै वधः ॥

१९.६

विश्वास-प्रस्तुतिः

जगत्स्वामिनि जानीयाद् यदि चेद् दिवि जायते । आन्तरिक्षं तु देशे स्याद् भौमं सस्योपतिष्ठति ॥

१९.७

विश्वास-प्रस्तुतिः

भार्यायां वाहने पुत्रे कोशे सेनापतौ पुरे । पुरोहिते नरेन्द्रे वा पतते दैवम् अष्टधा ॥

१९.८

विश्वास-प्रस्तुतिः

माहेन्द्रीम् अमृतां रौद्रीं वैश्वदेवीम् अथापि वा । उत्पातेषु महाशान्तिं कारयेद् बहुदक्षिणाम् ॥

१९.९

विश्वास-प्रस्तुतिः

शाम्यन्ति येन घोराणि योगक्षेमं च जायते । राजानो मुदितास् तत्र पालयन्ति वसुन्धराम् ॥