०१.०१
विश्वास-प्रस्तुतिः
ॐ सम्पूज्य विधिवत् प्राज्ञं विद्वांसो मुनयः पुरा । अपृच्छन् भृगुम् अव्यग्रं सर्वसत्त्वहिते रतम् ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
लोकत्रयनिविष्टानाम् उत्पातानाम् अनेकधा । भिन्नानां शमनं नोक्तं वद त्व् असंशयं मुने ॥

०१.०३
विश्वास-प्रस्तुतिः
प्रत्युवाच भृगुर् विप्रान् शृणुताहितमानसः । उत्पातशमनत्रित्वं कथ्यमानम् असंशयम् ॥

०१.०४
विश्वास-प्रस्तुतिः
तत्र विप्रान् प्रवक्ष्यामि दुरिष्टशमनक्षमान् । अथर्वाङ्गिरसो वेदे विधिज्ञान् सर्वकर्मणाम् ॥

०१.०५
विश्वास-प्रस्तुतिः
अहिंसासत्यदाक्षिण्यशौचश्रद्धासमन्विताः । श्रुतिस्मृतिसदाचाराः कुलशीलवयो ऽन्विताः ॥

०१.०६
विश्वास-प्रस्तुतिः
तेषाम् एकः प्रधानत्वे यः शान्तो द्विजसत्तमः । भृग्वङ्गिरोविद् अत्यर्थं शुचिः स्यात् साधुसम्मतः ॥

०१.०७
विश्वास-प्रस्तुतिः
ब्रह्माणं तं नृपः कुर्याद् धोतारं सर्ववेदिनम् । एवम् उक्ते भृगुं विप्राः प्रोचुर् विगतकल्मषम् ॥

०१.०८
विश्वास-प्रस्तुतिः
होतारो भूमिभर्तॄणां महाशान्तेः प्रकीर्तिताः । ननु क्षीणे विद्वन् स्वधर्मप्रच्युते ऽपि वा ॥

०१.०९
विश्वास-प्रस्तुतिः
तत्र शान्तौ प्रयुक्तायां कस्य शान्तिफलं भवेत् । नृपो ऽप्य् अधार्मिकः कुर्याद् ब्रह्मणस् तर्पणं पुरा ॥

०१.१०
विश्वास-प्रस्तुतिः
ततः कृता महाशान्ती राजानं पाति सर्वतः । स वृतः पावनं गच्छेद् द्विजानां पावनाय वै ॥

०१.११
विश्वास-प्रस्तुतिः
द्वादशाहं व्रतं तत्र पयोमूलफलाशनैः ॥
मूलम्
द्वादशाहं व्रतं तत्र पयोमूलफलाशनैः ॥
०२.०१
विश्वास-प्रस्तुतिः
त्रीणि त्र्यहाणि कुर्वीत पयोमूलफलैः शुभैः । अनश्नंश् च त्र्यहं धीरः स पुरश्चरणो भवेत् ॥

०२.०२
विश्वास-प्रस्तुतिः
तथैकोनं शतं नॄणां शुश्रूषूणाम् अकल्मषम् । अनुक्तवच् च त्र्यहं तत् कर्मणः करणे क्षमम् ॥

०२.०३
विश्वास-प्रस्तुतिः
कृच्छ्रं चापि हितं कृत्वा कुर्युः कर्म समाहिताः । शुद्धात्मानो जपैर् होमैर् वैदिकैर् वीतमत्सराः ॥

०२.०४
विश्वास-प्रस्तुतिः
ततः परं पुरोधःसु दिव्यं तत्रम् अवाप्नुयात् । ग्रहातिथ्यं च संरभ्य दिशां यागं च सर्वतः ॥

०२.०५
विश्वास-प्रस्तुतिः
नक्षत्रेषु च सर्वेषु यागं कृत्वा विधानतः । ततो ऽमृतमहाशान्त्या स्थापयेत् पद्मसम्भवम् ॥

०३.०१
विश्वास-प्रस्तुतिः
सावित्र्या लक्षहोमं तु भौमे तिष्ठेद् विशारदाः । कुर्युर् देयं च दानानां विप्रेभ्यो यस्य यत् प्रियम् ॥

०३.०२
विश्वास-प्रस्तुतिः
गोभूमिकाञ्चनाश्वानां रत्नानां धान्यवाससाम् । रथानां वारणानां च दानं कामम् अतः परम् ॥

०३.०३
विश्वास-प्रस्तुतिः
तुष्येयुर् येन वा विप्राः सम्भवो यस्य यस्य हि । तत् तत् सर्वम् उपादेयम् एष दानविधिः स्मृतः ॥

०३.०४
विश्वास-प्रस्तुतिः
दद्याच् च गुरवे ग्रामं धेनुं वासोयुगं तथा । अलङ्कारैश् च सम्पूज्य प्रीणयेत् प्रीतमानसः ॥

०३.०५
विश्वास-प्रस्तुतिः
अनेन विधिना भौमम् अद्भुतं शमयेद् गुरुः । एष एव विधिर् ज्ञेयो वियत्ये ऽप्य् अद्भुताश्रये ॥

०४.०१
विश्वास-प्रस्तुतिः
विशेषो ऽयं तु सावित्र्या दशलक्षांस् तु होमयेत् । होमसमाहितमनाः कुर्याच् च घृतकम्बलम् ॥

०४.०२
विश्वास-प्रस्तुतिः
धेनूनां द्वादशं देयं शतनिष्कसमन्वितम् । गुरवे दीयमानं तच् छमयत्य् अम्बराद्भुतम् ॥

०४.०३
विश्वास-प्रस्तुतिः
दिव्याद्भुतेषु कर्तव्यः कोटिहोमसमन्वितैः । गोसहस्रं च दातव्यं गुरवे दक्षिणाविधिः ॥

०४.०४
विश्वास-प्रस्तुतिः
एष प्रोक्तो विधिः सम्यग् दिव्यानिष्टविपत्करे । सुभिक्षक्षेमसम्पत्त्या प्रजानां पुष्टिवर्धनः ॥

०४.०५
विश्वास-प्रस्तुतिः
कोटिहोमेषु सर्वेषु द्रव्यभेदाश्रयं फलम् । शान्तिपुष्ट्यभिचारार्थं तन् मे निगदतः शृणु ॥

०४.०६
विश्वास-प्रस्तुतिः
सौम्यवृक्षाश्रयाः कार्याः समिधः शान्तिम् इच्छता । अर्ककाश्मर्यनिम्बानां समिद्भिः शत्रुशातनम् ॥

०४.०७
विश्वास-प्रस्तुतिः
दुर्नामकण्टकम्बूनां समिद्भिश् च विशेषतः । भग्नस्फुटितवृक्षाणां फलं शत्रुनिबर्हणम् ॥

०४.०८
विश्वास-प्रस्तुतिः
बिल्वपद्मोत्पलानां तु शुचिदेशप्ररोहिणाम् । सर्वदा सर्वकामांस् तु होमैः प्राप्नोति मानवः ॥

०४.०९
विश्वास-प्रस्तुतिः
तिलव्रीहियवादीनां दध्नो मधुघृतस्य च । पयोगोधूमशालीनां होता शान्तिं समारभेत् ॥

०४.१०
विश्वास-प्रस्तुतिः
सर्वेषां हविषां चैव घृतं शान्तिकरं स्मृतम् । सर्वद्रव्ये घृतं तस्माद् धोमे प्रक्षेपम् अर्हति ॥

०५.०१
विश्वास-प्रस्तुतिः
यज्ञोपवीतिना कार्यं शान्तिकर्म विपश्चिता । उपवीतं तु पित्र्येषु सर्वेष्व् एव समारभेत् ॥

०५.०२
विश्वास-प्रस्तुतिः
मध्वाज्यदधिदुग्धेषु भक्ष्यमाणे विलेपने । यन्त्रवाहनशस्त्रेषु भवनेष्व् आयुधेषु च ॥

०५.०३
विश्वास-प्रस्तुतिः
दर्पणे भक्तपात्रे च मणिमुक्ताफलेषु च । भूषणेषु तथान्येषु शय्यायाम् आसनेषु च ॥

०५.०४
विश्वास-प्रस्तुतिः
काकोलूककपोतानां मधोर् वा दर्शनं भवेत् । अन्येषां चाप्रशस्तानाम् आगमो मृगपक्षिणाम् ॥

०५.०५
विश्वास-प्रस्तुतिः
अश्वेतानां च पुष्पाणां सरीसृपगणस्य च । वसालोहितमांसानाम् अस्थिमज्जाशिरोरुहाम् ॥५ ॥

०६.०१
विश्वास-प्रस्तुतिः
अकस्माच् चैव सङ्घाते दर्शने नखभस्मनाम् । रसान्यत्वे रसानां च दुर्गन्धे वानिमित्तजे ॥

०६.०२
विश्वास-प्रस्तुतिः
पद्मपुष्पाकृतिर् यत्र दृश्यते मधुसर्पिषि । कृसरापायसे चैव क्षयस् तस्य धनायुषोः ॥

०६.०३
विश्वास-प्रस्तुतिः
घृते वा मधुदध्नि वा यदा पद्माकृतिर् भवेत् । स्वस्तिको वापि दृश्येत तदा मरणम् आदिशेत् ॥

०६.०४
विश्वास-प्रस्तुतिः
विकारो यत्र दृश्येत क्षीरोदनहविह्षु वा । श्रोत्रियाय तु तद् दद्याद् भावैव शमयेन् नरः ॥

०६.०५
विश्वास-प्रस्तुतिः
यत्रस्थं चाद्भुतं पश्येत् तत्रापि प्रतिपादयेत् । कुर्याद् वा वारुणीं शान्तिं परमेण समाधिना ॥

०७.०१
विश्वास-प्रस्तुतिः
अन्याकृतिषु वाप्य् एतद् ये स्थाने शान्तिकारकाः । तेषाम् अथाक्षयं विद्याद् आयुषार्थधनेन वा ॥

०७.०२
विश्वास-प्रस्तुतिः
चलिते ज्वलिते पाते स्फुरित उत्पतिते तथा । महाजनगजाश्वानां स्थाने विद्यान् महद् भयम् ॥

०७.०३
विश्वास-प्रस्तुतिः
तत्र युध्यन्ति जातीनां भयं तत् स्याद् असंशयम् । तत्रापि चार्थनिचयैः पशुभिर् विद्ययापि वा ॥

०७.०४
विश्वास-प्रस्तुतिः
उत्पातशमनार्थं तु ये क्रिया न प्रयुञ्जते । नराः क्षिप्रं विनश्यन्ते सान्वयाः सपरिच्छदाः ॥

०७.०५
विश्वास-प्रस्तुतिः
विप्राणां भोजनं कार्यं सहस्रस्यायुतस्य वा । बलिपुष्पोपहारैश् च देवतानां प्रसादनम् ॥

०७.०६
विश्वास-प्रस्तुतिः
कर्तव्यं च यथान्यायं शान्तिकर्म विपश्चिता । एवं कृते भयं सर्वं तत्क्षणाद् एव नश्यति ॥

०८.०१
विश्वास-प्रस्तुतिः
शुभाशुभस्थितं चैव मुनयो भृगुम् अब्रुवन् । स प्रत्युवाच पुरुषु संवत्सरसमाश्रये ॥

०८.०२
विश्वास-प्रस्तुतिः
शीतोष्णवृष्टिकालेषु वीतदोषेषु सर्वदा । संवत्सराख्यः पुरुषो निरुपद्रव उच्यते ॥

०८.०३
विश्वास-प्रस्तुतिः
यदि निर्घातभूकम्पदिग्दाहादिविवर्जितः । केतुभिश् चैव युज्येत यदि वादित्यकीलकैः ॥

०८.०४
विश्वास-प्रस्तुतिः
अन्यैर् वा लोकनाशार्थैर् अद्भुतैर् नाशनाकुलैः । तत एष विशुद्धात्मा पुरुषः सुखम् एधते ॥

०८.०५
विश्वास-प्रस्तुतिः
अथ चेत् स बहुविधैर् अद्भुतैः परिसंयुतः । संवत्सरं भवेच् छीघ्रं कुर्युस् तच्छमनं बुधाः ॥

०९.०१
विश्वास-प्रस्तुतिः
तत्र शान्तिं प्रवक्ष्यामि सर्वपापप्रणाशिनीम् । दिव्यतन्त्रविद् आचार्यो यया फलम् अवाप्नुयात् ॥

०९.०२
विश्वास-प्रस्तुतिः
पूर्वं तावद् विशुद्धात्मा स पुरश्चरणो भवेत् । देवतानां ततो यागं यथाश्रुति समाचरेत् ॥

०९.०३
विश्वास-प्रस्तुतिः
यागं कृत्वा ग्रहाणां तु नक्षत्राणां ततः परम् । ऋतून् अथार्तवांश् चैव महादेवगणाधिपान् ॥

०९.०४
विश्वास-प्रस्तुतिः
दिशश् च विदिशश् चैव यमेन्द्रवरुणांस् तथा । विश्वेश्वरं च विष्णुं च यजेताद्भुतकर्म च ॥

०९.०५
विश्वास-प्रस्तुतिः
सूर्याचन्द्रमसाव् अग्निं सर्वान् ग्रहगणांस् तथा । वायुं तथाश्विनौ चैव महाशान्तिं विधानतः ॥

०९.०६
विश्वास-प्रस्तुतिः
कुर्याद् देवादृतो धीमान् एवं दोषः प्रशाम्यति ॥

१०.०१
विश्वास-प्रस्तुतिः
श्वेतं वा भवति पयो विलोहितं वा पीतं वा भवति हि कृष्णपिङ्गलं वा । उत्पातः फलति यथा चतुःप्रकारस् तत् सर्वं शृणुत समासतो मयोक्तम् ॥

१०.०२
विश्वास-प्रस्तुतिः
विप्राणां भवति हि शुक्लम् अम्बुदोषे राजानं सपदि निहन्ति लोहितं च । पीतं चेद् भवति निहन्ति वैश्यवर्गं शूद्राणां भवति हि कृष्णपिङ्गदोषे ॥

१०.०३
विश्वास-प्रस्तुतिः
बीजं यत्र प्ररोहेत फलम् अथ प्रमादतः । एतद् अत्यद्भुतं नाम दम्पत्योस् तु विनाशनम् ॥

१०.०४
विश्वास-प्रस्तुतिः
अपूजनात् तु पूज्यस्य तथापूज्यस्य पूजनात् । अन्तःकरणदोषाच् च हेतोः शान्तिर् न जायते ॥

१०.०५
विश्वास-प्रस्तुतिः
तस्माद् वेदार्थशास्त्रज्ञान् वीतरागान् अमत्सरान् । परिचारकमुख्यांश् च कारयेत् कुशलान् द्विजान् ॥

११.०१
विश्वास-प्रस्तुतिः
विचारितं च विद्वद्भिर् निश्चितं सुधिया पुनः । देशकालसमायुक्तं कर्म कुर्याद् विचक्षणः ॥

११.०२
विश्वास-प्रस्तुतिः
चोदिते कर्मण्य् अन्यस्मिन् नान्यत् कुर्याद् विधानवित् । न च प्रारभ्य कर्माणि स्थातव्यं क्व चिद् अन्तरे ॥

११.०३
विश्वास-प्रस्तुतिः
नापि कुर्वीत मतिमान् कदा चित् कर्मसङ्करम् । कुर्वंस् तु न तथा कर्म दोषम् उत्पादयेद् भृशम् ॥

११.०४
विश्वास-प्रस्तुतिः
अन्यथाकरणे दोषान् समीक्ष्य तु बहून् इह । सङ्कल्पवान् न समाप्तिः [सावीर्याकृतिकर्मणी] ॥

११.०५
विश्वास-प्रस्तुतिः
दृष्ट्वाद्भुतं तु कार्त्स्न्येन ततः शान्तिं समारभेत् । असमीक्ष्य तु कुर्वाणो न शान्तिं लभते नरः ॥

१२.०१
विश्वास-प्रस्तुतिः
वातिकस्य यथा वैद्यः पैत्तिकस्य च निश्चये । रोगस्य भैषजे दत्ते कर्मसिद्धिम् अवाप्नुयात् ॥

१२.०२
विश्वास-प्रस्तुतिः
तस्मात् तावत् परीक्षेत यावन् निष्पन्नम् अद्भुतम् । असदस्यसदस्यानां कर्तुः कारयितुस् तथा ॥

१२.०३
विश्वास-प्रस्तुतिः
विगुणं क्रियमाणं तु कर्म कुर्याद् उपद्रवम् । विशेषतो निहन्येत कर्तारं सपरिच्छदम् ॥

१२.०४
विश्वास-प्रस्तुतिः
हेतुश्रुतं च दृष्टं च तस्मात् सागुण्यम् आचरेत् । सगुणे च कृते तस्मिन् सर्वसम्पद् भवेद् ध्रुवम् ॥

१२.०५
विश्वास-प्रस्तुतिः
अशोकपुष्पैर् होमे तु मधुक्षीरसमन्वितैः । प्राप्नोति सुकृतैर् विप्रो गन्धर्वपदम् उत्तमम् ॥

१२.०६
विश्वास-प्रस्तुतिः
ब्रह्मादिस्तम्बपर्यन्तं यं यं कामं समीहते । तत् तत् प्राप्नोत्य् अयत्नेन सत्यम् एतद् द्विजोत्तमाः ॥