७०-३ बार्हस्पत्यानि

२२.०१

विश्वास-प्रस्तुतिः

ओम् आसीनं तु हिमवति बृहस्पतिं सुखावहम् । गौतमः परिपृच्छति विनयात् संशितव्रतः ॥

मूलम्

२२.०२

विश्वास-प्रस्तुतिः

कथम् अग्निः परीक्ष्यो ऽयं मन्त्रकर्मणि शोभनः । स्वरूपं ज्ञापय त्वं हि शुभाशुभनिबोधने ॥

२३.०१

विश्वास-प्रस्तुतिः

बृहस्पतिः प्रत्याह तं गौतम् ॥ श्वेतः सुगन्धिः पद्माभो निर्भूमो दुन्दुभिस्वनः । असक्तो ऽमुटितशिखः स्निग्धोत्थायी प्रदक्षिणः ॥

२३.०२

विश्वास-प्रस्तुतिः

हूयमानः प्रदीप्तः स्याद् दीप्ततेजाः सुखप्रदः । शान्तिकर्मणि यत्राग्निर् नियतं सिद्धिलक्षणम् ॥

२३.०३

विश्वास-प्रस्तुतिः

स्वस्तिका वर्धमाना च श्रीवत्सा च प्रदक्षिणा । ज्वालारूपेण दृश्येत सा वै श्रीः सर्वतोमुखी ॥

२३.०४

विश्वास-प्रस्तुतिः

यदा होत्र प्रसन्नेन हूयमानो यथा शिखी । घोषम् उत्पादयन् स्निग्धं कल्याणं तद् विनिर्दिशेत् ॥

२३.०५

विश्वास-प्रस्तुतिः

दीप्तश् च रत्नसङ्काशः क्षेमो दुन्दुभिवद् घनः । धूमः प्रशस्तो भवति स्वार्थसिद्धिकरो नृणम् ॥

२४.०१

विश्वास-प्रस्तुतिः

स्निग्धघोषो ऽल्पधूमश् च गौरवर्णो महान् भवेत् । पिण्डितार्चिर् वपुष्मान् वा पावकः सिद्धिकारकः ॥

२४.०२

विश्वास-प्रस्तुतिः

यदा त्व् अग्निः सर्वदिक्था ज्वालाग्रैः स्पृशते हविः । तदास्य नृपतिः शीघ्रं परराष्ट्रं च मर्दति ॥

२४.०३

विश्वास-प्रस्तुतिः

तिष्ठन्तं स्थावरं स्निग्धं श्रूयते यत्र गीतकम् । वाचः प्रसन्ना होमेषु मङ्गल्याश् चैव सिद्धये ॥

२४.०४

विश्वास-प्रस्तुतिः

कोकिलस्य मायुरस्य भासस्य कुरलस्य च । होमेषु श्रवणं चैव प्रादक्षिण्यं च शस्यते ॥

२४.०५

विश्वास-प्रस्तुतिः

शतपत्त्रा रुदन्ती च चाषस्य नन्दनं तथा । रम्भणं चैव धेनूनां हवनेषु प्रशस्यते ॥

२५.०१

विश्वास-प्रस्तुतिः

पद्मवैडूर्यनिकाशा वादित्राणां च निस्वनाः । गावः सवर्णवत्सा च दृष्टा होमे प्रशस्यते ॥

२५.०२

विश्वास-प्रस्तुतिः

विकासिपद्मसदृशः प्रसन्नार्चिर् हुताशनः । सुसमानाभिर् अर्चाभिः स्निग्धाभिर् अनुपूर्वशः ॥

२५.०३

विश्वास-प्रस्तुतिः

गम्भीरं नर्दते यत्र तद् अग्र्यं सिद्धिलक्षणम् । अक्षतान् फलपुष्पाणि वर्धमानम् अपां घटम् ॥

२५.०४

विश्वास-प्रस्तुतिः

दृष्ट्वा वा यदि वा श्रुत्वा कर्मसिद्धिं समादिशेत् । पीठछत्त्रध्वजनिभा ज्वाला वारणसन्निभाः ॥

२५.०५

विश्वास-प्रस्तुतिः

प्रशस्ता उज्ज्वलाश् चैव वज्रकुण्डलसन्निभाः । प्रदक्षिणगतिः श्रीमान् अग्निः कर्तुर् मनोहरः । यस्य स्याद् विजयं कुर्यात् क्षिप्रं नरपतेर् ध्रुवम् ॥

२६.०१

विश्वास-प्रस्तुतिः

भूम्यां मेघाभिवृष्टानां मधुपायससर्पिषाम् । कृष्णवर्त्मा सुगन्धिः स्याज् जयं क्षितिपतेर् वदेत् ॥

२६.०२

विश्वास-प्रस्तुतिः

शङ्खस्वस्तिकरूपाणि चक्ररूपं तथा गदा । शिरोमाला च दृश्येत तद् वै विजयलक्षणम् ॥

२६.०३

विश्वास-प्रस्तुतिः

घृतवर्णनिभस् त्व् अग्निः स्निग्धघोषो महास्वनः । चित्रभानुः प्रसन्नो वा नियतं सिद्धिलक्षणम् ॥

२६.०४

विश्वास-प्रस्तुतिः

मृगपक्षिण आरण्याः प्रविशन्ति यदा पुरम् । ग्राम्या वा त्यक्त्वा नगरम् अरण्यं यान्ति निर्भयाः ॥

२६.०५

विश्वास-प्रस्तुतिः

दिवा रात्रिचरा वापि रात्रौ वापि दिवाचराः । दिवा वा पुरमध्यस्था घोरं वाश्यन्ति निर्भयाः ॥

२७.०१

विश्वास-प्रस्तुतिः

राजद्वारे पुरद्वारे शिवा वाप्य् अशुभं वदेत् । [त्यक्त्वारण्यं च तिष्ठन्ति नगरं मृगपक्षिणः] ॥

२७.०२

विश्वास-प्रस्तुतिः

आषाढे श्रावणे वापि शून्यं भवति तत्पुरम् । [त्यक्त्वा सिंहाः सहरिणा मूषिकं सूकरं रुरुम् ॥

२७.०३

विश्वास-प्रस्तुतिः

दृष्ट्वा प्रविष्टान् नगरे शून्यं भवति तत्पुरम्] । अभिवाचं वदन्ते च पशव्या मृगपक्षिणः ॥

२७.०४

विश्वास-प्रस्तुतिः

श्येना गृध्रा बकाः काकाः सर्वे मण्डलचारिणः । वाशन्ते भैरवं यत्र तद् अप्य् आशु विनश्यति ॥

२७.०५

विश्वास-प्रस्तुतिः

निशायां बहवः श्वानो रोरुवन्ति यदा तु ते । हन्यमाना न गच्छन्ति तत्र वासो न रोचते ॥

२७.०६

विश्वास-प्रस्तुतिः

प्रासादध्वजशालासु प्राकारद्वारतोरणैः । गर्दभऋश्यभासानां पिण्डान् दृष्ट्वा पुरं त्यजेत् ॥

२७.०७

विश्वास-प्रस्तुतिः

पूर्वमुखश् च सन्ध्यायाम् अप्रशान्तस्वरो मृगः । ग्रामीणघातं शंसेत् स ग्रामण्यप्रतिचारतः ॥

२७.०८

विश्वास-प्रस्तुतिः

ग्रामद्वारे च वाश्येत वनाद् आगत्य जम्बुकः । तीक्ष्णस्वरेण महता दिष्टो ग्रामवधो हि सः ॥

२७.०९

विश्वास-प्रस्तुतिः

यद् याति वेश्म कपोतः प्रविशेत विशेषतः । राजवेश्मन्य् उलूको वा तत् त्याज्यम् अचिराद् गृहम् ॥

२७.१०

विश्वास-प्रस्तुतिः

अकस्माद् वेश्मप्राकारे प्रासादे तोरणे ध्वजे । पतन्ति बहवो गृध्राः काकोलूका बकैः सह ॥

२८.०१

विश्वास-प्रस्तुतिः

अथाप्य् एतेषु स्थानेषु मधु सञ्जायते यदा । नलिनी चैव वल्मीकः षण्मासैर् म्रियते नृपः ॥

२८.०२

विश्वास-प्रस्तुतिः

मृगः पशुर् वा पक्षी वा सूकरो वापि वाश्यते । यदि चोत्थाय शृणुते स मनुष्यो विनश्यति ॥

२८.०३

विश्वास-प्रस्तुतिः

काकमूषिकमार्जाराञ् श्वपतङ्गान् भयावहान् । अतीव बहुशो दृष्ट्वा दुर्भिक्षेण क्षयं वदेत् ॥

२८.०४

विश्वास-प्रस्तुतिः

श्वानः शिवाभिर् वाश्यन्तो भ्रमन्तः पुरमध्यतः । अस्थीनि वा मृतादीनां जनमारभयङ्कराः ॥

२८.०५

विश्वास-प्रस्तुतिः

काष्ठं वा यदि वा शृङ्गं गृहीत्वा शुनकः स्वयम् । ग्राममध्येन धावन् स्यात् तथैवाहुर् महद् भयम् ॥

२९.०१

विश्वास-प्रस्तुतिः

पुरोहितस् तु कुर्वीत कापोतीं शान्तिम् उत्तमाम् । देवाः कपोत इति च सूक्तं तत्र समादिशेत् ॥

२९.०२

विश्वास-प्रस्तुतिः

आवापे व्यतिषङ्गे च उपरिष्टाच् च हूयते । कामिकां दक्षिणां दद्याद् गुरुर् वा येन तुष्यति ॥

२९.०३

विश्वास-प्रस्तुतिः

देवतार्चाः प्रनृत्यन्ति दीप्यन्ति प्रज्वलन्ति वा । उद्विजन्ति रुदन्ते वा प्रस्विद्यन्ते हसन्ति वा ॥

२९.०४

विश्वास-प्रस्तुतिः

उत्तिष्ठन्ति निषीदन्ति प्रधावन्ति पिबन्ति वा । एजन्ति विक्षिपन्ते वा गात्रप्रहरणध्वजान् ॥

२९.०५

विश्वास-प्रस्तुतिः

अवाङ्मुखा वदन्ते वा स्थानात् स्थानं व्रजन्ति वा । वपन्ते वाग्निम् उदकं स्नेहं रक्तं पयो वसाम् ॥

३०.०१

विश्वास-प्रस्तुतिः

जल्पन्ति वा निश्वसन्ति विचेष्टन्ते रुदन्ति वा । चित्रं संवीक्ष्यते यत्र गात्रैर् वापि विचेष्टितैः ॥

३०.०२

विश्वास-प्रस्तुतिः

यत्रैते सम्प्रदृश्यन्ते विकाराः सहसोत्थिताः । लिङ्गायतनचैत्येषु तत्र वासो न रोचते ॥

३०.०३

विश्वास-प्रस्तुतिः

राज्ञो वा व्यसनं तत्र स वा देषः प्रलीयते । क्षुच्शस्त्रमरणैर् वापि किं चित् तत्राभिशस्यते ॥

३०.०४

विश्वास-प्रस्तुतिः

देवतायतनैर् वापि प्रयाताः सुमहोत्सवैः । जपहोमश् च कल्पन्ता सीदतां च समे पथि ॥

३०.०५

विश्वास-प्रस्तुतिः

समे पातम् अकस्माच् च उदासीनां तथैव च । दृश्यते तद् विनाशाय राज्ञो जनपदस्य वा ॥

३१.०१

विश्वास-प्रस्तुतिः

यत्र प्रस्थानि भूतानि लिङ्गस्यायतनानि च । तत्र शाम्यन्ति घोराणि जपहोमश् च कल्पते ॥

३१.०२

विश्वास-प्रस्तुतिः

प्रसादः पुण्डरीकं वा विशीर्येत पतेत वा । वातवज्रहतो वापि पुरमुख्ये भयं भवेत् ॥

३१.०३

विश्वास-प्रस्तुतिः

पितामहस्य धर्मेषु यन् निमित्तं द्विजेषु तत् । अश्वक्रान्ताग्नियानेषु यानि तानि पुरोहिते ॥

३१.०४

विश्वास-प्रस्तुतिः

पशूनां रुद्रजं ज्ञेयं नृपाणां लोकपालजम् । ज्ञेयं माण्डलिकानां च यत् तत् स्कन्दविशाखयोः ॥

३१.०५

विश्वास-प्रस्तुतिः

लौकिकं वैष्णवं ज्ञेयं वैश्वदेवं च सर्वदा । सेनापतौ गणेशानां गान्धर्वं सचिवेषु च ॥

३१.०६

विश्वास-प्रस्तुतिः

देवप्रेष्यं नृपप्रेष्ये देवस्त्रीणां नृपस्त्रियाम् । काश्यपं यन्त्रप्रासादे वास्तोष्पत्यं पुरे स्थितम् ॥

३१.०७

विश्वास-प्रस्तुतिः

कुमारीषु कुमारीजं कुमारेषु कुमारजम् । यक्षराक्षसनागैश् च यथोक्तैः पानकर्म च ॥

३२.०१

विश्वास-प्रस्तुतिः

अथातः सर्वसर्वसमुच्छयः एकम् अध्यायं व्याख्यास्यामो यथोवाच भगवान् बृहस्पतिः ॥

३२.०२

विश्वास-प्रस्तुतिः

यद् द्वादशभिर् अध्यायैर् व्याख्यानं परिकीर्तितम् । तत् समासेन भूयो ऽपि शृणु पर्यायम् आगतम् ॥

३२.०३

विश्वास-प्रस्तुतिः

पराजितो राहुनिपीडितमण्डलो विवर्णः सन्ध्याविकृतो निःप्रभो यदा । अस्तमनं याति दिवाकरः तदाशु विद्यात् सुब्रह्मजनक्षयम् ॥

३२.०४

विश्वास-प्रस्तुतिः

गृहीतो राहुणा सार्धम् उत्तिष्ठति दिवाकरः । तदा धर्मफलं क्षीणं कलिम् आविशते प्रजा ॥

३२.०५

विश्वास-प्रस्तुतिः

अमुक्तो राहुणा सार्धम् उत्तिष्ठति यदा शशी । तदा धर्मफलं क्षीणं कलिम् आविशते प्रजा ॥

३२.०६

विश्वास-प्रस्तुतिः

अमुक्तो राहुणा सार्धम् अस्तं गच्छति चन्द्रमाः । तदा ततो भयं विद्यान् मृत्युम् आविशते प्रजा ॥

३२.०७

विश्वास-प्रस्तुतिः

अवाद्यमानाः पटहाः प्रवदन्ति मुहुर्मुहुः । शस्त्राणि वाहनानि च ज्वलन्त्य् अशुभदारुणम् ॥

३२.०८

विश्वास-प्रस्तुतिः

वातप्रकोपो रजसानुविद्धा दिशश् च सन्ध्या च घनानुयाता । द्रक्षन्ति सन्ध्या यदि पञ्चवर्णा भयानि राज्ञः प्रतिवेदयन्ति ॥

३२.०९

विश्वास-प्रस्तुतिः

अनभ्रे स्तनते यत्र नभोगुल्म गुल्मायते । क्षिप्रं विद्रवते राष्ट्रं दशवर्षाणि पञ्च च ॥

३२.१०

विश्वास-प्रस्तुतिः

अनभ्रे पतते विद्युद् दर्शयेद् वाघनोत्थिताम् । अनभ्रे वापि निर्घातः पतितो राजमृत्यवे ॥

३२.११

विश्वास-प्रस्तुतिः

यद्य् अह्नि वातेषु महेन्द्ररेखा महेन्द्रचापः समुदेति रात्रौ । तदा भयं पार्थिवमण्डलानां वदन्ति शास्त्रार्थविदो द्विजेन्द्राः ॥

३२.१२

विश्वास-प्रस्तुतिः

निकल्कयुक्तो निशि सेन्द्रचापो विवर्धमानः समुदेति रात्रौ । विशीर्यमाणा पतते तथोल्का तदा भयं पार्थिवमण्डलानाम् ॥

३२.१३

विश्वास-प्रस्तुतिः

मुञ्चन्ति नागा रुधिरं करैश् च लोमानि दीप्यन्ति तुरङ्गमाणाम् । दीप्यन्ति खड्गानि च खेचराणि चिह्नानि राज्ञः प्रतिवेदयन्ति ॥

३२.१४

विश्वास-प्रस्तुतिः

गिरिवरपतनं स्वभूमिचालः प्रतिभयता च तथैव मानुषाणाम् । विकृतजननम् उक्तिम् उग्रवाचा महति भये मृगपक्षिणो वदन्ति ॥

३२.१५

विश्वास-प्रस्तुतिः

छत्त्रे गृहे वासरथे ध्वजे च धूमः समुत्तिष्ठति यस्य चाग्निः । स पार्थिवः क्षीनमनुष्यकोशः प्राप्नोति नाशं च जनक्षयं च ॥

३२.१६

विश्वास-प्रस्तुतिः

महोर्मिभिः स्वैर् विततैर् जलोघैर् नद्यः स्वकूलाच् च हरन्ति वृक्षान् । यदि प्रतिस्रोतवहास् तदा स्युर् विनाशना देशपरा नृपस्य ॥

३२.१७

विश्वास-प्रस्तुतिः

यदा तु घाते च दिवाकरप्रभाः स्वरेणुभिर् वापि विधूमसम्भ्रमाः । न तस्य वासं विषये वदन्ति आहुर् गणानां च विवृद्धिनाशः ॥

३२.१८

विश्वास-प्रस्तुतिः

हुताशनस्य् ज्वलनं निरेधं तथा न चैव ज्वलते च सेध्मा । ॥॥॥॥॥ भयानि राज्ञः प्रतिवेदयन्ति ॥

३२.१९

विश्वास-प्रस्तुतिः

शिलोच्चयानां च शिलानिपातः पुरद्रुमाणां च विषाणपातः । चैत्यद्रुमाणां च तथैव पातो भयानि राज्ञः प्रतिवेदयन्ति ॥

३२.२०

विश्वास-प्रस्तुतिः

अचाल्यवत्साः पुरगोपुरेषु भ्रमन्ति गावः कृतरौद्रशब्दाः । मृणालबाद्धाश् च गजा भवन्ति भयानि राज्ञः प्रतिवेदयन्ति ॥

३२.२१

विश्वास-प्रस्तुतिः

प्रासादगोपुरमुखाश् च पतन्ति यत्र इन्द्रध्वजोत्थितवनस्पतिवाजिनां च । तेषां वदन्ति पचनानि सुखावहानि सौम्यादि सम्प्रभयता च तथादिशन्ति ॥

३२.२२

विश्वास-प्रस्तुतिः

ऊर्ध्वं विलोक्य नगरं प्रतिसन्निविष्टाः सूर्योदये खलु रुदन्ति शिवातिरौद्रम् । गृध्राश् च मण्डलसमुत्पतिता भ्रमन्ति प्राप्तं भयं जनपदस्य समादिशन्ति ॥

३२.२३

विश्वास-प्रस्तुतिः

दण्डाशनिः पतति यत्र सविस्फुलिङ्गा भूः कम्पते दिनकरस्य भवेत् प्रशान्तिः । चन्ध्रे च यत्र विकृतं च भवेद् अशान्तं मासात् समुद्भवति तत्र भयो ऽतिघोरः ॥

३२.२४

विश्वास-प्रस्तुतिः

चैत्यद्रुमाणां रुधिरप्रकोपाः कबन्धयानानि भवन्ति यत्र । सन्ध्यासु रक्षो ऽधिपतेर् जनानां प्रभूति राज्ञो ऽतिभये भवन्ति ॥

३२.२५

विश्वास-प्रस्तुतिः

वृष्टिर् यदा वर्षति रेणुवर्षैस् ततोपरिष्टाद् धरितालवर्षम् । ततः परं वर्षति शैलवर्षं तदा बलं नश्यति पार्थिवस्य ॥

३२.२६

विश्वास-प्रस्तुतिः

आरण्यो ग्रामवासी मृगशकुनिगणो ग्रामवासी वनान्ते गृध्राणां सन्निपातो नरपतिभवने गोपुरे वा पुरे वा । यत्र स्यान् मानुषीणां खरकरभमुखानेकरूपा प्रसूतिस् तत्स्थाने जीवितार्थी स्थितिम् अति कुरुते नैव पातैः प्रदुष्टे ॥

३२.२७

विश्वास-प्रस्तुतिः

प्रयान्ति देवाः सहसायतस्था वनानि वा यत्र पतन्ति भूमौ । स्थानानि मुच्यन्ति नदन्ति के चित् तथा परं शोणितजग्धगात्राः ॥

३२.२८

विश्वास-प्रस्तुतिः

उत्पातसङ्घैर् अत्युग्रैः क्षात्रहानिः प्रजायते । लोकानां पीडनं चैव रोगचौराग्निसम्भवम् ॥

३२.२९

विश्वास-प्रस्तुतिः

अग्नीनां सम्प्रदोषाः प्रतिभयजनना दीप्यमाना दिशश् च मध्याह्ने चान्तरिक्षे ग्रहगणखचिता गृध्रसङ्घैः प्रकीर्णाः । निर्घातैः पांसुवर्षैः सततमलिनता भूप्रचालश् च घोरो देवानां चाश्रुपातो नृपतिभयकरा राष्ट्रनाशाय चैते ॥

३२.३०

विश्वास-प्रस्तुतिः

शिवादये यत्र दिवाकरस्य ज्वालाविमुच्य् ऊर्ध्वमुखी प्ररोदिति । समावृता वायसगृध्रसङ्घैस् तदा भयं वेदविदो वदन्ति ॥

३२.३१

विश्वास-प्रस्तुतिः

रुदन्ति नागास् तु विमुक्तहस्ता विमुक्तदन्तास् तुरगा रुदन्ति । रुदन्ति नार्यश् च समागमे च तदा भयं स्याच् छ्रुतिलिङ्गमूलम् ॥

३२.३२

विश्वास-प्रस्तुतिः

यदा तु वस्त्राणि वरद्रुमाणां प्रकाशवृष्ट्या निपतन्ति मूर्ध्नि । समीक्ष्य पातं च यथार्थदृष्टं भयाय राष्ट्रस्य नृपस्य विद्यात् ॥

३२.३३

विश्वास-प्रस्तुतिः

शकटाद्यानि यानानि यदायुक्तानि सञ्चलेत् । तदा जनपदे विद्यान् महाभयम् उपस्थितम् ॥

३२.३४

विश्वास-प्रस्तुतिः

यथैव नित्यं दृश्यन्ते तथैव समुदाहरेत् । न तस्यातिक्रमः कश् चिद् अकृते शान्तिकर्मणि ॥

३२.३५

विश्वास-प्रस्तुतिः

क्षयो जनपदस्त्रीणां विद्याद् गजपुरोहिते । जपं होमं च शान्तिं च उत्पातेषु प्रयोजयेत् ॥

३२.३६

विश्वास-प्रस्तुतिः

विशेषेणामृतां कुर्याद् बृहस्पतिवचो यथा । होमं लक्षमितं कुर्याज् जपेद् वा वेदसंहिताम् । दानानि तु हिरण्यानि शान्तिकर्मणि योजयेत् ॥