७०-२ गार्ग्याणि

०१.०१

विश्वास-प्रस्तुतिः

ॐ प्रणम्य विष्टरासीनां ब्रह्माणं कविसत्तमम् । प्रणम्य शिरसा देवं गौतमः पर्यपृच्छत ॥

मूलम्

०१.०२

विश्वास-प्रस्तुतिः

अद्भुतानि सुरश्रेष्ठ प्रजानाम् अहिताय वै । शमनं च तथा तेषां प्रब्रूहि विनयेन मे ॥

०१.०३

विश्वास-प्रस्तुतिः

तस्य तद् वचनं श्रुत्वा ब्रह्मा लोकपितामहः । अब्रवीत् परमः प्रीतः सर्वोत्पातप्रतिक्रियाम् ॥

०१.०४

विश्वास-प्रस्तुतिः

शृणु वत्स यथान्यायं द्वादशाध्यायसङ्ग्रहम् । प्रच्यमानम् अशेषं तं वातवैकृतनोदितम् ॥

०१.०५

विश्वास-प्रस्तुतिः

यस्माच् च वायुर् वलवाञ् श्रेष्ठः सर्वाद्भुतोद्भवः । तस्मात् तम् एव प्रथमं प्रवक्ष्यामि यथाविधि ॥

०२.०१

विश्वास-प्रस्तुतिः

यान्ति यानान्य् अयुक्तानि विना नृभिस् तथा । युक्तानि वा न गच्छन्ति नरेन्द्राणां महद् भयम् ॥

०२.०२

विश्वास-प्रस्तुतिः

भेर्यो मृदङ्गाः पटहा वाद्यन्ते वाप्य् अनाहताः । आहताश् च न वाद्यन्ते अचलानि चलन्ति वा ॥

०२.०३

विश्वास-प्रस्तुतिः

अरण्ये तूर्यनिर्घोषो यदि श्रूयेत नाभसः । शरीरं व्यथते तत्र यदि वा वेश्मनि श्रुतः ॥

०२.०४

विश्वास-प्रस्तुतिः

श्रूयन्ते च महाशब्दा गीतगान्धर्वनिस्वनाः । शरीरं बाध्यते तत्र व्याधिर् वा सुमहान् भवेत् ॥

०२.०५

विश्वास-प्रस्तुतिः

कोष्ठे वा पतते यत्र हस्ताद् दर्वी कदा चन । पतते मुसलं चापि शूर्पं वा धूयते यदि ॥

०३.०१

विश्वास-प्रस्तुतिः

गोलाङ्गलानां संसर्गो विकारश् चन्द्रसूर्ययोः । नारीं वा धयते नारी जायते तुमुलं भयम् ॥

०३.०२

विश्वास-प्रस्तुतिः

प्रत्याहरन्ति सर्पन्ति स्तम्भप्रासादपादपाः । शयनासनयानानि नियतं नृपतेर् वधः ॥

०३.०३

विश्वास-प्रस्तुतिः

वाति चाकालिलो वायुर् घोरः शर्करकर्षणः । पातयन् वृक्षवेश्मानि कल्पान्त इव भीषणः ॥

०३.०४

विश्वास-प्रस्तुतिः

सप्ताहम् अथ वा पक्षं निबध्नात्य् अतिदारुणम् । त्र्यहाद् यदि न वर्षेत घोरं शस्त्रभयं भवेत् ॥

०३.०५

विश्वास-प्रस्तुतिः

वायव्येष्व् एव नृपतिर् वायुं सप्तभिर् अर्चयेत् । द्वाव् इमाव् इति तिस्रो हि जप्तव्याः प्रयतैर् द्विजैः ॥

०४.०१

विश्वास-प्रस्तुतिः

बह्वन्नदक्षिणो होमः कर्तव्यो ऽतिप्रयत्नतः । वायव्याम् एव शान्तौ च वायोः सवितुर् आवपेत् ॥

०४.०२

विश्वास-प्रस्तुतिः

आदाव् अन्ते च मध्ये च तथैवम् अनुयोजयेत् । गुरवे दक्षिणां दद्याद् वायवीशान्तिसिद्धये ॥

०४.०३

विश्वास-प्रस्तुतिः

यमकं जायते पुष्पं फलं वा यमकं यदि । कुमुदोत्पलपद्मानि एकनाले बहून्य् अपि ॥

०४.०४

विश्वास-प्रस्तुतिः

बहुशीर्षा द्विशीर्षा वा तथान्यप्रसवा अपि । यवा वा व्रीहयो वापि स्वामिनो मरणाय ते ॥

०४.०५

विश्वास-प्रस्तुतिः

एकवृक्षे च सम्पश्येन् नानात्वं फलपुष्पयोः । व्यत्यासम् अन्यथात्वं वा परचक्रागमो भवेत् ॥

(५) [थे मनुस्च्रिप्त्स् चोन्तैन् नो खण्डिका ड़िवे।]

०६.०१

विश्वास-प्रस्तुतिः

अनृतु फलपुष्पं वा न यथर्तु फलन्ति वा । ओषधीवीरुधो वापि जनमारभयं भवेत् ॥

०६.०२

विश्वास-प्रस्तुतिः

अथ धान्यविपर्यासे अभद्रं चापि शंसति । तिला वा समतैलाः स्युः सुरातैला भवन्ति वा ॥

०६.०३

विश्वास-प्रस्तुतिः

अग्राम्यं कारयेत् पुष्पं फलं वा विकृतं नृपः । धान्यानां वैकृते क्षेत्रं सह सस्येन दापयेत् ॥

०६.०४

विश्वास-प्रस्तुतिः

सौर्यं चरुं पुष्पफले विकृते पशुम् एव च । क्षैत्रपत्यं च भौमं च निर्वपेत् सस्यवैकृते ॥

०६.०५

विश्वास-प्रस्तुतिः

सौर्यी शान्तिः प्रयोक्तव्या सौर्यैर् मन्त्रैर् यथाविधि । उच्चा पतन्तम् इत्य् ऋग्भ्यां गर्भं तु परिकीर्तितम् ॥

०७.०१

विश्वास-प्रस्तुतिः

भौमेन चानुवाकेन गर्भयेत् सस्यवैकृते । सदक्षिणैर् द्विजैर् भुक्तैः कर्तारं चार्चयेत् ततः ॥

०७.०२

विश्वास-प्रस्तुतिः

पुरेषु येषु दृश्यन्ते पादपा देवचोदिताः । रुदन्तो वा हसन्तो वा स्रवन्तो वा बहून् रसान् ॥

०७.०३

विश्वास-प्रस्तुतिः

अरोगा वा निवाते च शाखा मुञ्चन्त्य् असम्भ्रमे । फलं पुष्पं तथा बाला दर्शयन्तीति हासनम् ॥

०७.०४

विश्वास-प्रस्तुतिः

सर्वावस्थां दर्शयन्तः फलपुष्पम् अनार्तवम् । [क्षिप्रं तत्र भयं घोरं घोरं प्रवर्य्तेत चतुर्विधम् ॥

०७.०५

विश्वास-प्रस्तुतिः

सर्पान् मत्स्यान् पक्षिणो वा यत्र देवः प्रवर्षति । तत्र सस्योपघातः स्याद् भयं वातिप्रवर्तते ॥

०७.०६

विश्वास-प्रस्तुतिः

सुरासवं तथा क्षौद्रं सर्पिस् तैलं तथा दधि । यत्र वर्षति पर्जन्यः क्षुद्रगस् तत्र जायते ॥

०७.०७

विश्वास-प्रस्तुतिः

उल्काताराश् च धिष्ण्येषु यदाङ्गारांश् च वर्षति । तदा व्याधिभयं घोरं तेषु देशेषु निर्दिशेत् ॥

०७.०८

विश्वास-प्रस्तुतिः

नाराचाः शक्तयः खड्गाः प्रदीप्यन्ते यदा मुहुः । तदा शस्त्रभयं घोरं तेषु देशेषु निर्दिशेत् ॥

०७.०९

विश्वास-प्रस्तुतिः

पुमान् अश्वो गजो वापि यदा यत्र प्रदीप्यते । नश्यन्ति सेवकास् तत्र प्रधानश् च विनङ्क्ष्यति ॥

०७.१०

विश्वास-प्रस्तुतिः

यत्र स्रवेच् चैत्यवृक्षः सहसा विविधान् रसान् । पृथक्पृथक् समस्तान् वा तत् प्रवक्ष्यामि लक्षणम् ॥

०७.११

विश्वास-प्रस्तुतिः

घृते मधुनि दुग्धे च घृते दुग्धे तथाम्भसि । क्षौद्रे मधुनि पानीये घृते चैवापरं पयः ॥

०७.१२

विश्वास-प्रस्तुतिः

यत्रैतच् च महोत्पातं वृक्षेषु स्यात् सुदारुणम् । सुरासवे मिथोभेदः शोणिते शस्त्रपातनम् ॥

०७.१३

विश्वास-प्रस्तुतिः

तैले प्रधाना वध्यन्ते भक्ते क्षुद्भयम् आदिशेत् । अनृतौ चेत् फलं यत्र पुष्पं वा दृश्यते द्रुमे ॥

०७.१४

विश्वास-प्रस्तुतिः

ध्रुवं स्याद् दशमे मासि राज्ञस् तत्र विपर्ययः । पुष्पे पुष्पं भवेद् यत्र फले चैव तथा फलम् ॥

०७.१५

विश्वास-प्रस्तुतिः

पर्णे पर्णं विजानीयात् तत्र नानाविधं भयम् । शुक्लेन वाससा यत्र चैत्यवृक्षः समावृतः ॥

०७.१६

विश्वास-प्रस्तुतिः

ब्राह्मणानां भयं घोरं तदा तीव्रं विनिर्दिशेत् । रक्तवस्त्रावृतैश् चान्यैः क्षत्रैयाणां महाभयम् ॥

०७.१७

विश्वास-प्रस्तुतिः

पीतवस्त्रैश् तु वैश्यानां शूद्राणां कृष्णवाससैः । नीलैः सस्योपघाताय मिश्रैस् तु मृगपक्षिणाम् ॥

०७.१८

विश्वास-प्रस्तुतिः

विवर्णैर् वायवस् तीव्राः परं स्युर् दशमासतः । दैवतानि प्रलपन्ति यस्य राष्ट्रे हसन्ति वा ॥

०७.१९

विश्वास-प्रस्तुतिः

उदीक्षन्ते पुरो वापि तत्र विद्यान् महद् भयम् । विहसन्ति निमीलन्ति लिङ्गानि विकृतानि च ॥

०७.२०

विश्वास-प्रस्तुतिः

मासान्तरेण जानीयात् तत्र तत्र महद् भयम् । यत्र चित्रम् उदीक्षेत गायते चेष्टते मुहुः ॥

०७.२१

विश्वास-प्रस्तुतिः

एतेष्व् अष्टसु मासेषु राज्ञो मरणम् आदिशेत् । चित्राणि यत्र लिङ्गानि तथैवायतनानि च ॥

०७.२२

विश्वास-प्रस्तुतिः

विकारं कुर्युर् अत्यर्थं तत्र विद्यान् महाभयम् । उत्पाटनं तदागानां सरसो वा ड़िरेस् तथा ॥

०७.२३

विश्वास-प्रस्तुतिः

समुद्देशे प्रदीप्यन्ते विद्यात् तत्र भयं महत् । यत्र वृक्षा अकालीनं दर्शनं फलपुष्पयोः] ॥

०७.२४

विश्वास-प्रस्तुतिः

क्षीरं स्नेहं सुरां रक्तं मधु तोयं स्रवन्ति वा । शूष्यन्त्य् अरोगाः सहसा शुष्का रुहन्ति वा पुनः ॥

०७.२५

विश्वास-प्रस्तुतिः

उत्तिष्ठन्ति निषीदन्ति तत् प्रवक्ष्यान्य् अतः परम् ॥

०८.०१

विश्वास-प्रस्तुतिः

हसने देहनाशः स्याद् योधा नश्यन्ति शखया । सम्भ्रमो देशनाशाय फली शिल्पिक्षयाय च ॥

०८.०२

विश्वास-प्रस्तुतिः

बालानां मरणं कुर्याद् बालानां फलपुष्पता । स्वराष्ट्रभेदं कुरुते फलपुष्पम् अनार्तवम् ॥

०८.०३

विश्वास-प्रस्तुतिः

क्षयः क्षीरस्रवे ज्ञेयः स्नेहे दुर्भिक्षलक्षणम् । वाहनापचयं मद्ये रक्ते सङ्ग्रामम् आदिशेत् ॥

०८.०४

विश्वास-प्रस्तुतिः

मधुस्रावे भवेद् व्याधिर् जलस्रावे न वर्षति । अरोगा यदि शुष्यन्ते विद्याद् दुर्भिक्षलक्षणम् ॥

०८.०५

विश्वास-प्रस्तुतिः

भेदः स्वपतितोत्थाने रुदत्स्व् अन्नक्षयो भवेत् । जल्पने धननाशः स्याद् गुल्मवल्लीलतासु च ॥

०९.०१

विश्वास-प्रस्तुतिः

पूजितानां जलस्रुतौ राज्ञो मृत्युं समादिशेत् । आच्छादयित्वा तं वृक्षां गन्धमाल्यैर् विभूषयेत् ॥

०९.०२

विश्वास-प्रस्तुतिः

भोजनं चात्र विप्राणां मधुसर्पिःसमन्वितम् । छत्त्रध्वजं च दातव्यं पर्णहोमस् तथा परम् ॥

०९.०३

विश्वास-प्रस्तुतिः

मन्त्रैर् औषधसंयुक्तैर् भ्वोरदाबन् अतः परम् । बलिं चैवोपहारांश् च गीतनृत्यं समन्ततः ॥

०९.०४

विश्वास-प्रस्तुतिः

गन्धमाल्यं च धूपं च दीपं दद्यात् तथैव च । भक्षभोज्यान्नपानं च रुद्रस्योपहरेन् निशि ॥

०९.०५

विश्वास-प्रस्तुतिः

पाकश् च दशमे मासि शुक्रस्य वचनं यथा । बृहस्पतिस् तथादित्ये ब्रुवेते यत् तथैव तत् ॥

१०.०१

विश्वास-प्रस्तुतिः

रौद्री चैवात्र कर्तव्या वृक्षाद्भुतविनाशिनी । दुरवे दक्षिणां दद्यान् निष्कं भूमिं च तत्र वै ॥

१०.०२

विश्वास-प्रस्तुतिः

अकालप्रसुवो नार्यः कालातीताः प्रजास् तथा । सम्बद्धयुग्मप्रसवा द्वियुग्मप्रसवा अपि ॥

१०.०३

विश्वास-प्रस्तुतिः

अमानुषाणि रुण्डानि सञ्जायन्ते यदा स्त्रियाम् । अत्यङ्गानि अनङ्गानि हीनाङ्गान्य् अथ वा पुनः ॥

१०.०४

विश्वास-प्रस्तुतिः

चतुष्पत्पक्षिसदृशान्य् अर्धमानुषवन्ति च । विनाशस् तत्स्य देशस्य कुलस्य च विनिर्दिशेत् ॥

१०.०५

विश्वास-प्रस्तुतिः

अप्राप्तवयसो गर्भो द्विचतुष्पत्स्त्रियो ऽपि वा । विध्वस्तं विकृतं चापि प्रजायेत भयाय तत् ॥

११.०१

विश्वास-प्रस्तुतिः

तान्य् आशु परभूमिषु त्यक्तव्यानि शुभार्थिभिः । शान्तिश् चात्र प्रकर्तव्या ब्राह्मणैर् ब्रह्मवादिभिः ॥

११.०२

विश्वास-प्रस्तुतिः

वडवा हस्तिनी गौर् वा यदि युग्मं प्रसूयते । विजातं विकृतं वापि षण्मासैर् म्रियते नृपः ॥

११.०३

विश्वास-प्रस्तुतिः

अपत्यानि च यूथेभ्यस् त्याज्यानि परभूमिषु । स्वामिनो नगरं यूथम् अन्यथा तु विनाशयेत् ॥

११.०४

विश्वास-प्रस्तुतिः

वियोनिषु यदा यान्ति ंश्रीभावः प्रजास्व् अपि । खरोष्ट्रहयमातङ्गाः पक्षिणो वा न साधु तत् ॥

११.०५

विश्वास-प्रस्तुतिः

अकाले वापि माद्यन्ते काले वापु अमदा यदि । शिवोष्ट्रहयमातङ्गाः पक्षिणो वा न साधु तत् ॥

१२.०१

विश्वास-प्रस्तुतिः

अथानड्वान् अनड्वाहं धेनुर् धेनुं पिबेद् यदि । शुनी वा धयते धेनुं शुनीं धेनुर् अथापि वा ॥

१२.०२

विश्वास-प्रस्तुतिः

[तिर्यग्योनौ मानुषी वा परचक्रागमो भवेत् । अमानुषा मानुषाणि जलपन्ते प्राणिनो यदि ॥

१२.०३

विश्वास-प्रस्तुतिः

विचेष्टां वा विरावं वा मासेन म्रियते नृपः] । चतुष्पत्पक्षिभुजगान् मानुषी जनयेद् यदि ॥

१२.०४

विश्वास-प्रस्तुतिः

तिर्यग्योनौ मानुषं वा परचक्रागमो भवेत् । जङ्गमे स्थावरं जातं स्थावरे वाथ जङ्गमम् ॥

१२.०५

विश्वास-प्रस्तुतिः

तस्मिन् योनिविपर्यासे परचक्रागमो भवेत् । त्यागो विवासो दानं वा दत्त्वाप्य् आशु शुभं भवेत् ॥

१३.०१

विश्वास-प्रस्तुतिः

स्थालीपाकेन यष्टव्यं पशुना वा पुरोहितः । प्राजापत्येन मन्त्रेण यजेद् बह्वन्नदक्षिणाम् ॥

१३.०२

विश्वास-प्रस्तुतिः

याम्याकर्मप्रयोगस् तु प्रथमं तत्र दृश्यते । प्राजापत्यां ततः शान्तिं प्राजार्थी कारयेन् नृपः ॥

१३.०३

विश्वास-प्रस्तुतिः

आदाव् अन्ते च मध्ये च शान्ताव् उक्तस् तु तद्गणः । आरोग्यं च शिवं चैव देशे तस्मिन् नृपे भवेत् ॥

१३.०४

विश्वास-प्रस्तुतिः

यत्राद्भुतानि दृश्यन्ते विचित्राणि समन्ततः । सुसमृद्धो ऽपि देशः स क्षिप्रम् एव विनश्यति ॥

१३.५

विश्वास-प्रस्तुतिः

राजवेश्मसु वैकृत्ये प्रासादध्वजतोरणे । औत्पातिकानि दृश्यन्ते राज्ञस् तत्र महद् भयम् ॥

१४.१

विश्वास-प्रस्तुतिः

प्रासादतोरणाट्टालद्वारप्रासादवेश्मनाम् । अकस्मात् पतनं तेषां राजमृत्युकरं स्मृतम् ॥

१४.२

विश्वास-प्रस्तुतिः

देवराजध्वजानां च पतनं भङ्ग एव वा । निषेवणं वा क्रव्यादैः॥॥॥॥॥प्रभ्रष्टैर् वीतरश्मिकैः ॥

१५.१

विश्वास-प्रस्तुतिः

प्रभ्रष्टग्रहनक्षत्रैर् दिशः सर्वाः समाकुलाः । सन्ध्या चोभयथा दीप्ता तत्र विद्यान् महद् भयम् ॥

१५.२

विश्वास-प्रस्तुतिः

यदि वा दीर्यते ऽकस्माद् भूमिश् छिद्रीभवेद् यदि । प्रकम्पते ऽतिमात्रं वा सर्वेषु च भयाय तत् ॥

१५.३

विश्वास-प्रस्तुतिः

रक्षःपतङ्गैः पन्थानो न वहन्ति भयान्विताः । रक्षोरूपाणि दृश्यन्ते न च रक्षा गृहेष्व् अपि ॥

१५.४

विश्वास-प्रस्तुतिः

सम्प्रविष्टैः पिशाचैर् वा रक्षोभिर् वापि तन्निभैः । अचिरान् नगरं तत्र जनमारेण मार्यते ॥

१५.५

विश्वास-प्रस्तुतिः

ऋतवस् तु विपर्यस्ता ब्राह्मणाश् च विधर्मिणः । नक्षत्राणि वियोगीनि भयम् ईदृक् प्रदर्शनम् ॥

१६.१

विश्वास-प्रस्तुतिः

अपूज्या यत्र पूज्यन्ते न पूज्यन्ते च पूजिताः । पूज्येष्व् अदाननिष्ठा च भयम् ईदृक् प्रदर्शनम् ॥

१६.२

विश्वास-प्रस्तुतिः

नादीयन्ते न पूज्यन्ते ब्राह्मणा बलिभिः सुराः । न चैवात्मीयधर्मेषु रतिं कुर्वन्त्य् अधर्मतः ॥

१६.३

विश्वास-प्रस्तुतिः

भिन्नाः कौटिल्यबहुला गजाः पुरुषवाजिनः । कलहे स्युर् निरुत्साहाः ससत्याः सत्यवर्जिताः ॥

१६.४

विश्वास-प्रस्तुतिः

शीलाचारविहीनाश् च मद्यमांसानृतप्रियाः । नग्नपाषण्डभूयिष्ठा विनाशे पर्युपस्थिते ॥

१६.५

विश्वास-प्रस्तुतिः

महाबलिं महाशान्तिं भोज्यानि सुमहान्ति च । प्राजापत्यं महेन्द्रं च महादेवम् अथापि वा ॥

१७.१

विश्वास-प्रस्तुतिः

ऐन्द्रस्थाने तु माहेन्द्रीं रौद्रे रौद्रीं प्रयोजयेत् । गवाम् अष्टशतं दद्याद् विप्रेभ्यो मनुजाधिपः ॥

१७.२

विश्वास-प्रस्तुतिः

गुरवे तु शतं निष्कं प्रजास्व् एवं शिवं भवेत् । अनावृष्ट्यातिवृष्ट्या वा दुर्भिक्षेण भयं भवेत् ॥

१७.३

विश्वास-प्रस्तुतिः

अकालवर्षो रोगाय अतिवृष्टिर् भयाय च । अनभ्रं वर्षते ऽकस्माद् वैद्युतं गर्जितं तथा ॥

१७.४

विश्वास-प्रस्तुतिः

अनभ्रे वापि निर्घातः पतितो राजमृत्यवे । तीक्ष्णं च वर्षत्य् अनृतौ ऋतुष्व् एव न वर्षति ॥

१७.५

विश्वास-प्रस्तुतिः

यदा चोष्णे भवेच् छीतं शीते चोष्णं तथैव च । दृष्टो भावस् तु विकृतो न यथर्तु स्वरूपकः ॥

१७.६

विश्वास-प्रस्तुतिः

अनारोग्यं भवेच् चैव प्रजानाम् इति निर्दिशेत् ॥

१८.१

विश्वास-प्रस्तुतिः

सप्तरात्रं यदा वर्षेत् प्रबद्धं पाकशासनः । अनृतौ तस्य देशस्य प्रधानस्य वधो ध्रुवम् ॥

१८.२

विश्वास-प्रस्तुतिः

शोणितं वर्षते यत्र तत्र शस्त्रभयं भवेत् । मज्जास्थिस्नेहमांसं वा जनमारीभयं भवेत् ॥

१८.३

विश्वास-प्रस्तुतिः

अङ्गारपांसुवृष्टेस् तु नगरं तद् विनश्यति । फलं पुष्पं शमीधान्यं हिरण्यं वा भयाय तत् ॥

१८.४

विश्वास-प्रस्तुतिः

जन्तवो दीनविकृताः पलालो ऽपि विनाशनः । छिद्रावर्ताः प्लवङ्गश् च सस्यानाम् अतिवर्धनम् ॥

१८.५

विश्वास-प्रस्तुतिः

अनभ्रे वा दिवा रात्रौ श्वेतम् इन्द्रायुधं भवेत् । पूर्वपश्चादुत्तरे वा दक्षिणे वापि दृश्यते ॥

१८.६

विश्वास-प्रस्तुतिः

सुसमृद्धम् अपि स्थानं दुर्भिक्षेण विनश्यति ॥

१९.१

विश्वास-प्रस्तुतिः

यद्य् अनभ्रे ऽपि विमले सूर्यछाया न दृश्यते । न निरभ्रे प्रतीपा वा तत्र देशभयं भवेत् ॥

१९.२

विश्वास-प्रस्तुतिः

सूर्येन्द्रवायुपर्जन्या यष्टव्या वर्षवैकृते । अन्नानि सहिरण्यानि धान्यं गावश् च दक्षिणाः ॥

१९.३

विश्वास-प्रस्तुतिः

वैश्वदेवी च कर्तव्या सर्वाद्भुतविनाशिनी । गुरवे च हयः श्वेतः सर्वलक्षणलक्षितः ॥

१९.४

विश्वास-प्रस्तुतिः

शतं निष्कं सुवर्णस्य दातव्यं वा गवां शतम् ॥

१९.५

विश्वास-प्रस्तुतिः

अथातो ऽग्निवैकृतम् अध्यायं व्याख्यास्यामो यथोवाच भगवाञ्शुक्रः ॥

१९.६

विश्वास-प्रस्तुतिः

अनिन्धनो ऽग्निर् दीप्येत यत्र तूर्णम् अघस्वनः । न दीप्यते सेन्धनो वा सराष्ट्रं पीडयेन् नृपम् ॥

१९.७

विश्वास-प्रस्तुतिः

प्रज्वलेद् दधि मांसं वा तथा दूर्वापि किं चन । अग्निं विना यदाशुष्कं नियतं नृपतेर् वधः ॥

२०.१

विश्वास-प्रस्तुतिः

प्रासादं तोरणं द्वारं प्राकारं काश्यपं गृहम् । शयनासनयानं च ध्वजं छत्त्रं सचामरम् ॥

२०.२

विश्वास-प्रस्तुतिः

अनग्निना यदि दहेद् विद्युता वापि निर्दहेत् । सप्ताहाभ्यन्तरे तत्र नियतं नृपतेर् वधः ॥

२०.३

विश्वास-प्रस्तुतिः

अनिशायां तमांसि स्युर् यदि वा पांसवो रजः । धूमाश् चानग्निजा यत्र तत्र विद्यान् महद् भयम् ॥

२०.४

विश्वास-प्रस्तुतिः

रात्रौ दिवा चानभ्रे वा यदि ज्वाला प्रदृश्यते । गर्हितं ज्योतिषां चैव दर्शनं वा भवेन् निशि ॥

२०.५

विश्वास-प्रस्तुतिः

पुराणां चैव पतनं ज्वलतां च मुहुर्मुहुर् । दृश्यते ऽन्यच् च सहसा तत्राप्य् अग्निभयं वदेत् ॥

२१.१

विश्वास-प्रस्तुतिः

प्रासादादिषु चैत्येषु यदि धूमो विनाग्निना । भवत्य् अग्निर् अधूमो वा तथैवातिभयावहः ॥

२१.२

विश्वास-प्रस्तुतिः

ज्वलन्ति यदि शस्त्राणि विनमन्त्य् उन्नमन्ति वा । कोशेभ्यो वापि निर्यान्ति सङ्ग्रामस् तुमुलो भवेत् ॥

२१.३

विश्वास-प्रस्तुतिः

प्रदीप्यन्ते च सहसा चतुष्पत्पक्षिमानुषाः । वृक्षा वा पर्वता वापि तत्र विद्यान् महद् भयम् ॥

२१.४

विश्वास-प्रस्तुतिः

शयनासनयानेषु केशप्रावरणेषु च । दृश्यते ऽतीव सहसा तत्राप्य् अग्निभयं भवेत् ॥

२१.५

विश्वास-प्रस्तुतिः

गर्जन्त्य् आयुधशस्त्राणि विनमन्त्य् उन्नमन्ति वा । धनुना सह वा बाणाः सङ्ग्रामस् तुमुलो भवेत् ॥

२२.१

विश्वास-प्रस्तुतिः

समिद्भिः क्षीरऋक्षाणां सर्षपैस् तु घृतेन च । होतव्यो ऽग्निः स्वकैर् मन्त्रैः मन्त्रैः सुवर्णं चात्र दक्षिणा ॥

२२.२

विश्वास-प्रस्तुतिः

पायसं सर्पिषा मिश्रं द्विजातीन् भोजयेत् ततः । तेभ्य एव यथाशक्त्या दक्षिणां दापयेन् नृपः ॥

२२.३

विश्वास-प्रस्तुतिः

अग्निर् भूम्याम् इति त्रिभिर् आग्नेयं तत्र कारयेत् । गुरवे दक्षिणां दद्यान् निष्कम् अश्वं च सुन्दरम् ॥

२३.१

विश्वास-प्रस्तुतिः

गार्ग्येणोक्तं प्रवक्ष्यामि कृत्स्नम् उत्पातलक्षणम् । भूमिकम्पो भवेद् यत्र देवताप्रतिमा हसेत् ॥

२३.२

विश्वास-प्रस्तुतिः

देवता भ्रमते यत्र मृत्युस् तत्र विनिर्दिशेत् । गर्जनं वापि कूपानाम् उपसर्गस् तु जायते ॥

२३.३

विश्वास-प्रस्तुतिः

प्रतिस्रोतवहा नद्यो भवन्ति च कथं चन । षड्भिर् मासैर् विजानीयात् परचक्राभिमर्शनम् ॥

२३.४

विश्वास-प्रस्तुतिः

अकालजं फलं पुष्पं शीतोष्णत्वम् अकालजम् । अन्यं स्वामिनम् इच्छन्ति नद्यश् चाकालसम्भवाः ॥

२३.५

विश्वास-प्रस्तुतिः

अचलं च चलं यत्र चलं वा अचलं भवेत् । राजा विनश्यते तर देशो वापि विनश्यति ॥

२३.६

विश्वास-प्रस्तुतिः

दिवा तारा यत्र पश्येच् छ्वेतः पक्ष्य् अथ वा भवेत् । रात्रौ चेन्द्रायुधं पश्येद् देशभङ्गं विनिर्दिशेत् ॥

२३.७

विश्वास-प्रस्तुतिः

शशकं जम्बुकं वापि सूकरं हरिणं तथा । स्थानमध्ये यदा पश्येच् छून्यं भवति निश्चयम् ॥

२३.८

विश्वास-प्रस्तुतिः

अरण्यमृगजातीयाः स्वयं यान्ति नृपालयम् । तत् स्थानं तु भवेच् छून्यं भग्नप्राकारतोरणम् ॥

२३.९

विश्वास-प्रस्तुतिः

प्राकारवेश्मभिट्टीषु तोरणे गोकुले ऽपि वा । मधूनि यत्र दृश्यन्ते तत्र वै कस्य किं फलम् ॥॥॥॥॥॥॥॥॥॥॥॥॥

२३.१०

विश्वास-प्रस्तुतिः

कालनष्टपथं सीमां तृणवल्लीसमाकुलाम् । स देशो मानुषैर् मुक्तो मृगाणां गोचरो भवेत् ॥

२३.११

विश्वास-प्रस्तुतिः

प्रत्यादित्यं यदा पश्येत् पुरे देवकुले ऽपि वा । अपि शक्रसमो राजा अब्दमध्ये विनश्यति ॥

२३.१२

विश्वास-प्रस्तुतिः

वापीकूपतडागेषु नद्यां वा तरते शिला । राजभङ्गं भवेच् चैव चौरव्याधिभयं तथा ॥

२३.१३

विश्वास-प्रस्तुतिः

राजगामिषु पुष्पेषु वस्त्रेष्व् आभरणेषु च । अनग्निना यदि दहेत् परिघं तत्र वै ध्रुवम् ॥

२३.१४

विश्वास-प्रस्तुतिः

तत् पातपरित्यक्त कदा चिद् अपि बुधस्यादयं भवति । दहनं पवनजलमरणरोगरक्षक्षयाय बुद्धिवाक् करोति बुधः ॥

२३.१५

विश्वास-प्रस्तुतिः

तत्र कुर्यान् महाशान्तिम् अमृतां विश्वभेषजीम् ॥