६९ अथर्वहृदयम्

०१.०१

विश्वास-प्रस्तुतिः

ओम् उपसङ्गम्य मुनयः सर्वज्ञं शान्तमानसम् । अपृच्छन् गतमात्स्यर्यं भृगुं ब्रह्मविदां वरम् ॥

मूलम्

०१.०२

विश्वास-प्रस्तुतिः

कामा हि बहवो लोके संस्थिता भिन्नसाधनाः । एकम् एव परं तेषां सम्यक् त्वं ब्रूह्य् असंशयम् ॥

०१.०३

विश्वास-प्रस्तुतिः

समासेन प्रवक्ष्यामि येन सर्वं प्रदद्यते । अतिप्रश्नो ऽयम् उद्गीर्णस् तथापि कथयाम्य् अहम् ॥

०१.०४

विश्वास-प्रस्तुतिः

सर्वार्थसाधनार्थाय श्रुतिर् आङ्गिरसी हिता । स्वतेजसा प्रज्वलन्ती हृदयं तद् अथार्वणाम् ॥

०१.०५

विश्वास-प्रस्तुतिः

प्रभावं तस्य वक्ष्यामि उपरिष्टाद् यथाविधि । दुःसाध्यानि निमित्तानि तानि वेद्मि हि कानि चित् ॥

०२.०१

विश्वास-प्रस्तुतिः

अकाले यस्य जायन्ते दन्ताः केशैर् विवर्जितः । प्रभूतलम्बकेशो वा तथा हीनाधिकाङ्गुलिः ॥

०२.०२

विश्वास-प्रस्तुतिः

द्विदन्तश् चापि जायेत तस्य कर्म स्वशाखिकम् । स्वशाखायां तु यत् प्रोक्तं कुर्याद् वाथर्वणं विधिम् ॥

०२.०३

विश्वास-प्रस्तुतिः

द्विमूर्धा वा त्रिनेत्रो वा तथैकाक्षिर् द्विनासिकः । हीनहस्तो ऽपरो ह्य् अर्थे न त्व् अथर्वशिराः स च ॥

०२.०४

विश्वास-प्रस्तुतिः

कृतोपचारः पञ्च सप्त शुद्धात्मा साध्यसत्कृतः । स शान्त्युदकम् आचम्य शान्तवृक्षसमीपतः ॥

०२.०५

विश्वास-प्रस्तुतिः

शान्तवृक्षसमिद्भिस् तु तिलैस् त्रिमधुरैस् तथा । होमं कुर्याद् अथर्वा तु तेन नन्दति सत्कुलम् ॥

०३.०१

विश्वास-प्रस्तुतिः

न लभेद् यद्य् अथर्वाणं कुर्याद् दशगुणं स्वयम् । महाव्याहृतिहोमं च सावित्रं जपम् एव च ॥

०३.०२

विश्वास-प्रस्तुतिः

विकृताङ्गो ऽधिकाङ्गो वा जातो हीनाङ्गो एव वा । कुलस्याद्भुतम् अत्यर्थं तद् अथर्वा शमं नयेत् ॥

०३.०३

विश्वास-प्रस्तुतिः

कप्युष्ट्रेभगवादीनां जायन्ते ऽङ्गमुखैः समाः । यस्मिन् राष्ट्रे नृपस् तत्र षण्मासाद्द् हि विनश्यति ॥

०३.०४

विश्वास-प्रस्तुतिः

कप्यादयो व जायन्ते अन्यस्य तुल्यगात्रकाः । वृक्षे ऽन्यवृक्षजं पुष्पं जायते फलम् एव वा ॥

०३.०५

विश्वास-प्रस्तुतिः

द्विजोत्तमम् अथर्वाणं तत्रेच्छेच् छान्तिम् आत्मनः । कारयेत महाशान्तिं राष्ट्रस्य च पुरस्य च ॥

०४.०१

विश्वास-प्रस्तुतिः

उपस्थिते राज्यनाशे महारौरव एव वा । दुर्भिक्षे मरके वापि अनावृष्टिभये ऽपि वा ॥

०४.०२

विश्वास-प्रस्तुतिः

सर्वं राष्ट्रे विनश्येत सस्यं शलभमूषकैः । अकस्मान् निर्जला वा स्याद् अशोषा वा महासरित् ॥

०४.०३

विश्वास-प्रस्तुतिः

तथान्येष्व् अपु अनुक्तेषु घोरेषूपस्थितेषु च । कुर्युः शान्तिम् अथर्वाणो द्विजा ह्य् एतेषु भेषजम् ॥

०४.०४

विश्वास-प्रस्तुतिः

लभते राज्ययोग्यो ऽपि न राज्यं रज^नन्दनः । पठन् न लभते विद्यां द्विजः शृण्वन्न् अपि श्रुतम् ॥

०४.०५

विश्वास-प्रस्तुतिः

आधित्सुर् अपि नाधानं कुर्याद् आवासम् एव च । कन्या परिणिनीषुर् वा काम्येष्व् इष्टपतिं न च ॥

०५.०१

विश्वास-प्रस्तुतिः

वन्ध्या वा मृतवत्सा या दुर्भगा स्त्रीप्रसू च या । सकृत्प्रसूता या नारी गर्भं गृह्णाति नैव च ॥

०५.०२

विश्वास-प्रस्तुतिः

सूतिकाले ऽप्य् अतिक्रान्ते गर्भे स्फुरणवत्य् अपि । न सूतिं लभते या तु बहुपुत्रीयते च या ॥

०५.०३

विश्वास-प्रस्तुतिः

कृषीवलः कृषीवलं जयत्य् आयुधजीव्य् अपि । जयाप्सुर् व्यवहारे वा सौभाग्यं सार्वभौतिकम् ॥

०५.०४

विश्वास-प्रस्तुतिः

अथापहन्तुं भयम् एवमादिकं यदाभिलष्येत् फलम् उक्तम् एव वा । तदाङ्गिरस्यं वरमन्त्रसम्पदा स्फुरन्तम् उच्चैः शरणं व्रजेद् द्विजम् ॥

०५.०५

विश्वास-प्रस्तुतिः

रात्रौ द्विछायवृक्षं वा कुस्वप्नं वापि रिष्टदम् । दिवा ग्रहान् निरीक्षेत भूमिकम्पैवमादिकम् ॥

०६.०१

विश्वास-प्रस्तुतिः

ज्वालाद्भुतान्य् अथ प्रोक्तानि यानि उल्कादिभेदा गदितास् तथा ये । स्वप्नाद्भुतान्य् अपि वान्याद्भुतानि गृहेषु यान्य् अर्थविदो वदन्ति ॥

०६.०२

विश्वास-प्रस्तुतिः

एतेषु शान्तिं कुर्वीत अमृतां वा सदक्षिणाम् । रौद्रीं वा वैश्वदेवीं वा अभयां वापराजिताम् ॥

०६.०३

विश्वास-प्रस्तुतिः

गोभूहिरण्यवस्त्रान्नैस् तिलैर् वा सफलैः शुभैः । उपानच्छत्त्रसंयुक्तां गुर्वाभरणसंयुताम् ॥

०६.०४

विश्वास-प्रस्तुतिः

प्रतिपतीयथोक्तं वा यः कुर्वीत विधान्वित् । एतद् उत्पातजं सर्वं महाशान्त्या प्रलीयते ॥

०६.०५

विश्वास-प्रस्तुतिः

यस्य राज्ञो जनपदे अथर्वा शान्तिपारगः । निवसत्य् अपि तद्राष्ट्रं वर्धते निरुपद्रवम् ॥

०७.०१

विश्वास-प्रस्तुतिः

यस्य राज्ञो जनपदे स नास्ति विविधैर् भयैः । पीड्यते तस्य तद् राष्ट्रं पङ्ले गौर् इव मज्जति ॥

०७.०२

विश्वास-प्रस्तुतिः

तस्माद् राजा विशेषेण अथर्वाणं जितेन्द्रियम् । दानसम्मानसत्कारैर् नित्यं समभिपूजयेत् ॥

०७.०३

विश्वास-प्रस्तुतिः

नित्यं च कारयेच् छान्तिं ग्रहऋक्षाणि पूजयेत् । भूमिदोहान् प्रकुर्वीत देवतायतनेषु च ॥

०७.०४

विश्वास-प्रस्तुतिः

चतुष्पथेषु गोष्ठेषु तीर्थेष्व् अप्सु च कारयेत् । गोतर्पणं च विधिवत् सर्वदोषविनाशनम् ॥

०७.०५

विश्वास-प्रस्तुतिः

एवं तु ख्यापयन् राजा सर्वकालं जितेन्द्रियः । अनन्तं सुखम् आप्नोति कृत्स्नां भुङ्क्ते वसुन्धराम् ॥

०८.०१

विश्वास-प्रस्तुतिः

उपस्थितं मृत्युम् अपि द्विजोत्तमः शमं नयेत् । अधीत्याथर्वाङ्गिरसस् तादृशम् आधृतव्रतः ॥

०८.०२

विश्वास-प्रस्तुतिः

द्युतिं प्रभां सदा स्फुरन् मन्त्रपवित्रवान् नरः । नृपे धनिनि चान्यत्र शान्त्याप्त्वा दक्षिणां बुधः ॥

०८.०३

विश्वास-प्रस्तुतिः

सीदन् कुटुम्बकः पोषं गृहीत्वान्यत् समुत्सृजेत् । त्रिः संहितां हविष्याद्यं जपेत् कृच्छ्रं च शुद्धये ॥

०८.०४

विश्वास-प्रस्तुतिः

सावित्रीलक्षम् अयुतं सहसरम् अथ चोत्तरम् । जप्त्वा दशांशको होमः कार्यो दोषानुसारतः ॥

०८.०५

विश्वास-प्रस्तुतिः

शतीरनिर्मलो यस् तु नार्चितो ऽपि द्विजोत्तरम् । अमत्सरी नितान्तं यः सो ऽत्र शान्तिं समारभेत् ॥

०८.०६

विश्वास-प्रस्तुतिः

एवंविधो ऽङ्गिरा यत्र यानि साध्यानि साधयेत् । न न्यूनं तत्र किञ्चित् स्याद् इति तद् भृगुभाषितम् ॥

०८.०७

विश्वास-प्रस्तुतिः

लघुशान्त्युदकविधिना गायत्र्या वापु अथर्वकः । कुर्यात् सर्वम् इदं जानन्न् अथर्वहृदयं बुधः ॥

०९.०१

विश्वास-प्रस्तुतिः

ये न जानन्त्य् अधीता अपि श्रुतिम् आङ्गिरसीं द्विजाः । अथर्वहृदयं चापि न ते वेदविदः स्मृताः ॥

०९.०२

विश्वास-प्रस्तुतिः

अथर्वहृदयं वेत्ता अथर्वा परमः स्मृतः । नाथर्वणे ऽप्य् इदं देयं गुरोर् विद्वेषयायिनि ॥

०९.०३

विश्वास-प्रस्तुतिः

अन्यशाख्यं द्विजो मोहात् पाठयन् प्रविलीयते । अथर्वहृदयं बुद्ध्वा यः पठेद् भक्तिपूर्वकम् ॥

०९.०४

विश्वास-प्रस्तुतिः

अथर्वा नाद्भुतं तस्य शान्तिर् एव सदा भवेत् । शान्तिर् एव सदा भवेत् ॥