६८ स्वप्नाध्यायः

MT comments

Reg. inversion of bad dreams - It could be seen as some kind of “positivist” psychotherapy to render the fear of the nightmare into a hope.

प्रस्तावः

०१.०१

विश्वास-प्रस्तुतिः

ओम्
अथातः सम्प्रवक्ष्यामि
यद् उक्तं पद्मयोनिना ।
उपाङ्गं शुक्रचारस्त+++(=??)+++
शुभाशुभनिवेदकम् ॥

मूलम्

ओम् अथातः सम्प्रवक्ष्यामि यद् उक्तं पद्मयोनिना । उपाङ्गं शुक्रचारस्त शुभाशुभनिवेदकम् ॥

०१.०२

विश्वास-प्रस्तुतिः

स्वप्नाध्यायं प्रवक्ष्यामि
क्रोष्टुकेर् वचनं यथा ।
शशंसिरे पुरा यं हि
शौनकाय महात्मने ॥

मूलम्

स्वप्नाध्यायं प्रवक्ष्यामि क्रोष्टुकेर् वचनं यथा । शशंसिरे पुरा यं हि शौनकाय महात्मने ॥

ग्रहाः

०१.०३

विश्वास-प्रस्तुतिः

निमित्तज्ञानकुशलाः
सर्वं तस्य तु पृच्छतः ।
ग्रहा भार्गव-भौमार्काः
+++(आयुर्वेदोक्त-दोषत्रयानुसारेण)+++ पैत्तिका दीप्तितेजसः ॥

मूलम्

निमित्तज्ञानकुशलाः सर्वं तस्य तु पृच्छतः । ग्रहा भार्गवभौमार्काः पैत्तिका दीप्तितेजसः ॥

०१.०४

विश्वास-प्रस्तुतिः

+++(आयुर्वेदोक्त-दोषत्रयानुसारेण)+++ कफ-प्रकृतयो मध्या
बृहस्पतिबुधेन्दवः ।
वातप्रकृतयः क्रूरा
राहुकेतुशनैश्चराः ॥

मूलम्

कफप्रकृतयो मध्या बृहस्पतिबुधेन्दवः । वातप्रकृतयः क्रूरा राहुकेतुशनैश्चराः ॥

०१.०५

विश्वास-प्रस्तुतिः

तेषां तथा फलं विद्यात्
सन्निपाते यथा-क्रमम् ।
एते नव ग्रहा ज्ञेया
वात-पित्त-कफात्मकाः ॥

मूलम्

तेषां तथा फलं विद्यात् सन्निपाते यथाक्रमम् । एते नव ग्रहा ज्ञेया वातपित्तकफात्मकाः ॥

देहभेदः

०१.०६

विश्वास-प्रस्तुतिः

एषां प्रकृति-तुल्यानां
निषिक्तानां तु तेषु वै ।
संयोगेषु च जातानां
तुल्य-प्रकृतिता भवेत् ॥

मूलम्

एषां प्रकृतितुल्यानां निषिक्तानां तु तेषु वै । संयोगेषु च जातानां तुल्य प्रकृतिता भवेत् ॥

०१.०७

विश्वास-प्रस्तुतिः

अर्केन्दु-प्रभवा देहम्
उपतिष्ठन्ति देहिनः ।
तस्मान् निषिच्यमानेषु
वात-पित्त-कफेषु यः ॥

मूलम्

अर्केन्दुप्रभवा देहम् उपतिष्ठन्ति देहिनः । तस्मान् निषिच्यमानेषु वातपित्तकफेषु यः ॥

०१.०८

विश्वास-प्रस्तुतिः

एषाम् अन्यतमो देहो
यातिरिक्तः प्रकाशते
प्रचक्षते सा प्रकृतिः
प्रकृति-ज्ञान-कोविदाः ॥

मूलम्

एषाम् अन्यतमो देहो यातिरिक्तः प्रकाशते । प्रचक्षते सा प्रकृतिः प्रकृतिज्ञानकोविदाः ॥

पैत्तकाः

०१.०९

विश्वास-प्रस्तुतिः

तत्र ये मानि-स्वाङ्गानि
ऋजवः कलह-प्रियाः
उष्णाः कपिलरोमाणाः
स्वेदना अनवेक्षणाः ॥

मूलम्

तत्र ये मानिस्वाङ्गानि ऋजवः कलहप्रियाः । उष्णाः कपिलरोमाणाः स्वेदना अनवेक्षणाः ॥

English

Persons of pitta physiognomy are proud, with well-formed limbs, of straight-forward character and fond of picking fights. They have higher than average temperature, tawny hair, are sweaty and are prone to poor vision.

०१.१०

विश्वास-प्रस्तुतिः

बह्वाशि-दुर्भगाश् चैव
मृद्व्-अङ्गाः शिशिरप्रियाः
लालनाः शिथिलाङ्गाश् च
प्रियाश् च लवणास् तथा ॥

मूलम्

बह्वाशिदुर्भगाश् चैव मृद्वङ्गाः शिशिरप्रियाः । लालनाः शिथिलाङ्गाश् च प्रियाश् च लवणास् तथा ॥

English

They eat a lot, tend to have mishaps, have a soft body and like the cold. They are indulgent [in pleasures], have loose joints, are prone to affection and are well-formed.

०१.११

विश्वास-प्रस्तुतिः

तनु-त्वङ्-नख-रोमाणस् त्व्
आचार्यास् तीक्ष्ण एव च ।
वलीपलित-भूयिष्ठास्
तथा खलतिनो नराः ॥

मूलम्

तनुत्वङ्नखरोमाणस् त्व् आचार्यास् तीक्ष्ण एव च । वलीपलितभूयिष्ठास् तथा खलतिनो नराः ॥

English

The skin, nails and hair on their body are sparse and thin (literally sharp). These men tend to have extensive folds on their body and tend to gray and bald.

०१.१२

विश्वास-प्रस्तुतिः

ग्लयते शुष्यते चैषाम्
आशु माल्यानुलेपनम्
दाहात्मिकाः शशाङ्के
ऽपि पित्तप्रकृतयस् तु ते ॥

मूलम्

ग्लयते शुष्यते चैषाम् आशु माल्यानुलेपनम् । दाहात्मिकाः शशाङ्के ऽपि पित्तप्रकृतयस् तु ते ॥

English

The garlands and unguents fade and dry up quickly (on their bodies) and these people of pitta physiognomy feel hot even when under the moon.

पैत्तक-स्वप्नाः

०१.१३

विश्वास-प्रस्तुतिः

स्वप्ने चैव प्रपश्यन्ति
दिशः कनकपिङ्गलाः
मण्डलानि समूहांश् च
दिक्षु पीतारुण-प्रभान् ॥

मूलम्

स्वप्ने चैव प्रपश्यन्ति दिशः कनकपिङ्गलाः । मण्डलानि समूहांश् च दिक्षु पीतारुणप्रभान् ॥

English

In their dreams, they see space with a yellowish golden tint. They see clusters of yellowish-orange glowing orbs spreading in all directions.

०१.१४

विश्वास-प्रस्तुतिः

शृङ्गारि-मदिरान् देशाञ्
शुष्कां मल-जलां महीम् ।
शुष्कगुल्मद्रुमलता-
दह्यमानं महद् वनम्

मूलम्

शृङ्गारिमदिरान् देशाञ् शुष्कां मलजलां महीम् । शुष्कगुल्मद्रुमलता दह्यमानं महद् वनम् ॥

English

They see facilities for erotic and alcoholic entertainment and a dry earth with dirty water, dry herbs, trees and creepers and forests in a blaze.

०१.१५

विश्वास-प्रस्तुतिः

विशुष्काणि च वस्त्राणि
रुधिराङ्गांस् तथैव च ।
दहनादींश् च देवांश् च
रक्तम् इन्दुं सुगन्धिकान् ॥

मूलम्

विशुष्काणि च वस्त्राणि रुधिराङ्गांस् तथैव च । दहनादींश् च देवांश् च रक्तम् इन्दुं सुगन्धिकान् ॥

English

(They dream of) dried up clothes, bloody bodies, fires, gods, a blood-red moon, and frankincense trees.

०१.१६

विश्वास-प्रस्तुतिः

पलाशानि च पुष्पाणि
कर्णिकारवनानि च ।
दिग्-दाह-विद्युच्-छुल्काश् च
दीप्यमानं च पावकम् ॥

मूलम्

पलाशानि च पुष्पाणि कर्णिकारवनानि च । दिग्दाहविद्युच्छुल्काश् च दीप्यमानं च पावकम् ॥

English

(They dream of) silk-cotton flowers and forest of Indian Laburnum, burning quarters, lightning, meteors, and blazing fires.

०१.१७

विश्वास-प्रस्तुतिः

भूयिष्ठं भूषिताश् चापि
पिबन्ति सुबहूदकम्
सरित्-सर-वनान्तेषु
कूप-प्रस्रवणेषु च ॥

मूलम्

भूयिष्ठं भूषिताश् चापि पिबन्ति सुबहूदकम् । सरित्सरवनान्तेषु कूपप्रस्रवणेषु च ॥

English

They (dream of) being heavily ornamented and drinking a lot of water from streams, lakes, wells and springs.

०१.१८

विश्वास-प्रस्तुतिः

उष्णार्ताः शीतकामास् तु
निमज्जन्ति पिबन्ति च ।
कलहं चैव कुर्वन्ति
दुःखान्य् अनुभवन्ति च ॥

मूलम्

उष्णार्ताः शीतकामास् तु निमज्जन्ति पिबन्ति च । कलहं चैव कुर्वन्ति दुःखान्य् अनुभवन्ति च ॥

English

They (dream of) experiencing torment from heat and desire cold; they see themselves drinking or bathing.

०१.१९

विश्वास-प्रस्तुतिः

स्त्रीभिश् चैव विमान्यन्ते
क्षयन्ते क्लामयन्ति च ।
इत्य् एवं पैत्तिका
ज्ञेयाः प्रकृति-स्वप्न-लक्षणे ॥

मूलम्

स्त्रीभिश् चैव विमान्यन्ते क्षयन्ते क्लामयन्ति च । इत्य् एवं पैत्तिका ज्ञेयाः प्रकृतिस्वप्नलक्षणे ॥

English

They see themselves fighting in their dreams and experience sorrow. They dream of being insulted by women, and of being weakened and fatigued. These are indeed known as the marks of the dreams of those with a pitta constitution.

श्लेष्मिकाः

०१.२०

विश्वास-प्रस्तुतिः

प्रकृति-स्वप्न-भावैश् च
श्लेष्मिकाण्य् अपि मे शृणु
स्निग्ध-केश-नख-श्मश्रु-
तत-त्वग्-रोम-[भाषिणः] ॥

मूलम्

प्रकृतिस्वप्नभावैश् च श्लेष्मिकाण्य् अपि मे शृणु । स्निग्धकेशनखश्मश्रुततत्वग्रोम[भाषिणः] ॥

०१.२१

विश्वास-प्रस्तुतिः

महोदर-भोजोरस्क-
दीर्घ-केश-नख-[द्विजाञ्]+++(??)+++ ।
वैडूर्योपलबद्धे तु
सन्निभैर् नियमैः शुभैः ॥

मूलम्

महोदरभोजोरस्कदीर्घकेशनख[द्विजाञ्] । वैडूर्योपलबद्धे तु सन्निभैर् नियमैः शुभैः ॥

०१.२२

विश्वास-प्रस्तुतिः

स्थिरोपचित-सर्वाङ्गा
भवन्ति सुखभागिनः ।
शिरोदर-कटि-स्कन्ध-
पक्षयोर् विमलेक्षणाः ॥

मूलम्

स्थिरोपचितसर्वाङ्गा भवन्ति सुखभागिनः । शिरोदरकटिस्कन्धपक्षयोर् विमलेक्षणाः ॥

०१.२३

विश्वास-प्रस्तुतिः

प्रियाः प्रियम्वदाः शूराः
कृतज्ञा दृढभक्तयः ।
चिराद् गृह्णन्ति, सुचिरं
गृहीतं धारयन्ति च ॥

मूलम्

प्रियाः प्रियम्वदाः शूराः कृतज्ञा दृढभक्तयः । चिराद् गृह्णन्ति सुचिरं गृहीतं धारयन्ति च ॥

०१.२४

विश्वास-प्रस्तुतिः

न क्रुध्यन्ति चिरात् क्रुद्धाः
सम्भवन्त्य् अन्तकोपमाः
पूजाभिर् विपुलां भूमिम्
आवहन्ति कुलस्य च ॥

मूलम्

न क्रुध्यन्ति चिरात् क्रुद्धाः सम्भवन्त्य् अन्तकोपमाः । पूजाभिर् विपुलां भूमिम् आवहन्ति कुलस्य च ॥

०१.२५

विश्वास-प्रस्तुतिः

ख्यापयन्ति च सर्वत्र
गुणैश् च विपुलैर् यशः
मांशोष्णताति-मधुर-
पयोहाराथ+++(??)+++ सुप्रजाः ॥

मूलम्

ख्यापयन्ति च सर्वत्र गुणैश् च विपुलैर् यशः । मांशोष्णतातिमधुरपयोहाराथ सुप्रजाः ॥

०१.२६

विश्वास-प्रस्तुतिः

चिराच् छुष्यते चैषां
तोय-माल्यानुलेपनम् ।
निमीलितास्य-नयना
निःशब्दा निःप्रकम्पिनः ॥

मूलम्

न चिराच् छुष्यते चैषां तोयमाल्यानुलेपनम् । निमीलितास्यनयना निःशब्दा निःप्रकम्पिनः ॥

०१.२७

विश्वास-प्रस्तुतिः

स्वपन्त्य् एकेन पार्श्वेन
चिरं सुखनिबोधनाः ।
नातिदुःखेन जीवन्ति
वोत्पद्यन्ते सुखेन तु ॥

मूलम्

स्वपन्त्य् एकेन पार्श्वेन चिरं सुखनिबोधनाः । नातिदुःखेन जीवन्ति वोत्पद्यन्ते सुखेन तु ॥

०१.२८

विश्वास-प्रस्तुतिः

श्यामाः श्यामावदाताश् च
श्रीमन्तो ऽदृढरोगिणः ।
अल्पाशि-दीर्घकामास् तु
भवन्त्य् अर्थसहिष्णवः

मूलम्

श्यामाः श्यामावदाताश् च श्रीमन्तो ऽदृढरोगिणः । अल्पाशिदीर्घकामास् तु भवन्त्य् अर्थसहिष्णवः ॥

श्लेष्मक-स्वप्नः

०१.२९

विश्वास-प्रस्तुतिः

क्षुत्-पिपासा-सहाश् चापि
कफ-प्रकृतयो नराः ।
स्वप्नेषु चैव पश्यन्ति
रम्यं चन्दनकाननम् ॥

मूलम्

क्षुत्पिपासासहाश् चापि कफप्रकृतयो नराः । स्वप्नेषु चैव पश्यन्ति रम्यं चन्दनकाननम् ॥

०१.३०

विश्वास-प्रस्तुतिः

विकुड्मल-पलाशानि
पौण्डरीक-वनानि च ।
शुभाश् च शिशिर-प्राया
नद्यः शुभजलावहाः ॥

मूलम्

विकुड्मलपलाशानि पौण्डरीकवनानि च । शुभाश् च शिशिरप्राया नद्यः शुभजलावहाः ॥

०१.३१

विश्वास-प्रस्तुतिः

तुषारेणावृताश् चापि
हिमवाघपटलानि+++(??)+++ च ।
मुक्तामणिसुवाशृङ्गा+++(??)+++
मृणालफलकानि च ॥

मूलम्

तुषारेणावृताश् चापि हिमवाघपटलानि च । मुक्तामणिसुवाशृङ्गा मृणालफलकानि च ॥

०१.३२

विश्वास-प्रस्तुतिः

वराह-खड्ग-महिषा
मृगाश् च रथ-कुञ्जराः ।
स्पष्टतारं तु हंसाश् च
व्योपोढन्ति+++(??)+++ नभस्तलम्

मूलम्

वराहखड्गमहिषा मृगाश् च रथकुञ्जराः । स्पष्टतारं तु हंसाश् च व्योपोढन्ति नभस्तलम् ॥

०१.३३

विश्वास-प्रस्तुतिः

कुन्दगोक्षीर-गौराभिर्
इन्दोः कीर्ण-गभस्तिषु
प्रोत्फुल्ल-कुमुदाकारा
व्योम्नि सुधाम्बुसप्रभैः ॥

मूलम्

कुन्दगोक्षीरगौराभिर् इन्दोः कीर्णगभस्तिषु । प्रोत्फुल्लकुमुदाकारा व्योम्नि सुधाम्बुसप्रभैः ॥

०१.३४

विश्वास-प्रस्तुतिः

राज-हंस-प्रतीकाशं
शशाङ्कं चामल-द्युतिम् ।
शुभ्राणि च विमानानि
फलानि मधुराणि च ॥

मूलम्

राजहंसप्रतीकाशं शशाङ्कं चामलद्युतिम् । शुभ्राणि च विमानानि फलानि मधुराणि च ॥

०१.३५

विश्वास-प्रस्तुतिः

कृतपुष्पोपहाराणि
महान्ति भवनानि च ।
ब्राह्मणान् यज्ञवादांश्
च दधिक्षीरामृतानि च ॥

मूलम्

कृतपुष्पोपहाराणि महान्ति भवनानि च । ब्राह्मणान् यज्ञवादांश् च दधिक्षीरामृतानि च ॥

०१.३६

विश्वास-प्रस्तुतिः

स्त्रियश् च परमोदाक्ताः+++(??)+++
सुवेषाः स्वभ्यलङ्कृताः ।
मधुर-श्वेत-पीतानि
प्रायशश् चिरम् एव तु ॥

मूलम्

स्त्रियश् च परमोदाक्ताः सुवेषाः स्वभ्यलङ्कृताः । मधुरश्वेतपीतानि प्रायशश् चिरम् एव तु ॥

०१.३७

विश्वास-प्रस्तुतिः

स्वप्नेषु चैवं पश्यन्ति
कफप्रकृतयो नराः ।
प्रकृतिस्वप्नभावेषु
वातिकान्य् अपि लक्षयेत् ॥

मूलम्

स्वप्नेषु चैवं पश्यन्ति कफप्रकृतयो नराः । प्रकृतिस्वप्नभावेषु वातिकान्य् अपि लक्षयेत् ॥

वातिकाः

०१.३८

विश्वास-प्रस्तुतिः

चलाश् च चल-विक्रान्ताः
क्षिप्रङ्-क्षिप्रं प्रलापिनः
सुप्ताः प्रलापिनस् त्व् अन्ये
कषाय-कटुक-प्रियाः ॥

मूलम्

चलाश् च चलविक्रान्ताः क्षिप्रङ्क्षिप्रं प्रलापिनः । सुप्ताः प्रलापिनस् त्व् अन्ये कषायकटुकप्रियाः ॥

०१.३९

विश्वास-प्रस्तुतिः

त्वग्-रोम-नख-दन्तोष्ठ-पाणि-पाद-तलादिषु ।
रूक्ष-स्फुटित-दुर्दर्शा
दुर्बला दुःखभागिनः ॥

मूलम्

त्वग्रोमनखदन्तोष्ठपाणिपादतलादिषु । रूक्षस्फुटितदुर्दर्शा दुर्बला दुःखभागिनः ॥

०१.४०

विश्वास-प्रस्तुतिः

कठिनोपचिताङ्गाश् च
भ्रान्त-चित्ताफुतेक्षणाः+++(=??)+++ ।
लापिनो मृदवः क्रूरा
विद्याद् अस्थिर-बुद्धयः ॥

मूलम्

कठिनोपचिताङ्गाश् च भ्रान्तचित्ताफुतेक्षणाः । लापिनो मृदवः क्रूरा विद्याद् अस्थिरबुद्धयः ॥

०१.४१

विश्वास-प्रस्तुतिः

नृत्य-गीत-कथा-शील
जम्भिनो दुःख-भागिनः ।
ह्रस्वलोमाः सुवपुषो
दुर्बला धमनास् तथा ॥

मूलम्

नृत्यगीतकथाशील जम्भिनो दुःखभागिनः । ह्रस्वलोमाः सुवपुषो दुर्बला धमनास् तथा ॥

०१.४२

विश्वास-प्रस्तुतिः

क्षामा भिन्नाः सदोषाश् च
सततं वानवस्थिताः ।
हस्त-नख-त्वग्-ओष्ठानां
पादानां च विकारिणः

मूलम्

क्षामा भिन्नाः सदोषाश् च सततं वानवस्थिताः । हस्तनखत्वगोष्ठानां पादानां च विकारिणः ॥

०१.४३

विश्वास-प्रस्तुतिः

अकस्मात् कोपनाश् चापि
रोदना धमानास् तथा ।
परप्रकृति-शीलाश् च
वल्गनास्फोटन-प्रियाः ॥

मूलम्

अकस्मात् कोपनाश् चापि रोदना धमानास् तथा । परप्रकृतिशीलाश् च वल्गनास्फोटनप्रियाः ॥

वातिक-स्वप्नः

०१.४४

विश्वास-प्रस्तुतिः

दुर्बलाः शिशिराश् चापि
वात-प्रकृतयो नरः ।
स्वप्नेषु चैव पश्यन्ति
वाताभ्र-विमला दिशः ॥

मूलम्

दुर्बलाः शिशिराश् चापि वातप्रकृतयो नरः । स्वप्नेषु चैव पश्यन्ति वाताभ्रविमला दिशः ॥

०१.४५

विश्वास-प्रस्तुतिः

मारुत-वेग-तुङ्गानि
भुवनानि वानानि च ।
श्याम-तारा-ग्रह-गणं
विध्वस्तार्केन्दु-मण्डलम् ॥

मूलम्

मारुतवेगतुङ्गानि भुवनानि वानानि च । श्यामताराग्रहगणं विध्वस्तार्केन्दुमण्डलम् ॥

०१.४६

विश्वास-प्रस्तुतिः

धारा-चरद्भिर् विश्वाभैः
सङ्कुलं गगनं घनैः ।
भ्रमन्तः पक्षि-सङ्घाश्
मृगाश् चोद्भ्रान्त-यूथपाः ॥

मूलम्

धाराचरद्भिर् विश्वाभैः सङ्कुलं गगनं घनैः । भ्रमन्तः पक्षिसङ्घाश् च मृगाश् चोद्भ्रान्तयूथपाः ॥

०१.४७

विश्वास-प्रस्तुतिः

अन्याश् चापु+++(=??)+++ शम्बराश्
च गिरिगह्वर-काननाः ।
भ्रमन्ति घ्नन्ति धावन्ति
ऊर्ध्वेभ्यः प्रपतन्ति च ॥

मूलम्

अन्याश् चापु शम्बराश् च गिरिगह्वरकाननाः । भ्रमन्ति घ्नन्ति धावन्ति ऊर्ध्वेभ्यः प्रपतन्ति च ॥

०१.४८

विश्वास-प्रस्तुतिः

स्वप्नेष्व् एतानि पश्यन्ति
वातप्रकृतयो नराः ।
मिश्रस्वप्न-स्वभावेषु
सन्निपातात्मकाः विदुः ॥

मूलम्

स्वप्नेष्व् एतानि पश्यन्ति वातप्रकृतयो नराः । मिश्रस्वप्नस्वभावेषु सन्निपातात्मकाः विदुः ॥

शिष्टम्

०१.४९

विश्वास-प्रस्तुतिः

एतास् तिस्रः प्रकृतयः
संसृष्टाश् च सर्वशः ॥

मूलम्

एतास् तिस्रः प्रकृतयः संसृष्टाश् च सर्वशः ॥

०१.५०

विश्वास-प्रस्तुतिः

सम्यक्-करण-विज्ञानं
तथा स्वप्नाद् भवेत् फलम्
शुभं वापि +अशुभं वापि
निर्देष्टव्यम् अशेषतः ॥

मूलम्

सम्यक् करणविज्ञानं तथा स्वप्नाद् भवेत् फलम् । शुभं वापि अशुभं वापि निर्देष्टव्यम् अशेषतः ॥

०१.५१

विश्वास-प्रस्तुतिः

येन येनेन्द्रियार्थेन
विद्धः स्वपिति मानवः ।
तस्य तस्येन्द्रियार्थस्य
सुप्तः कर्माणि पश्यति ॥+++(5)+++

मूलम्

येनयेनेन्द्रियार्थेन विद्धः स्वपिति मानवः । तस्यतस्येन्द्रियार्थस्य सुप्तः कर्माणि पश्यति ॥

०१.५२

विश्वास-प्रस्तुतिः

प्रकृत्याकृत-सङ्कल्प-
सम्भवा देवतास्व् अपि ।
स्वप्न-मालां तु यः पश्येद्
यां तु दृष्ट्वा न तु स्मरेत् ॥

मूलम्

प्रकृत्याकृतसङ्कल्पसम्भवा देवतास्व् अपि । स्वप्नमालां तु यः पश्येद् यां तु दृष्ट्वा न तु स्मरेत् ॥

०१.५३

विश्वास-प्रस्तुतिः

नैते फलं प्रयच्छन्ति
गर्गस्य वचनं यथा ।
प्रकृत्यानूकजान् आहुर्
एके शुभ-फलोदयान् ॥

मूलम्

नैते फलं प्रयच्छन्ति गर्गस्य वचनं यथा । प्रकृत्यानूकजान् आहुर् एके शुभफलोदयान् ॥

०१.५४

विश्वास-प्रस्तुतिः

सारस्वतं यथानूकं
सङ्घात-संश्रयं शृणु ।
दृष्ट्वा भोगम् असुप्तव्यं
ततः प्राप्य शुभं फलम् ॥

मूलम्

सारस्वतं यथानूकं सङ्घातसंश्रयं शृणु । दृष्ट्वा भोगम् असुप्तव्यं ततः प्राप्य शुभं फलम् ॥

०१.५५

विश्वास-प्रस्तुतिः

स्वप्नप्रकृति-भावं तु
ज्ञात्वा तत्त्वं समादिशेत् ॥

मूलम्

स्वप्नप्रकृतिभावं तु ज्ञात्वा तत्त्वं समादिशेत् ॥

०२.०१

विश्वास-प्रस्तुतिः

गृह्णीत समुद्गेन्द्विन्द्रवाय्वग्न्यर्कनदीं क्षितिम् । समुद्रं वाहिनीं द्वीपं लङ्घयेद् वा वसुन्धराम् ॥

मूलम्

गृह्णीत समुद्गेन्द्विन्द्रवाय्वग्न्यर्कनदीं क्षितिम् । समुद्रं वाहिनीं द्वीपं लङ्घयेद् वा वसुन्धराम् ॥

०२.०२

विश्वास-प्रस्तुतिः

वाहिनीं चतुरङ्गां च जीवछत्त्रपताकिनीम् । दोर्भ्यां च प्रतिगृह्णीयात् तथाकेतुवसुन्धराम् ॥

मूलम्

वाहिनीं चतुरङ्गां च जीवछत्त्रपताकिनीम् । दोर्भ्यां च प्रतिगृह्णीयात् तथाकेतुवसुन्धराम् ॥

०२.०३

विश्वास-प्रस्तुतिः

एकपुष्करिणीपर्णे सौवर्णे भाहने ऽपि वा । सर्पिषा पायसं भुङ्क्ते गां दुहन् यश् च बुध्यति ॥

मूलम्

एकपुष्करिणीपर्णे सौवर्णे भाहने ऽपि वा । सर्पिषा पायसं भुङ्क्ते गां दुहन् यश् च बुध्यति ॥

०२.०४

विश्वास-प्रस्तुतिः

परिवेषः स्वयं चन्द्रे यो ऽनवस्त्रवसुन्धराम् । पर्वताग्रं समारुह्य क्षितिं यश् चावलोकयेत् ॥

मूलम्

परिवेषः स्वयं चन्द्रे यो ऽनवस्त्रवसुन्धराम् । पर्वताग्रं समारुह्य क्षितिं यश् चावलोकयेत् ॥

०२.०५

विश्वास-प्रस्तुतिः

आ कण्ठं मज्जते यो हि मानवः शोणितार्णवे । रथेन सिंहयुक्तेन पर्वतं चाधिरोहति ॥

मूलम्

आ कण्ठं मज्जते यो हि मानवः शोणितार्णवे । रथेन सिंहयुक्तेन पर्वतं चाधिरोहति ॥

०२.०६

विश्वास-प्रस्तुतिः

महीं वा कम्पयेद् यस् तु चालयेद् वा पुनर् गिरीम् । श्वेतम् अश्वम् अथारुह्य पाण्डुरं वापु यो गजम् ॥

मूलम्

महीं वा कम्पयेद् यस् तु चालयेद् वा पुनर् गिरीम् । श्वेतम् अश्वम् अथारुह्य पाण्डुरं वापु यो गजम् ॥

०२.०७

विश्वास-प्रस्तुतिः

भुङ्क्ते पुष्करिणीपर्णे पायसं वापि सर्पिषा । अङ्गवृद्धिं शिरोवृद्धिं प्राप्नुयाद् यस् तु मानवः ॥

मूलम्

भुङ्क्ते पुष्करिणीपर्णे पायसं वापि सर्पिषा । अङ्गवृद्धिं शिरोवृद्धिं प्राप्नुयाद् यस् तु मानवः ॥

०२.०८

विश्वास-प्रस्तुतिः

ब्राह्मणो वापि राजा वा स्वप्ने यद् अभिषेचयेत् । राजा तु पार्थिवो ज्ञेयः क्रोष्टुकेर् वचनं यथा ॥

मूलम्

ब्राह्मणो वापि राजा वा स्वप्ने यद् अभिषेचयेत् । राजा तु पार्थिवो ज्ञेयः क्रोष्टुकेर् वचनं यथा ॥

०२.०९

विश्वास-प्रस्तुतिः

शिरो वा छिद्यते यस्य
विमानं, शोणितं तथा ।
सेनापत्यं महच् चायुर्
अर्थलाभं तथैव च ॥

मूलम्

शिरो वा छिद्यते यस्य विमानं शोणितं तथा । सेनापत्यं महच् चायुर् अर्थलाभं तथैव च ॥

English

If one dreams of his head being cutoff or of his airplane being (wrecked) or of bleeding he attains the position of the commander of the army or a long life or gains wealth.

०२.१०

विश्वास-प्रस्तुतिः

विभूषणं च विद्यां च
कर्ण-छेदम् अवाप्नुयात् ।
हस्त-छेदे लभेत् पुत्रं
बाहु-छेदे धनागमम् ॥

मूलम्

विभूषणं च विद्यां च कर्णछेदम् अवाप्नुयात् । हस्तछेदे लभेत् पुत्रं बाहुछेदे धनागमम् ॥

English

[If he dreams of] his ear being cut he attains ornaments or learning; his hand being cut he gains a son; his arm being severed he gets wealth.

०२.११

विश्वास-प्रस्तुतिः

उरः सहस्रलाभः स्यात्
पाद-छेदे तथैव च ।
उरःप्रजनन-छेदे
अत्यन्तं सुखं देधते ॥

मूलम्

उरः सहस्रलाभः स्यात् पादछेदे तथैव च । उरःप्रजननछेदे अत्यन्तं सुखं देधते ॥

English

[If he dreams of] his chest or foot being split he gains a thousand coins; his belly or his genitals being cut gives great joy.

०२.१२

विश्वास-प्रस्तुतिः

छत्रादर्शफलोष्णीषशुक्लमाल्यागमे तथा । मत्स्यमांसदधिक्षीररुधिरागम एव च ॥

मूलम्

छत्रादर्शफलोष्णीषशुक्लमाल्यागमे तथा । मत्स्यमांसदधिक्षीररुधिरागम एव च ॥

०२.१३

विश्वास-प्रस्तुतिः

शक्त्यङ्कुशपताकानां छत्त्रासिधनुषां तथा । विमलानां जलानां च पूर्वोक्तं तु निदर्शनम् ॥

मूलम्

शक्त्यङ्कुशपताकानां छत्त्रासिधनुषां तथा । विमलानां जलानां च पूर्वोक्तं तु निदर्शनम् ॥

०२.१४

विश्वास-प्रस्तुतिः

सूकरखरवाह्यानां वधश् चैकपशोर् अपि । नरयुक्तस्य यानस्य निक्षिप्तस्य गवस्य च ॥

मूलम्

सूकरखरवाह्यानां वधश् चैकपशोर् अपि । नरयुक्तस्य यानस्य निक्षिप्तस्य गवस्य च ॥

०२.१५

विश्वास-प्रस्तुतिः

दर्शनं चाप्य् अदृष्टानाम् अगम्यागमनं तथा । क्षीरिणां फलम्वृक्षाणां दर्शनारोहणानि च ॥

मूलम्

दर्शनं चाप्य् अदृष्टानाम् अगम्यागमनं तथा । क्षीरिणां फलम्वृक्षाणां दर्शनारोहणानि च ॥

०२.१६

विश्वास-प्रस्तुतिः

विषदर्शनदंस्पर्शो धान्येनोत्सङ्गपूरणम् । दस्युभिर् हन्यमानस्य रुदतः प्रतिबोधनम् ॥

मूलम्

विषदर्शनदंस्पर्शो धान्येनोत्सङ्गपूरणम् । दस्युभिर् हन्यमानस्य रुदतः प्रतिबोधनम् ॥

०२.१७

विश्वास-प्रस्तुतिः

द्विजेभ्यो दधिमांसस्य लाभः पिशितभक्षने । अभक्ष्यभक्षणे चापु श्वेतमाल्यानुलेपनम् ॥

मूलम्

द्विजेभ्यो दधिमांसस्य लाभः पिशितभक्षने । अभक्ष्यभक्षणे चापु श्वेतमाल्यानुलेपनम् ॥

०२.१८

विश्वास-प्रस्तुतिः

घातनं श्वापदानां च पाणौ च रुधिरागमः । अर्थलाभाय बोद्धव्यः सुहृन्मित्रसमागमः ॥

मूलम्

घातनं श्वापदानां च पाणौ च रुधिरागमः । अर्थलाभाय बोद्धव्यः सुहृन्मित्रसमागमः ॥

०२.१९

विश्वास-प्रस्तुतिः

लभते नात्र सन्देहो भार्गवस्य वचो तथा । शुक्लाः सुमनसः कन्या दधि गोब्राह्मणं वृषम् ॥

मूलम्

लभते नात्र सन्देहो भार्गवस्य वचो तथा । शुक्लाः सुमनसः कन्या दधि गोब्राह्मणं वृषम् ॥

०२.२०

विश्वास-प्रस्तुतिः

दैवतानि नृपाध्यक्षाः पाण्डुराणि गृहाणि च । सुहृदः सफला वृक्षा नक्षत्राण्य् अमलं जलम् ॥

मूलम्

दैवतानि नृपाध्यक्षाः पाण्डुराणि गृहाणि च । सुहृदः सफला वृक्षा नक्षत्राण्य् अमलं जलम् ॥

०२.२१

विश्वास-प्रस्तुतिः

इष्टकल्याणशब्दाश् च शुक्लाम्बरधराः स्त्रियः । नभो विमलनक्षत्रं पावकं विषमार्चिषम् ॥

मूलम्

इष्टकल्याणशब्दाश् च शुक्लाम्बरधराः स्त्रियः । नभो विमलनक्षत्रं पावकं विषमार्चिषम् ॥

०२.२२

विश्वास-प्रस्तुतिः

दृष्ट्वा यस् तत्क्षणं बुध्येत् तस्य कल्याणम् आदिशेत् । वृक्षान् गुल्मांश् च वल्लीश् च स्वगृहे पुष्पिता नरः ॥

मूलम्

दृष्ट्वा यस् तत्क्षणं बुध्येत् तस्य कल्याणम् आदिशेत् । वृक्षान् गुल्मांश् च वल्लीश् च स्वगृहे पुष्पिता नरः ॥

०२.२३

विश्वास-प्रस्तुतिः

शुक्लवासाः स्त्रियश् चापि यः पश्येच् छ्रीस् तु तं भजेत् । विषशोणितदिग्धाङ्गः प्रीतीम् आप्नोति मानवः ॥

मूलम्

शुक्लवासाः स्त्रियश् चापि यः पश्येच् छ्रीस् तु तं भजेत् । विषशोणितदिग्धाङ्गः प्रीतीम् आप्नोति मानवः ॥

०२.२४

विश्वास-प्रस्तुतिः

दीप्ताङ्गो लभते भूमिं वर्धमानाङ्ग एव च । परिवार्याभिरुदितो बान्धवैः करुणं नरः ॥

मूलम्

दीप्ताङ्गो लभते भूमिं वर्धमानाङ्ग एव च । परिवार्याभिरुदितो बान्धवैः करुणं नरः ॥

०२.२५

विश्वास-प्रस्तुतिः

शोकार्तो लभते तुष्टिं मृतश् चायुर् अवाप्नुयात् । शुक्लमाल्याम्बरधरो दह्यमानः प्रलीयते ॥

मूलम्

शोकार्तो लभते तुष्टिं मृतश् चायुर् अवाप्नुयात् । शुक्लमाल्याम्बरधरो दह्यमानः प्रलीयते ॥

०२.२६

विश्वास-प्रस्तुतिः

यः स्वप्ने सम्भयेद् उग्रं पारक्यं सो ऽर्थम् आप्नुयात् । नागदन्तकमुद्रां च वीणां मालाञ्जनं तथा ॥

मूलम्

यः स्वप्ने सम्भयेद् उग्रं पारक्यं सो ऽर्थम् आप्नुयात् । नागदन्तकमुद्रां च वीणां मालाञ्जनं तथा ॥

०२.२७

विश्वास-प्रस्तुतिः

काञ्चनं पश्यते यस् तु तथा स्त्रीं लभते नरः । उड्डीयमानान् विहगान् तथा पुष्करिणीगतान् ॥

मूलम्

काञ्चनं पश्यते यस् तु तथा स्त्रीं लभते नरः । उड्डीयमानान् विहगान् तथा पुष्करिणीगतान् ॥

०२.२८

विश्वास-प्रस्तुतिः

मत्तं करेणुम् आरुह्य परस्त्रीं लभते नरः । कुमारीं लभते नारीम् आयसैर् निगडैर् नरः ॥

मूलम्

मत्तं करेणुम् आरुह्य परस्त्रीं लभते नरः । कुमारीं लभते नारीम् आयसैर् निगडैर् नरः ॥

०२.२९

विश्वास-प्रस्तुतिः

बद्ध्वा नवां तु यो मालाम् उत्पालानां विबुध्यते । कवाटले च संयुक्ते तथैवोत्पलहस्तके ॥

मूलम्

बद्ध्वा नवां तु यो मालाम् उत्पालानां विबुध्यते । कवाटले च संयुक्ते तथैवोत्पलहस्तके ॥

०२.३०

विश्वास-प्रस्तुतिः

भृङ्गारो दर्पणो वापि लब्ध्वा पुत्रागमं वदेत् । तडागारामकूपानां पुरारञ्जनयोर् अपि ॥

मूलम्

भृङ्गारो दर्पणो वापि लब्ध्वा पुत्रागमं वदेत् । तडागारामकूपानां पुरारञ्जनयोर् अपि ॥

०२.३१

विश्वास-प्रस्तुतिः

पूर्णकुम्भस्य चादेश्यं वर्षम् उत्तरणाद् भ्रुवम् । चिपिटः कालको नग्नः श्रवणो मेहते यदि ॥

मूलम्

पूर्णकुम्भस्य चादेश्यं वर्षम् उत्तरणाद् भ्रुवम् । चिपिटः कालको नग्नः श्रवणो मेहते यदि ॥

०२.३२

विश्वास-प्रस्तुतिः

विदिक्थः स्रवते चार्मिः स्वप्ने वर्षं समादिशेत् । सूकरीं महिषीं वापि हस्तिनीं शकुनीं तथा ॥

मूलम्

विदिक्थः स्रवते चार्मिः स्वप्ने वर्षं समादिशेत् । सूकरीं महिषीं वापि हस्तिनीं शकुनीं तथा ॥

०२.३३

विश्वास-प्रस्तुतिः

स्वप्ने यदा प्रसूयेत सुभिक्षं निर्दिशेत् तदा । शयनासनयानानि गृहग्रामपुराणि च ॥

मूलम्

स्वप्ने यदा प्रसूयेत सुभिक्षं निर्दिशेत् तदा । शयनासनयानानि गृहग्रामपुराणि च ॥

०२.३४

विश्वास-प्रस्तुतिः

येषां स्वप्ने प्रलीयन्ते तेषां वृद्धिम् अथादिशेत् । गोवृषं पुरुषं वृक्षं हस्तिनं पर्वतं गृहम् ॥

मूलम्

येषां स्वप्ने प्रलीयन्ते तेषां वृद्धिम् अथादिशेत् । गोवृषं पुरुषं वृक्षं हस्तिनं पर्वतं गृहम् ॥

०२.३५

विश्वास-प्रस्तुतिः

नरस्यारोहणाद् वृद्धिः पाण्डुराणि विशेषतः । दैवतानि द्विजा गावः पितरो लिङ्गिनो ग्रहाः ॥

मूलम्

नरस्यारोहणाद् वृद्धिः पाण्डुराणि विशेषतः । दैवतानि द्विजा गावः पितरो लिङ्गिनो ग्रहाः ॥

०२.३६

विश्वास-प्रस्तुतिः

यद् वदन्ति नरं स्वप्ने तत् तथैव विनिर्दिशेत् । सरित्सरसमुद्राणां तरणे शोकतारणम् ॥

मूलम्

यद् वदन्ति नरं स्वप्ने तत् तथैव विनिर्दिशेत् । सरित्सरसमुद्राणां तरणे शोकतारणम् ॥

०२.३७

विश्वास-प्रस्तुतिः

नरस्य शोणितं पीत्वा प्रकृताण्ल् लभते नरः । चन्द्रेन्द्रध्वजसूर्याणां पतने नृपतेर् भयम् ॥

मूलम्

नरस्य शोणितं पीत्वा प्रकृताण्ल् लभते नरः । चन्द्रेन्द्रध्वजसूर्याणां पतने नृपतेर् भयम् ॥

०२.३८

विश्वास-प्रस्तुतिः

महार्णवमहेन्द्राणां क्षोभे क्षोभं विनिर्दिशेत् । केशश्मश्रुनखानां च पतने शोकसम्भवः ॥

मूलम्

महार्णवमहेन्द्राणां क्षोभे क्षोभं विनिर्दिशेत् । केशश्मश्रुनखानां च पतने शोकसम्भवः ॥

०२.३९

विश्वास-प्रस्तुतिः

कृमिणत्वं भवेद् धन्यं क्रोष्टुकेर् वचनं यथा । क्रव्यादैर् दम्ष्ट्रिभिश् चापि विनाशो भूतविग्रहे ॥

मूलम्

कृमिणत्वं भवेद् धन्यं क्रोष्टुकेर् वचनं यथा । क्रव्यादैर् दम्ष्ट्रिभिश् चापि विनाशो भूतविग्रहे ॥

०२.४०

विश्वास-प्रस्तुतिः

शस्त्रमुष्टिप्रहारेषु विजानीयाज् ज्वरागमम् । यद्यद् उज्ज्वलवद् द्रव्यं तत्तत् सुखकरं भवेत् ॥

मूलम्

शस्त्रमुष्टिप्रहारेषु विजानीयाज् ज्वरागमम् । यद्यद् उज्ज्वलवद् द्रव्यं तत्तत् सुखकरं भवेत् ॥

०२.४१

विश्वास-प्रस्तुतिः

यद्यद् विरुध्यते वापि स्वप्ने तत् तस्य निर्दिशेत् । [नोपानेन] प्रजातानां दर्शने स्थानम् आदिशेत् ॥

मूलम्

यद्यद् विरुध्यते वापि स्वप्ने तत् तस्य निर्दिशेत् । [नोपानेन] प्रजातानां दर्शने स्थानम् आदिशेत् ॥

०२.४२

विश्वास-प्रस्तुतिः

उपानहबलछत्त्रदर्शने च ग्र्हे तथा । हसद्भिर् वा परिवृतो नृत्यद्भिः स्वजनैर् अपि ॥

मूलम्

उपानहबलछत्त्रदर्शने च ग्र्हे तथा । हसद्भिर् वा परिवृतो नृत्यद्भिः स्वजनैर् अपि ॥

०२.४३

विश्वास-प्रस्तुतिः

संयुक्तं सूकरखरैर् उष्ट्रैः कृष्णचतुष्पदैः । रथम् आरुह्य यो यायाद् अक्षतस् तु युगन्धरः ॥

मूलम्

संयुक्तं सूकरखरैर् उष्ट्रैः कृष्णचतुष्पदैः । रथम् आरुह्य यो यायाद् अक्षतस् तु युगन्धरः ॥

०२.४४

विश्वास-प्रस्तुतिः

प्रकीर्णकेशो ह्रियते दक्षिणेनापरेण वा । दक्षिणेनागता कन्या कालिकाकुलवासिनी ॥

मूलम्

प्रकीर्णकेशो ह्रियते दक्षिणेनापरेण वा । दक्षिणेनागता कन्या कालिकाकुलवासिनी ॥

०२.४५

विश्वास-प्रस्तुतिः

नीयते पुरुषैर् यश् च पाशहस्तैर् विशेषतः । निरस्तानां विषमाणां प्रेतेनाकुशलं भवेत् ॥

मूलम्

नीयते पुरुषैर् यश् च पाशहस्तैर् विशेषतः । निरस्तानां विषमाणां प्रेतेनाकुशलं भवेत् ॥

०२.४६

विश्वास-प्रस्तुतिः

पिण्याकस्य तिलानां च कर्षासु लवणस्य च । रूढश्मश्रुनखानां च दुश्चेलानां च वाससाम् ॥

मूलम्

पिण्याकस्य तिलानां च कर्षासु लवणस्य च । रूढश्मश्रुनखानां च दुश्चेलानां च वाससाम् ॥

०२.४७

विश्वास-प्रस्तुतिः

विरागवाससां वापि विकृतानां तथैव च । सरीसृपाणां व्यालानां शत्रूणां चापि दर्शनम् ॥

मूलम्

विरागवाससां वापि विकृतानां तथैव च । सरीसृपाणां व्यालानां शत्रूणां चापि दर्शनम् ॥

०२.४८

विश्वास-प्रस्तुतिः

कृष्णानां वापि सर्वेषां राजद्विजवृषाद् ऋते । दर्शनं गमनं वापि शोकम् आयासवेदनम् ॥

मूलम्

कृष्णानां वापि सर्वेषां राजद्विजवृषाद् ऋते । दर्शनं गमनं वापि शोकम् आयासवेदनम् ॥

०२.४९

विश्वास-प्रस्तुतिः

पद्मैर् वा जलभाण्डैर् वा क्रीडितायासदर्शनम् । पद्मानि वाहरेत् स्वप्ने हस्तछेदम् अवाप्नुयात् ॥

मूलम्

पद्मैर् वा जलभाण्डैर् वा क्रीडितायासदर्शनम् । पद्मानि वाहरेत् स्वप्ने हस्तछेदम् अवाप्नुयात् ॥

०२.५०

विश्वास-प्रस्तुतिः

प्रसन्ने तु ध्रुवं शोको रज्जुछेदे म्रियेत सः । रूढस्य स्रोतसा शोको मृत्युः स्रिओतसि नश्यतः ॥

मूलम्

प्रसन्ने तु ध्रुवं शोको रज्जुछेदे म्रियेत सः । रूढस्य स्रोतसा शोको मृत्युः स्रिओतसि नश्यतः ॥

०२.५१

विश्वास-प्रस्तुतिः

दन्ता बाहुं तथा शीर्ष्णो छिन्नांशद्रव्यदर्शनम् । भ्रातरं पितरं वापि पुत्रं वा नाशयन्ति ते ॥

मूलम्

दन्ता बाहुं तथा शीर्ष्णो छिन्नांशद्रव्यदर्शनम् । भ्रातरं पितरं वापि पुत्रं वा नाशयन्ति ते ॥

०२.५२

विश्वास-प्रस्तुतिः

द्वारे वा सार्गले वापि शय्यां शखां तथैव च । स्वप्ने यस्य प्रनश्यन्ति भार्या तस्य विनश्यति ॥

मूलम्

द्वारे वा सार्गले वापि शय्यां शखां तथैव च । स्वप्ने यस्य प्रनश्यन्ति भार्या तस्य विनश्यति ॥

०२.५३

विश्वास-प्रस्तुतिः

कृकलासो वृको वापि पुरुषो वापि पिङ्गलः । शय्यां यस्याधिरोहन्ति भार्या तस्यापि दुष्यति ॥

मूलम्

कृकलासो वृको वापि पुरुषो वापि पिङ्गलः । शय्यां यस्याधिरोहन्ति भार्या तस्यापि दुष्यति ॥

०२.५४

विश्वास-प्रस्तुतिः

स्वप्ने यो मारयेत् सर्पं श्वेतपीतकलोहितम् । कृष्णस्य वा शिरश् छिन्द्यात् पुत्रस् तस्य विनश्यति ॥

मूलम्

स्वप्ने यो मारयेत् सर्पं श्वेतपीतकलोहितम् । कृष्णस्य वा शिरश् छिन्द्यात् पुत्रस् तस्य विनश्यति ॥

०२.५५

विश्वास-प्रस्तुतिः

राजपुत्रश् च चोरश् च राजभृट्यश् च यो भवेत् । तस्य स्वप्नाः फलं दद्युर् एतेषु यद् उदाहृतम् ॥

मूलम्

राजपुत्रश् च चोरश् च राजभृट्यश् च यो भवेत् । तस्य स्वप्नाः फलं दद्युर् एतेषु यद् उदाहृतम् ॥

०२.५६

विश्वास-प्रस्तुतिः

येषां लाभे भवेद् वृद्धिस् तेषां नाशे गुणो भवेत् । येषां लाभे भवेद् धानिस् तेषां लाभे गुणो भवेत् ॥

मूलम्

येषां लाभे भवेद् वृद्धिस् तेषां नाशे गुणो भवेत् । येषां लाभे भवेद् धानिस् तेषां लाभे गुणो भवेत् ॥

०२.५७

विश्वास-प्रस्तुतिः

शुभं दृष्ट्वा तु यः स्वप्ने पुनः पश्यत्य् अपूजितम् । शुभं वाप्य् अशुभं वापि यत् पश्चात् तत्फलं लभेत् ॥

मूलम्

शुभं दृष्ट्वा तु यः स्वप्ने पुनः पश्यत्य् अपूजितम् । शुभं वाप्य् अशुभं वापि यत् पश्चात् तत्फलं लभेत् ॥

०२.५८

विश्वास-प्रस्तुतिः

स्वप्नास् तु प्रथमे यामे संवत्सरविपाकिनः । द्वितीये ऽष्टसु मासेषु तृतीये तु तदर्धभाक् ॥

मूलम्

स्वप्नास् तु प्रथमे यामे संवत्सरविपाकिनः । द्वितीये ऽष्टसु मासेषु तृतीये तु तदर्धभाक् ॥

०२.५९

विश्वास-प्रस्तुतिः

मासिको गोविसर्गे तु सद्यःपाकः प्रभातिके। कालः पञ्चस्व् अवस्थासु शर्वर्याः कीर्तितः पृथक् ॥

मूलम्

मासिको गोविसर्गे तु सद्यःपाकः प्रभातिके। कालः पञ्चस्व् अवस्थासु शर्वर्याः कीर्तितः पृथक् ॥

०२.६०

विश्वास-प्रस्तुतिः

विप्रेभ्यः शक्तितो दानं शान्तिः स्वष्ट्ययनादयः । विनाशयन्ति दुःस्वप्नं प्रातश् चाश्वत्थसेवनम् ॥

मूलम्

विप्रेभ्यः शक्तितो दानं शान्तिः स्वष्ट्ययनादयः । विनाशयन्ति दुःस्वप्नं प्रातश् चाश्वत्थसेवनम् ॥

०२.६१

विश्वास-प्रस्तुतिः

अश्वत्थसेवा तिलपात्रदानं गोस्पर्शनं ब्राह्मणतर्पणं च । शान्तिक्रिया स्वस्त्ययनक्रिया च दुःस्वप्नम् एतानि विनाशयन्ति ॥

मूलम्

अश्वत्थसेवा तिलपात्रदानं गोस्पर्शनं ब्राह्मणतर्पणं च । शान्तिक्रिया स्वस्त्ययनक्रिया च दुःस्वप्नम् एतानि विनाशयन्ति ॥

०२.६२

विश्वास-प्रस्तुतिः

वस्नकनकदानदेवपूजागुरुगोष्ठनिषेवितानि कुर्युः । द्विजवृषब्ःगवाश्वपार्थिवानां दर्शनम् इतिहासमङ्गलाः स्युः ॥

मूलम्

वस्नकनकदानदेवपूजागुरुगोष्ठनिषेवितानि कुर्युः । द्विजवृषब्ःगवाश्वपार्थिवानां दर्शनम् इतिहासमङ्गलाः स्युः ॥

०३.०१

विश्वास-प्रस्तुतिः

इमान् दृष्ट्वाशुभान् स्वप्नान् प्रातर् उत्थाय सत्वरः । नदीसङ्गमतोयेन मुखं सम्मार्ज्य तत्त्वतः ॥

मूलम्

इमान् दृष्ट्वाशुभान् स्वप्नान् प्रातर् उत्थाय सत्वरः । नदीसङ्गमतोयेन मुखं सम्मार्ज्य तत्त्वतः ॥

०३.०२

विश्वास-प्रस्तुतिः

हिरण्यवर्णाभिर् उदकं शन्तातीयमयोभुवा । अभिमन्त्र्य प्रयत्नेन मुखं सम्मार्ज्य तत्त्वतः ॥

मूलम्

हिरण्यवर्णाभिर् उदकं शन्तातीयमयोभुवा । अभिमन्त्र्य प्रयत्नेन मुखं सम्मार्ज्य तत्त्वतः ॥

०३.०३

विश्वास-प्रस्तुतिः

यो न जीवः परो ऽपेहि विद्म ते स्वप्न वेदनम् । रोचना सर्षपा मृदा समित् सकुसुमं दधि ॥

मूलम्

यो न जीवः परो ऽपेहि विद्म ते स्वप्न वेदनम् । रोचना सर्षपा मृदा समित् सकुसुमं दधि ॥

०३.०४

विश्वास-प्रस्तुतिः

गाम् अजं कनकं सत्त्वं कुमारीं ब्राह्मणं शुभम् । अभिवन्द्य नृपो यायात् सुहृदांश् च मनोहरान् ॥

मूलम्

गाम् अजं कनकं सत्त्वं कुमारीं ब्राह्मणं शुभम् । अभिवन्द्य नृपो यायात् सुहृदांश् च मनोहरान् ॥

०३.०५

विश्वास-प्रस्तुतिः

यदा तु यात्रां नृपतिः कर्तुम् इच्छेद् विधानवित् । अथ स्वस्त्ययनैः [सौम्यैः सौम्यैस् तम् अभिमन्त्रयेत् ॥

मूलम्

यदा तु यात्रां नृपतिः कर्तुम् इच्छेद् विधानवित् । अथ स्वस्त्ययनैः [सौम्यैः सौम्यैस् तम् अभिमन्त्रयेत् ॥

०३.०६

विश्वास-प्रस्तुतिः

ततः शुक्लाम्बरधरो वाग्यतः संयतेन्द्रियः । तां निशं संविशेद् राजा भूमौ चैवाभिमन्त्रयेत् ॥

मूलम्

ततः शुक्लाम्बरधरो वाग्यतः संयतेन्द्रियः । तां निशं संविशेद् राजा भूमौ चैवाभिमन्त्रयेत् ॥

०३.०७

विश्वास-प्रस्तुतिः

[अन्यथैव हि न स्वप्नदर्शनार्थनिदर्शनम्] । एवम् उक्त्वा नरपतिः प्रयतात्मा ततः स्वपेत् ॥

मूलम्

[अन्यथैव हि न स्वप्नदर्शनार्थनिदर्शनम्] । एवम् उक्त्वा नरपतिः प्रयतात्मा ततः स्वपेत् ॥

०३.०८

विश्वास-प्रस्तुतिः

प्रशस्तस्वप्नतां दृष्ट्वा ततो यायान् नराधिपः । स्वप्नेषु वाप्रशस्त्रेषु ततः शान्तिं समारभेत् ॥

मूलम्

प्रशस्तस्वप्नतां दृष्ट्वा ततो यायान् नराधिपः । स्वप्नेषु वाप्रशस्त्रेषु ततः शान्तिं समारभेत् ॥

०३.०९

विश्वास-प्रस्तुतिः

माहेन्द्रीम् अमृतां रौद्रीं कुर्याद् वाप्य् अपराजिताम् । कौबेरीं वा प्रयुञ्जीत आदित्यां वा सदक्षिणाम् ॥

मूलम्

माहेन्द्रीम् अमृतां रौद्रीं कुर्याद् वाप्य् अपराजिताम् । कौबेरीं वा प्रयुञ्जीत आदित्यां वा सदक्षिणाम् ॥

०३.१०

विश्वास-प्रस्तुतिः

रजनिकरदिवाकरौ कराभ्यां स्पृशति यदा ग्रसते ऽथ वा नरेन्द्रः । लवणजलनिधिं नदीं च दोर्भ्यां तरति ह्रदापदकर्दमं तमो वा ॥

मूलम्

रजनिकरदिवाकरौ कराभ्यां स्पृशति यदा ग्रसते ऽथ वा नरेन्द्रः । लवणजलनिधिं नदीं च दोर्भ्यां तरति ह्रदापदकर्दमं तमो वा ॥

०३.११

विश्वास-प्रस्तुतिः

नरतुरगमहीरुहान् नगान् वा भवनचरान् न विरोहयेद् गजान् वा । ज्वलनमरणकालवृद्धयोगान् यदि नृप आत्मगतांश् च पश्यतीह ॥

मूलम्

नरतुरगमहीरुहान् नगान् वा भवनचरान् न विरोहयेद् गजान् वा । ज्वलनमरणकालवृद्धयोगान् यदि नृप आत्मगतांश् च पश्यतीह ॥

०३.१२

विश्वास-प्रस्तुतिः

यदि च नृपतिर् आत्मनो ऽभ्रचारैर् भ्रमति महीं सपुरां परिक्षिपेत् । यदि च स चिरमग्नगात्रमात्रो भ्रमति नृपो ग्रसते ऽथ मेदिनीं वा ॥

मूलम्

यदि च नृपतिर् आत्मनो ऽभ्रचारैर् भ्रमति महीं सपुरां परिक्षिपेत् । यदि च स चिरमग्नगात्रमात्रो भ्रमति नृपो ग्रसते ऽथ मेदिनीं वा ॥

०३.१३

विश्वास-प्रस्तुतिः

यदि च जयति दम्ष्ट्रिणो नरान् वा यदि च भवेत् सितमाल्यदानधारी । यदि च रुदिति चैवम् आदि दृष्ट्वा परविषयं हृषितस् ततस् तु यायात् ॥

मूलम्

यदि च जयति दम्ष्ट्रिणो नरान् वा यदि च भवेत् सितमाल्यदानधारी । यदि च रुदिति चैवम् आदि दृष्ट्वा परविषयं हृषितस् ततस् तु यायात् ॥

०४.०१

विश्वास-प्रस्तुतिः

स कलुषसलिलावपांसुमग्नो मधुघ्}ऋततैलवसाप्रदिग्धगात्रः । मलिनवसनजीर्णरक्तवासा यदि सुमनोभिर् अलङ्कृतः स्वयं वा ॥

मूलम्

स कलुषसलिलावपांसुमग्नो मधुघ्}ऋततैलवसाप्रदिग्धगात्रः । मलिनवसनजीर्णरक्तवासा यदि सुमनोभिर् अलङ्कृतः स्वयं वा ॥

०४.०२

विश्वास-प्रस्तुतिः

स्वपिति जयति खादति प्रहृष्टो विलपति नर्तति गायनप्रहासैः । भवति च मुदितो लभेत कन्यां यदि नृपतिर् नयशो भवेज् जयार्थी ॥

मूलम्

स्वपिति जयति खादति प्रहृष्टो विलपति नर्तति गायनप्रहासैः । भवति च मुदितो लभेत कन्यां यदि नृपतिर् नयशो भवेज् जयार्थी ॥

०४.०३

विश्वास-प्रस्तुतिः

मयखरसूकरवानराधिरूढो हृतमुकुटाङ्गदवस्त्रचिह्ननग्नः । विनिहततुरगद्विपो नरेन्द्रो यदि पतितध्वजवांस् ततो न यायात् ॥

मूलम्

मयखरसूकरवानराधिरूढो हृतमुकुटाङ्गदवस्त्रचिह्ननग्नः । विनिहततुरगद्विपो नरेन्द्रो यदि पतितध्वजवांस् ततो न यायात् ॥

०४.०४

विश्वास-प्रस्तुतिः

नरपतिर् अपराजितः परैर् यो यदि च परैः परिहस्यते मदद्भिः । यदि च भवति दुर्दृशोग्ररूपो न स ईदृशकः परान् प्रयायात् ॥

मूलम्

नरपतिर् अपराजितः परैर् यो यदि च परैः परिहस्यते मदद्भिः । यदि च भवति दुर्दृशोग्ररूपो न स ईदृशकः परान् प्रयायात् ॥

०४.०५

विश्वास-प्रस्तुतिः

स्वप्नान् दृष्ट्वा शुभान् राजा जपद्भिर् अभिमन्त्रितः । युक्तः स शकुनैर् भूप उत्पातगणवर्जितः ॥

मूलम्

स्वप्नान् दृष्ट्वा शुभान् राजा जपद्भिर् अभिमन्त्रितः । युक्तः स शकुनैर् भूप उत्पातगणवर्जितः ॥

०४.०६

विश्वास-प्रस्तुतिः

सहायवान् सुसन्नद्धो निमित्तज्ञैः समन्वितः । सुमुहूर्ते सुनक्षत्रे प्रयायाद् वसुधाधिपः ॥

मूलम्

सहायवान् सुसन्नद्धो निमित्तज्ञैः समन्वितः । सुमुहूर्ते सुनक्षत्रे प्रयायाद् वसुधाधिपः ॥

०५.१

विश्वास-प्रस्तुतिः

तैलाभ्यक्तश् च कृसरां भुङ्क्ते तैलपरिप्लुताम् । मातरं प्रविशेद् यश् च ज्वलितं च हुताशनम् ॥

मूलम्

तैलाभ्यक्तश् च कृसरां भुङ्क्ते तैलपरिप्लुताम् । मातरं प्रविशेद् यश् च ज्वलितं च हुताशनम् ॥

०५.२

विश्वास-प्रस्तुतिः

प्रासदात् पर्वताग्राद् वा पतेद् यश् चापि मानवः । मग्नः कर्दमकूपेषु जले यश् चापि नश्यति ॥

मूलम्

प्रासदात् पर्वताग्राद् वा पतेद् यश् चापि मानवः । मग्नः कर्दमकूपेषु जले यश् चापि नश्यति ॥

०५.३

विश्वास-प्रस्तुतिः

द्रुमम् उन्मूलयेद् यस् तु पश्येद् राज्ञोपसेवकम् । कुमारीवदने यश् च वानरीं वाधिगच्छति ॥

मूलम्

द्रुमम् उन्मूलयेद् यस् तु पश्येद् राज्ञोपसेवकम् । कुमारीवदने यश् च वानरीं वाधिगच्छति ॥

०५.४

विश्वास-प्रस्तुतिः

रक्तकण्ठगते वापि यस्य कण्ठे विसर्जति । विवर्णो वापि पाशैर् यो बध्यते म्रियते तु सः ॥

मूलम्

रक्तकण्ठगते वापि यस्य कण्ठे विसर्जति । विवर्णो वापि पाशैर् यो बध्यते म्रियते तु सः ॥

०५.५

विश्वास-प्रस्तुतिः

कांस्यं वा कांस्यपात्रीं वा यस्य तेजो ऽधिरोहति । अचिरेणैव कालेन सो ऽसिना वध्यते नरः ॥

मूलम्

कांस्यं वा कांस्यपात्रीं वा यस्य तेजो ऽधिरोहति । अचिरेणैव कालेन सो ऽसिना वध्यते नरः ॥

०५.६

विश्वास-प्रस्तुतिः

यूपाग्रम् अधिरुह्याथ नावाग्रम् अधिरोहति । अचिरेणैव कालेन शूलाग्रं सो ऽधिरोहति ॥

मूलम्

यूपाग्रम् अधिरुह्याथ नावाग्रम् अधिरोहति । अचिरेणैव कालेन शूलाग्रं सो ऽधिरोहति ॥

०५.७

विश्वास-प्रस्तुतिः

मुण्डः काषायवासो वा श्वेतरक्तपटो ऽपि वा । स्वप्ने यस्याधिरोहन्ति व्याधिस् तस्याधिरोहति ॥

मूलम्

मुण्डः काषायवासो वा श्वेतरक्तपटो ऽपि वा । स्वप्ने यस्याधिरोहन्ति व्याधिस् तस्याधिरोहति ॥

०५.८

विश्वास-प्रस्तुतिः

श्वा वा अजगरो गोधा तरक्षु शल्यको ऽपि वा । कृकलासो रुरुर् व्याघ्रो द्वीपी यस्याधिरोहति ॥

मूलम्

श्वा वा अजगरो गोधा तरक्षु शल्यको ऽपि वा । कृकलासो रुरुर् व्याघ्रो द्वीपी यस्याधिरोहति ॥

०५.९

विश्वास-प्रस्तुतिः

अहिश् च रौद्रजटिलः श्वेतरक्तपटो ऽपि वा । स्वप्ने यम् उपतिष्ठन्ति व्याधिस् तम् उपतिष्ठति ॥

मूलम्

अहिश् च रौद्रजटिलः श्वेतरक्तपटो ऽपि वा । स्वप्ने यम् उपतिष्ठन्ति व्याधिस् तम् उपतिष्ठति ॥

०५.१०

विश्वास-प्रस्तुतिः

महीभस्मप्रदिग्धाङ्गो निरावरण एव च । समस्यानां सजातानाम् उत्सवानां च दर्शनम् ॥

मूलम्

महीभस्मप्रदिग्धाङ्गो निरावरण एव च । समस्यानां सजातानाम् उत्सवानां च दर्शनम् ॥

०५.११

विश्वास-प्रस्तुतिः

दुर्गम् अध्वानगमनम् अनूपानां च सेवनम् । अभ्यङ्गश् चैव गात्राणां तिलगोमयकर्दमैः ॥

मूलम्

दुर्गम् अध्वानगमनम् अनूपानां च सेवनम् । अभ्यङ्गश् चैव गात्राणां तिलगोमयकर्दमैः ॥

०५.१२

विश्वास-प्रस्तुतिः

सुवर्णमणिमुक्तानि भूषणं रजतानि च । दर्शनं वाप्य् अथैतेषां व्याधीनां सम्प्रवेशनम् ॥

मूलम्

सुवर्णमणिमुक्तानि भूषणं रजतानि च । दर्शनं वाप्य् अथैतेषां व्याधीनां सम्प्रवेशनम् ॥

०५.१३

विश्वास-प्रस्तुतिः

गायनं नर्तनं हास्यं विवाहकरणं तथा । आनन्दश् च प्रमोदश् च व्यसनस्य च दर्शनम् ॥

मूलम्

गायनं नर्तनं हास्यं विवाहकरणं तथा । आनन्दश् च प्रमोदश् च व्यसनस्य च दर्शनम् ॥

०५.१४

विश्वास-प्रस्तुतिः

पुराणघृतदिग्धाङ्गो नरो मरणम् आप्नुयात् । एवम् उक्ता महोत्पाता विविधाः पूर्वचोदितः ॥

मूलम्

पुराणघृतदिग्धाङ्गो नरो मरणम् आप्नुयात् । एवम् उक्ता महोत्पाता विविधाः पूर्वचोदितः ॥

०५.१५

विश्वास-प्रस्तुतिः

उल्काभेदास् तथा पञ्च परिवेषा नव स्मृताः । दिग्दाहो ऽष्टविधः प्रोक्तो विद्युद् अष्टविधा तथा ॥

मूलम्

उल्काभेदास् तथा पञ्च परिवेषा नव स्मृताः । दिग्दाहो ऽष्टविधः प्रोक्तो विद्युद् अष्टविधा तथा ॥

०५.१६

विश्वास-प्रस्तुतिः

चत्वारो भूमिकम्पाश् च निर्घातो ऽष्टविधस् तथा । विंशती द्वे च विज्ञेया भेदा ह्य् उल्कादिषु स्मृताः ॥

मूलम्

चत्वारो भूमिकम्पाश् च निर्घातो ऽष्टविधस् तथा । विंशती द्वे च विज्ञेया भेदा ह्य् उल्कादिषु स्मृताः ॥

०५.१७

विश्वास-प्रस्तुतिः

महोत्पाताश् च बहवः शान्तियोगेषु कीर्तिताः । तेषु सर्वेषु विधिवच् छान्तिकामो नराधिपः ॥

मूलम्

महोत्पाताश् च बहवः शान्तियोगेषु कीर्तिताः । तेषु सर्वेषु विधिवच् छान्तिकामो नराधिपः ॥

०५.१८

विश्वास-प्रस्तुतिः

अथर्वाणं च वृणुयात् सर्वशास्त्रविदं नृपः । स वृतो भयभीतेन शमनार्थं महात्मना ॥

मूलम्

अथर्वाणं च वृणुयात् सर्वशास्त्रविदं नृपः । स वृतो भयभीतेन शमनार्थं महात्मना ॥

०५.१९

विश्वास-प्रस्तुतिः

प्रजानाम् अभयं सम्यग् दापयेत् पृथिवीपतिः । अनन्तरं गवां पूजा ब्राह्मणानां विशेषतः ॥

मूलम्

प्रजानाम् अभयं सम्यग् दापयेत् पृथिवीपतिः । अनन्तरं गवां पूजा ब्राह्मणानां विशेषतः ॥

०५.२०

विश्वास-प्रस्तुतिः

देवतायतने सद्यो दोहान् भूमौ प्रकारयेत् । सततं चानुलिप्यस् तु पुष्पैर् धूपैर् यथोदितैः ॥

मूलम्

देवतायतने सद्यो दोहान् भूमौ प्रकारयेत् । सततं चानुलिप्यस् तु पुष्पैर् धूपैर् यथोदितैः ॥

०५.२१

विश्वास-प्रस्तुतिः

प्रदीपैर् विविधैः शुभ्रैः सर्वदिक्षुप्रकल्पितैः । तथा बल्युपहारैश् च पायसापूपसंयुतैः ॥

मूलम्

प्रदीपैर् विविधैः शुभ्रैः सर्वदिक्षुप्रकल्पितैः । तथा बल्युपहारैश् च पायसापूपसंयुतैः ॥

०५.२२

विश्वास-प्रस्तुतिः

हृद्यैर् बहुविधैर् भक्षैः सर्वदिक्षुप्रकल्पितैः । तस्मिन्न् एवान्तरे शान्ते गोष्ठे वा जलसन्निधौ ॥

मूलम्

हृद्यैर् बहुविधैर् भक्षैः सर्वदिक्षुप्रकल्पितैः । तस्मिन्न् एवान्तरे शान्ते गोष्ठे वा जलसन्निधौ ॥

०५.२३

विश्वास-प्रस्तुतिः

निर्गत्य नगराद् वापि शुचौ देशे समाहितः । वृणुयाच् छान्तितत्त्वज्ञान् उत्पातविहिताञ् शुभान् ॥

मूलम्

निर्गत्य नगराद् वापि शुचौ देशे समाहितः । वृणुयाच् छान्तितत्त्वज्ञान् उत्पातविहिताञ् शुभान् ॥

०५.२४

विश्वास-प्रस्तुतिः

षोडशाष्टौ वृतास् ते च पुरश्चरणशोधिताः । अङ्गानि कुर्युर् अन्ये च शतसङ्ख्या द्विजोत्तमाः ॥

मूलम्

षोडशाष्टौ वृतास् ते च पुरश्चरणशोधिताः । अङ्गानि कुर्युर् अन्ये च शतसङ्ख्या द्विजोत्तमाः ॥

०५.२५

विश्वास-प्रस्तुतिः

उदयास्ते सुखासीना जपं कुर्युर् अतन्द्रिताः । ते सदस्या इति प्रोक्ता वाचने यज्ञकर्मणि ॥

मूलम्

उदयास्ते सुखासीना जपं कुर्युर् अतन्द्रिताः । ते सदस्या इति प्रोक्ता वाचने यज्ञकर्मणि ॥

०५.२६

विश्वास-प्रस्तुतिः

तेषां वरिष्ठः शान्तिज्ञ उपद्रष्टा मनोहरः । सर्वकर्मसु वेत्ता य आनयेत् सो ऽप्य् अथादरात् ॥

मूलम्

तेषां वरिष्ठः शान्तिज्ञ उपद्रष्टा मनोहरः । सर्वकर्मसु वेत्ता य आनयेत् सो ऽप्य् अथादरात् ॥

०५.२७

विश्वास-प्रस्तुतिः

भूमिं संशोध्य विधिवत् कृत्वा तत्र च मण्डपम् । विधिवत् कल्पयेद् वेदिं यज्ञपात्राणि च स्वयम् ॥

मूलम्

भूमिं संशोध्य विधिवत् कृत्वा तत्र च मण्डपम् । विधिवत् कल्पयेद् वेदिं यज्ञपात्राणि च स्वयम् ॥

०५.२८

विश्वास-प्रस्तुतिः

एवं यथोक्तविधिना अग्निमन्थनपूर्वकाम् । महाशान्तिं प्रयुञ्जीत सर्वोपद्रवनाशिनीम् ॥

मूलम्

एवं यथोक्तविधिना अग्निमन्थनपूर्वकाम् । महाशान्तिं प्रयुञ्जीत सर्वोपद्रवनाशिनीम् ॥

०५.२९

विश्वास-प्रस्तुतिः

अन्नैर् वस्त्रैश् च विविधैः संयुक्तां बहुदक्षिणाम् । कारयित्वा महाशान्तिं वरं गां च निवेदयेत् ॥

मूलम्

अन्नैर् वस्त्रैश् च विविधैः संयुक्तां बहुदक्षिणाम् । कारयित्वा महाशान्तिं वरं गां च निवेदयेत् ॥

०५.३०

विश्वास-प्रस्तुतिः

गृहम् आभरणं छत्त्रम् अनडुद्वाजिनं तथा । कुञ्जरं वा तथा दत्त्वा घण्ताभरणभूषितम् ॥

मूलम्

गृहम् आभरणं छत्त्रम् अनडुद्वाजिनं तथा । कुञ्जरं वा तथा दत्त्वा घण्ताभरणभूषितम् ॥

०५.३१

विश्वास-प्रस्तुतिः

महत् सुखम् अवाप्नोति
कार्यसिद्धिं च विन्दति ।
कार्यसिद्धिं च विन्दति ॥

मूलम्

महत् सुखम् अवाप्नोति कार्यसिद्धिं च विन्दति । कार्यसिद्धिं च विन्दति ॥