०१.०१
विश्वास-प्रस्तुतिः
ॐ पुरुषस् पुत्रदारं वा धनधान्यम् अथ अपि वा । निमित्तैर् यैर् विनश्येत शान्तिं तत्र निबोधत ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
इन्द्रायुधं भवेत् रात्रौ दृश्यते यस्य कस्य चित् । दर्वी करे वा भिद्येत मणिस् कुम्भस् तथा एव च ॥

०१.०३
विश्वास-प्रस्तुतिः
छत्त्रं शय्या आसनं च एव अन्यत् वा अपि स्वयं क्व चित् । स्त्री हन्यात् च स्त्रियं वा अपि गौर् अवघ्रेत् उलूखलम् ॥

०१.०४
विश्वास-प्रस्तुतिः
श्वा पिदेत् गाम् अनड्वाहं कलिस् सम्पद्यते कुले । गजवाजिनो म्रियन्ते विवादो राजकीयकस् ॥

०१.०५
विश्वास-प्रस्तुतिः
कुटुम्बम् अशुभं सर्वम् ऐन्द्राणि एतानि निर्दिशेत् । शाम्यन्ति येन सर्वाणि निर्वपेत् पायसं चरुम् ॥

०१.०६
विश्वास-प्रस्तुतिः
समावओय घृतं तत्र आहुतिं जिहुयात् इमाम् । इन्द्रम् इद् देवतातये स्थालीपाकस्य होमयेत् ॥

०१.०७
विश्वास-प्रस्तुतिः
इन्द्रस् शचीपतिस् शक्रो वज्रपाणिस् सुरेआश्वरस् । सर्वाद्भुतानां शमनो महाव्याहृतयस् तथा ॥

०१.०८
विश्वास-प्रस्तुतिः
हुत्वा स्विष्टकृतं च एव चरुतन्त्रं समापयेत् । विमुक्तोत्पातदोषस् तु जीवेत् तु शरदस् शतम् ॥

०२.०१
विश्वास-प्रस्तुतिः
उद्दीपिका गृहे यस्य वल्मीका मधुजालकम् । अब्जानां मणिके शब्दे तैलं स्थीयत एव वा ॥

०२.०२
विश्वास-प्रस्तुतिः
अशुभा विकृतिर् दध्नां दुग्धानां वा यदा भवेत् । अकस्मात् च प्ररोहेयुर् बीजानि कृमयस् तथा ॥

०२.०३
विश्वास-प्रस्तुतिः
कार्यो वरुणयागस् तु वारुणीविधिपूर्वकस् । उद् उत्तमं प्रधानं स्यात् पञ्चाज्याहुतयस् तथा ॥

०२.०४
विश्वास-प्रस्तुतिः
वरुणस् पाशपाणिस् च यदासां पतिर् एव च । शे।अं तु पूर्ववत् च एव चरुतन्त्रं समापयेत् ॥

०२.०५
विश्वास-प्रस्तुतिः
विमुक्तोत्पातदोषस् तु जीवेत् तु शरदस् शतम् ॥
मूलम्
विमुक्तोत्पातदोषस् तु जीवेत् तु शरदस् शतम् ॥
०३.०१
विश्वास-प्रस्तुतिः
गृहे यस्य पतेत् गृध्र उलूको वा कथं चन । कपोतस् प्रविशेत् च एव जीवा वा अरण्यसम्भवास् ॥

०३.०२
विश्वास-प्रस्तुतिः
धुर्यौ च पततो युक्तौ गोस्त्रीजन्म च वैकृतम् । जायन्ते यमलानि एव घोरस् स्वप्नस् च दृश्यते ॥

०३.०३
विश्वास-प्रस्तुतिः
अभिद्रवन्ति रक्षांसि यत्र च एव कुमारकान् । उन्निद्रको अतुनिद्रो वा अत्यल्पम् अतिभोजनम् ॥

०३.०४
विश्वास-प्रस्तुतिः
आलस्य च एवम् एतेषां देवता यम उच्यते । नाके सुपर्णम् इति एतत् स्थालीपाकस्य होमयेत् ॥

०३.०५
विश्वास-प्रस्तुतिः
यमस् प्रेतपतिस् च एव दण्डपाणिस् तथा ईश्वरस् । शमनः सर्वाद्भुतानाम्॥। ॥

०४.०१
विश्वास-प्रस्तुतिः
अनग्निर् उत्थितो यस्य धूमो वा अपि गृहे क्व चित् । आमं वा ज्वलते मांसं भवेयुर् विस्फुलिङ्गकास् ॥

०४.०२
विश्वास-प्रस्तुतिः
छत्त्रध्वजपताकास् च ज्वलन्ते तोरणानि च ॥ आसनं च एव ;अय्या च वस्त्राणि कुसुमानि च ॥

०४.०३
विश्वास-प्रस्तुतिः
हस्त्यश्वानां च पुच्छानि वर्षत्यङ्गारवर्षणम् । अकाले च दिशां दाह ओषधीनां च पाचनम् ॥

०४.०४
विश्वास-प्रस्तुतिः
हस्तिन्यस् च एव मद्यन्ते अग्निरूपं तद् अद्भुतम् । अग्निं दूतं वृणीमहे स्थालीपाकस्य होमयेत् ॥

०४.०५
विश्वास-प्रस्तुतिः
अग्निर् हिरण्यपतिस् च अर्चिष्पाणिस् तथा ईश्वरस् । शमनस् सर्वाद्भुतानाम्॥। ॥

०५.०१
विश्वास-प्रस्तुतिः
सुवर्णं रजतं वज्रं वैडूर्यं मौक्तिकानि च । प्रवालवस्त्रनाशस् च मित्राणां च विपर्ययस् ॥

०५.०२
विश्वास-प्रस्तुतिः
आरम्भास् च विपद्यन्ते न सोद्धिस् कर्मणाम् अपि । चरुर् वैश्रवणस् तत्र अभि त्यं देवम् ऋक् स्मृता ॥

०५.०३
विश्वास-प्रस्तुतिः
वैश्रवणो यक्षपतिस् अर्थपाणिस् तथा ईश्वरस् । शमनस् सर्वाद्भुतानाम्॥। ॥

०६.०१
विश्वास-प्रस्तुतिः
अथ यस्य स्वनक्षत्रे उल्का निर्घात एव वा । राहुर् ग्रसति चन्द्रार्कौ कबन्धं दर्पणे भवेत् ॥

०६.०२
विश्वास-प्रस्तुतिः
पतेत् स्वयं वा मुसलं देवता वा कथं चन । उन्मीलते च एव यदा तथा च अपि निमीलते ॥

०६.०३
विश्वास-प्रस्तुतिः
प्रछिद्यते च यदि वा तथा वा अपि प्रकम्पते । प्रयातो वा अपि दृश्येत प्रतिस्रोतो नदी वहेत् ॥

०६.०४
विश्वास-प्रस्तुतिः
विमले न एव अर्कछाया प्रतीपा वा अपि तु सायकास् । परिवेषस् तु अनभ्रेषु दृश्यते चन्द्रसूर्ययोस् ॥

०६.०५
विश्वास-प्रस्तुतिः
कोशात् खड्गा निर्गिरन्ते तूणात् च एव तु सायकास् । अनाहतानि वाद्यन्ते नदन्ते शब्दम् आतुरम् ॥

०६.०६
विश्वास-प्रस्तुतिः
चरुणा वैष्णवेन एषां यागस् कर्तव्यस् एव तु । इदं विष्णुस् प्रधानं स्यात् पञ्चाज्याहुतयस् तथा ॥

०६.०७
विश्वास-प्रस्तुतिः
सर्वभूतपतिस् विष्नुस् चक्रपाणिस् तथा ईश्वरस् । शमनस् सर्वाद्भुतानाम्॥। ॥

०७.०१
विश्वास-प्रस्तुतिः
अतिवातो यत्र भवेत् रूपं वा यत्र वैकृतम् । खरकरभमहिषा वराहा व्याघ्रसिंहकास् ॥

०७.०२
विश्वास-प्रस्तुतिः
गृध्रास् च तथा गोमायुस् कृकलासा वदन्ति च । मांसपेशं च रुधिरं पांसुवृष्टिस् तथा एव च ॥

०७.०३
विश्वास-प्रस्तुतिः
वायुरूपम् इदं सर्वम् अद्भुतं परिकीर्तितम् । वात आ वातु भेषजं वायौ आ याहि दर्शत इति स्थालीपाकस्य होमयेत् ॥

०७.०४
विश्वास-प्रस्तुतिः
वायुर् महान् नभपतिर् वज्रपाणिस् तथा ईश्वरस् । शमनस् सर्वाद्भुतानां महाव्याहृतयस् तथा ॥

०७.०५
विश्वास-प्रस्तुतिः
हुत्वा स्विष्टकृतं च एव चरुतन्त्रं समापयेत् । विमुक्तोत्पातदोषस् तु जीवेत् तु शरदस् शतम् ॥
मूलम्
हुत्वा स्विष्टकृतं च एव चरुतन्त्रं समापयेत् । विमुक्तोत्पातदोषस् तु जीवेत् तु शरदस् शतम् ॥
०८.०१
विश्वास-प्रस्तुतिः
अथ चेद् अन्यशाखसु कर्ता भवति वेदवित् । जप्त्वा स ऋग्यजुःसाम्नं शतमात्रं समाहितस् ॥

०८.०२
विश्वास-प्रस्तुतिः
गायत्र्यष्टशतं जप्त्वा ययजमानस् समाहितस् । वाचयेत् तम् उपाध्यायं वस्त्रेण कनकेन वा ॥

०८.०३
विश्वास-प्रस्तुतिः
दृष्टां च एव अद्भुतं यस्मिन्स् तत् च अपि प्रतिपादयेत् । एतास् तु दक्षिणास् सर्वास् शक्तियुक्तो न हापयेत् ॥

०८.०४
विश्वास-प्रस्तुतिः
यजमानस् तत्सुतो वा यस् स्वयं कर्तुम् अर्हति । ब्राह्मणाय विशेषेण दद्यात् तां दक्षिणां शुभाम् ॥

०८.०५
विश्वास-प्रस्तुतिः
जप्त्वा अथर्वशिरस् च एव कुर्यात् विप्रेषु पूजनम् । शक्त्या अथ भोजनं च एव कुर्यात् विप्रेषु पूजनम् ॥

०८.०६
विश्वास-प्रस्तुतिः
एतद् एवं समाख्यातम् अद्भुतानां विशोधनम् । चतुर्णाम् अपि वर्णानां यस् कुर्यात् श्रद्धया अन्वितस् ॥

०८.०७
विश्वास-प्रस्तुतिः
मरणं न भवेत् तस्य न दुःखं न दरिद्रता । सिध्यन्ति सर्वकार्याणि धर्मे च अस्य मतिर् भवेत् ॥

०८.०८
विश्वास-प्रस्तुतिः
एतत् पुण्यं परित्रं च देवतायागपूजनम् । सर्वशान्तिकं च एव प्रतिपुरुषं निबोधत ॥ प्रतिपुरुषं निबोधत इति ॥