६६ गोशान्तिः

०१.०१

विश्वास-प्रस्तुतिः

ॐ भगवन् देवदेवेश सुरासुरनमस्कृत । गवां सर्वेषु रोगेषु प्रतिज्ञातेषु वै प्रभो ॥

मूलम्

०१.०२

विश्वास-प्रस्तुतिः

कथं शान्तिं द्विजः कुर्यात् केन मन्त्रेण प्रोक्षणम् । होममन्त्राश् च के प्रोक्ताः कस्मिंस् तन्त्रे प्रयोजयेत् ॥

०१.०३

विश्वास-प्रस्तुतिः

उवाच परिपृष्टः सन् ब्रह्मा सर्वजगत्पतिः । शृण्वन्तु ऋषयः सर्वे गोशान्तिं महदुत्तमाम् ॥

०१.०४

विश्वास-प्रस्तुतिः

अथर्वविहितां सम्यक् सर्वरोगविनाशनीम् । यां श्रुत्वा सवरोगास् तु विद्रवन्ति सहस्रशः ॥

०१.०५

विश्वास-प्रस्तुतिः

गोष्ठमध्ये गृहे वापि गोवाटे गोकुलान्तिले । आचार्यस् तु शुचिर् भूत्वा कारयेन् मण्डलं शुभम् ॥

०२.०१

विश्वास-प्रस्तुतिः

स्नातश् चाहतवासाश् च अहोरात्रोषितः शुचिः । चतुरश्रं चतुर्द्वारम् आलिखेत् तत्र मण्डलम् ॥

०२.०२

विश्वास-प्रस्तुतिः

तस्य मध्ये तु देवेशं गोमयेन निधापयेत् । ततः क्षीरं घृतं चैव गुग्गुलुं चन्दनागुरुम् ॥

०२.०३

विश्वास-प्रस्तुतिः

पुष्पाणि च सुगन्धीनि तथा वै सर्षपांस् तिलान् । लाजाश् च समिधश् चैव समाहृत्य विचक्षणः ॥

०२.०४

विश्वास-प्रस्तुतिः

प्राणांस् तु तर्पयेत् तत्र दधिक्षीरघृतादिभिः । ततः शान्तिं प्रयुञ्जित नमस्कृत्वा स्वयम्भुवम् ॥

०२.०५

विश्वास-प्रस्तुतिः

आज्यभागान्ताज्यतन्त्रम् अभ्यातानानि चैव हि ॥

मूलम्

आज्यभागान्ताज्यतन्त्रम् अभ्यातानानि चैव हि ॥

०२.०६

विश्वास-प्रस्तुतिः

नमोज्ञाय सुरेशाय नमस् ते विश्वतोमुख । नमः कालाय तीक्ष्णाय [जटिलाय] सर्वभूतहिताय च ॥

०३.०१

विश्वास-प्रस्तुतिः

ततः सर्षपतिललाजा ऊर्ध्वाः समिधश् च दधिमधुघृताक्ता जुहुयात् ॥

०३.०२

विश्वास-प्रस्तुतिः

यजामि ॥ कालाय स्वाहा ॥ पिङ्गलाय तीक्ष्णाय जटिलाय बभ्रवे ॐ भूर् ॐ भुव ॐ स्वर् ॐ भूर् भुवः स्वर् जयविजयाय जयाधिपतये कपर्दिने करालाय विकटाय कटिरमाटरायाङ्गिरसबार्हस्पत्यककपिलमण्डलमुण्डजटिलकपालेश्वराधिपतये कपर्दिने स्वाहेति ॥

०३.०३

विश्वास-प्रस्तुतिः

एष कर्मसु तु गोशान्तेः संसृष्ट ऋषिभिः पुरा । प्रोक्ता स्वयम्भुवा चैषा गोशान्तिस् तु हिताय वै ॥

०३.०४

विश्वास-प्रस्तुतिः

यो विप्रः पठतीमां हि गोकुले चापि हिताय वै । गावस् तस्य प्रवर्धन्ते महतीं चाश्नुते श्रियम् ॥