०१.०१
विश्वास-प्रस्तुतिः
ओम् अथ अतो लक्षणोपाङ्गे सद्योवृष्टिलक्षणं व्याख्यास्यामः ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
स्निग्धविमलतलदर्शने ऽर्चिष्मत्य् अतितेजसि स्थूलरश्मौ हरिज्वलनसन्निभे सवितरि सद्यो वर्षति पर्जन्यो विशुद्धासु च दिक्षु काकाण्डवर्णेषु गिरिष्व् अतिरजस्कन्धेषु ह्रदमग्नेषु विमलविपुलस्निग्धप्रसन्नहृष्टप्रदर्शनेषु नीचैर् इव ज्योतिर्गणेष्व् अनुकूलेषु शिवे शिते नीचे मारुते भवति चात्र श्लोकः ॥

०१.०३
विश्वास-प्रस्तुतिः
पूर्वो ऽभ्रजनमो वायुर् इतरो ऽभ्रविनाशनः । उदग् जनयते वृष्टिं वर्षत्य् एव च दक्षिणः ॥

०१.०४
विश्वास-प्रस्तुतिः
अभ्रेषु तिमिर-मकर-नग-नाग-नक्र-ग्राह-शिंशुमार-शङ्ख-द्रुम-कूर्मोर्मि-झष-महिष-वराह-दिग्-द्विरद-नवकुमुद-खण्डाकृति-नलकलश-कुड्मलापीडतोरणावर्तस्वस्तिकवर्धमानरवौह्वरजतमद्राणिपताकाश्वतात्यास्थानविविधजलचरपक्षिविरुतचतुष्पदाकारेषु नक्तनीलोत्पलकमलपलाशकोमलेषु ॥

०१.०५
विश्वास-प्रस्तुतिः
[मुक्ता]स्फटिकरजतवैडुर्याञ्जनभ्रमरसर्पसन्निकाशेषु । क्षौद्रक्षीरपलाशधूम[दूर्वा]रजतकनकविद्रुमप्रभेष् ॥

०१.०६
विश्वास-प्रस्तुतिः
द्विगुणत्रिगुणदर्शनेषु मूलवत्सु विशिखरेषु महावर्तेषु तरलरथनेमिघोषेषु उदधिजलनिर्घोषसंह्रादेषु क्षुब्धदुन्दुभिनिनादेषु किञ्जल्कारविन्दसन्निभेषु वा कुमुदमयूरगलकालकेषु चाभ्रजालावनादेषु छिन्नाभ्रेषु वा छिन्नमूलेषु कालेषु काञ्चनमनह्शिलोउपमेषु सुवर्णपूर्णेषु जलेष्व् अस्मिन् न चाभ्यन्तरतो देशशोभितेषु दक्षिणमारुतेरितपरितते ग्रहान्तर्गतस्तनितगम्भीरनिस्वनेषु अर्धान्तरेषु सद्योवर्षम् आदिशेत् ॥ अत्र श्लोकौ ॥

०१.०७
विश्वास-प्रस्तुतिः
उदयास्तमये मेघा गर्भभूता दिवाकरे । प्रदीप्ता इव चित्रासु विषमासु खकोटिषु ॥

०१.०८
विश्वास-प्रस्तुतिः
पञ्च मारुतपर्यङ्का मणयः काञ्चना इव । यत्रयत्रोपलक्ष्यन्ते तत्रतत्र प्रवर्षति ॥

०१.०९
विश्वास-प्रस्तुतिः
घननिचयं विरोहणे वाधिरोहणास्तगमने वा सवितुर् दृष्ट्वा च वर्षद् उदधिजीवराद्ररिष्टकवैडूर्योत्पलकमलपलाशधूमशेवालवध्रजबकसन्निकाशस्निग्धघोषगम्भीरगभस्तिविद्वन्भैः प्रवृद्धैः समारुतान् वञ्चिभिः प्रवृद्धस्कन्धशाखान्वितपावनितलरुहान् सद्योवर्षम् आदिशेत् ॥ अत्र श्लोकौ ॥

०१.१०
विश्वास-प्रस्तुतिः
अन्तराजितदीप्ताग्निकाञ्चनामलसन्निभैः । अभ्रैश् चोत्पलवैदूर्यप्रभावाञ्जनसन्निभैः ॥

०१.११
विश्वास-प्रस्तुतिः
नीलर्श्मिप्ररोहन्तः शाखावन्त इव द्रुमाः । यत्रयत्र प्रदृश्यन्ते ध्रुवं तर प्रवर्षति ॥

०२.०१
विश्वास-प्रस्तुतिः
सन्ध्या च ज्वलनरवीन्दीवरकरण्दतपनीयार्कोदयहरितालनीलोत्पलघृतमधुबन्धुजीवकजपापुष्पकिंशुकराशिसन्निकाशा तथा द्रुतकनकविद्रुमस्फटिकवैडूर्यवर्णम् उद्द्योतयन्ति दिशः शान्तमृगशकुनिविशेषाः ॥

०२.०२
विश्वास-प्रस्तुतिः
किन्तना स्निग्धा घना गभस्तिमालिनि सम्प्रति सन्ध्यां दृष्ट्वा नीचैर् निर्मलस्निग्धपरिधिपरिवेषाभ्रवृक्षप्रतिसूर्यका लोहिताक्षपक्षिप्ता सार्धं पञ्चकावलिप्तैश् च महिषवृषवराहादिद्विरदजलगणैर् इवाचरितविषया अत्र श्लोकः ॥

०२.०३
विश्वास-प्रस्तुतिः
सान्ध्यैश् च परिवेषैश् च प्रतिघैः प्रतिसूर्यकैः । जलजैश् चावृतानिन्द्यैः सद्यः सन्ध्या प्रवर्षति ॥

०२.०४
विश्वास-प्रस्तुतिः
यथालक्षणं शस्त्रकांस्यताम्रायसानां क्लेदवतां खद्योतानि ॥ तत्र स्वेदन्ति कामहुर्धुनिनाश् च उत्तटप्राकारगोपुरगृहागाधिरोहणपांसुस्नानम् अण्डजानाम्

०२.०५
विश्वास-प्रस्तुतिः
प्रचरणे तडागकूपान् सेतुबन्धाक्रीताश् च शिशूनां दृष्ट्वा प्रसङ्ख्यायाश् च चित्राविशाखास्वातिबहुलाषाढाहिर्बुध्न्ययाम्यस्य सङ्ग्रहसम्पातेषु महद्वर्षसंवृते च त्र्यहाद् ऊर्ध्वं चात्र श्लोकौ ॥

०२.०६
विश्वास-प्रस्तुतिः
आक्रीडाश् चैव मत्स्यानां गवां दृष्ट्वागमो गृहम् । प्राचुर्यदंशमशकैर् धिष्ण्यानां चाथ मोक्षेणे ॥

०२.०७
विश्वास-प्रस्तुतिः
जलाजलजसन्तानान् एकत्र बिलवासिनाम् । पिपीलिकाण्डसङ्क्रान्तिर् अथोष्णं चाम्बु वृष्टये ॥

०२.०८
विश्वास-प्रस्तुतिः
सत्कृत्य च दैवज्ञं पल्वलकूपतडागनदीतीरे ॥ साद्दालगृहेषु देशेष्व् आर्द्रवासार्द्रपाणिः प्रृच्छेत् ॥ सद्योवर्षम् अदिशेत् ॥

०२.०९
विश्वास-प्रस्तुतिः
दिश्य् ऐशान्यां वा मधुरस्वररिष्टव्याहरणं जलगोत्रसाभूतं तल्लिङ्गानाम् अन्तरालं बालानां श्रुत्वा दृष्ट्वा वर्षतीति ब्रूयात् ॥

०२.१०
विश्वास-प्रस्तुतिः
रात्रिस्तनितो दिवा विद्युद्भिर् वाद्यमाक्षेत्रे वर्णः स्निग्धो द्विगुणेन्द्रचाप दर्शने व्योम्नि निरभ्रे पशुविरावाभ्रदण्डाभस्वल्पाञ् चाभ्रराजिप्रादुर्भावैः सद्योवृष्टिर् अत्र श्लोकाः ॥

०२.११
विश्वास-प्रस्तुतिः
प्रतिसूर्यको भवेद् यस् तु रवेर् उत्तरतो यदा । तोयं निवारयेन् नित्यं दक्षिणे सलिलाद् भयम् ॥

०२.१२
विश्वास-प्रस्तुतिः
त्रिधा निमित्तसम्पन्ना वृष्टिर् भवति पार्थिवी । निमित्ते तावद् एकस्मिन् पञ्चयोजनिकं भवेत् ॥

०२.१३
विश्वास-प्रस्तुतिः
येषुयेषु निमित्तेषु नक्षत्रेषु च वर्त्मनि । प्रशस्तम् इति तेष्व् एव प्रादुर्भूतेषु वर्षति ॥

०३.०१
विश्वास-प्रस्तुतिः
विपर्ययनिमित्तानि प्रतिबन्धकराणि तु । तेषु शान्तिं प्रकुर्वीत अथर्वा शमनाय वै ॥

०३.०२
विश्वास-प्रस्तुतिः
सम् उत् पतन्तु सूक्तेन प्र नभस्वेति चापरे । वैतस्यः समिधो ऽन्ये तु शमीमय्यो ऽपरे विदुः ॥

०३.०३
विश्वास-प्रस्तुतिः
[समिधां वैतसीनां तु अग्नाव् अर्केन्धनाहुते । अहोरात्रिकहोमः स्यात् पर्जन्यो बहुवर्षदः ॥

०३.०४
विश्वास-प्रस्तुतिः
सम् उत् पतन्तु सूक्तेन मरुतो यजते पाकयज्ञविधानेन यथा वरुणं वृष्टिकामः ॥ प्र नभस्वेत्य् ऋचौ द्वे मरुतो यजते वृष्टिकामो यथा वरुणं जुहोति ॥]

०३.०५
विश्वास-प्रस्तुतिः
आदध्यात् समिधः प्लाक्षीः सक्षीरा घृतसंयुताः । ततस् तच् छमम् आयाति कृत्स्नम् उत्पातलक्षणम् ॥

०३.०६
विश्वास-प्रस्तुतिः
ऐन्द्रीं वा वारुणीं वापि महाशान्तिं विधानतः । वर्षादौ तु प्रयुञ्जीत अवृष्टेस् तु विनाशनीम् ॥

०३.०७
विश्वास-प्रस्तुतिः
वृष्टेर् यानि निमित्तानि तान्य् अप्रतिहतानि तु । भवन्ति वृष्टिदायीनि सस्यवृद्धिकराणि तु ॥

०३.०८
विश्वास-प्रस्तुतिः
वैतसानां तु पत्त्राणां लक्षं क्षीरसमायुतम् । व्रतान्ते भार्गवो जुह्वद् अवर्षास्व् अपि वर्षयेद् इति ॥