६४ उत्पातलक्षणम्

०१.०१

विश्वास-प्रस्तुतिः

ॐ यान् प्रोवाचाङ्गिराः पूर्वं यांश्च वेदो ऽशनाः कविः । तान् अहं सम्प्रवक्ष्यामि उत्पातांस् त्रिविधान् अपि ॥

मूलम्

०१.०२

विश्वास-प्रस्तुतिः

प्रकृतेर् अन्यथाभवो यत्रयत्रोपजायते । तत्रतत्र विजानीयात् सर्वम् उत्पातलक्षणम् ॥

०१.०३

विश्वास-प्रस्तुतिः

पार्थिवं चान्तरिक्षं च दिव्यं चोत्पातलक्षणम् । नक्षत्रोपद्रवेषूक्तं यथाविधि तथैव तत् ॥

०१.०४

विश्वास-प्रस्तुतिः

तेषूत्पातगणेषु आहू रसातलसमुद्भवान् । निर्घातान् भूमिकम्पांश् च कीर्त्यमानान् निबोधत ॥

०१.०५

विश्वास-प्रस्तुतिः

वारुणाग्नेयवायव्याः कम्पयन्ति वसुन्धराम् । शुभाशुभार्थं लोकानां रात्रौ अहनि चक्रवत् ॥

०१.०६

विश्वास-प्रस्तुतिः

तेषां वक्ष्यामि कम्पानां लक्षणानि फलानि च । यत्रोवाचाउशनाः ख्यातान् नारदाय स्म पृच्छते ॥

०१.०७

विश्वास-प्रस्तुतिः

सप्ताहाभ्यन्तरे कम्पे भवेद् वज्रधरात्मके । सस्वनैर् आप्तपर्यन्तं स्वस्तिकाभ्रघनैर् नभः ॥

०१.०८

विश्वास-प्रस्तुतिः

सैन्द्रचापायुधा कम्पाद् विद्युद्गणगवाक्षकैः । पाशोर्मिनगराकारैर् नगनागनिभैर् घनैः ॥

०१.०९

विश्वास-प्रस्तुतिः

नभसो ऽन्तं च सेविन्यो विद्युतः स्वार्कसन्निभाः । प्रान्ते सुसंवृताश् चापि शीताशीताश् च मारुताः ॥

०१.१०

विश्वास-प्रस्तुतिः

धाराङ्कुरपरिस्रावैर् नीलोत्पलदलप्रभैः । स्वनद्भिश् छाद्यते व्योम कम्पयेद् वरुणः स्वयम् ॥

०२.०१

विश्वास-प्रस्तुतिः

तारापातैर् दिशं दाहैर् उल्कापातैश् च सस्वनैः । हाहाकृतम् इवाभूति प्रदीपितपथं नभः ॥

०२.०२

विश्वास-प्रस्तुतिः

सप्ताहाभ्यन्तरे वापि क्षितौ वह्निः प्रकुप्यते । स आग्नेयो भवेत् कम्पो राजराष्त्रभयावहः ॥

०२.०३

विश्वास-प्रस्तुतिः

निःप्रकाशम् इवाकाशे भास्करो नातिभास्करः । दिशस् तु न प्रकाशन्ते दुःखाऋता इव योषितः ॥

०२.०४

विश्वास-प्रस्तुतिः

सघोषा मारुता रूक्षा वान्ति शर्करकर्षिणः । सप्ताहाभ्यन्तरे कम्पे मारुते ऽतिभयावहे ॥

०२.०५

विश्वास-प्रस्तुतिः

सुभिक्षक्षेमदौ कम्पौ विज्ञेयाव् ऐन्द्रवारुणौ । वायव्याग्नेयजौ कम्पौ राजराष्त्रभयावहौ ॥

०२.०६

विश्वास-प्रस्तुतिः

यस्यां यस्यां दिशि धरा विरौति विकृतस्वरा । तस्यां तस्यां दिशि भय्ं सार्धं स्याद् अधिकारिद्भिः ॥

०२.०७

विश्वास-प्रस्तुतिः

निर्घाता भूमिकम्पाश् च ससमासम् उदाहृताः । अतः परं प्रवक्ष्यामि शेषम् उत्पातलक्षणम् ॥

०२.०८

विश्वास-प्रस्तुतिः

प्राग्याम्यापरसौम्यानां गन्धर्वनगरं तथा । रक्तपीताशितैश् चैव वर्णैर् दिक्षु प्रदृश्यते ॥

०२.०९

विश्वास-प्रस्तुतिः

राज्ञः सेनापतेश् चापि युवराजपुरोधसाम् । व्यसनं मरणं वापि विज्ञेयम् अनुपूर्वशः ॥

०२.१०

विश्वास-प्रस्तुतिः

वरुणामाण् च भयं ज्ञेयं यथावर्णपरिग्रहात् । विदिक्षु च विवर्णासु पीडा ज्ञेया विवर्णिनाम् ॥

०३.०१

विश्वास-प्रस्तुतिः

सततं दृश्यमाने च राजराष्ट्रभयावहम् । आशाधिकारिकाणां च पीडा ज्ञेया यथाविधि ॥

०३.०२

विश्वास-प्रस्तुतिः

विरुद्धयोनिगमनम् अन्यसत्त्वप्रसूतयः । हस्तपादाक्षिशिरसाम् अधिकानां प्रदर्शनम् ॥

०३.०३

विश्वास-प्रस्तुतिः

अभ्यङ्गता च संयोगे गतिहीनं च चेष्टितम् । विरुद्धानां च सत्त्वानाम् अन्योन्यप्रतिसङ्गमम् ॥

०३.०४

विश्वास-प्रस्तुतिः

चलत्वम् अचलानां च चलानाम् अचलकृया । भाषितं चापि अभाषाणाम् अशब्दानां च भाषणम् ॥

०३.०५

विश्वास-प्रस्तुतिः

अनग्नौ दर्शनं चाग्नेः शीतोष्णस्य विपर्ययः । लोहादीनां प्लवश् चाप्सु नोदके चाम्भसां स्रवः ॥

०३.०६

विश्वास-प्रस्तुतिः

अकालपुष्पप्रसवः सस्याः पञ्चचतुर्गुणाह । संयोगो लाङ्गलानां च प्रभानां चेष्टितानि च ॥

०३.०७

विश्वास-प्रस्तुतिः

विचित्रैर् देवतासद्भिर् वृक्षप्रस्रवणानि च । दिशो धूमान्धकाराश् च दीप्ताश् च मृगपक्षिणः ॥

०३.०८

विश्वास-प्रस्तुतिः

रजस्तमाश्रितं व्योम कलुषौ चन्द्रभास्करौ । वस्त्रमांसाम्भसां दीप्तिरागप्रज्वलितानि च ॥

०३.०९

विश्वास-प्रस्तुतिः

अकस्माद् गोपुराट्टालशैलप्रसादवेश्मनाम् । दरणं ज्वलनं वापि कम्पो धूमप्रवर्तनम् ॥

०३.१०

विश्वास-प्रस्तुतिः

अभीक्ष्णा मारुताश् चण्डा वान्ति शर्करकर्षिणः । संहिता मण्डलानां च नीललोहितपीतकाः ॥

०४.०१

विश्वास-प्रस्तुतिः

ध्वजस्तम्भेन्द्रकीलानां शुष्कचैत्यादिभिः सह । छिन्ने भिन्ने द्रुमाणां च स्कन्धशाखाङ्कुरोद्भवः ॥

०४.०२

विश्वास-प्रस्तुतिः

गीतानां च मृदङ्गानां वादित्राणां निस्वनाः । भवेयुर् आकाशपथे सगन्धर्वपुरोगमाः ॥

०४.०३

विश्वास-प्रस्तुतिः

छायादर्शनम् अद्रव्ये विरात्रे विरुतानि च । दिवारात्रिचराणां च विपरीतप्रचारता ॥

०४.०४

विश्वास-प्रस्तुतिः

निरभ्रवृष्टयश् चैव निरभ्रस्तनितानि च । सस्वनानाम् अधूमानाम् उल्कानां पतनं दिवा ॥

०४.०५

विश्वास-प्रस्तुतिः

इन्दोर् अर्कस्य वा चापि पांस्वश्मादिषु दर्शनम् । अभीक्ष्णपरिवेषाश्च कलुशा रविसोमयोः ॥

०४.०६

विश्वास-प्रस्तुतिः

मयूरकोकिलादीनां मदावाप्तिर् अनार्तवा । वनानां च नगानां च देवतानां च निर्गमाः ॥

०४.०७

विश्वास-प्रस्तुतिः

आरण्यानां च सत्त्वानां पुरग्रामनिवेशनम् । अभूतानां प्रवृतिश्च प्रवृत्तानां च नाशनम् ॥

०४.०८

विश्वास-प्रस्तुतिः

एतद् उत्पातजं राज्ञो यस्या देशे अभ्युदीर्यते । तस्य देशो विनश्येत क्षीयते च सपार्थिवः ॥

०४.०९

विश्वास-प्रस्तुतिः

त्यजन्ति वापि यं देशं पाषण्डा द्विजदेवताः । विद्वेषं वापि गच्छन्ति सो ऽपि देशो विनश्यति ॥

०४.१०

विश्वास-प्रस्तुतिः

नर्तनं च कुशूलानां धान्यराशेश्च कम्पनम् । उलूखालानां संसर्पो मुसलानां प्रवेशनम् ॥

०५.०१

विश्वास-प्रस्तुतिः

चेष्टितं राजदर्वीणां मृद्भाण्डानां तथैव च । दहनं चैव शीतानाम् [शब्दा ह्य् उत्तराणि च] ॥

०५.०२

विश्वास-प्रस्तुतिः

पुरीषभक्षणञ्चैव दीनानां मृगपक्षिणाम् । ग्राम्याणां दीनवपुषां प्रधान्यस्तनितानि च ॥

०५.०३

विश्वास-प्रस्तुतिः

वालुकाङ्गारधान्यानां भक्षणं वापि वृष्टयः । पुरद्वारे च बकवद् वायसानां च चेष्टितम् ॥

०५.०४

विश्वास-प्रस्तुतिः

बिडालमत्स्यमज्जानां जन्तूनां क्षुद्रसञ्ज्ञिनाम् । अन्योन्यभक्षणानि स्युर् एकसंस्थाश्च रात्रयः ॥

०५.०५

विश्वास-प्रस्तुतिः

मांससस्यान्नविद्वेषः क्रियाव्युपरमस् तथा । यस्मिन् देशे प्रदृश्यन्ते तस्मिन् क्षुद्भयम् आदिशेत् ॥

०५.०६

विश्वास-प्रस्तुतिः

शस्त्रज्वलनसंसर्पः स्थूणीसरणपूरणम् । छत्त्रवस्त्रध्वजानां च वल्मीकेषु प्रदर्शनम् ॥

०५.०७

विश्वास-प्रस्तुतिः

अर्के अभ्रपरिघादीनां परिवेषो अर्कचन्द्रयोः । लाक्षालोहितवर्णत्वं सर्वेषां च विचारणम् ॥

०५.०८

विश्वास-प्रस्तुतिः

त्वच्मांसरुधिरास्थीनां मेदोमज्जास्थिवृष्टयः । निरभ्रवृष्टयश्चास्य रजतक्षतसप्रभम् ॥

०५.०९

विश्वास-प्रस्तुतिः

प्रघाताकम्पनिर्घाताविद्युता चाभ्रपातनम् । भवेच्च देवतादीनां शिरोअभिष्ठानवर्जनम् ॥

०५.१०

विश्वास-प्रस्तुतिः

स्त्रीणां नृणां च प्रसवं तृणादीनां च मानुषम् । अमानुषाणां सत्त्वानां भाषितानि मनुष्यवत् ॥

०६.०१

विश्वास-प्रस्तुतिः

वसाशोणितगन्धत्वं गजदैवतवाजिनाम् । यस्मिन् देशे भवेत् तस्मिन् शस्त्रकोपभयं महत् ॥

०६.०२

विश्वास-प्रस्तुतिः

शोणिताश्रुपरिस्रावाः प्रहासोद्वीक्षणक्रिया । नृत्यवादित्रगीतानि साक्रोशाभाषितानि च ॥

०६.०३

विश्वास-प्रस्तुतिः

प्रकम्पनं देवतानां तथैव ज्वलनानि च । अपां शोषविकाराश्च चेष्टितं च मनुष्यवत् ॥

०६.०४

विश्वास-प्रस्तुतिः

दरणं रसनं राज्ञो वैकृत्योद्वर्तनानि च । क्षितेः कम्पप्रहासाश्च रोदनोत्क्रोशाअनि च ॥

०६.०५

विश्वास-प्रस्तुतिः

पीठिकाव्यञ्जनं छत्त्र[म्]शसत्रकीलकमण्डलौ । नीलाङ्गलोहिततलौ उद्ये अर्कनिशाअकरौ ॥

०६.०६

विश्वास-प्रस्तुतिः

चन्द्रार्कोल्काप्रभेदाश्च भास्करेन्दुद्वयं तथा । प्रतिस्रोतवहा नद्य इषवः प्रतिकोमगाः ॥

०६.०७

विश्वास-प्रस्तुतिः

दन्तभङ्गाः सकूर्माश्च नरवर्णवाजिनाम् । छत्त्रभङ्गाः सकूर्माश्च नरवारणवाजिनाम् ॥

०६.०८

विश्वास-प्रस्तुतिः

मांसतैलविपाकश्च चैत्यतैलपरिस्रवाः । शक्रध्वजपताकानां भङ्गक्रव्यदस्वनम् ॥

०६.०९

विश्वास-प्रस्तुतिः

बिडलोलूक्योर् युद्धं नृपप्रासादसन्निधौ । पांसुना चावृतं व्योम रजसा तमसापि वा ॥

०६.१०

विश्वास-प्रस्तुतिः

लोहिताग्निप्रभाकाशं दीप्ता द्विजमृगस् तथा । वातावर्तास् तुसन्ध्यासु प्रस्फुरन्तो अपसव्यगाः ॥

०७.०१

विश्वास-प्रस्तुतिः

मण्डलानि समाजाश्च सर्वतो मृगपक्षिणाम् । क्रव्यादैर् आरसद्भिश्च व्याकुलाः सर्वतो दिशः ॥

०७.०२

विश्वास-प्रस्तुतिः

त्रिरात्राद् अपरं वृष्टिः प्रनष्टेन्दुदिवाकरौ । अनृतौ चापि दृश्येत घोरस्तनितदीर्घता ॥

०७.०३

विश्वास-प्रस्तुतिः

वज्रादयो राहुपुत्रा वृक्षाः शकुनयस् तथा । मण्डलाभ्यन्तरस्थाश्च भवन्ति रविसोमयोः ॥

०७.०४

विश्वास-प्रस्तुतिः

आकाशे वा प्रदृश्यन्ते प्रकम्पन्ति व पर्वताः । विष्येत रविसोमौ च आभीक्षं तारकास् तथा ॥

०७.०५

विश्वास-प्रस्तुतिः

नरदनं च बिडालाणां क्षीरवृक्षनिषेवणम् । खरैर् दीप्तैर् उलूकैश्च रसद्भिः सह विग्रहः ॥

०७.०६

विश्वास-प्रस्तुतिः

सिंहासनानि छत्त्राणि भृङ्गाराः शयनास् तथा । कम्पन्ति अकस्माद् भज्यन्ते संसर्पन्ति आरसन्ति च ॥

०७.०७

विश्वास-प्रस्तुतिः

राज्ञां भयकरं सर्वम् एतद् उत्पातलक्षणम् । देशस्य च विजानीयाद् गर्गस्य वचनं यथा ॥

०७.०८

विश्वास-प्रस्तुतिः

सन्ध्यादण्डपरिवेषा रजोअर्कपरिघादयः । मण्डलानां समूहाश्च दिक्षु पीतारुणप्रभाः ॥

०७.०९

विश्वास-प्रस्तुतिः

क्रव्यादा वानरा द्वारि विस्फूर्जन्ति आरसन्ति च । तुण्डैश्च वायसा भूमिं कुट्टयन्तो रमन्ति च ॥

०७.१०

विश्वास-प्रस्तुतिः

म्लायते माल्यम् अत्यर्थं गन्धाः कुणपगन्धिनः । वस्त्रेषु भक्षभोज्येषु भवति उत्पातलक्षणम् ॥

०८.०१

विश्वास-प्रस्तुतिः

क्षौद्रं घृतं च दधि च प्रस्रवेत् प्रथिता द्रुमाः । सारमेयाः श्मशानेषु रुदन्ति विरुवन्ति च ॥

०८.०२

विश्वास-प्रस्तुतिः

एतद् औत्पातिकं ग्रामे यस्मिंश् च दृश्यते पुरे । तस्मिन् ग्रामे पुरे वापि विद्याद् अतिभयं महत् ॥

०८.०३

विश्वास-प्रस्तुतिः

अश्वत्थोदुम्बरप्लक्षन्यग्रोधे कुसुमोद्भवः । श्वेतलोहितपीतानि कृष्णानीन्द्रायुधानि च ॥

०८.०४

विश्वास-प्रस्तुतिः

एवं वर्णदुणानां च पतनं देववेश्मनाम् । ब्रह्मक्षत्रियविट्शूद्रविनाशो राजसंवृताम् ॥

०८.०५

विश्वास-प्रस्तुतिः

रूक्षस्रावा चितिवृक्षे तद्भयं सुमहद् भवेत् । घृतक्षीरफलाश्रावे घृतक्षीराम्भसां क्षयः ॥

०८.०६

विश्वास-प्रस्तुतिः

सुराश्रावे मिथोभेदो रुधिरे राष्ट्रविद्रवः । रुधिरे गोविषाणाच्च स्रुते गोब्राह्मणक्षयः ॥

०८.०७

विश्वास-प्रस्तुतिः

फले फलं यदा पश्येत् पुष्पे पुष्पं समावृतम् । गर्भाः स्रवन्ति नारीणां युद्धं राजवधो अपि वा ॥

०८.०८

विश्वास-प्रस्तुतिः

फणाभृतो महत्सर्पान् मण्डूला अथ वृश्चिकाः । मण्डूका ग्रसते यत्र तत्र राजावहन्यते ॥

०८.०९

विश्वास-प्रस्तुतिः

हिमपातानिलोत्पाता विकृताद्भुतदर्शनम् । कृष्णाञ्जनाभ्रम् आकाशं तारोल्कापातपिङ्गलम् ॥

०८.१०

विश्वास-प्रस्तुतिः

चित्रा गर्भोद्भवाः स्त्रीषु गोअजाश्वमृगपक्षिषु । पत्त्राङ्कुरलतानां च विकाराः शिशिरे शुभाः ॥

०९.०१

विश्वास-प्रस्तुतिः

वज्राशनिमहीकम्पाः सन्ध्यानिर्घातनिस्वनाः । परिवेषरजोधूमा रक्तार्कास्तमनोदयाः ॥

०९.०२

विश्वास-प्रस्तुतिः

द्रुमेभ्यो अन्नरसस्नेहमधुपुष्पफलोद्गमाः । गोपक्षिशब्दवृद्धिश्च शिवानि मधुमाधवे ॥

०९.०३

विश्वास-प्रस्तुतिः

तारोल्कापातकलुषं कपिलार्केन्दुमण्डलम् । अनग्निज्वलनस्फोटधूमरेण्वनिलाहतम् ॥

०९.०४

विश्वास-प्रस्तुतिः

रक्तपीतारुणां सन्ध्यां नभः सङ्क्षुभीतार्णवम् । सरितां चाम्बुसंशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत् ॥

०९.०५

विश्वास-प्रस्तुतिः

शक्रायुधपरीवेषविद्युत्शुष्कविरोहणम् । अकस्माद् वर्णवैकृत्यं रसनं दरणं क्षितेः ॥

०९.०६

विश्वास-प्रस्तुतिः

सरोनद्युदपानानां वृद्धिर् वा उत्तरणप्लवाः । तरणं चार्द्रवेगानां वर्षासु न भयावहम् ॥

०९.०७

विश्वास-प्रस्तुतिः

दिव्यस्त्रीगीतगन्धर्वविमानाद्भुतनिस्वनाः । ग्रहनक्षत्रताराणां दर्शनं च दिवाम्बरे ॥

०९.०८

विश्वास-प्रस्तुतिः

गीतवादित्रनिर्घोषो वनपर्वतसानुषु । सस्यवृद्धी रसोत्पत्तिर् न पापाः शरदि स्मृताः ॥

०९.९

विश्वास-प्रस्तुतिः

शीतानिलतुषारत्वं नर्दनं मृगपक्षिणाम् । रक्षोयक्षादिसत्त्वानां दर्शनं वाग् अमानुषी ॥

०९.१०

विश्वास-प्रस्तुतिः

दीप्तधूमरजस्ध्वस्ता दिङ्नागा वनपर्वताः । उच्चैस् तोयदसोमार्का हेमन्ते शोभनाः स्मृताः ॥

१०.१

विश्वास-प्रस्तुतिः

ऋतुस्वभावा एते हि दृष्टाः स्वर्तौ शुभप्रदाः । ऋतौ अन्यत्र च उत्पाता दृष्टाः स्वर्तौ शुभप्रदाः ॥

१०.२

विश्वास-प्रस्तुतिः

उन्मत्तानां च या गाथा बालानां चेष्टितं च यत् । स्त्रियश्च यत् प्रभाषन्ते तत्र नास्ति व्यतिक्रमः ॥

१०.३

विश्वास-प्रस्तुतिः

पूर्वं वदति देवेषु पश्चाद् गच्छति मानुषे । नाचोदिता आग् वदति सत्या हि एषा सरस्वती ॥

१०.४

विश्वास-प्रस्तुतिः

उत्पाताः सर्व एव एते कदाचिद् राजमृत्यवे । ज्ञेया देशविनाशाय राहोर् आगमनाया वा ॥

१०.५

विश्वास-प्रस्तुतिः

कालाम्बुदपरिस्रावा ग्रहाणाम् उदयाय वा । स्वचक्रपरचक्रेभ्यो भये वा समुपस्थिते ॥

१०.६

विश्वास-प्रस्तुतिः

राष्ट्रे सेनापतौ पुत्रे पुरे वाथ पुरोधसि । अमात्ये वाहने दारे नृपतौ वा पलन्ति च ॥

१०.७

विश्वास-प्रस्तुतिः

एतान् समुत्थितां ज्ञात्वा राजा सबलवाहनः । प्रणिपत्य गुरुं ब्रूयाद् भगवन् शमयस्व मे ॥

१०.८

विश्वास-प्रस्तुतिः

भयम् उत्पातजं सर्वं ब्रूहि किं करवाणि ते । इति उक्तः श्रद्दधानेन राज्ञा स्वहितम् इच्छता ॥

१०.९

विश्वास-प्रस्तुतिः

निमित्तानि समालोक्य कृत्वा पावनम् आदितः । महाशान्तिं प्रयुञ्जीत सर्वोपद्रवनाशिनीम् ॥

१०.१०

विश्वास-प्रस्तुतिः

सर्वरोगप्रशमनीम् उत्पातफलनाशिनीम् । रौद्रीं कुर्यान् महाशान्तिं श्रद्धया बहुदक्षिणां श्रद्धया बहुदक्षिणाम् ॥