०१.०१
विश्वास-प्रस्तुतिः
ओम् अथ परं प्रवक्ष्यामि वक्षत्रेषु ग्रहेषु च । परिवेषान् बहुविधान् नानाविधफलोदयान् ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
ऐन्द्रवारुणकौबेरान् रक्तपाण्डुरमेचकान् । पाण्डून् बभ्रूंश् च पीतांश् चानीलानलयमात्मनः ॥

०१.०३
विश्वास-प्रस्तुतिः
प्राजापत्यांश् च रौद्रांश् च नैरृत्यांश् चापि भार्गव । हरिशबलकापोतान् परिवेषान् उवाच ह ॥

०१.०४
विश्वास-प्रस्तुतिः
नवैते परिवेषाणां वर्णा दैवतयोनयः । बहुत्वम् एते गच्छन्ति अन्योन्यगुणसंश्रयात् ॥

०१.०५
विश्वास-प्रस्तुतिः
गृहीत्वाभ्ररजः सूक्ष्मं वर्णयोग् सन्निपत्य च । पितामहनियोगेन मातुरो मण्डलीकृतः ॥

०१.०६
विश्वास-प्रस्तुतिः
शुभाशुभार्थं लोकानां ज्योतीम्ष्य् अवरुणद्धि सः । तस्य रूपं गुणं ज्ञात्वा गुणदोषः प्रचक्ष्यते ॥

०१.०७
विश्वास-प्रस्तुतिः
नक्षत्रतारकाणां च परतो विषयस्य च निविष्टो भाव आगन्तुं परिवेष इति स्मृतः ॥

०१.०८
विश्वास-प्रस्तुतिः
धृततीक्ष्णार्ककिरणे प्रसन्ना मृदुमण्डले । प्रस्निग्धे चैकवर्णे च मांसले व्यक्तलक्षणे ॥

०१.०९
विश्वास-प्रस्तुतिः
लोहिताक्षौ क्षुरक्रान्ते सरश्मौ पीतमण्डले । आ प्रदोषाद् विमध्याह्नाद् आ नक्षत्रान्तगामिनि ॥

०१.१०
विश्वास-प्रस्तुतिः
सहाभ्रभारस्तनिते परिवेषे प्रकाशिनि । अनृताव् अपि जानीयान् महद् भयम् उपस्थितम् ॥

०२.०१
विश्वास-प्रस्तुतिः
कृष्णनीहारतिमिरे प्रकृत्याक्रान्तमण्डले । विकारैर् नाभसैः कीर्णे स्फुलिङ्गोपचिते ऽशुभे ॥

०२.०२
विश्वास-प्रस्तुतिः
विषमे विगतस्नेहे विध्वस्तकलुषाभ्रके । त्रिषु सन्धिषु भूयिष्ठं दर्शनं चोपगच्छति ॥

०२.०३
विश्वास-प्रस्तुतिः
द्वित्रिनक्षत्रगे वापि नक्षत्रार्धगते ऽपि वा । प्रदीप्तैर् वा रसद्भिश् च वीक्ष्यमाणे मृगद्विजैः ॥

०२.४
विश्वास-प्रस्तुतिः
परिवेषे विजानीयान् नृपाद्यानाम् उपस्थितम् । सप्तरात्राद् भयं घोरं चौरशस्त्राग्निमृत्युभिः ॥

०२.५
विश्वास-प्रस्तुतिः
धूमकर्बुरमाञ्जिष्ठरक्तपीतासिताकृतिः । भवत्य् एकतरे पार्श्वे रूपेणाविलमण्डलः ॥

०२.६
विश्वास-प्रस्तुतिः
तनुना चात्र जालेन समन्तात् परिवेष्टितः । मुहुर्मुहुश् च विलयं संस्थानं चापि गच्छति ॥

०२.७
विश्वास-प्रस्तुतिः
सो ऽपि वाय्वात्मको ज्ञेयो मृदुमन्ददिवाकरः । परिवेषो ऽल्पफलदो वातवृष्टिः प्रवृंहते ॥

०२.८
विश्वास-प्रस्तुतिः
अथ चेद् वातवृष्टिस् तु त्रिरात्रान् नापजायते । जलज्वलनचौराणां प्रादुर्भावः प्रजायते ॥

०२.९
विश्वास-प्रस्तुतिः
परिवेषगतो ऽल्का स्याद् द्विमण्डलपरिग्रहे । द्वाभ्यां सेनापतिभयं युवराजभयं त्रिभिः ॥

०३.१
विश्वास-प्रस्तुतिः
मण्डलैः पुररोधः स्यात् त्रिभिर् अभ्यधिकैर् ध्र्य्वन् । त्राणि यत्रावरुध्यन्ते नक्षत्रग्रहचन्द्रमाः ॥

०३.२
विश्वास-प्रस्तुतिः
त्र्यहाद् वर्षं समाचष्टे स मासाद् विग्रहं वदेत् । सेनापतिकुमाराणां सेनायाश् चापि विद्रवः ॥

०३.३
विश्वास-प्रस्तुतिः
लोहिताङ्गपरिवेषे शस्त्राग्न्युत्पात एव च । स्थावराः कर्षकाश् चापि क्षुद्रधान्यं च पीड्यते ॥

०३.४
विश्वास-प्रस्तुतिः
वातवृष्टिं च जनयेत् परिविष्टः शनैश्चरः । राज्यम् एव हि गर्भांश् च राहुः पीडयते ध्रुवम् ॥

०३.५
विश्वास-प्रस्तुतिः
व्याधींश् चैव प्रजनयेत् परिविष्टश् च चन्द्रमाः । क्षुच्श्वासाग्निभयं घोरं राजतो मृत्युतस् तथा ॥

०३.६
विश्वास-प्रस्तुतिः
परिविष्टो ऽम्बरे केतुः शिखिनश् च हिनस्ति सह । द्वयोः सङ्ग्रामम् आचष्टे ग्रहयोः परिविष्टयोः ॥

०३.७
विश्वास-प्रस्तुतिः
क्षुद्भयं त्रिषु विज्ञेयं वर्षनिग्रह एव च । चतुर्भिर् म्रियते राजा सामात्यः सपुरोहितः ॥

०३.८
विश्वास-प्रस्तुतिः
युगान्त इव जानीयात् पत्रिविष्टेषु पञ्चसु । ब्रह्मक्षत्रियविट्शूद्रान् हन्यात् प्रतिपदादिषु ॥

०३.९
विश्वास-प्रस्तुतिः
ग्रामान् पुरं च कोशं च पञ्चम्यादिष्व् अतस् त्रिषु । अष्टम्यां युवराजानां चमूपालान् हिनस्ति सह ॥

०३.१०
विश्वास-प्रस्तुतिः
नवम्यां च दशम्यां च एकादश्यां च पार्थिवान् । त्रयोदश्यां बलक्षोभो द्वादश्यां रुध्यते पुरम् ॥

०४.१
विश्वास-प्रस्तुतिः
राजपत्नीं चतुर्दश्यां पज्चदश्यां नृपस्य च । पुरोहितामात्यनृपा हन्युर् अन्योन्यम् एव तु ॥

०४.२
विश्वास-प्रस्तुतिः
पुररोधं विजानीयात् परिविष्टे बृहस्पतौ । मन्त्रिणो लेखकाश् चापि रुध्यन्ते स्थावराणि च ॥

०४.३
विश्वास-प्रस्तुतिः
वृष्टिं चापि विजानीयात् परिविष्टे बुधे ग्रहे । यायिनः क्षत्रियाश् चापि राजपक्षश् च पीड्यते ॥

०४.४
विश्वास-प्रस्तुतिः
धान्यार्घं च प्रियं कुर्यात् परिविष्टो भृगोः सुतः । ताराग्रहपरिवेषा नक्षत्राणां च केवलम् ॥

०४.५
विश्वास-प्रस्तुतिः
महाग्रहोदयं कुर्यान् मरणं वा महीपतेः । रक्ते पीते ऽसिते ताम्रे कृष्णे च हरिते ऽरुणे ॥

०४.६
विश्वास-प्रस्तुतिः
क्षुच्शस्त्रव्याधिवर्षाग्निमृत्युसस्यानिलानयोः । वर्णानां च भयं ज्ञेयं यथा वर्णपरिग्रहः ॥

०४.७
विश्वास-प्रस्तुतिः
कापोतः शबलश् चापि तिर्यग्योनिभयावहौ । मयूरगलशङ्खेन्दुमुक्तागोक्षीरपाण्डुराः ॥

०४.८
विश्वास-प्रस्तुतिः
मधूकघृतमण्डाभा दूर्वाश्यामाश् च वृष्टये । विमुक्तारिष्टकाकारास् तैलामलकसन्निभाः ॥

०४.९
विश्वास-प्रस्तुतिः
स्निग्धामलजलप्रख्या दर्पणाभास् च पूजिताः । बभ्रवः परुषा रुक्षा हरिद्रारुणसन्निभाः । विछिन्ना लोहिता ह्रस्वा विवर्णाश् च शुभावहाः ॥

०४.१०
विश्वास-प्रस्तुतिः
यायिनां स्थावराणां च तथैवाक्रन्दसारिणाम् । परिवेषान् विजानीयाद् बाह्याभ्यन्तरमध्यतः ॥

०५.१
विश्वास-प्रस्तुतिः
संरक्तश्यामकलुषो येषां भागो हतप्रभः । तेषां पराजयं विद्यात् स्निग्धे श्वेते च वै जयः ॥

०५.२
विश्वास-प्रस्तुतिः
येनयेनाभ्रवर्णेन योयो भागो ऽनुरज्यते । तत्तत् तेषां फलं विद्यात् तद् भूत्यादिषु कीर्तितम् ॥

०५.३
विश्वास-प्रस्तुतिः
छिद्राण्य् एतान्य् अतश् चाहुर् महान्ति विमलानि च । तैर् द्वारैः पार्थिवो यायात् पन्थानस् ते विकण्टकाः ॥

०५.४
विश्वास-प्रस्तुतिः
कालाम्बुदपरिस्रावैर् ग्रहोदयनिमित्तकम् । इत्यर्थं जन्म सर्वेषां शेषम् उत्पातलक्षणम् ॥

०५.५
विश्वास-प्रस्तुतिः
रौद्री सदक्षिणा शान्तिर् उत्पातेषु प्रकीर्तिता । समुच्चये तु विज्ञेया वैश्वदेव्य् अभया तथा ॥

०५.६
विश्वास-प्रस्तुतिः
अथर्वोत्पातहृदयं ज्ञात्वा स्वयम् अनातुरः । प्रयुञ्जीत महाशान्तिं सर्वकल्मषनाशिनीम् ॥