६२ भूमिकम्पलक्षणम्

०१.०१

विश्वास-प्रस्तुतिः

ॐ चत्वारो भुमिकम्पास् तु गर्गः प्रोवाच बुद्धिमान् । अग्निर् वायुस् तथापश् च चतुर्थस् त्व् इन्द्र उच्यते ॥

मूलम्

०१.०२

विश्वास-प्रस्तुतिः

तेषां रूपं विकारांश् च व्याख्यास्यामो ऽनुपूर्वशः । यज् ज्ञात्वा बुद्धिमान् धीरो निर्दिशेद् विविधं फलम् ॥

०१.०३

विश्वास-प्रस्तुतिः

प्रकम्पितायां भूमौ चेत् सप्ताहाभ्यन्तरेणा तु । [भवेयुर् अत्र सङ्ग्रामा राज्ञां मृत्युभयप्रदाः ॥

०१.०४

विश्वास-प्रस्तुतिः

राज्ञां विरोधो भवति मरणानि भवन्ति च ।] ताम्रः सूर्यश् च चन्द्रश् च पीताश् च मृगपक्षिणः ॥

०१.०५

विश्वास-प्रस्तुतिः

दिशः सर्वा भवेयुश् च सूर्योदयसमप्रभाः । यद् एतल्लक्षणोपेतं विद्याद् अग्निप्रकम्पितम् ॥

०१.०६

विश्वास-प्रस्तुतिः

तस्मिन् भवति निर्देशः शौनकस्य वचो यथा । हिरण्यं च सुवर्णं च यच् चान्यद् विद्यते गृहे ॥

०१.०७

विश्वास-प्रस्तुतिः

सर्वम् एतत् परित्यज्य कर्तव्यो धान्यसङ्ग्रहः । राष्ट्राणि सन्दहेद् अग्निर् ग्रामांश् च नगराणि च

०१.०८

विश्वास-प्रस्तुतिः

सङ्ग्रामाश् चात्र वर्तन्ते मांसशोणितकर्दमाः । राजानश् च विरुध्यन्ते देवश् चात्र न वर्षति ॥

०१.०९

विश्वास-प्रस्तुतिः

एवम् एतत्प्रकम्पानां गर्हितम् अग्निकम्पितम् ॥

०२.०१

विश्वास-प्रस्तुतिः

प्रकम्पितायां भूमौ चेद् इति ॥

मूलम्

प्रकम्पितायां भूमौ चेद् इति ॥

०२.०२

विश्वास-प्रस्तुतिः

अतिप्रचण्डो बहुलो वायुर् भवति दारुणः । शर्कराकर्षणश् चापि दिक्षु चैव विदिक्षु च ॥

०२.०३

विश्वास-प्रस्तुतिः

तद् एतल्लक्षणोपेतं विद्याद् वायुप्रकम्पितम् । शस्त्रैर् आवरणङ्कुर्यात् प्राकारं परिखां तथा ॥

०२.०४

विश्वास-प्रस्तुतिः

न तदा प्रवसेद् ग्रामं ज्ञात्वात्मानं तु गोपयेत् । सङ्ग्रामाश् चात्र वर्धन्ते मांसशोणितकर्दमाः ॥

०२.०५

विश्वास-प्रस्तुतिः

विरुध्यन्ते च राजानो मरणानि भवन्ति हि । राजपुत्रसहस्त्राणां भूमिः पिबति शोणितम् ॥

०२.०६

विश्वास-प्रस्तुतिः

मासं विंशतिरात्रं वा देवस् तत्र न वर्षति । द्वाभ्यां गताभ्यां मासाभ्यां परं स्याद् बहुलं जलम् ॥

०२.०७

विश्वास-प्रस्तुतिः

दष्टं दूषयते चात्र क्षतबद्धानि चाधिकम् । एषाम् एव तु कम्पानां गर्हितं वायुकम्पितम् ॥

०३.०१

विश्वास-प्रस्तुतिः

प्रकम्पितायां भूमौ ॥

मूलम्

प्रकम्पितायां भूमौ ॥

०३.०२

विश्वास-प्रस्तुतिः

वर्षन्तस् तु समायान्ति महामेघाः समन्ततः । नक्राश् च शिशुमाराश् च कूर्मा मकरसंस्थिताः ॥

०३.०३

विश्वास-प्रस्तुतिः

अभ्राकृतिषु दृश्यन्ते ग्रसन्तश् चन्द्रभास्करौ । तद् एतल्लक्षणोपेतं विद्याद् अम्बुप्रकम्पितम् ॥

०३.०४

विश्वास-प्रस्तुतिः

पर्वतेषु वपेद् बीजम् ऊषरे जाङ्गले तथा । तत्रोप्तं नन्दते बीजम् अन्यत्र भुवि नश्यति ॥

०३.०५

विश्वास-प्रस्तुतिः

उदजानि तु पुष्पाणि मूलानि च फलानि च । गच्छन्ति तत्र वृद्धिं च सत्त्वान्य् उदकजानि च ॥

०३.०६

विश्वास-प्रस्तुतिः

[क्षेमं सुभिक्षम् आरोग्यं सुवृष्टिं चात्र निर्दिशेत्] ॥

०४.०१

विश्वास-प्रस्तुतिः

प्रकम्पितायां भूमौ ॥

मूलम्

प्रकम्पितायां भूमौ ॥

०४.०२

विश्वास-प्रस्तुतिः

गम्भीरं गर्जमानस् तु मेघ आयाति पार्थिवः । स्निग्धो ह्य् अञ्जनसङ्काशः सुमहत्पर्वतोपमः ॥

०४.०३

विश्वास-प्रस्तुतिः

वित्रासयन् दिशः सर्वा द्रुतं चापि प्रवर्षति । इन्द्रायुधं भवेच् चात्र विद्युत् स्तनितम् एव च ॥

०४.०४

विश्वास-प्रस्तुतिः

सुवृष्टिं क्षेमम् आरोग्यं सुभिक्षं परमा मुदः । यज्ञोद्भवैस् तु मोदन्ते आनन्दैर् मोदिताः प्रजाः ॥

०४.०५

विश्वास-प्रस्तुतिः

एतेषां भूमिकम्पानां प्रशस्तं हीन्द्रकम्पनम् । जानीयाल् लक्षणैर् एतैः सर्वम् एव शुभाशुभम् ॥

०४.०६

विश्वास-प्रस्तुतिः

एतेषु त्रिषु कम्पेषु अथर्वा शास्त्रकोविदः । माहेन्द्रीम् अमृतां वापि कुर्याच् छान्तिं सदक्षिणाम् ॥

०४.०७

विश्वास-प्रस्तुतिः

इन्द्रकम्पे तु विधिवद् ऐन्द्रैर् मन्त्रैर् विधानवित् । ततोहलस्य प्रधानार्थं जुहुयाच् च जपेत् तथा ॥