०१.०१
विश्वास-प्रस्तुतिः
ओम् अथातः परिवेषाणां लक्षणं चैव वक्ष्यते । वृद्धगर्गो यथा पूर्वम् उवाच मम सुव्रत ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
स्वायम्भुवनियोगेन विकारं कुरुते ऽमलः ॥
मूलम्
स्वायम्भुवनियोगेन विकारं कुरुते ऽमलः ॥
०१.०३
विश्वास-प्रस्तुतिः
श्वेतः श्यामो हरिः कृष्ण इति वर्णा व्यवस्थिताः । प्रोक्ता मेघेषु चत्वारो व्यक्ताः स्निग्धाः सुपूजिताः ॥

०१.०४
विश्वास-प्रस्तुतिः
स्निग्धेषु परिवेषेषु वतुर्ष्व् एतेषु नारद । सन्ध्यायाम् अत्र वर्णेषु वृष्टिं तेष्व् अभिनिर्दिशेत् ॥

०१.०५
विश्वास-प्रस्तुतिः
काचनीलाञ्जनारिष्टाशनिसर्पनिभेषु च । रौप्यद्रवसमाभेषु मेघस् त्रिष्व् अपि वर्षति ॥

०१.०६
विश्वास-प्रस्तुतिः
निमग्ना तु यदा सन्ध्या भवत्य् एतत् सुवृष्टये । एभ्यश् च विपरीता ये ते ऽवृष्टिभयदा घनाः ॥

०१.०७
विश्वास-प्रस्तुतिः
वराहैर् मकरैर् उष्ट्रैर् वृकैः कङ्कैस् तथा खरैः । शशकाकृतयः कुर्युः सन्ध्यायां जलदा भयम् ॥

०१.०८
विश्वास-प्रस्तुतिः
हेमपावकवर्णाश् च विपुलं च जनक्षयम् । शब्दं श्वखरगोमायुगृध्रवायससंस्थिताः ॥

०१.०९
विश्वास-प्रस्तुतिः
पूर्वापरासु सन्ध्यासु सङ्ग्रामं प्राहुर् उन्मुखाः । अश्वस्था वारणस्थाश् च येषु योधा नरा इव ॥

०१.१०
विश्वास-प्रस्तुतिः
मेघेषु सम्प्रदृश्यन्ते ये पाशाङ्कुशसन्निभाः । तथा सवारणाश् चैव विनिघ्नन्तः परस्परम् ॥

०१.११
विश्वास-प्रस्तुतिः
क्रव्याद्भिर् भक्ष्यमाणाश् च गृध्रगोमायुवायसैः । उद्युध्यन्ते यदा युक्ता राञ्जः संशयकारकाः ॥

०१.१२
विश्वास-प्रस्तुतिः
मयूराट्टालपद्मेन्दुकाशनीलनिभानि तु । सन्ध्यास्व् अभ्राणि दृश्यन्ते तीव्रं वर्षम् उपस्थितम् ॥

०१.१३
विश्वास-प्रस्तुतिः
सविद्युत् सधनुष्कश् च सघोषः शिखिसन्निभः । सन्ध्यास्व् अभ्राणि दृश्यन्ते तीव्रं वर्षम् उपस्थितम् ॥

०१.१४
विश्वास-प्रस्तुतिः
नीललोहितपर्यन्तं कृष्णग्रीवं सविद्युतम् । विवर्णं परिघं दृष्ट्वा विद्याद् उदकवाहकम् ॥

०१.१५
विश्वास-प्रस्तुतिः
त्रिवर्णे परिघे वापि त्रिवर्णैर् वा बलाहकैः । उदयास्तमयम् इयाद् यदि सूर्यः कदा चन ॥

०१.१६
विश्वास-प्रस्तुतिः
पृथिव्यां राजवंश्यानां महद् भयम् उपस्थितम् । लोकक्षयकरं विद्याद् यदि देवो न वर्षति ॥

०१.१७
विश्वास-प्रस्तुतिः
मत्स्यरूपी सादृश्येन यद्य् उत्तिष्ठेत भास्करः । स्फुटरश्मिस् तदादित्यः स निर्दहति मेदिनीम् ॥

०१.१८
विश्वास-प्रस्तुतिः
एतद् दृष्ट्वा महद् रूपम् आदित्ये समुपस्थिते । विस्पष्टं ज्योतिर् विस्पष्टं सद्योवर्षस्य लक्षणम् ॥

०१.१९
विश्वास-प्रस्तुतिः
ग्रहसञ्छादनं चापि गर्जनं प्रतिगर्जनम् । परस्परेण कुर्वन्ति मेघा वेगसमीरिताः ॥

०१.२०
विश्वास-प्रस्तुतिः
तस्मिंश् चतुर्विधे युद्धे मेघानां व्योमचारिनाम् । उत्पद्यन्ते त्रयो भावास् तन् मे निगदतः शृणु ॥

०१.२१
विश्वास-प्रस्तुतिः
गर्जमानेषु मेघेषु वारणः प्रतिगर्जति । तां दिशं योजयेत् स्नेनां गर्जनं यत्र मीयते ॥

०१.२२
विश्वास-प्रस्तुतिः
विद्युतो ऽभ्रविकारेषु शक्रायुधनिभायुधाः । स्फोटिताशनिघण्टाश् च यां दिशं मेघवारणाः ॥

०१.२३
विश्वास-प्रस्तुतिः
सङ्घट्टेषु समुद्भुताः परस्परजिघांसवः । तां दिशं योजयेत् सेनां राजा जयति तां दिशम् ॥

०१.२४
विश्वास-प्रस्तुतिः
ग्रहणाछादने चैव गर्जने प्रतिगर्जने । एवम् एव विधिर् ज्ञेयः सर्वश् चैव विनिश्चयः ॥

०१.२५
विश्वास-प्रस्तुतिः
परिमाणं न शक्यं तत् समीरितुम् अशेषतः । अपराभ्रविकाराणां रत्नानाम् इव सागरे ॥

०१.२६
विश्वास-प्रस्तुतिः
सन्ध्या योजनभाक् प्रोक्ता स्तनितं तु द्वियोजनम् । परिघः पञ्चयोजन्यः प्रत्यादित्यस् त्रियोजनः ॥

०१.२७
विश्वास-प्रस्तुतिः
निर्घातः षट् तथा विद्युत् परिवेषो द्विषड्यतः । दाहं योजनकं चापि उल्का त्व् अमितभागिनी ॥

०१.२८
विश्वास-प्रस्तुतिः
दशसंस्था समाप्तानि शायाङ्गानि प्रमाणतः । अङ्गानि त्व् आन्तरिक्षाणि विज्ञेयानि समासतः ॥