०१.०१
विश्वास-प्रस्तुतिः
अष्टौ भवन्ति निर्घातास् तेषाम् इन्द्रः प्रशस्यते । पूर्वेण वृष्टिं सस्यं च राजवृद्धिं च निर्दिशेत् ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
पूर्वोत्तरे सुभिक्षं तु भूमिलाभस् तथोत्तरे । अपरोत्तरे चौरभयं वाजिनां चाप्य् उपद्रवः ॥

०१.०३
विश्वास-प्रस्तुतिः
पश्चिमायां भयं राज्ञो जलजातिश् च पीड्यते । नैरृते सस्यगोस्त्रीणां गणानां च महद् भयम् ॥

०१.०४
विश्वास-प्रस्तुतिः
दक्षिणे राजपीडा स्याद् आयुश् चात्र विनिर्दिशेत् । आनर्तस्य भयं विद्याद् यदि स्यात् पूर्वदक्षिणः ॥

०१.०५
विश्वास-प्रस्तुतिः
स योजनपरः शब्दो निर्घातस्य विशाम्यति । सर्वत्र च भयं विद्यात् तत्र यत्र विशाम्यति ॥

०१.०६
विश्वास-प्रस्तुतिः
भये रौद्रीं प्रकुर्वीत अभयां वाभयप्रदाम् । तया शाम्यन्ति चोत्पाताः सुखं चात्यन्तिकं भवेत् ॥