०१.०१
विश्वास-प्रस्तुतिः
अत ऊर्ध्वं प्रवक्ष्यामि विद्युल्लक्षणम् उत्तमम् । वर्णरूपविकारांश् च देशभागाञ् शुभाशुभान् ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
चतुर्थीं पञ्चमीं चैव प्रतीक्षेत सदा शुचिः । आषाढशुद्धे नियतं विद्युद्दर्शनम् अद्भुतम् ॥

०१.०३
विश्वास-प्रस्तुतिः
अतिवृष्टिम् अनावृष्टिं भावाभावौ तथैव च । सर्वसस्येषु निष्पत्तिर् विद्युतो दर्शने नरः ॥

०१.०४
विश्वास-प्रस्तुतिः
ऐन्द्र्यां चेत् स्यन्दते विद्युद् ऐन्द्रस्थश् चापि मारुतः । सुभिक्षं क्षेमम् आरोग्यं निरीतिं च विनिर्दिशेत् ॥

०१.०५
विश्वास-प्रस्तुतिः
आग्नेय्यां चेद् उभौ स्यातां भयं शस्त्राग्निवृष्टिह्तः । याम्यायां विषमारिश् च व्याधिमृत्युभयं तथा ॥

०१.०६
विश्वास-प्रस्तुतिः
कनीयसी तु नैरृत्यां तथा बह्वीतिका समा । मध्यमा सस्यसम्पत्तिर् वारुण्यां व्याधिसङ्कुला ॥

०१.०७
विश्वास-प्रस्तुतिः
पतङ्गदंशमशका वायव्यां मध्यसपदः । अतिवारिभयं विद्यात् सौम्यायां भूरिसम्पदः ॥

०१.०८
विश्वास-प्रस्तुतिः
निरीतिः सस्यसम्पत् तु प्रधानाइश्यां मनोरमा । प्रतिलोमेषु वातेषु ईतिबाहुल्यम् आदिशेत् ॥

०१.०९
विश्वास-प्रस्तुतिः
अनुलोमेषु वातेषु निरीतिं तु समादिशेत् । शुभायां स्यन्दमानायाम् अनिष्टा स्यन्दते यदि ॥

०१.१०
विश्वास-प्रस्तुतिः
सम्पद्यते महासस्यान् महांश् चेत् स्याद् अवग्रहः । अशुभा स्यन्दते पूर्वं यदि पश्चाच् च शोभना ॥

०१.११
विश्वास-प्रस्तुतिः
सुवृष्टिम् एव तत्राहुर् न च सस्यं समृध्यति । यदा तु सर्वाः स्यन्दन्ते विषमां वृष्टिम् आदिशेत् ॥

०१.१२
विश्वास-प्रस्तुतिः
बहुलायां विद्युति तु बहुवारिभयं भवेत् । सविद्युतः सस्तनितो दर्शयन्ति यदा शुभाम् ॥

०१.१३
विश्वास-प्रस्तुतिः
पूर्वोत्तरां दिशं मेघाः सुवृष्टिं तां विजानते । पूर्वतः पूर्ववर्षेषु दृश्यन्ते यदि तोयदाः ॥

०१.१४
विश्वास-प्रस्तुतिः
प्रदक्षिणावर्तशुभाः सुवृष्टिम् इति निर्दिशेत् । आग्नेयेष्व् अतिवृष्टिः स्यात् सस्यं चापि विपद्यते ॥

०१.१५
विश्वास-प्रस्तुतिः
विषमा वृष्टिर् याम्येषु व्याधिं मृत्युं च निर्दिशेत् । बह्वीतिका नैरृतेषु समूलफलदायिनी ॥

०१.१६
विश्वास-प्रस्तुतिः
वारुणेषु पयोदेषु मध्यमं सस्यम् आदिशेत् । वायव्यां प्रथमं वर्षं यत्र वर्षति वासवः ॥

०१.१७
विश्वास-प्रस्तुतिः
तत्रातिवृष्टिर् भवति स्वल्पबीजानि वापयेत् । वर्णस्नेभोपपन्नास् तु पूर्ववृष्ट्यां पयोधराः ॥

०१.१८
विश्वास-प्रस्तुतिः
सौम्यां यत्र प्रवर्षेयुस् तत्र सर्ववृष्ट्यां पयोधराः ॥

०१.१९
विश्वास-प्रस्तुतिः
इत्य् एतत् पूर्ववर्षेषु लक्षणं विद्युतां स्फुटम् । वर्षारावगतं सर्वं यथावत् परिकीर्तितम् ॥

०१.२०
विश्वास-प्रस्तुतिः
शुभेष्व् अपि महाशान्तिर् अविघाताय वोच्यते । अशुभेषु समर्घाय तस्मात् सर्वेषु शान्तिकम् इति ॥