५८ दिग्दाहलक्षणम्

०१.०१

विश्वास-प्रस्तुतिः

ओम् अत ऊर्ध्वं च दिग्दाहान् कीर्त्यमानान् निबोधत । यथा दिशः प्रदह्यन्ते तासां दाहफलं च यत् ॥

मूलम्

०१.०२

विश्वास-प्रस्तुतिः

इन्द्रो ऽग्निर् मरुतश् चैव प्रदहन्ति दिशो दश । शुभाशुभाय लोकानां कृतान्तेनाभिचोदिताः ॥

०१.०३

विश्वास-प्रस्तुतिः

यदास्तमित आदित्ये वह्नेर् ज्वाला प्रदृश्यते। दिशां दाहं तु तद् विद्याद् भार्गवस्य वचो यथा ॥

०१.०४

विश्वास-प्रस्तुतिः

नानारागसमुत्थानां नानाविधफलोदयाः । पांशुनेव च सञ्छन्ना दिग्दाहायोगम् आश्रिताः ॥

०१.०५

विश्वास-प्रस्तुतिः

दिशः सर्वाः प्रदह्यन्ते अक्षेमाय फलाय च । अवदाहाद् ऋते दाहं यदि स्निग्धाः प्रदर्शनाः ॥

०१.०६

विश्वास-प्रस्तुतिः

तमोधूमरजस्का ये दीप्तद्विजमृगावृताः । प्रदीप्तलक्षणाः सत्याः सर्व एवाहितावहाः ॥

०१.०७

विश्वास-प्रस्तुतिः

तथा कनककिञ्जल्कतडित्कल्पाः शिवाश् च ये । रूक्षाः कृष्णाथ माञ्जिष्ठा बन्धुजीवकवच् च ये ॥

०१.०८

विश्वास-प्रस्तुतिः

श्वेता रक्ताश् च पीताश् च दाहाः कृष्णाश् च वर्णतः । ब्रह्मक्षत्रियविट्शूद्रविनाशाय प्रकीर्तिताः ॥

०१.०९

विश्वास-प्रस्तुतिः

रक्ताः शस्त्रभयं कुर्युर् पीता व्याधिप्रकोपनाः । अग्निवर्णास् तथा कुर्युर् अग्निशस्त्रभयं महत् ॥

०१.१०

विश्वास-प्रस्तुतिः

सपीतपरुषश्यामा ये च वारुणसन्निभाः । सर्व एव क्षुधारोगमृत्युशस्त्राग्निकोपनाः ॥

०१.११

विश्वास-प्रस्तुतिः

ऋतौ तु वर्षं तीव्रं स्यात् सैन्यविद्रवम् एव च । भृशम् उद्द्योतनी सन्ध्या कुरुते वा ग्रहागमम् ॥

०१.१२

विश्वास-प्रस्तुतिः

दिक्षु दग्धासु पीड्यन्ते यथादिग् देशभक्तयः । शकुनज्ञाननिर्दिष्टा ये च तत्राधिकारकाः ॥

०१.१३

विश्वास-प्रस्तुतिः

यथोक्ता तु महाशान्तिर् यथोक्तविधिना कृता । सर्वं दिग्दाहजं घोरं शमयेत् सा सदक्षिणा ॥