०१.०१
विश्वास-प्रस्तुतिः
ओम् उल्कादयो हि निर्दिष्टा निर्घातास् तु पुरात्र ये । तेषाम् इदानीं वक्ष्यामि विशेषांस् तु पृथक्पृथक् ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
अङ्गानाम् आन्तरिक्षाणां यद् अङ्गम् अभिपूजितम् । तद् उल्कालक्षणं श्रीमद् अङ्गं कार्त्स्न्येन वक्ष्यते ॥

०१.०३
विश्वास-प्रस्तुतिः
अप्रधृष्याणि यानि स्युः शरीराणीन्द्रियैर् दृढैः । क्षमावन्ति विशुद्धानि सत्यव्रतरातानि च ॥

०१.०४
विश्वास-प्रस्तुतिः
तान्य् एतानि प्रकाशन्ते भाभिर् वितिमिरं नभः । समन्ताज् ज्वलयन्तीह यस्माद् असुकरं नभः ॥

०१.०५
विश्वास-प्रस्तुतिः
तानि भावक्षयाद् भूयः प्रच्युतानि नभस्तलात् । क्षितौ सलक्षणान्य् एव निपतन्तीह भार्गव

०१.०६
विश्वास-प्रस्तुतिः
तेषां निपततां तत्र यत्रयत्रोपलक्ष्यते । तत्रतत्रैव विविधं प्रजानां जायते भयम् ॥

०१.०७
विश्वास-प्रस्तुतिः
रूपवर्णप्रभास्नेहप्रमणाकृतिसङ्गमैः । तेषां बलाबलं ज्ञात्वा गुणदोषः प्रवक्ष्यते ॥

०१.०८
विश्वास-प्रस्तुतिः
तारा धिष्ण्यास् तथोल्काश् च विद्युतो ऽशनयस् तथा । विकल्पाः पञ्चधा चैषां परस्परबलोत्तराः ॥

०१.०९
विश्वास-प्रस्तुतिः
तत्र शब्देन्ब महता विस्वरेण विकर्षिणा । महाचक्रम् इवागच्छद् आयताक्षा नभस्तलात् ॥

०१.१०
विश्वास-प्रस्तुतिः
मनुष्यमृगहस्त्यश्ववृक्षाश्मपथवेश्मसु । पतन्त्य् अशनयो दीप्ताः स्फोटयन्त्यो धरातलम् ॥

०२.०१
विश्वास-प्रस्तुतिः
सहसैवोपपन्नेषु भृशं तदनुयायिना । सत्त्वविभ्रंशिनात्यर्थं शब्देनोद्वेगकारिणा ॥

०२.०२
विश्वास-प्रस्तुतिः
ज्वालाभारविसर्पिण्यः प्रकृत्या दुःखदर्शनाः । विद्युतो निपतन्त्य् आशु जीवेषु वनराशिषु ॥

०२.०३
विश्वास-प्रस्तुतिः
तीक्ष्णशूलविशालाग्रा पतन्ती चापि वर्धते । प्रकृत्या पौरुषी तूल्का तस्या भेदान् निबोधत ॥

०२.०४
विश्वास-प्रस्तुतिः
कृशा नारीव दीप्ता स्याच् छिखा साङ्गारवर्षिणी । उद्द्योतयन्ती गगनं काञ्चनेनैव वर्मणा ॥

०२.०५
विश्वास-प्रस्तुतिः
पीतेन पाण्डुना वापि धूमधूमारुणेन वा । विशीर्यता महाभ्रेण महता चानुषङ्गिणा ॥

०२.०६
विश्वास-प्रस्तुतिः
वंशगुल्मनिभाश् चापि काश् चिद् इन्द्रध्वजोपमाः । काश् चिद् इन्द्रायुधप्रख्याः काश् चिन् मण्डलसंस्थिताः ॥

०२.०७
विश्वास-प्रस्तुतिः
छत्त्रवच् चापु दृश्यन्ते चक्रवन् निपतन्ति च । दण्डवच् चापि तिष्ठन्ति प्रधावन्ति च सर्पवत् ॥

०२.०८
विश्वास-प्रस्तुतिः
प्रकीर्णेन कलापेन खे गच्छन्तीव बर्हिणः । अभ्युच्छ्रितेन पुच्छेन याति का चिद् धरातलम् ॥

०२.०९
विश्वास-प्रस्तुतिः
तेजांसि विकिरन्त्य् अन्याः प्रधावन्ति च गोलवत् ॥

०३.०१
विश्वास-प्रस्तुतिः
प्रनृत्तप्रेतमार्जातवराहानुगतास् तथा । सस्वना निःस्वनाश् चापि पतन्ति धरणीतले ॥

०३.०२
विश्वास-प्रस्तुतिः
एतासां फलम् उल्कानां प्रवक्ष्यामि पृथक्पृथक् । तन्तुनैव हि सम्बद्धा उह्यमानेव वायुना ॥

०३.०३
विश्वास-प्रस्तुतिः
पतन्ती दृश्यते का चित् का चिद् भ्रमति चाम्बरे । उल्कासङ्घैः परिवृता का चिद् याति धरातलम् ॥

०३.०४
विश्वास-प्रस्तुतिः
सामान्यं तु फलं तासां तत् समासेन वक्ष्यते । वराहप्रेतशार्दूलसिंहमार्जारवाराइः ॥

०३.०५
विश्वास-प्रस्तुतिः
तुल्या भयावहा उल्का निकृष्टाहिनिभा च या । शूलपट्टिशशक्त्यृष्टिमुद्गरासिपरश्वधैः ॥

०३.०६
विश्वास-प्रस्तुतिः
वृष्ट्याकारेण तुल्याश् च वृक्षाभाश् च विगर्हिताः । पद्मशङ्खेन्दुवज्राहिमत्स्यध्वजनिभाः शुभाः ॥

०३.०७
विश्वास-प्रस्तुतिः
श्रीवृक्षस्वस्तिकावार्तहंसद्विरदवर्चसः । ज्वलिताङ्गारसङ्काशा जिह्मगा अथ शीघ्रगाः ॥

०३.०८
विश्वास-प्रस्तुतिः
विना पुच्छावकाशेन ह्रस्वेनातिकृशेन वा । दशान्तराणि धनुषः पुच्छं चापि प्रदृश्यते ॥

०३.०९
विश्वास-प्रस्तुतिः
उल्काविकारो बोद्धव्यो धिष्ण्य इत्य् अभिसञ्ज्ञितः । यस् तु शुक्लेन वर्णेन वपुषा पेलवेन वा ॥

०३.१०
विश्वास-प्रस्तुतिः
पद्मतन्तुनिकाशेन धूमराजीनिभेन वा । उल्काविकारः सो ऽप्य् उक्तस् तारका नामनामतः ॥

०३.११
विश्वास-प्रस्तुतिः
एवं पञ्चविधा ह्य् एताः शौनकेन प्रकीर्तिताः । स्वर्गच्युतानां पततां लक्षणं पुण्यकर्मणाम् ॥

०४.०१
विश्वास-प्रस्तुतिः
एतासाम् इन्द्रशिरसि पतनं नृपतेर् भयम् । देवतार्चासु पतने राजराष्ट्रभयं भवेत् ॥

०४.०२
विश्वास-प्रस्तुतिः
पुरद्वरे पुरक्षोभ इन्द्रकीले जनक्षयः । ब्रह्मायतनघातेषु ब्राह्मणानाम् उपद्रवः ॥

०४.०३
विश्वास-प्रस्तुतिः
चैत्यवृक्षाभिघातेषु सत्कृत्यानां महद् भयम् । द्वारे चायुःक्षयं विद्याद् गृहे तु स्वामिनो भयम् ॥

०४.०४
विश्वास-प्रस्तुतिः
गोष्ठेषु गोमिनां विद्यात् कर्षकाणां खलेषु च । गृहेषु राज्ञां जानीयाद् भेषु तद्भक्तिनां भयम् ॥

०४.०५
विश्वास-प्रस्तुतिः
आशाग्रहोपघातेषु तद्देश्यानां तपस्विनाम् । अधोमुखीनृपं हन्याद् ब्राह्मणान् ऊर्ध्वगामिनी ॥

०४.०६
विश्वास-प्रस्तुतिः
तिर्यग्गा राजपत्नीं च श्रेष्ठिनः प्रतिलोमनी । वंशगुल्मनिभा राष्ट्रं नृपम् इन्द्रध्वजोपमा ॥

०४.०७
विश्वास-प्रस्तुतिः
गजम् इन्द्रायुधप्रख्या पुरं मण्डलसंस्थिता । मन्त्रिणश् चक्रसंस्थाना छत्त्राकारा पुरोधसम् ॥

०४.०८
विश्वास-प्रस्तुतिः
मयूरपुच्छानुगता कुर्याद् उल्का जलक्षयम् । विलीयमाना नभसि पिबत्य् उल्का पयोधरान् ॥

०४.०९
विश्वास-प्रस्तुतिः
स्फुलिङ्गान् विसृजन्त्यो याः प्रधावन्ति समन्ततः । गोलवच् च प्रधावन्ति तासु राष्ट्रभयं भवेत् ॥

०४.१०
विश्वास-प्रस्तुतिः
उल्कासङ्घैः परिवृता याः पतन्ति नभस्तलात् । अनुसारिण्य उल्कास् ता राजराष्ट्रभयावहाः ॥

०४.११
विश्वास-प्रस्तुतिः
प्रेतानुगतमार्गाश् च वराहानुगताश् च याः । क्रव्याग्निव्यालरूपाश् च ता जनक्षयकारिकाः ॥

०४.१२
विश्वास-प्रस्तुतिः
क्षेवेडितास्फोटितोत्क्रुष्टा गीतवादित्रनिस्वनाः । उल्कापातेषु बोद्धव्या राजराष्ट्रभयावहाः ॥

०४.१३
विश्वास-प्रस्तुतिः
सस्वना दारुणाः सन्ध्यावायोश् च प्रतिलोमगाः । नभो मध्यं च या यान्ति याश् च कुर्युर् गतागतम् ॥

०४.१४
विश्वास-प्रस्तुतिः
हिनस्ति शुक्ला शिरसा मध्येन क्षतजप्रभा । पार्श्वाभ्यां पीतका हन्ति कृष्णोल्का पुच्छयोगिनी ॥

०४.१५
विश्वास-प्रस्तुतिः
शुक्ला देवनृपान् हन्यात् क्षत्रियान् क्षतजप्रभा । पीता वैश्योपघाताय शूद्रान् हन्यात् सितेतरा ॥

०४.१६
विश्वास-प्रस्तुतिः
पतन्त्यो नोपलक्ष्यन्ते कर्म तासां प्रकाशते । क्षिताव् अशनयो यत्र तत्र नास्ति भयागमः ॥

०४.१७
विश्वास-प्रस्तुतिः
सतारा निपतन्त्य् अन्या मारुतप्रतिलोमगाः । भवन्ति विद्युतो नेष्टा इष्टाश् च स्युर् अतो ऽन्यथा ॥

०४.१८
विश्वास-प्रस्तुतिः
तारा धिष्ण्याश् च बोद्धव्याश् चिरान् मृदुफलोदयाः । तासाम् अपि च भूयिष्ठं पतनं दोषकारकम् ॥

०४.१९
विश्वास-प्रस्तुतिः
यतोयतो विकाराः स्युर् निपतन्त्य् अतिमात्रशः । ततस्ततो नृपो यायाद् दैवो मार्गः स उच्यते ॥

०४.२०
विश्वास-प्रस्तुतिः
निमित्तेषु महाशान्तिम् उल्कायां च विशेषतः । कृत्वा सिद्धिम् अवाप्नोति उल्कादोषाच् च मुच्यते ॥