०१.०१
विश्वास-प्रस्तुतिः
विशाखे कृत्तिकाः पुष्यः पूर्वौ प्रोष्ठपदौ तथा । भरण्यश् च मघाश् चैव फल्गुन्यौ प्रथमे तथा ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
यद्य् अत्र चलते भूमिर् निर्घातोल्कास्त एव वा । अशरीराश् च नर्दन्ते कम्पन्ते दैवतानि च ॥

०१.०३
विश्वास-प्रस्तुतिः
आदित्यो वात्र गृह्येत सोमो वाप्य् उपरज्यते । आग्नेयं तद् विजानीयाद् दुर्भिक्षं चात्र निर्दिशेत् ॥

०१.०४
विश्वास-प्रस्तुतिः
अल्पक्षीरास् तथा गावो अग्नेर् व्याधिश् च जायते । पुराणि देशा ग्रामाश् च पीड्यन्ते ह्य् अग्निना तदा ॥

०१.०५
विश्वास-प्रस्तुतिः
पीड्यन्ते चाग्निकर्माणो अग्निवेशाश् च ये नराः । पित्तज्वरस् तथा श्वासह प्रजाः पीडयते तदा ॥

०१.०६
विश्वास-प्रस्तुतिः
अक्षिरोगास् तथा घोराः पुरुषाणां विशेषतः । आपगाश् चात्र शुष्यन्ति न च सस्यवती मही ॥

०१.०७
विश्वास-प्रस्तुतिः
तप्यते च तदा भूमिर् न च देवो ऽभिवर्षति । नीललोहितपर्यक्ता अफलाः पादपास् तथा ॥

०१.०८
विश्वास-प्रस्तुतिः
दुर्भिक्षं मरको व्याधिः परचक्रभयं तथा । एतै रूपैस् तु विज्ञेयम् आग्नेयं चलदर्शनम् ॥

०२.०१
विश्वास-प्रस्तुतिः
हस्तो ऽश्विन्यौ तथा चित्रा ऋक्षम् अर्यमदैवतम् । ब्राह्मं मृगशिरः स्वातिर् वायव्यं मण्डलं स्मृतम् ॥

०२.०२
विश्वास-प्रस्तुतिः
यद्य् अत्र चलते भूमिर् निर्घातोल्कास्त एव वा । अशरीराश् च नर्दन्ते कम्पन्ते दैवतानि च ॥
मूलम्
यद्य् अत्र चलते भूमिर् निर्घातोल्कास्त एव वा । अशरीराश् च नर्दन्ते कम्पन्ते दैवतानि च ॥
०२.०३
विश्वास-प्रस्तुतिः
आदित्यो वात्र गृह्येत सोमो वाप्य् उपरज्यते । वायव्यं तद् विजानीयाद् अक्षेमं चात्र निर्दिशेत् ॥

०२.०४
विश्वास-प्रस्तुतिः
पांसुवर्षं तदा घोरं क्षीरे सर्पिर् न विद्यते । प्रासादतोरणादीनि प्रपतन्ति महीतले ॥

०२.०५
विश्वास-प्रस्तुतिः
मद्रका यवनाश् चैव शकाः काम्बोजबाल्हिकाः । गन्धाराश् च विनश्यन्ति एतैः सार्धं तथा किल ॥

०२.०६
विश्वास-प्रस्तुतिः
गजा वाजिन उष्ट्राश् च वृका नकुलचेटकाः । पीड्यन्ते व्याधिना सर्वे ये च शस्त्रोपजीविनः ॥

०२.०७
विश्वास-प्रस्तुतिः
पुरे श्रेष्ठा विनश्यन्ति गणेषु गुणसम्मिताः । गृहाणि रमणीयानि विशीर्यन्ते च सर्वशः ॥

०२.०८
विश्वास-प्रस्तुतिः
आयासश् चोल्बणस् तत्र शस्त्रभ्रामः समन्ततः । एतै रूपैस् तु विज्ञेयं वायव्यं चलदर्शनम् ॥

०३.०१
विश्वास-प्रस्तुतिः
आर्द्राश्लेषास् तथा मूलन् पूर्वाषाढास् तथैव च । वारुणं रेवती चैव सूर्यदैवत्यम् एव च ॥

०३.०२
विश्वास-प्रस्तुतिः
यद्य् अत्र चलते भूमिर् निर्घातोल्कास्त एव वा । अशरीराश् च नर्दन्ते कम्पन्ते दैवतानि च ॥
मूलम्
यद्य् अत्र चलते भूमिर् निर्घातोल्कास्त एव वा । अशरीराश् च नर्दन्ते कम्पन्ते दैवतानि च ॥
०३.०३
विश्वास-प्रस्तुतिः
आदित्यो वात्र गृह्येत सोमो वाप्य् उपरज्यते । वारुणं तद् विजानीयात् सुभिक्षं चात्र निर्दिशेत् ॥

०३.०४
विश्वास-प्रस्तुतिः
बहुक्षीरास् तथा गावो नागाश् च फलिनस् तथा । शान्तारयः प्रजाः सर्वा गोमिनो जङ्गलं पयः ॥

०३.०५
विश्वास-प्रस्तुतिः
जलोपजीविनः सर्वे प्राप्नुवन्त्य् ऋद्धिम् उत्तमाम् । खेचराश् चात्र दृश्यन्ते स्निग्धवर्णाः समन्ततः ॥

०३.०६
विश्वास-प्रस्तुतिः
न्यस्तशस्त्राश् च राजानो ब्रह्मक्षत्रं च वर्धते । एतै रूपैस् तु विज्ञेयं वारुणं चलदर्शनम् ॥

०४.०१
विश्वास-प्रस्तुतिः
ज्येष्ठानुराधा श्रवणः श्रविष्ठाश् च पुनर्वसू । प्राजापत्यम् आषाढाश् च माहेन्द्रं मण्डलं स्मृतम् ॥

०४.०२
विश्वास-प्रस्तुतिः
यद्य् अत्र चलते भूमिर् निर्घातोल्कास्त एव वा । अशरीराश् च नर्दन्ते कम्पन्ते दैवतानि च ॥
मूलम्
यद्य् अत्र चलते भूमिर् निर्घातोल्कास्त एव वा । अशरीराश् च नर्दन्ते कम्पन्ते दैवतानि च ॥
०४.०३
विश्वास-प्रस्तुतिः
आदित्यो वात्र गृह्येत सोमो वाप्य् उपरज्यते । माहेन्द्रं तद् विजानीयात् सुक्षेमं चात्र निर्दिशेत् ॥

०४.०४
विश्वास-प्रस्तुतिः
गावः समग्रवत्साश् च स्त्रियः पुत्रसमन्विताः । कीटा व्याला म्रियन्ते च ये चान्ये स्वेदजन्तवः ॥

०४.०५
विश्वास-प्रस्तुतिः
वेदाध्ययनयज्ञेषु ब्राह्मणा निरताः सदा । विट्क्षत्रियाः स्वकर्माणः शूद्राः शुश्रूषकारकाः ॥

०४.०६
विश्वास-प्रस्तुतिः
विंशतिशतं त्व् आग्नेयं वायव्यं नवतिं चलेत् । अशीतिं चलते त्व् ऐन्द्रं वारुणं सप्ततिं चलेत् ॥

०४.०७
विश्वास-प्रस्तुतिः
आग्नेयो भूमिकम्पो यः स द्विमासाद् विपच्यते । वारुणस् तु फलं सद्यो वायव्यस् तु त्रिमासिकः ॥ माहेन्द्रस्य फलं विद्यान् मासम् अर्धं तथैव च ॥