०१.०१
विश्वास-प्रस्तुतिः
ॐ कृत्तिकारोहिणीसौम्यं मध्यं कूर्मस्य निर्दिशेत् ॥ शेषान् ऋक्षविभागे तु त्रिकं प्रति विनिर्दिशेत् ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
साकेतमिथिले मेकलालयाव् अहिछत्त्रनागपुरं काशिपारियात्रकुरुपाञ्चालाः ॥ अथ कोसलकौशाम्बीतीरं पाटलिपुत्रं कलिङ्गपुरपृथिवीमण्डलमध्ये ऽभिहते ऽभिहन्यात् ॥

०१.०३
विश्वास-प्रस्तुतिः
अङ्गवङ्गकलिङ्गमागधमहेन्द्रगवसम् अम्बष्ठाः ॥ भागाः पूर्वसमुद्राः शिरस्य् अभिहते ऽभिहन्यात् ॥

०१.०४
विश्वास-प्रस्तुतिः
खशभद्रा समतटसमवर्धमानकवैदेहा गान्धाराः ॥ कोसलतोसलवेणातटसज्जपुरा माद्रेयतामलिप्ता दक्षिणपूर्वे हते ऽभिहन्यात् ॥

०१.०५
विश्वास-प्रस्तुतिः
आवन्त्यका विदर्भा मत्स्या चकोरभीम[गम्]रथा यवनवलयकान्तीसिंहललङ्कुणनासिक्यकर्मणोयामिमहि^नर्मदभृगुकच्छा दक्षिणपश्चाद् धते ऽभिहन्यात् ॥

०१.०६
विश्वास-प्रस्तुतिः
सह्यगिरिवैजयन्ती कुण्कुणनासिक्यकर्मणोयामिमहिनर्मदभृगुकच्छा दक्षिणपश्चाद् धते ऽभिहन्यात् ॥

०१.०७
विश्वास-प्रस्तुतिः
सौराष्ट्रसिन्धुसौवीरमालवा रामराष्ट्रकान्वीतान् ॥ आनर्तगच्छयन्त्रान् पुच्छे ऽभिहते ऽभिहन्यात् ॥

०१.०८
विश्वास-प्रस्तुतिः
सारस्वतांस् त्रिगर्तान् मत्स्यान् नान्वारबाल्हिकान् ॥ मथुरापुरङ्गदेशान् उत्तरभागे हते ऽभिहन्यात् ॥

०१.०९
विश्वास-प्रस्तुतिः
ब्रह्मावर्तं शतद्रुहिमवन्तं पर्वतं च मैनाकं काश्मीरं चैव तथा उत्तरपार्श्वे हते ऽभिहन्यात् ॥

०१.१०
विश्वास-प्रस्तुतिः
नेपालकामरूपं च विदेहोदुम्बरं तथा ॥ तथावन्त्यः कैकयश् च उत्तरपूर्वे हते ऽभिहन्यात् ॥