५५ ऋतुकेतुलक्षणम्

०१.०१

विश्वास-प्रस्तुतिः

ओम् ऋतुकेतून् प्रवक्ष्यामि यथावद् अनुपूर्वशः । यावन्तो यस्य पुत्राः स्युः कुर्युर् यच् चोदिता दिवि ॥

मूलम्

०१.०२

विश्वास-प्रस्तुतिः

सर्वे ते धरणीजाता मासा ये देवनिर्मिताः । आदित्यरश्मिभिर् बद्धाः सौरे तिष्ठन्ति मण्डले ॥

०१.०३

विश्वास-प्रस्तुतिः

दश वै वारुणास् तत्र सूर्यपुत्रास् तु विंशतिः । चतुर्विंशतिर् आग्नेया यमपुत्रा नव स्मृताः ॥

०१.०४

विश्वास-प्रस्तुतिः

अष्टादश च कौबेरा वायुपुत्रास् तु विंशतिः । एषा सङ्ख्या तु केतूनां शतम् एकोत्तरं स्मृतम् ॥

०१.०५

विश्वास-प्रस्तुतिः

श्रावणप्रौष्ठपदयोर् वारुणांस् तु विनिर्दिशेत् ॥

०१.०६

विश्वास-प्रस्तुतिः

[आराधिताः शमं यान्ति तदुत्पाता न संशयः । होमैर् जापैश् च विविधैर् दानैश् च बहुरूपकैः ॥]

०१.०७

विश्वास-प्रस्तुतिः

आवाहयेत् ततो मेघान् पूर्णां कुर्याद् वसुन्धराम् । उन्मत्ताः सरितो यान्ति जलवेगसमाहिताः ॥

०१.०८

विश्वास-प्रस्तुतिः

धान्यं समर्घतां याति ईतयो न भवन्ति हि उदये वारुणानां तु एतद् भवति लक्षणम् ॥

०२.०१

विश्वास-प्रस्तुतिः

अश्वयुजि कार्त्तिके च सूर्यपुत्रान् विनिर्दिशेत् । तेषां चैव तु कर्माणि लक्षणैः शृणु यादृशैः ॥

०२.०२

विश्वास-प्रस्तुतिः

ततो दहति दीप्तांशुः सर्वान्नानि दिवाकरः । म्रियन्ते च तथा गावः श्वापदाश् च विशेषतः ॥

०२.०३

विश्वास-प्रस्तुतिः

विषं च प्रबलं तत्र सर्वदम्ष्ट्रिषु दारुणम् । उदये सूर्यपुत्राणाम् एतद् भवति लक्षणम् ॥

०३.०१

विश्वास-प्रस्तुतिः

मार्गशीर्षे च पौषे च अग्निपुत्रान् विनिर्दिशेत् । तेषां चैव तु कर्माणि लक्षणैः शृणु यादृशैः ॥

०३.०२

विश्वास-प्रस्तुतिः

अग्निर् दहति राष्ट्राणि हरितानि वनानि च विद्रवन्ति ततो देशाः समन्ताद् भयपीडिताः ॥

०३.०३

विश्वास-प्रस्तुतिः

कस्मिंश् चिज् जायते क्षेमं कस्मिंश् चिज् जायते भयम् । उदये ह्य् अग्निपुत्राणाम् एतद् भवति लक्षणम् ॥

०४.०१

विश्वास-प्रस्तुतिः

माघफाल्बुनयोर् मध्ये यमपुत्रान् विनिर्दिशेत् । तेषां चैव तु कर्माणि लक्षणैः शृणु यादृशैः ॥

०४.०२

विश्वास-प्रस्तुतिः

शीघ्रं भवति दुर्भिक्षं हाहाभूतम् अचेतनम् । छर्दिज्वरातिसाराश् च ग्लानिश् चैवाक्षिवेदना ॥

०४.०३

विश्वास-प्रस्तुतिः

उदये यमपुत्राणाम् एतद् भवति लक्षणम् ॥

मूलम्

उदये यमपुत्राणाम् एतद् भवति लक्षणम् ॥

०५.०१

विश्वास-प्रस्तुतिः

चैत्रवैशाखयोर् मध्ये कौबेरांस् तु विनिर्दिशेत् । तेषां चैव तु कर्माणि लक्षणैः शृणु यादृशैः ॥

०५.०२

विश्वास-प्रस्तुतिः

उच्छ्रितैर् ध्वजवेदीभिर् उच्छ्रितैर् ध्वजतोरणैः । हविर्धूमाकुला तत्र दृश्यते वसुधा तदा ॥

०५.०३

विश्वास-प्रस्तुतिः

त्रिविष्टपं समापन्नस् तदा शक्रो महीपतिः । एवं प्रज्ञास् तु मन्यन्ते कुबेरे ग्रहम् आगते ॥

०५.०४

विश्वास-प्रस्तुतिः

उदये तु कुबेराणाम् एतद् भवति लक्षणम् ॥

मूलम्

उदये तु कुबेराणाम् एतद् भवति लक्षणम् ॥

०६.०१

विश्वास-प्रस्तुतिः

ज्यैष्ठे चैव तथाषाढे वायुपुत्रान् विनिर्दिशेत् । तेषां चैव तु कर्माणि लक्षणैः शृणु यादृशैः ॥

०६.०२

विश्वास-प्रस्तुतिः

वायन्ति च महावाता महायुद्धं महाभयम् । भज्यन्ते च महावृक्षास् तोरणाट्टालकानि च ॥

०६.०३

विश्वास-प्रस्तुतिः

गृहाणि रामणीयानि क्षयं यान्ति जलानि च । उदये वायुपुत्राणाम् एतद् भवति लक्षणम् ॥

०६.०४

विश्वास-प्रस्तुतिः

ऋतुगतम् उदयनम् एषां महौजसां वारुणादिकेतूनाम् । जानाति यः फलं च प्रोत्कृष्टाः सम्पदस् तस्य ॥