०१.०१
विश्वास-प्रस्तुतिः
ॐ भार्गवस् तु पुरोवाच महर्षीन् भगवान् ऋषिः । केतुसञ्चारं शृणुत उत्थानं चैव यादृशम् ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
निमित्तनि च वक्ष्यामितस्योक्तानि हि यानि तु । तानि सर्वाणि जानियाद् उत्पातज्ञानकोविदः ॥

०१.०३
विश्वास-प्रस्तुतिः
विप्राञ् श्वेताकृतिर् हन्ति क्षत्रियान् हन्ति लोहितः । वैश्यांस् तु पीतको हन्ति शूद्रान् हन्ति तथासितः ॥

०१.०४
विश्वास-प्रस्तुतिः
इतरान् पीडयेत् केतुर् अन्यवर्णो यदा भवेत् । षण्मासाभ्यन्तरे राज्ञो मरणं च तदादिशेत् ॥

०१.०५
विश्वास-प्रस्तुतिः
श्वेतः शस्त्राकुलं कुर्याल् लोहितस् त्व् अग्नितो भयम्। क्षुद्भयं पीतकः कुर्यात् कृष्णो रोगम् अथोल्बणम् ॥

०२.०१
विश्वास-प्रस्तुतिः
यस्मिन् देशे शिरस् तस्य स देशः पीड्यते भृशम् । मध्ये तु मध्यमा पीडा यतो पुच्छं ततो जयः ॥

०२.०२
विश्वास-प्रस्तुतिः
शक्त्याकारो ऽतिनाशाय दुःखाय मुसलाकृतिः । दीर्घः सूक्ष्मः सुखायैव ह्रस्वः स्थूलो विनाशकृत् ॥

०२.०३
विश्वास-प्रस्तुतिः
उत्थानं चैव केतूनां विनाशायैव हि स्मृतम् । तस्माद् आथर्वणैर् मन्त्रैः शमनम् आरयेद् बुधः ॥

०२.०४
विश्वास-प्रस्तुतिः
माहेन्द्रून् अनृतान् रय्द्रून् वौश्वदेवीम् अथापि वा । उत्पातेषु महाशान्तिं कारयेद् बहुदक्षिणाम् ॥

०२.०५
विश्वास-प्रस्तुतिः
आराधिताः शमं यान्ति तदुत्पाता न संशयः । होमैर् जप्यैश् च विविधैर् दानैश् चबहुरूपकैः ॥

०२.०६
विश्वास-प्रस्तुतिः
तस्य यत्र शिरो देशे तत उत्थाय वाव्रजेत् । धनं वा सर्वम् उत्सृज्य मृत्योर् मुच्येता वा न वा ॥

०२.०७
विश्वास-प्रस्तुतिः
दत्त्वा वा पृथिवीं सर्वां राजा शान्तिं नियच्छति ॥