०१.०१
विश्वास-प्रस्तुतिः
ओम् उपेत्य यश् चन्द्रमसं रविं वा गृह्णाति सूनोर् असुरस्य पुत्रः । निबोधतैतस्य शुभाशुभानि ग्रहस्य मृत्योः प्रतिचेष्टितानि ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
यदा तु राहुः शशिनो रवेर् <vā> [ग्रहे] ग्रहीतुकामो भवति प्रसह्य । तदा करोत्य् अद्भुतदर्शनानि यैर् ज्ञायते राहुर् उपैष्यतीति ॥

०१.०३
विश्वास-प्रस्तुतिः
उद्वेपते तदा चन्द्रो यदा राहुः प्रदृश्यते ॥ पाण्डुर् वा जायते क्लीबः शशो वास्य विवर्धते ॥

०१.०४
विश्वास-प्रस्तुतिः
रेखान्तरापुराराणि कल्मषाणि दिवाकरे । वदन्ति च भऋशं श्वानो वान्ति वाताश् च भीषणाः ॥

०१.०५
विश्वास-प्रस्तुतिः
सन्ध्ययोर् उभयोश् चोल्का गवां प्रक्षीयते पयः । क्षीरिणाम् ऐव वृक्षाणां तद् अहर् नश्यते पयः ॥

०२.०१
विश्वास-प्रस्तुतिः
अप्सु स्निग्धानि दृश्यन्ते काकाबध्नन्ति मण्डलम् । ऊर्ध्वं वदति गोमायुर् यदा राहुः प्रदृश्यते ॥

०२.०२
विश्वास-प्रस्तुतिः
चन्द्रग्रहनिमित्तानि शुक्लपक्शाष्टमीपरम् । आ पौर्णमास्या दृश्येरन् सूर्यस्य च तथोभयोः ॥

०२.०३
विश्वास-प्रस्तुतिः
उदितो गृह्यमाणस् तु हन्ति वेदविदो जनान् । बालांश् च जटिलान् हन्ति ये च काषायवाससः ॥

०२.०४
विश्वास-प्रस्तुतिः
यौवनस्थांश् च पूर्वाह्णे हन्ति यज्ञविदो जनान् । औदकानि च सर्वाणि नागेन्द्राश् चात्र दुःखिताः ॥

०२.०५
विश्वास-प्रस्तुतिः
अथ मध्यपथं प्राप्तः शूद्रान् हन्ति च तस्करान् । परिवृक्तो नृपं हन्ति चन्द्रश् चरणचारणान् ॥

०३.०१
विश्वास-प्रस्तुतिः
प्रलम्बः प्रमदान् हन्ति क्षत्रं राष्ट्रं च सर्वशः । त्रैगर्ताश् चात्र पीड्यन्ते ये च दण्डभृतो जनाः ॥

०३.०२
विश्वास-प्रस्तुतिः
उपरक्तो यदोदेति यदा वा प्रतितिष्ठति । अयोगक्षेमम् आदिश्येत् त्रिषु लोकेषु दारुणम् ॥

०३.०३
विश्वास-प्रस्तुतिः
शारदं त्रीणि वर्षाणि सस्यं जातं न पच्यते । नैदाघेनात्र जीवन्ति प्रजा मूलफलेन वा ॥

०३.०४
विश्वास-प्रस्तुतिः
सर्वं सङ्ग्रसते ज्योतिश् चिरम् अन्तर्दधाति वा । हन्ति स्फीतानि राष्ट्राणि प्रधानं च महीपतिम् ॥

०३.०५
विश्वास-प्रस्तुतिः
यदि
मूलम्
यदि
०४.०१
विश्वास-प्रस्तुतिः
गृहीत्वा भास्करं पूर्वं गृह्णाति शशिनं यदि । तं तु सोमोत्तरं नाशस् तत्र र्ध्यन्ते हि देवताः ॥

०४.०२
विश्वास-प्रस्तुतिः
वयसां मरणं छिद्रे प्रकीर्णे रक्षसां वधः । नागानां तु महानागे छिद्रे देवो न वर्षति ॥

०४.०३
विश्वास-प्रस्तुतिः
श्वेतो वर्णो ब्राह्मणानां क्षत्रियाणां तु लोहितः । वैश्यानां पीतको वर्णः शूद्राणां कृष्ण उच्यते ॥

०४.०४
विश्वास-प्रस्तुतिः
एतेषां येन वर्णेन राहुश् चरति भास्करे । या जातिस् तस्य वर्णस्य तां स पीडयते ग्रहः ॥

०४.०५
विश्वास-प्रस्तुतिः
श्यामो भवति वाताय द्रौक्षो भवति वृष्टये । हरिद्रः सर्वधान्यानां कोपं सृजति दारुणम् ॥

०५.०१
विश्वास-प्रस्तुतिः
ताम्रो भवति शस्त्राय शस्त्राय रूक्षो भवति मृत्यवे । बह्वाकारस् तु भूतानां घोरं जनयते ज्वरम् ॥

०५.०२
विश्वास-प्रस्तुतिः
धूमवर्णो ऽग्निवर्णो वा ग्रामेषु नगरेषु वा । अग्न्युत्पातान् गृहस्थानां करोतीह महाग्रहः ॥

०५.०३
विश्वास-प्रस्तुतिः
नीललोहितपर्यन्तो राहुश् चरति भास्करे । अमात्यो हन्ति राजानं राजा वामात्यम् आत्मह ॥

०५.०४
विश्वास-प्रस्तुतिः
यस्य राज्ञश् च नक्षत्रे स्वर्भानुर् उपरज्यति । राज्यभ्रंशं सुहृन्नाशं मरणं चात्र निर्दिशेत् ॥

०६.०१
विश्वास-प्रस्तुतिः
स्निग्धवर्णो यदार्चिष्मान् पर्वस्थः स्नेहवान् ग्रहः । क्षिप्रं वाप्य् उदितं ब्रूहि सर्वभूतभयाय वै ॥

०६.०२
विश्वास-प्रस्तुतिः
प्रदक्षिणे तु सोमस्य अपसव्ये तु विग्रहः । रश्मिभेदे भयं घोरम् उल्लेखे मन्त्रिणां वधः ॥

०६.०३
विश्वास-प्रस्तुतिः
दर्शयित्वा तु रूपाणि यदा राहुर् न दृश्यते । शस्त्रदुर्भिक्षसम्पातैर् भयं घोरं विनिर्दिशेत् ॥

०६.०४
विश्वास-प्रस्तुतिः
गृहीतास्तमितयोस् तु न भुञ्जीरन् द्विजातयः । आ पुनर्दर्शनात् ताभ्यां जपहोमौ विवर्तयेत् ॥

०६.०५
विश्वास-प्रस्तुतिः
चन्द्रसूर्यग्रहे नाद्याद् अद्यात् स्नात्वा तु मुक्तयोः । अमुक्तयोर् अस्तङ्गयोर् अद्यात् स्नात्वा परे ऽहनि ॥

०६.०६
विश्वास-प्रस्तुतिः
ततः षट्सु ततः षट्सु ततो ऽध्यर्धेषू वा पुनः । अर्धवर्षेषु मासेषु आदित्यस्य ततो ग्रहः ॥

०६.०७
विश्वास-प्रस्तुतिः
ततः षट्सु ततः षट्सु त्रिषु वर्षेषु वा पुनः । एतावद् एव राहोस् तु चारम् आहुर् मनीषिणः ॥