०१.०१
विश्वास-प्रस्तुतिः
ओम् अथर्वाणं नमस्कृत्य उवाच भगवान् ऋषिः । कीदृशा ग्रहपुत्राश् च कियन्तो वा वदस्व मे ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
पृष्टह स शौनकेनाथ ब्राह्मणानां हिताय वै । सङ्ख्याम् उवाच भगवान् पद्मयोनिमतं यथा ॥

०१.०३
विश्वास-प्रस्तुतिः
दिक्चारिणो दिविचरा भूचरा व्योमचारिणः । दिवाचरा रात्रिचरा दिवारात्रिचराश् चये ॥

०१.०४
विश्वास-प्रस्तुतिः
पृथिक्चराश् च ये तत्र ते च स्युः सङ्घचारिणः । चरन्त्य् अपरवीथीषु ये च विभ्रान्तमण्डलाः ॥

०१.०५
विश्वास-प्रस्तुतिः
ते ग्रहाः सङ्ग्रहेणाहं शतशो ऽथ सहस्रशः । अनेकविधसंस्थानं प्रवक्ष्याम्य् अनुपूर्वशः ॥

०२.०१
विश्वास-प्रस्तुतिः
गोक्षीरकुमुदप्रख्यास् तीव्रेण वपुषान्विताः । चरन्त्य् अन्तरवीथीषु स्निग्धा विपुलतेजसः ॥

०२.०२
विश्वास-प्रस्तुतिः
एते विसर्पका नाम अर्चिष्मन्तो महाप्रभाः । विज्ञेयाश् चतुरशीतिः शुक्रपुत्रा महाग्रहाः ॥

०२.०३
विश्वास-प्रस्तुतिः
शुक्ला निकराः सौराभास् त्यजन्त इव चार्चिषः । स्फुरन्त इव चाकाशे बिम्बका रश्मिभिर् वृताः ॥

०२.०४
विश्वास-प्रस्तुतिः
प्रायशो दक्षिणे मार्गे नीचैर् विभ्रान्तमण्डलाः । विकचाः पञ्चषष्टिस् ते बृहस्पतिसुताः स्मृतः ॥

०२.०५
विश्वास-प्रस्तुतिः
ये श्वेताः किञ्चिद् आकृष्णा विशिखाः स्युर् वितारकाः । ते षष्टिः कनका नाम शनैश्चरसुता ग्रहाः ॥

०३.०१
विश्वास-प्रस्तुतिः
एकपक्चाशतो ज्ञेयास् तस्कराः सूक्ष्मरश्मयः । बौधाः कमलगर्भाभाः किञ्चित् पाण्डुरतेजसः ॥

०३.०२
विश्वास-प्रस्तुतिः
कौङ्कुमा लोहिताङ्गस्य पुत्रा विद्रुमतेजसः । त्रिशिखा वा त्रिभागा वा षष्टिर् इत्य् उत्तरे पथि ॥

०३.०३
विश्वास-प्रस्तुतिः
नानाधूमनिभा रूक्षा धूमव्याकुलरश्मयः । शतम् एकाधिकं मृत्योः पुत्राः स्युर् धूमकेतवः ॥

०३.०४
विश्वास-प्रस्तुतिः
कृष्णाभाः कृष्णपर्यन्ताः कलुषाकृतिरश्मयः । राहोः पुत्रास् त्रयस् त्रिंशद् ग्रहास् तामसकीलकाः ॥

०३.०५
विश्वास-प्रस्तुतिः
नानावर्णाग्निसङ्काशा ज्वालामाला विसर्पिणः । विश्वरूपाः सुता अग्नेर् ग्रहा विंशं शतं स्मृतम् ॥

०४.०१
विश्वास-प्रस्तुतिः
अरुणास् तु सुता वायोर् दारुणाः सप्तसप्ततिः । वातेरिता भ्रमन्तीव रूक्षा विकीर्णरश्मयः ॥

०४.०२
विश्वास-प्रस्तुतिः
तारापुञ्जप्रतीकाशास् तारामण्डलसंवृताः । प्राजापत्या ग्रहास् त्व् अष्टौ गणका नामनामतः ॥

०४.०३
विश्वास-प्रस्तुतिः
चत्वारस् तारजा युक्ताः सूक्ष्माणो रूपरश्मयः । ब्रह्मसन्तानका नाम द्वे शते चतुरुत्तरे ॥

०४.०४
विश्वास-प्रस्तुतिः
वंशगुल्मप्रतीकाशा [वंशगुल्मसरश्मयः] । काकतुण्डनिभाभिश् च रश्मिभिः किञ्चिद् आवृताः ॥

०४.०५
विश्वास-प्रस्तुतिः
उदकं चोत्सृजन्तीव स्निग्धत्वात् सौम्यदर्शनाः । एते नाम्ना स्मृताः कङ्कास् त्रिंशद् द्वौ वारुणा ग्रहाः ॥

०५.०१
विश्वास-प्रस्तुतिः
मुण्डताराः कबन्धाभा रुक्मकेशाश् च रश्मयः । कालपुत्राः कबन्धास् ते स्मृताः षण्णवतिर् ग्रहाः ॥

०५.०२
विश्वास-प्रस्तुतिः
अर्चिष्मांश् च प्रभासश् च रोमशो विषमांस् तथा । अस्निग्धाश् चातिकायाश् च किंशुको राजसायकः ॥

०५.०३
विश्वास-प्रस्तुतिः
ऋषकैश् चैव राधातः कुमुदः फनको घनः । एषाम् अश्वेति विज्ञेया आरास् तु परिसर्पकाः ॥

०५.०४
विश्वास-प्रस्तुतिः
नक्षत्रचारिणो ह्य् एते भृगुपुत्रा महाबलाः । पाण्डुराभिः सुदीर्घाभिः शिखाभिः शीतरश्मयः ॥

०५.०५
विश्वास-प्रस्तुतिः
अतिसन्तानकाश् त्व् अन्ये षष्टिर् वायोः सुता ग्रहाः । विकेसराः प्रकाशन्ते कृष्णलोहितरश्मयः ॥

०६.०१
विश्वास-प्रस्तुतिः
मिश्रीभूतास् तु ते ज्ञेया गुण्ठिता इव रेणुना । धूमकेतोः सुता ज्ञेयाः शतम् एकाधिकं च तत् ॥

०६.०२
विश्वास-प्रस्तुतिः
अत्यर्थं कनकास् त्व् अन्ये प्रतप्तकनकप्रभाः । अन्तकपुत्रकाः षष्टिर् अस्निग्धा मध्यचारिणः ॥

०६.०३
विश्वास-प्रस्तुतिः
ये तु नक्षत्रवंशस्य भागम् उत्तरम् आश्रिताः । एकतारा वपुष्मन्तो महाकायाः प्रभान्विताः ॥

०६.०४
विश्वास-प्रस्तुतिः
व्यालकस्य तु ये पुत्राः सप्तषष्टिः समन्ततः । नामतो ऽधिकचा नाम तत्त्वज्ञैः परिकीर्तिताः ॥

०६.०५
विश्वास-प्रस्तुतिः
सन्तानकनिभा ये तु दृश्यन्ते सूक्ष्मरश्मयः । एकतारा द्वितारा वा अथ वा पञ्चतारकः ॥

०७.०१
विश्वास-प्रस्तुतिः
ब्रह्मराशेस् तु ते पुत्रा ग्रहाः सन्तानसंस्थिताः । सञ्चरन्ति नभः सर्वम् उत्पन्ने पुरुषक्षये ॥

०७.०२
विश्वास-प्रस्तुतिः
अणवो लोहितास् त्व् अन्ये प्रकाशन्ते ऽधिकेशकाः । पञ्चषष्टिस् तु ते ज्ञेयाः प्राजापत्या ग्रहाः स्मृताः ॥

०७.०३
विश्वास-प्रस्तुतिः
परिवेषेषु जातेषु ग्रहाणां मण्डलेषु च । दृश्यन्ते कार्मुका नाम सप्तत्येका समाः स्मृताः ॥

०७.०४
विश्वास-प्रस्तुतिः
अधर्मसम्भवास् त्व् अन्ये चतुर्दश परिक्रमाः । अधःशिखाः प्रकाशन्ते विवर्णा घोरतारकाः ॥

०७.०५
विश्वास-प्रस्तुतिः
कर्णछिद्रप्रातीकाशाः कृष्णास् ते तारकाकृतौ । कीलका राहुपुत्रास् तु चन्द्रसूर्यतलाश्रयाः ॥

०८.०१
विश्वास-प्रस्तुतिः
वज्रः कवन्धस् त्रिशिराः शङ्खभेदी शिखावतः । दण्डाश् च राहुपुत्राः स्युर् नामभिस् तुल्यवर्चसः ॥

०८.०२
विश्वास-प्रस्तुतिः
यथा सोमार्कयोर् ज्योतेर् मण्डलाभ्याशसेविनः । राजन्यत्वात् प्रदृश्यन्ते प्रजानां सङ्क्षयावहाः ॥

०८.०३
विश्वास-प्रस्तुतिः
तत्र मन्दफला ज्ञेयाः शशाङ्कतलसेविनः । दिवाकरतलाभ्याशं सेविनो भृशदारुणाः ॥

०८.०४
विश्वास-प्रस्तुतिः
पन्नगास् तु चतुर्विंशत् कृष्णा द्वात्रिंशतिर् ग्रहाः । दक्षिणाद्यासु वीक्ष्यन्ते नीचैर् विभ्रान्तमण्डलाः ॥

०८.०५
विश्वास-प्रस्तुतिः
केवलं तारकाकारा दृश्यन्ते निःप्रभप्रभाः । पीतरक्ता ग्रहाः पञ्च पूर्वदक्षिणतः स्मृतः ॥

०९.०१
विश्वास-प्रस्तुतिः
दक्षिणापरतश् चापि पीतरक्तौ ग्रहौ स्मृतौ । उत्तरापरतस् त्व् एकः पीतरक्तो ग्रहः स्मृतः ॥

०९.०२
विश्वास-प्रस्तुतिः
ऐशान्यां श्वेतरक्ताभ एकस् तिष्ठति सूर्यकः । यः सन्धिवेलास्व् अर्काभो दिक्षु सर्वासु दृश्यते ॥

०९.०३
विश्वास-प्रस्तुतिः
नातिदूरे रवेः स्निग्धः स वर्षायाभयाय च । यवक्रीतोषरैभ्याश् च नारदः सर्वतस् तथा ॥

०९.०४
विश्वास-प्रस्तुतिः
कर्णश् च रैभ्यस्य पुत्रौ चार्वावसुपरावसू । सप्तैते स्थावरा ज्ञेयाः सह सूर्येण सर्पिणः ॥

०९.०५
विश्वास-प्रस्तुतिः
स्थावराणां नरेन्द्राणां प्राच्यानां पक्षम् आश्रिताः । स्वस्त्यात्रेयो मृगव्याध ऋमुचुः प्रमृचुस् तथा ॥

१०.०१
विश्वास-प्रस्तुतिः
प्रभासश् चन्द्रभासश् च तथागस्त्यः प्रतापवान् । दृढव्रतस् त्रिशङ्कुश् च अजौ वैश्वानरे मृडः ॥

१०.०२
विश्वास-प्रस्तुतिः
अरुणश् च दनुश् चैव याम्यायां स्थावराः स्मृताः । गौतमो ऽत्रिर् वसिष्ठश् च विश्वामित्रस् तु कश्यपः ॥

१०.०३
विश्वास-प्रस्तुतिः
ऋचीकपुत्रश् च तथा भरद्वाजश् च वीर्यवान् । एते सप्त महात्मान उदीच्यां स्थावराः स्मृताः ॥

१०.०४
विश्वास-प्रस्तुतिः
शिशुमारेण सहिता ध्रुवेण च महात्मना । पुलस्त्यः पुलहः सोमो भृगुर् अङ्गिरसा सह ॥

१०.०५
विश्वास-प्रस्तुतिः
हाहाहूहू च विज्ञेयौ विष्णोश् च पदम् उत्तमम् । मध्यान्तस्थावराणां तु नियताव् इति बुद्धिमान् ॥

११.०१
विश्वास-प्रस्तुतिः
कूटस्थानानि सर्वाणि दिक्ष्व् एतान्य् उपधारयेत् । प्रभान्वितानि श्वेतानि स्निग्धानि विमलानि च ॥

११.०२
विश्वास-प्रस्तुतिः
अर्चिष्मन्ति प्रसन्नानि तानि कुर्युः प्रजाहितम् । निःप्रभाणि विवर्णानि निरर्चीम्ष्य् अमलानि च ॥

११.०३
विश्वास-प्रस्तुतिः
ह्रस्वान्य् अस्नेहयुक्तानि न भावाय भवन्ति हि । यत् किञ्चित् स्थावरं लोके तत् प्रसन्नेषु वर्धते ॥

११.०४
विश्वास-प्रस्तुतिः
कूटस्थेष्व् अप्रसन्नेषु स्थावरं परिहीयते । आदित्यश् चैव शुक्रश् च लोहिताङ्गस् तथैव च ॥

११.०५
विश्वास-प्रस्तुतिः
राहुः सोमः शनैश्चरो बृहस्पतिबुधौ तथा । ऐन्द्र आग्नेयो याम्यश् च नैरृतो वारुणस् तथा ॥

१२.०१
विश्वास-प्रस्तुतिः
वायव्यश् चैव सौम्यश् च ब्राह्मश् चैवाष्टमो ग्रहः । नवमश् चैव विज्ञेयो धूमकेतुर् महाग्रहः ॥

१२.०२
विश्वास-प्रस्तुतिः
युगग्रहा न चान्ये ते तत्राष्टौ दिग्ग्रहाः स्मृताः । सनक्षत्रेषु मार्गेषु दृश्यन्ते तु युगग्रहाः ॥

१२.०३
विश्वास-प्रस्तुतिः
विभ्रान्तमण्डलाः शेषा दृश्यन्ते खचरा ग्रहः । मृत्योर् निश्वासजाश् चान्ये ज्ञेयाः षोडश केतवः ॥

१२.०४
विश्वास-प्रस्तुतिः
कूष्माण्डवद् विसञ्छन्नस् त्रिणवा दक्षिणे पथि । एकादशैव विज्ञेया द्वादशादित्यसम्भवाः ॥

१२.०५
विश्वास-प्रस्तुतिः
सूर्यवर्चनिरीक्षास् ते तेजोधातुमया ग्रहाः । दक्षयज्ञे तु रुद्रस्य क्रोधाद् अन्ये तु निःसृताः ॥

१३.०१
विश्वास-प्रस्तुतिः
भीमरूपा दशैकश् च ज्वलाङ्कुशधरा ग्रहाः । सप्त पैतामहास् त्व् अन्ये तिर्यग्गा जर्जरग्रहाः ॥

१३.०२
विश्वास-प्रस्तुतिः
शिखाः सृजन्तो विततास् तन्तुशुक्लपटोपमाः । श्वेतकेतव इत्य् अन्ये व्याख्याता दश पञ्च च ॥

१३.०३
विश्वास-प्रस्तुतिः
उद्दालकर्षिपुत्रास् ते नीचैर् विभ्रान्तमण्डलाः । ते स्युः श्वेतशिखाः सर्वे सौम्याः कान्तास् तनुप्रभाः ॥

१३.०४
विश्वास-प्रस्तुतिः
अष्टादशेन्दुना सार्धं मथ्यमाने पुरामृते । केतवः कुन्दपुष्पाभाः क्षीरोदनभसि स्मृताः ॥

१३.०५
विश्वास-प्रस्तुतिः
विरश्मयश् च विशिखा महाकाया निरर्चिषः । रौप्यकुम्भनिभाः सौम्या ग्रहाः स्युः शीततेजसः ॥

१४.०१
विश्वास-प्रस्तुतिः
ब्रह्मकोपमयस् त्व् एको विश्वात्मा सर्वतो ग्रहः । चतुर्युगान्ते लोकानाम् उदयस् तस्य विद्यते ॥

१४.०२
विश्वास-प्रस्तुतिः
नक्षत्रपथम् उत्सृज्य नभोअंशाः पार्श्वचारिणः । पूर्वतो ऽभ्युदिता वा स्युर् नीचैर् उत्तरतस् तथा ॥

१४.०३
विश्वास-प्रस्तुतिः
भूम्याम् अभ्युदिता वा स्युर् ह्रस्वस्नेहपरिप्लुताः । सर्व एव तु विज्ञेया ग्रहा मन्दफलोदयाः ॥

१४.०४
विश्वास-प्रस्तुतिः
सर्वेषां पैतृकं कर्म प्रजाभाग्योद्भवं महत् । सर्वे ते सर्वतो हन्युर् अशुभं यद् वदन्ति च ॥

१४.०५
विश्वास-प्रस्तुतिः
तत्कर्मजन्ममाहात्म्यं शीलाभिजनम् एव च । तद्रूपांस् तद्गुणांश् चापि तन्मयांस् तत्परिग्रहान् ॥

१५.०१
विश्वास-प्रस्तुतिः
सर्व एव रोगप्रदा मृत्युशस्त्राग्नितस्करैः । पशुसस्योपघातैश् च हन्युर् अन्यैश् च कारणैः ॥

१५.०२
विश्वास-प्रस्तुतिः
धूपनात् स्पर्शनात् स्थानाद् उदयास्तमसम्भवात् । हन्युः पञ्चविधं सर्वे केतवो नात्र संशयः ॥

१५.०३
विश्वास-प्रस्तुतिः
मृदुध्रुवोग्रक्षिप्रेषु साधारणचरेषु च । दारुणेषु च ऋक्षेषु साधारणचरेषु च । दारुणेषु च ऋक्षेषु विद्यात् तत्सदृशं फलम् ॥

१५.०४
विश्वास-प्रस्तुतिः
यथादिष्टं यथावर्णं यथावर्गपरिग्रहम् । सर्व एवोदिता हन्युः सर्व एव महाग्रहाः ॥

१५.०५
विश्वास-प्रस्तुतिः
मृत्योः कालस्य सूर्यस्य ब्रह्मणस् त्र्यम्बकस्य च । भौमस्य राहोर् अग्नेश् च प्रजाता ये सुदारुणाः ॥

१६.०१
विश्वास-प्रस्तुतिः
प्रजापतेश् च धर्मस्य सोमस्य वरुणस्य च । पीताद्याश् च दिशां पुत्रा विज्ञेया मृदुदारुणाः ॥

१६.०२
विश्वास-प्रस्तुतिः
कश्यपस्य च मरीचेर् उद्दालकऋषेस् तथा । पुत्रा मन्दफला ज्ञेयास् तेषाम् अमृतसम्भवाः ॥

१६.०३
विश्वास-प्रस्तुतिः
शुक्रादीनां च ये पुत्रा ग्रहाणां परिकीर्तिताः । तेषां वीर्याणि जानियात् पितृभ्यः साधिकानि तु ॥

१६.०४
विश्वास-प्रस्तुतिः
नारदात्रेयगर्गाणां गुरोर् उशनसस् तथा । ग्रहाणां सङ्ग्रहो ह्य् एवम् एष कार्त्स्न्येन कीर्तितः ॥

१६.०५
विश्वास-प्रस्तुतिः
अनेकशतसाहस्र अनेकशतलक्षणः । देवलब्धवराकाशे प्राह सर्वान् पृथक्पृथक् ॥

१६.०६
विश्वास-प्रस्तुतिः
एतदुत्थे तु सर्वस्मिन् भये ऽथ समुपस्थिते । महाशान्तिं प्रकुर्वीत राजा राष्ट्रस्य रक्षणे ॥

१६.०७
विश्वास-प्रस्तुतिः
तत् प्रयाति शमं सर्वं प्रजानां तु सुखं भवेत् । राजानो मुदितास् तत्र पालयन्ति वसुन्धराम् ॥