०१.०१
विश्वास-प्रस्तुतिः
ॐ के चिद् ग्रहा नाररान् आश्रयन्ते के चिद् ग्रहा [ज्योतिषि] सङ्ग्रहे च । ग्रहो ग्रहेणैव हतः कथं स्याद् विज्ञाय तत्त्वं भगवान् ब्रवीतु ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
एवं स पृष्टो मुनिभिर् महात्मा प्रोवाच गर्गो ग्रहयुद्धतन्त्रम् । पराजयं चैव जयं च तेषां शुभासुभम्(अशुभम्) चैव जगद्धिताय ॥

०१.०३
विश्वास-प्रस्तुतिः
अर्को जातः कलिङ्गेषु यवनेषु च चन्द्रमाः । अङ्गारकस् त्व् अवन्त्यायां मगधायां बुधस् तथा ॥

०१.०४
विश्वास-प्रस्तुतिः
बृहस्पतिः सैन्धवेषु महाराष्ट्रे तु भार्गवः । शनैश्चरः सुराष्ट्रायां राहुस् तु गिरिशृङ्गजः । केतुर् मलयके जात इत्य् एतद् ग्रहजातकम् ॥

०१.०५
विश्वास-प्रस्तुतिः
यस्मिन् देशे तु यो जातः स ग्रहः पीड्यते यदा तं देशं घातितं विद्याद् दुर्भिक्षेण भयेन वा ॥

०२.०१
विश्वास-प्रस्तुतिः
दिवाकरश् चैव शनैश्चरस् तथा बृहस्पतिश् चैव बुधश् च नागराः । प्रजापतिः केतुर् अथापि चन्द्रमास् तथैव राहूशनसौ च यायिनः ॥

०२.०२
विश्वास-प्रस्तुतिः
यदा ग्रहो नगर एव नागरं विजेष्यते याय्य् अथ वापि यायिनम् । तदा नृपो नागर एव नागरं विजेष्यते वाय्य् अथ वापि यायिनम् ॥

०२.०३
विश्वास-प्रस्तुतिः
आरोहणं च भेदश् च लेखनं सव्यदक्षिणम् । रश्मिसंसर्जनं चैव ग्रहयुद्धं चतुर्विधम् ॥

०२.०४
विश्वास-प्रस्तुतिः
प्रसव्ये विग्रहं ब्रूयात् सङ्ग्रामं रश्मिसङ्गमे । लेखने ऽमात्यपूडा स्याद् भेदने तु जनक्षयः ॥

०२.०५
विश्वास-प्रस्तुतिः
सर्वेषां नभसि समागमे ग्रहाणाम् उक्तृष्टो भवति तथैव रश्मिवान् यः । स्निग्धत्वं भवति तु यस्य [स ग्रहो ग्रहेण] संयुक्तो भवति [तु यः] पराजयेत शेषः ॥

०३.०१
विश्वास-प्रस्तुतिः
श्यामो वा व्यपगतरश्मिमण्डलो वा रूक्षो वा व्यपगतरश्मिवान् कृशो वा । आक्रान्तो विनिपतितस् ततो ऽपसव्यो विज्ञेयो हत इति स ग्रहो ग्रहेण ॥

०३.०२
विश्वास-प्रस्तुतिः
बुधश् च भौमः शनिभार्गवाङ्गिराः प्रदक्षिणं याति यदा निशाकरम् । अनमयत्वं त्रिषु सौख्यम् उत्तमं विपर्यये चापि महाञ् जनक्षयः ॥

०३.०३
विश्वास-प्रस्तुतिः
धनकनकरजतसञ्चयाश् च सर्वे शमदममन्त्रपराश् चये मनुष्याः । शकयवनतुखारबाल्हिकाश् च क्षयम् उपयान्ति दिवाकरस्य घाते ॥

०३.०४
विश्वास-प्रस्तुतिः
अथ सोमे हते विद्याद् ध्र्वं राज्ञो विपर्ययः । संहरन्ति च भूतानि भूमिपालाः पृथक्पृथक् ॥

०३.०५
विश्वास-प्रस्तुतिः
परस्परं विरुध्यन्ते क्षुद्भयं चापि दारुणाम् । अनावृष्टिभयं घोरं विद्यात् सोमविपर्यये ॥

०४.०१
विश्वास-प्रस्तुतिः
त्रैगर्ताः क्षितिपतयः सयोधमुख्याः पीड्यन्ते गिरिनिलयाग्निजीविनश् च । सङ्ग्रामाः सरुधिरपांसुवर्षमिश्रा दुर्भिक्षं भवति धरासुतस्य घाते ॥

०४.०२
विश्वास-प्रस्तुतिः
सागरनिलयाः पौराः क्षयम् उपयान्ति नरा वणिक्प्रधानाः । भवति तु [राजा] विजयी प्रयायी बुधबन्धने प्रपतन्ति चात्र सोभ्याः ॥

०४.०३
विश्वास-प्रस्तुतिः
दैवज्ञास् तपसि चिरं सुनिश्चितार्थाः स्युर् दान्ता नृपतिगणः पुरोहिताश् च । आगन्तुर् जयति वधश् च नागराणां त्रैलोक्यम्

०४.०४
विश्वास-प्रस्तुतिः
यो राजा प्रथितपराक्रमः पृथिव्यां वङ्गाङ्गादिषु मदधाः सशूरसेनाः । ये योधाः समरणभुमिलब्धशब्दास् ते सैन्यैः क्षयम् उपयान्ति शुक्रघाते ॥

०४.०५
विश्वास-प्रस्तुतिः
महिषकवृषभाः सभस्मपौण्ड्राः कृषिपशुपाल्यरताश् च ये मनुष्याः । विविधभयसमाहितास् तु सर्वे क्षयम् उपयान्ति शनैश्चरस्य घाते ॥

०५.०१
विश्वास-प्रस्तुतिः
ये के चिन् नृपतिषु दाम्भिकाः पिशाचाः कार्याणां व्रतनियमेषु छन्नपापाः । ये चान्ये शबरपुलिन्दचेदिगाधा बाध्यन्ते यदि भवते ऽत्र राहुघातः ॥

०५.०२
विश्वास-प्रस्तुतिः
आक्रान्तं समनुभवन्ति यायिसङ्घा वध्यन्ते यदि भवते [परस्] परो ऽहिघातः । सङ्ग्रामाः सरुधिरपांसुवर्षमिश्र दुर्भिक्षं भवति तु केतुपीडनेन ॥

०५.०३
विश्वास-प्रस्तुतिः
यत् किं चिद् दिविगतम् अन्तरिक्षजं वा भौमं वा भवति निमित्तम् अप्रशस्तम् । तत् सवं स्तनितमहाभ्रबिद्युद्वर्षैः शान्तं स्याद् भवति सदक्षिणैश् च होमैः ॥

०५.०४
विश्वास-प्रस्तुतिः
ये देशा ग्रहगणभिन्नभूमिकम्पा येषां वा ग्रह उपयातचन्द्रसूर्यः । तान् देशान् [ग्रहगणभिन्नभुमिकम्पान्] पर्जन्यः शमयति सप्तरात्रवृष्ट्या ॥

०५.०५
विश्वास-प्रस्तुतिः
प्रसव्यस् त्रिषु मासेषु संसर्गो मासिकः स्मृतः । लेखने पक्ष इत्य् आहुर् भेदने सप्तरात्रिकम् ॥

०५.०६
विश्वास-प्रस्तुतिः
आग्नेया वासवाश् चैव वायव्या वारुणास् तथा । सर्व एव शुभा ज्ञेया गर्गस्य वचनं यथा ॥