०१.०१
विश्वास-प्रस्तुतिः
ॐ वृत्तं प्रातर् अमावास्यां पश्चाद् दृश्येत चन्द्रमाः । तस्य वर्णं गतिं रूपं स्थानं चैवोच्चनीचताम् ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
ह्रासवृद्धिं च शृङ्गाणां नक्षत्रं यच् च योजयेत् । तानि लक्षेत सोमस्य वर्षावर्षं भयाभयम् ॥

०१.०३
विश्वास-प्रस्तुतिः
प्रथमे दर्शने त्व् इन्दोः समासाद्य यदा ग्रहम् । उत्तरं वर्धते शृङ्गं नीचीभवति दक्षिणम् ॥

०१.०४
विश्वास-प्रस्तुतिः
एवम् एव श्रविष्ठाभ्यस् तेषाम् अन्ते च चन्द्रमाः । उद्यच्छेद् दक्षिणं शृङ्गं नीचीभवति चोत्तरम् ॥

०१.०५
विश्वास-प्रस्तुतिः
अनुपश्येत राष्ट्रं च अन्तर्गिरिमहागिरिम् । विदर्भान् मद्रकांश् चैव भरतांश् चापि सर्वतः ॥

०२.०१
विश्वास-प्रस्तुतिः
साराणां विजराणां च समुद्रे ये च दक्षिणे । एताञ् जनपदान् हन्ति यदा स्याद् उत्तरोन्नतः ॥

०२.०२
विश्वास-प्रस्तुतिः
काश्मीरान् दरदान् दर्वाञ् शूरसेनान् ययावरान् । शाल्वानां च विराजानां समुद्रे ये च पश्चिमे ॥

०२.०३
विश्वास-प्रस्तुतिः
एताज् जनपदान् हन्ति यदा स्याद् दक्षिणोन्नतः । पुरुषः स्त्रीनृपं हन्ति अपरान्तो विनश्यति ॥

०२.०४
विश्वास-प्रस्तुतिः
बाल्हिकान् यवनकाम्बोजाञ् शाल्वान् मद्रान् उशीनरान् । गोधांश् च भद्रकांश् चैव मध्यं च कुरुभिः सह ॥

०२.०५
विश्वास-प्रस्तुतिः
सौराष्ट्रान् सिन्धुसौवीरान् वानेयांश् चापि सिंसकान् । क्षुद्रकान् मालवान् मत्स्यान् म्लेच्छान् सह पुलिन्दकैः ॥

०२.०६
विश्वास-प्रस्तुतिः
शस्त्रोपजीजिकुड्यांश् च ब्राह्मणा योधिनश् च ये । एताञ् जनपदान् हन्ति सोमः पुरुषलक्षणः ॥

०३.०१
विश्वास-प्रस्तुतिः
लक्षणाद् वा भवेत् स्थूलः काये शृङ्गे च हीयते । अल्पे शरीरे दुर्भिक्षं भयं रोगं विनिर्दिशेत् ॥

०३.०२
विश्वास-प्रस्तुतिः
यदा प्रतिपदश् चन्द्रः प्रकृत्या विकृतो भवेत् । अनुद्भिन्नो विलूनो वा राजमृत्युं विनिर्दिशेत् ॥

०३.०३
विश्वास-प्रस्तुतिः
षष्ठ्यां मध्यं यदा गच्छेद् राजा वध्येत पार्थिवः । अवन्तीनां च पूर्वार्धं मागधाश् च विशेषतः ॥

०३.०४
विश्वास-प्रस्तुतिः
परं कुमारेष्व् अष्टम्यां राजानं दशमी परम् । एवं च पक्षापचये मध्ये दृश्येत द्वादशी ॥

०३.०५
विश्वास-प्रस्तुतिः
हन्ति पञ्चनदं तत्र राजानं सुमहद्बलम् । सर्वांश् च कुर्याद् राज्ञस् तु तस्मिन्न् उत्पातदर्शने ॥

०४.०१
विश्वास-प्रस्तुतिः
अद्भुतानि च दृश्यन्ते तस्मिन्न् उत्पातदर्शने । वैश्वानरपथं प्राप्तः समुद्रम् अपि शोषयेत् ॥

०४.०२
विश्वास-प्रस्तुतिः
कृत्तिकानां मघानां च रोहिण्याश् च विशाखयोः । एतेषाम् उत्तरो मार्गो राजवीथीति तां विदुः ॥

०४.०३
विश्वास-प्रस्तुतिः
यदीमं मार्गम् आस्थाय चन्द्रमा विनिवर्तते । नावर्षा उत्तमा ज्ञेया योगक्षेमं तथैव च ॥

०४.०४
विश्वास-प्रस्तुतिः
गजवीथीं नागवीथीं यदि गच्छति चन्द्रमाः । ॥॥। गोवीथीति तदाप्य् आहुर् गर्गस्य वचनं यथा ॥

०४.०५
विश्वास-प्रस्तुतिः
अष्टौ स्थानानि चन्द्रस्य क्रोष्टुकिर् यानि वेद वै । नौस्थायी लाङ्गली चैव तृतीयश् चोत्तरोन्नतः ॥

०४.०६
विश्वास-प्रस्तुतिः
दण्डस्थायी चतुर्थस् तु दण्डशायी तु पञ्चमः । षष्थस् तु यूपस्थायी स्यात् पार्श्वशायी तु सप्तमः ॥

०४.०७
विश्वास-प्रस्तुतिः
अष्टमो ऽवाङ्शिराश् चैव फलम् अस्य निबोधत । राजानः स्वेषु राष्ट्रेषु युक्तदण्डाः प्रशासति ॥

०५.०१
विश्वास-प्रस्तुतिः
लाङ्गली ग्रसते लोकान् युगान्तं प्रतिपादयेत् । मारीं समधिकाम् आहुर् यदा स्याद् उत्तरोन्नतः ॥

०५.०२
विश्वास-प्रस्तुतिः
दण्डस्थायी त्व् अमात्यानां भयं रोगं विनिर्दिशेत् । शक्तिछेदा ग्रन्थिछेदा गोस्तेनाः पारदारिकाः ॥

०५.०३
विश्वास-प्रस्तुतिः
एते देशान् विलुम्पन्ति दण्डस्थायी यदा भवेत् । दण्डशायी तु विप्राणां भयं तत्र विनिर्दिशेत् ॥

०५.०४
विश्वास-प्रस्तुतिः
यूपस्थायी तु धान्यानां भयं तत्र विनिर्दिशेत् । हरिते शरीरे सोमस्य पशूनां वधम् आदिशेत् ॥

०५.०५
विश्वास-प्रस्तुतिः
कृष्णे शरीरे सोमस्य शूद्राणां वधम् आदिशेत् । पीते शरीरे सोमस्य वैश्यानां वधम् आदिशेत्

०५.०६
विश्वास-प्रस्तुतिः
रक्ते शरीरे सोमस्य राज्ञां तु वधम् आदिशेत् । शुक्ले शरीरे सोमस्य ब्रह्मवृद्धिं विनिर्दिशेत् ॥

०६.०१
विश्वास-प्रस्तुतिः
स्निग्धः पीतः सुवर्णाभः पक्षादौ यदि चन्द्रमाः । गोस्थायी सम्प्रदृश्येत विप्रवृद्धिं विनिर्दिशेत् ॥

०६.०२
विश्वास-प्रस्तुतिः
उच्चस्थाने यदा पीतः समशृङ्गः शशी भवेत् । नागवीथीगतः स्निग्धः स सर्वगुणपूजितः ॥

०६.०३
विश्वास-प्रस्तुतिः
धूम्राभो लाङ्गलस्थायी श्रीमान् सलक्ष्ममण्डलः । पक्षादौ यदि दृश्येत ब्रह्मक्षत्रसुखावः ॥

०६.०४
विश्वास-प्रस्तुतिः
राजवीथीं तु सम्प्राप्त उग्रदण्डी यदा भवेत् । हरिद्राकुङ्कुमाभश् च श्मशानम् अवलोकयेत् ॥

०६.०५
विश्वास-प्रस्तुतिः
मृत्युं संयोजयेत् सोमो बालाकृतिर् अवाङ्छिराः । लाक्षारुधिरसङ्काशो धनुःस्थायी यदा भवेत् ॥

०७.०१
विश्वास-प्रस्तुतिः
सङ्ग्रामं योजयेत् सोमो लोके तु तुमुलं भयम् । द्विचन्द्रं गगनं दृष्ट्वा ब्रूयाद् ब्रह्मवधो महान् ॥

०७.०२
विश्वास-प्रस्तुतिः
द्वौ सूर्यौ वा यदा स्यातां तदा क्षत्रवधो महान् । दृष्ट्वा तु चतुरः सूर्यान् उदितान् सर्वतोदिशम् ॥

०७.०३
विश्वास-प्रस्तुतिः
शस्त्रेण जनमारेण तद् युगान्तस्य लक्षणम् । आदित्ये पाण्डुरं छत्त्रं सन्ध्यावेलां यदा भवेत् ॥

०७.०४
विश्वास-प्रस्तुतिः
देशस्य विद्रवं सूर्यो राजमृत्युं विनिर्दिशेत् । आदित्यस्य रथः श्वेतः सन्ध्यावेलां यदा भवेत् ॥

०७.५
विश्वास-प्रस्तुतिः
प्रत्यासन्नं भयं विद्यात् तस्मिन्न् उत्पातदर्शने ॥

०८.१
विश्वास-प्रस्तुतिः
आदित्यः सर्वतश् छिन्नो द्वैधीभुतः प्रदृश्यते। देशस्य विद्रवं सूर्यो राजमृत्युं विनिर्दिशेत् ॥

०९.१
विश्वास-प्रस्तुतिः
क्षेमं विकुक्षिले ब्रूयात् स्थालीपिठरसंस्थिते । सङ्क्षिप्ते क्षीयते लोको दुर्भिक्षं वज्रसंस्थिते ॥

०९.२
विश्वास-प्रस्तुतिः
दिवा ह्य् अस्मिन् पतत्य् उल्का सततं कम्पते मही । अपर्वाशनिनिर्घोषाः सन्ध्या च ज्वलनच्छवा ॥

०९.३
विश्वास-प्रस्तुतिः
नक्षत्रपातस्योत्पत्तिर् धूमस्य रजसो ऽपि वा । शृङ्गं भवत्य् आदित्यस्य तृणकाष्ठं च शुष्यति ॥

०९.४
विश्वास-प्रस्तुतिः
राजानो ह्य् अशिवास् तत्र चित्रं वर्षति माधवः । द्वादशानां तु मासानां मध्ये नश्यति पार्थिवः ॥

०९.५
विश्वास-प्रस्तुतिः
कार्त्तिक्यां शुक्लपक्षस्य बहुलस्य त्रयोदशीम् । विद्यात् तु स्वातिसम्पातं दिवसान् एकविंशतिम् ॥

०९.६
विश्वास-प्रस्तुतिः
सप्ताहं तु भवेद् गोषु सप्ताहं मृगपक्षिषु । मानुषेषु च सप्ताहं ततः श्रेयस् तु कल्पयेत् ॥