०१.०१
विश्वास-प्रस्तुतिः
ओम् अथातश् चरणव्यूहं व्याख्यास्यामः ॥
मूलम्
ओम् अथातश् चरणव्यूहं व्याख्यास्यामः ॥
०१.०२
विश्वास-प्रस्तुतिः
तत्र चत्वारो वेदा भवन्ति । ऋग्वेदो यजुर्वेदः सामवेदो ब्रह्मवेदश् चेति ॥
मूलम्
तत्र चत्वारो वेदा भवन्ति । ऋग्वेदो यजुर्वेदः सामवेदो ब्रह्मवेदश् चेति ॥
०१.०३
विश्वास-प्रस्तुतिः
तत्र ऋग्वेदस्यार्थशास्त्रम् उपवेदः ।
यजुर्वेदस्य धनुर्वेदोपवेदः ।
सामवेदस्य गान्धर्ववेदोपवेदः ।
ब्रह्मवेदस्यायुर्वेदोपवेदः ।
अभिचारकार्थशास्त्रम् इत्य् उच्यते ॥
मूलम्
तत्र ऋग्वेदस्यार्थशास्त्रम् उपवेदः । यजुर्वेदस्य धनुर्वेदोपवेदः । सामवेदस्य गान्धर्ववेदोपवेदः । ब्रह्मवेदस्यायुर्वेदोपवेदः । अभिचारकार्थशास्त्रम् इत्य् उच्यते ॥
०१.०४
विश्वास-प्रस्तुतिः
ऋग्वेद आत्रेय-सगोत्रो ऽग्निर् देवता ।
यजुर्वेदः काश्यप-सगोत्रो वायुर् देवता ।
सामवेदो भारद्वाज-सगोत्रो विष्णुर् देवता ।
ब्रह्मवेदो वैतायन-सगोत्रो ब्रह्मा देवता ॥
मूलम्
ऋग्वेद आत्रेयसगोत्रो ऽग्निर् देवता । यजुर्वेदः काश्यपसगोत्रो वायुर् देवता । सामवेदो भारद्वाजसगोत्रो विष्णुर् देवता । ब्रह्मवेदो वैतायनसगोत्रो ब्रह्मा देवता ॥
०१.०५
विश्वास-प्रस्तुतिः
अथात ऋग्वेदः पीतवर्णः पद्मपत्त्राक्षः सुविभक्तग्-रीवः कुञ्चित-केशश्मश्रुः सुप्रतिष्ठित-जानु-जङ्घः ।
प्रमाणेन स वितस्तयः पञ्च ॥
मूलम्
अथात ऋग्वेदः पीतवर्णः पद्मपत्त्राक्षः सुविभक्तग्रीवः कुञ्चितकेशश्मश्रुः सुप्रतिष्ठितजानुजङ्घः । प्रमाणेन स वितस्तयः पञ्च ॥
०१.०६
विश्वास-प्रस्तुतिः
तत्र ऋग्वेदस्य सप्त शाखा भवन्ति । तद् यथा -
आश्वलायनाः । शाङ्खायनाः । साध्यायनाः । शाकलाः । बाष्कलाः । औदुम्बराः । माण्डूकाश् चेति ॥
मूलम्
तत्र ऋग्वेदस्य सप्त शाखा भवन्ति । तद् यथा । आश्वलायनाः । शाङ्खायनाः । साध्यायनाः । शाकलाः । बाष्कलाः । औदुम्बराः । माण्डूकाश् चेति ॥
०१.०७
विश्वास-प्रस्तुतिः
तेषाम् अध्ययनम् ।
ऋचां दश सहस्राणि ऋचां पञ्च शतानि च ।
ऋचाम् अशीतिः पादश् च एतत् पारणम् उच्यते ॥
मूलम्
तेषाम् अध्ययनम् । ऋचां दश सहस्राणि ऋचां पञ्च शतानि च । ऋचाम् अशीतिः पादश् च एतत् पारणम् उच्यते ॥
०२.०१
विश्वास-प्रस्तुतिः
तत्र यजुर्वेदस्य चतुर्विंशतिर् भेदा भवन्ति ॥
तद् यथा - काण्वाः । माध्यन्दिनाः । जाबालाः । शापेयाः । श्वेताः । श्वेततराः । ताम्रायणीयाः । पौर्णवत्साः । आवटिकाः । परमावटिकाः । हौष्याः । धौष्याः । खाडिकाः । आह्वरकाः । चरकाः । मैत्राः । मैत्रायणीयाः । हारितकर्णाः । शालायनीयाः । मर्चकठाः । प्राच्यकठाः । कपिष्ठलकठाः । उपलाः । तैत्तिरीयाश् चेति ॥
मूलम्
तत्र यजुर्वेदस्य चतुर्विंशतिर् भेदा भवन्ति ॥ तद् यथा । काण्वाः । माध्यन्दिनाः । जाबालाः । शापेयाः । श्वेताः । श्वेततराः । ताम्रायणीयाः । पौर्णवत्साः । आवटिकाः । परमावटिकाः । हौष्याः । धौष्याः । खाडिकाः । आह्वरकाः । चरकाः मैत्राः । मैत्रायणीयाः । हारितकर्णाः । शालायनीयाः । मर्चकठाः । प्राच्यकठाः । कपिष्ठलकठाः । उपलाः । तैत्तिरीयाश् चेति ॥
०२.०२
विश्वास-प्रस्तुतिः
तेषाम् अध्ययनम् ।
द्वे सहस्रे शते न्यूने
वेदे वाजसनेयके ।
सकलं परिसङ्ख्यातं
ब्राह्मणं तु चतुर्गुणम् ॥
मूलम्
तेषाम् अध्ययनम् । द्वे सहस्रे शते न्यूने वेदे वाजसनेयके । सकलं परिसङ्ख्यातं ब्राह्मणं तु चतुर्गुणम् ॥
०२.०३
विश्वास-प्रस्तुतिः
अष्टादश शतानि(=??) भवन्ति ।
तान्य् एव त्रिगुणम् अधीत्य क्रमपारो भवति ।
सप्तसु वीराश् चेति ॥
मूलम्
अष्टादश शतानि भवन्ति । तान्य् एव त्रिगुणम् अधीत्य क्रमपारो भवति । सप्तसु वीराश् चेति ॥
०२.०४
विश्वास-प्रस्तुतिः
शाखास् तिस्रो भवन्ति । तद् यथा (=??)।
वार्चिकम् अर्थाध्ययनीयाः । पारश्चर्याः । पारश्रमणीयाः । पारक्रमवटः । क्रमपारश् चेति ॥
मूलम्
शाखास् तिस्रो भवन्ति । तद् यथा । वार्चिकम् अर्थाध्ययनीयाः । पारश्चर्याः । पारश्रमणीयाः । पारक्रमवटः । क्रमपारश् चेति ॥
०२.०५
विश्वास-प्रस्तुतिः
षड् अङ्गान्य् अधीत्य षडङ्गविद् भवति ।
शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम् इति षड् अङ्गानि ॥
मूलम्
षड् अङ्गान्य् अधीत्य षडङ्गविद् भवति । शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम् इति षड् अङ्गानि ॥
०२.०६
विश्वास-प्रस्तुतिः
अथ यजुर्वेदः
प्रांशुः प्रलम्बजठरः स्थूल-गल-कपालो, रक्तो वर्णेन,
प्रादेशाः षड् दीर्घत्वेन - यजुर्वेदस्यैतद् रूपं भवति ॥
मूलम्
अथ यजुर्वेदः प्रांशुः प्रलम्बजठरः स्थूलगलकपालो रक्तो वर्णेन प्रादेशाः षड् दीर्घत्वेन यजुर्वेदस्यैतद् रूपं भवति ॥
०३.०१
विश्वास-प्रस्तुतिः
तत्र सामवेदस्य शाखासहस्रम् आसीद्
अनध्यायेष्व् अधीयानाः सर्वे ते शक्रेण विनिहताः । [प्रविलीनास्]
मूलम्
तत्र सामवेदस्य शाखासहस्रम् आसीद् अनध्यायेष्व् अधीयानाः सर्वे ते शक्रेण विनिहताः । [प्रविलीनास्]
०३.०२
विश्वास-प्रस्तुतिः
तत्र के चिद् अवशिष्टाः प्रचरन्ति ।
तद् यथा । राणायनीयाः । साद्यमुग्राः । कालपाः । महाकालपाः । कौथुमाः । लाङ्गलिकाश् चेति ॥
मूलम्
तत्र के चिद् अवशिष्टाः प्रचरन्ति । तद् यथा । राणायनीयाः । साद्यमुग्राः । कालपाः । महाकालपाः । कौथुमाः । लाङ्गलिकाश् चेति ॥
०३.०३
विश्वास-प्रस्तुतिः
कौथुमानां षड् भेदा भवन्ति । तद् यथा ।
सारायणीयाः । वातरायणीयाः । वैतधृताः । प्राचीनास् तेजसाः । अनिष्टकाश् चेति ॥
मूलम्
कौथुमानां षड् भेदा भवन्ति । तद् यथा । सारायणीयाः । वातरायणीयाः । वैतधृताः । प्राचीनास् तेजसाः । अनिष्टकाश् चेति ॥
०३.०४
विश्वास-प्रस्तुतिः
तेषाम् अध्ययनम् ।
अष्टौ सामसहस्राणि
सामानि च चतुर्दश ।
सोह्यानि सरहस्यानि
एतत् सामगणं स्मृतम् ॥
मूलम्
तेषाम् अध्ययनम् । अष्टौ सामसहस्राणि सामानि च चतुर्दश । सोह्यानि सरहस्यानि एतत् सामगणं स्मृतम् ॥
०३.०५
विश्वास-प्रस्तुतिः
अथ सामवेदः
सुवर्चाः सुगन्धिस् तेजस्वी मृदु-वक्ता ब्रह्मण्यः
प्रलम्ब-बाहुर् दुश्चर्मी कृष्णो वर्णेन कातरः स्वरेणेति ॥
मूलम्
अथ सामवेदः सुवर्चाः सुगन्धिस् तेजस्वी मृदुवक्ता ब्रह्मण्यः प्रलम्बबाहुर् दुश्चर्मी कृष्णो वर्णेन कातरः स्वरेणेति ॥
०३.०६
विश्वास-प्रस्तुतिः
षडरत्निः प्रमाणेन च स्मृतः ।
स्तुवन्त्य् ऋषयो ब्रह्मा सामानि तिष्ठति सन्निधौ
स भगवान् सामवेदो महेश्वरभक्तः ॥
मूलम्
षडरत्निः प्रमाणेन च स्मृतः । स्तुवन्त्य् ऋषयो ब्रह्मा सामानि तिष्ठति सन्निधौ स भगवान् सामवेदो महेश्वरभक्तः ॥
०४.०१
विश्वास-प्रस्तुतिः
तत्र ब्रह्मवेदस्य नव भेदा भवन्ति । तद् यथा ।
पैप्पलादाः । स्तौदाः । मौदाः । शौनकीयाः । जाजलाः । जलदाः । ब्रह्मवदाः । देवदर्शाः । चारणवैद्याश् चेति ।
मूलम्
तत्र ब्रह्मवेदस्य नव भेदा भवन्ति । तद् यथा । पैप्पलादाः । स्तौदाः । मौदाः । शौनकीयाः । जाजलाः । जलदाः । ब्रह्मवदाः । देवदर्शाः । चारणवैद्याश् चेति ।
०४.०२
विश्वास-प्रस्तुतिः
तेषाम् अध्ययनम् ।
ऋचां द्वादश सहस्राण्य्
अशीतिस् त्रिशतानि च ।
पर्यायिकं द्विसहस्राण्य्
अन्यांस् चैवार्चिकान् बहून्
मूलम्
तेषाम् अध्ययनम् । ऋचां द्वादश सहस्राण्य् अशीतिस् त्रिशतानि च । पर्यायिकं द्विसहस्राण्य् अन्यांस् चैवार्चिकान् बहून्
०४.०३
विश्वास-प्रस्तुतिः
इत्य् एतद्, ग्राम्यारण्यकानि षट् सहस्राणि भवन्ति ॥
मूलम्
इत्य् एतद् ग्राम्यारण्यकानि षट् सहस्राणि भवन्ति ॥
०४.०४
विश्वास-प्रस्तुतिः
तत्र ब्रह्मवेदस्याष्टाविंशतिर् उपनिषदो भवन्ति ।
मुण्डका प्रश्नका ब्रह्मविद्या क्षुरिका चूलिका अथर्वशिरो अथर्वशिखा गर्भोपनिषन् महोपनिषद् ब्रह्मोपनिषत् प्राणाग्निहोत्रं माण्डुक्यं नादबिन्दु ब्रह्मबिन्दु अमृतबिन्दु ध्यानबिन्दु तेजोबिन्दु योगशिखा योगतत्त्वं नीलरुद्रः पञ्चतापिनी एकदण्डी सन्न्यासविधिः अरुणिः हंसः परमहंसः नारायणोपनिषद् वैतथ्यं चेति ॥
मूलम्
तत्र ब्रह्मवेदस्याष्टाविंशतिर् उपनिषदो भवन्ति । मुण्डका प्रश्नका ब्रह्मविद्या क्षुरिका चूलिका अथर्वशिरो अथर्वशिखा गर्भोपनिषन् महोपनिषद् ब्रह्मोपनिषत् प्राणाग्निहोत्रं माण्डुक्यं नादबिन्दु ब्रह्मबिन्दु अमृतबिन्दु ध्यानबिन्दु तेजोबिन्दु योगशिखा योगतत्त्वं नीलरुद्रः पञ्चतापिनी एकदण्डी सन्न्यासविधिः अरुणिः हंसः परमहंसः नारायणोपनिषद् वैतथ्यं चेति ॥
०४.०५
विश्वास-प्रस्तुतिः
तत्र गोपथः शतप्रपाठकं ब्राह्मणम् आसीत्
तस्यावशिष्टे द्वे ब्राह्मणे पूर्वम् उत्तरं चेति ॥
मूलम्
तत्र गोपथः शतप्रपाठकं ब्राह्मणम् आसीत् तस्यावशिष्टे द्वे ब्राह्मणे पूर्वम् उत्तरं चेति ॥
०४.०६
विश्वास-प्रस्तुतिः
तत्र षड् अङ्गान्य् अधीत्य षडङ्गविद् भवति
षड् अङ्गानि भवन्ति, शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम् इति ॥
मूलम्
तत्र षड् अङ्गान्य् अधीत्य षडङ्गविद् भवति षड् अङ्गानि भवन्ति, शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम् इति ॥
०४.०७
विश्वास-प्रस्तुतिः
पञ्च कल्पा भवन्ति ।
नक्षत्रकल्पो वैतानकल्पस्
तृतीयः संहिताविधिः ।
चतुर्थ आङ्गिरसः कल्पः
शान्तिकल्पस् तु पञ्चमः ॥
मूलम्
पञ्च कल्पा भवन्ति । नक्षत्रकल्पो वैतानकल्पस् तृतीयः संहिताविधिः । चतुर्थ आङ्गिरसः कल्पः शान्तिकल्पस् तु पञ्चमः ॥
०४.०८
विश्वास-प्रस्तुतिः
लक्षणग्रन्था भवन्ति ।
चतुराध्यायिका प्रातिशाख्यं पञ्चपटलिका दन्त्योष्ठविधिर् बृहत्सर्वानुक्रमणी चेति ॥
मूलम्
लक्षणग्रन्था भवन्ति । चतुराध्यायिका प्रातिशाख्यं पञ्चपटलिका दन्त्योष्ठविधिर् बृहत्सर्वानुक्रमणी चेति ॥
०४.०९
विश्वास-प्रस्तुतिः
तत्र द्वासप्ततिः परिशिष्टानि भवन्ति कौशिकोक्तानि । कृत्तिकारोहिणी । राष्ट्रसंवर्गः । राजप्रथमाभिषेकः । पुरोहितकर्माणि । पुष्याभिषेकः । पिष्टरात्र्याः कल्पः । आरात्रिकम् । घृतावेक्षणम् । तिलधेनुः । भूमिदानम् । तुलापुरुषः । आदित्यमण्डकः । हिरण्यगर्भः । हस्तिरथः । अश्वरथः । गोसहस्रदानम् । हस्तिदीक्षा । अश्वदीक्षा । वृषोत्सर्गः । इन्द्रोत्सवः । ब्रह्मयागः । स्कन्दयागाः । सम्भारलक्षणम् । अरणिलक्षणम् । यज्ञपात्रलक्षणम् । वेदिलक्षणम् । कुण्डलक्षणम् । समिल्लक्षणम् । स्रुवलक्षणम् । हस्तलक्षणम् । ज्वालालक्षणम् । लक्षहोमः । काङ्कायनोक्तो बृहल्लक्षहोमः । कोटिहोमः । गणमाला । घृतकम्बलम् । अनुलोमकल्पः । आसुरीकल्पः । उच्छुष्मकल्पः । समुच्चयप्रायश्चित्तानि । ब्रह्मकूर्चविधिः । पैठीनसितडागविधिः । पाशुपतव्रतविधिः । सन्ध्योपासनविधिः । स्नानविधिः । तर्पणविधिः । श्राद्धविधिः । अग्निहोत्रविधिः । उत्तमपटलम् । वर्णपटलम् । निघण्तुः । चरणव्यूहः । चन्द्रप्रातिपदिकम् । ग्रहयुद्धम् । ग्रहसङ्ग्रहः । राहुचारः । केतुचारः । ऋतुकेतुलक्षणम् । कूर्मविभागः । मण्डलानि । दिग्दाहलक्षणम् । उल्कालक्षणम् । विद्युल्लक्षणम् । निर्घातलक्षणम् । परिवेषलक्षणम् । भूमिकम्पलक्षणम् । नक्षत्रग्रहोत्पातलक्षणम् । उत्पातलक्षणम् । सद्योवृष्टिलक्षणम् । गोशान्तिः । अद्भुतशान्तिः । स्वप्नाध्यायः । अथर्वहृदयम् । भार्गवीयगार्ग्यबार्हस्पत्योशनसाद्भुतानि । महाद्भुतानि बृहत्सर्वानुक्रमणी चेति ॥

०४.१०
विश्वास-प्रस्तुतिः
तत्र पञ्चदशोपनिषदो भवन्ति । मुण्डका । प्रश्नका । ब्रह्मविद्या । क्षुरिका । चूलिका । अथर्वशिरः । अथर्वशिखा । गर्भोपनिषत् । महोपनिषत् । ब्रह्मोपनिषत् । प्राणाग्निहोत्रम् । माण्डूक्यम् । वैतथ्यम् । अद्वैतम् । अलातशान्तिश् चेति ॥

०४.११
विश्वास-प्रस्तुतिः
तत्र ब्रह्मवेदे ऽष्टादश व्रतानि चरिष्यन् सावित्रीव्रतम् । वेदव्रतम् । वेदोत्तरव्रतम् । मैलव्रतम् । मैलोत्तरव्रतम् । मृगारव्रतम् । रोहितव्रतम् । विषासहिव्रतम् । यमव्रतम् । शान्तिव्रतम् । शिखिव्रतम् । गणव्रतम् । शिरोव्रतम् । शिखाव्रतम् । मरुद्व्रतम् । अधिव्रतम् । अङ्गिरोव्रतम् । पाशुपतव्रतं चरेत् ॥

०४.१२
विश्वास-प्रस्तुतिः
कृच्छ्रम् । तप्तकृच्छ्रम् । अतिकृच्छ्रम् । सर्वकृच्छ्रम् । मौन्दभायः । तुलापुरुषः । सान्तपनम् । महासान्तपनं चेति ॥
मूलम्
कृच्छ्रम् । तप्तकृच्छ्रम् । अतिकृच्छ्रम् । सर्वकृच्छ्रम् । मौन्दभायः । तुलापुरुषः । सान्तपनम् । महासान्तपनं चेति ॥
०५.०१
विश्वास-प्रस्तुतिः
यो वै ब्रह्मवेदेषूपनीतः स सर्ववेदेषूपनितो
मूलम्
यो वै ब्रह्मवेदेषूपनीतः स सर्ववेदेषूपनितो
०५.०२
विश्वास-प्रस्तुतिः
यो वै ब्रह्मवेदेष्व् अनुपनीतः स सर्ववेदेष्व् अनुपनीतः ॥
मूलम्
यो वै ब्रह्मवेदेष्व् अनुपनीतः स सर्ववेदेष्व् अनुपनीतः ॥
०५.०३
विश्वास-प्रस्तुतिः
अन्यवेदे द्विजो यो ब्रह्मवेदम् अधीतुकामः स पुनर् उपनेयो
मूलम्
अन्यवेदे द्विजो यो ब्रह्मवेदम् अधीतुकामः स पुनर् उपनेयो
०५.०४
विश्वास-प्रस्तुतिः
देवाश् च ऋषयश् च ब्रह्माणम् ऊचुः ॥
मूलम्
देवाश् च ऋषयश् च ब्रह्माणम् ऊचुः ॥
०५.०५
विश्वास-प्रस्तुतिः
को नो [स्मो] ज्येष्ठः । क उपनेता । क आचार्यः । को ब्रह्मत्वं चेति ॥
मूलम्
को नो [स्मो] ज्येष्ठः । क उपनेता । क आचार्यः । को ब्रह्मत्वं चेति ॥
०५.०६
विश्वास-प्रस्तुतिः
तान् ब्रह्माब्रवीत् ॥
मूलम्
तान् ब्रह्माब्रवीत् ॥
०५.०७
विश्वास-प्रस्तुतिः
अथर्वा वो ज्येष्ठो ऽथर्वोपनेताथर्वाचार्यो ऽथर्वा ब्रह्मत्वं चेति ॥
मूलम्
अथर्वा वो ज्येष्ठो ऽथर्वोपनेताथर्वाचार्यो ऽथर्वा ब्रह्मत्वं चेति ॥
०५.०८
विश्वास-प्रस्तुतिः
तद् अप्य् एतद् ऋचोक्तम् । ब्रह्मज्येष्ठेति एतया ।
मूलम्
तद् अप्य् एतद् ऋचोक्तम् । ब्रह्मज्येष्ठेति एतया ।
०५.०९
विश्वास-प्रस्तुतिः
इति तस्यार्हं ब्रह्मवेदश् चतुर्णां वेदानां साङ्गोपाङ्गानाम् [तम्] सवाकोवाक्यानां सेतिहासपुराणानाम् ॥
मूलम्
इति तस्यार्हं ब्रह्मवेदश् चतुर्णां वेदानां साङ्गोपाङ्गानाम् [तम्] सवाकोवाक्यानां सेतिहासपुराणानाम् ॥
०५.१०
विश्वास-प्रस्तुतिः
अथातो ब्रह्मवेदः कपिलो वर्णेन तीक्ष्णः प्रचण्डः कामरूपी विश्वात्मा जितेन्द्रियः ।
स तस्मिन् भगवति दुर्वारज्वालः ।
मूलम्
अथातो ब्रह्मवेदः कपिलो वर्णेन तीक्ष्णः प्रचण्डः कामरूपी विश्वात्मा जितेन्द्रियः । स तस्मिन् भगवति दुर्वारज्वालः ।
०५.११
विश्वास-प्रस्तुतिः
क्षुद्रकर्मा स च भगवान् ब्रह्मवेदश् चतुर्मुखो द्विपक्षो दान्तो धर्मी बलवान् प्राज्ञः कृतोत्थापनीयः क्रूरः षड्रात्राणि विमृशी [षड्रात्राणि षड्] वैतायनो गोत्रेण
मूलम्
क्षुद्रकर्मा स च भगवान् ब्रह्मवेदश् चतुर्मुखो द्विपक्षो दान्तो धर्मी बलवान् प्राज्ञः कृतोत्थापनीयः क्रूरः षड्रात्राणि विमृशी [षड्रात्राणि षड्] वैतायनो गोत्रेण
०५.१२
विश्वास-प्रस्तुतिः
य एकैकस्मिन् वेदानां नामवर्णगोत्ररूपप्रमाणं च कीर्तयेद्
यो विद्वान् जातिस्मरो भवति, मृतः स ब्रह्मलोकं गच्छति ॥
मूलम्
य एकैकस्मिन् वेदानां नामवर्णगोत्ररूपप्रमाणं च कीर्तयेद् यो विद्वान् जातिस्मरो भवति मृतः स ब्रह्मलोकं गच्छति ॥