(१) ओम् अथर्वणे नमः ॥
(२) [पचति । पचते । अशनशि । सिस्रते । गमेः । वायि । चायि ॥१ ॥ व्यापि । चक्रि । देवा चष्टे । अव चाकशत् । व्यानशे । त्रिषि निषामयत्योः । योष्टिः सप्ते च ॥२ ॥ रिञ्जति] ।
(३) वश्मि । वश्मि । उश्मसि । अव वेति । वाञ्छति । वेष्टि । वनोति । जुषते । हर्यति । आचके । उशिक् । मन्यते । अछान्त्सुः ॥३ ॥ छन्त्सत् । चाकनत् । चकमानः । कनति । कानिषत् । कामे ॥
(४) मिमेति ॥४ ॥ नर्दति । ध्वनति ॥
(५) ध्वंसते । [कृणति । किंशक्ते ॥]
(६) वनति । भनति । [स्तर्षति ।] स्फूर्जति ॥
(७) ह्लादते । [निरृते ।] ह्लादयति ॥
(८) शब्दयति ॥
(९) अर्चति । अर्चति । रेभति । गायति । जल्पति । स्तोभति । स्तौति । यौति । रौति । नौति । गदति । नदति । भनति । भनते । [तत्रते ।] पणते । पणस्यति । पणायते । भन्दते । [यत्रस्यते। कृकृन्धम्पात्] कृपण्यति । धमति । सपति । पपृक्षाः । गूर्धयति । वेदयति । वादयति ॥५ ॥ वल्गूयति । महयति । मन्त्रयते । सेवते । पृच्छति ॥६ ॥ छन्दति । शशमानः । जरते । [छरति ।] वेनति । वन्दते ॥
(१०) इरजति । इरज्यति ॥७ ॥विधेम । दुवस्यति । नमस्यति । विवासति । ऋध्नोति । ऋणद्धि । ऋच्छति ॥
(११) परि स्रव । परिस्रव ॥८ ॥ पवस्व । अभ्य् अर्ष । आशिषः ॥
(१२) ईमहे । ईमहे । यामि । मन्महे । दद्धि । पूर्धि । शग्धि । मिमीहि । रिरीहि । रिरिढ्ढि । मिमिढ्ढि । पीपरत् । यन्तारः । इषुध्यति । वनेमहि । मनामहे । याचते ॥
(१३) <dāsati |> दासति ॥९ ॥ दाशति । शिक्षति । महते । पृणाति । राति । रासति । प्राति । तुञ्जति । [मत्स्यति ।] ददाति ॥
(१४) य्र्य्ष्यति । उरुष्यति ॥१० ॥ पिपर्ति । पारयति । पाति । पासति । प्राति । तुञ्जति । पृणाति । रक्षे ॥
(१५) <ā vayati |> आ वयति । भर्वति । बभस्ति । वेनति । वेति । वेवेष्टि । अविष्यन् । [प्रग] प्साति । बप्सति । भसथः । बब्धाम् ।
(१६) [वदति । आदेति । तिरति । त्विष्यति । हिनोति । वृद्धेः ॥]
(१७) [उत्पपीति । उत्पपीति ॥११ ॥ तपति । पिप्पहु । सहोति । युग्भिदी भेदयोजनयोश् च ॥]
(१८) हेडते । हेडते ॥१२ ॥ भामते । हृणीयते । भ्रीणाति । भ्रेषते । दोधति । हेडः । हरः । हृणिः । त्यजः । भामः । मन्युः । क्रोधे नामानि च क्रोधस्य ॥
(१९) श्नथति । श्नथति ॥१३ ॥ [दोवति । कुर्वति ।] तूर्वति । [मनुष्यति । धनुष्यति ।] शृणाति । मृणाति । भृज्जति । अमति । तृणेढि । दभ्नोति । [शूषति ।] ध्वरति । धूर्वति । कृन्तति । श्वसति । स्नेहयति । मृद्नाति । [स्रध्नाति ।] दासति । स्तृणुते । स्तरते । [कृणाति ।] नि तोजति । नि वपति । [अमति । रिति ।] यातयते । आखण्डल । तडित् । हिंसायाम् ॥
(२०) इनद्धि । इनद्धि ॥१४ ॥ स्वरति । हृष्यति । पथति । सृजति । ज्योतते । द्योतते । [द्योप्यते ।] भ्राजते । भ्राशते । दीदयति । साधते । द्युमत् । जमत् । कल्मलीकिनम् । मल्मलाभवन् । जञ्जणाभवन् । अर्चिः । शोचिः । तपः । तेजः । हरः । सृङ्गाणि । ज्वलेज्वलतश् च नामानि ॥
(२१) <irajyati |> इरज्यति ॥१५ ॥ पत्यते । क्षय्ति । राजति । ईश्वरे ॥
(२२) [स्वस्त्ययलेपी । स्वपे ॥]
(२३) सिषक्ति । सेचति । सेचते ॥
(२४) [अबिभस्ते ।] अभि दासते । अभि मन्यते ॥
(२५) बिभर्ति । दधति । धारयते ॥
(२६) हृणीयते । भृणीयते ॥
(२७) वादयते । पुनाति । पणायति । पूजयति । वदति । [कुसी । हूर्छि । सासुद्यति ।] श्लाघायाम् ॥
(२८) सूर्क्षति । [रादले । च्व्युच्छति । र प्रसादे । शरुलिप्सायाम् । मुक्षति ।] सादरे । [व्युच्छति । अप्रमादे । शरुलिप्सायाम् । व्याखदि । पृथग्भावे ओषधिकिच्छ्रजीवने । दशस्यति । द्रोहे । पीयति । स्पर्धायाम् । वक्षति । निवासे । इष्टाति । स्वादने ॥]
(२९) पिबति । पाने ॥
(३०) धिनोति । प्रीतौ ॥
(३१) जिन्वति । उभयत्र ॥
(३२) जिघर्ति । सेचने ॥
(३३) [विस्वति । विस्याप्ये ॥]
(३४) गोपयति । गोपने ॥
(३५) शुम्भति । शोभने ॥
(३६) मुञ्चति । शुद्धौ च ॥
(३७) शर्धति । ध्वंसने ॥
(३८) मृदति । सुखने ॥
(३९) चक्षुर्भिर् माहते । दृशिहाने ॥
(४०) विन्दति । लाभे ॥
(४१) पुष्यति । वृद्धौ ॥
(४२) [कोभति] । क्षये । दस्यति च ॥
(४३) [स्रोशित च । लितगुतौ ॥]
(४४) ऋञ्जति । [पार्जन्यः ।] ऋजुगमने ॥
(४५) [वाचौष्टयति । विलासे ॥]
(४६) रदति । खनने ॥
(४७) [सेवति । आ क्रोशति । स्पर्शे ॥
(४८) नसति । र्नचते ॥
(४९) जिघर्ति । ग्रहणे । गिरणे च ॥]
(५०) मन्दति । तृप्तौ ॥
(५१) [अमनि । भावने ॥]
(५२) चक्रति । प्रतिवेदने ॥
(५३) जक्षति । क्षुत्सहने ॥
(५४) श्लिष्यति । आश्लेषे ॥
(५५) भजति । प्रेप्सायाम् ॥
(५६) सेवति । सेवायाम् ॥
(५७) ह्लादयति । शीतीभावने ॥
(५८) काशति । प्रकाशने ॥
(५९) [दानपनुपरिवस्यते ॥]
(६०) रोदसी ॥१६ ॥ रोदसी । रोधसी । क्षोणी । स्वधे । पुरन्धी । ऋतावृतौ । प्रपित्वे । प्रतिष्ठे । प्रशस्ये । उरूची । [सान्तापे] । रजसी । विषाणे । धिष्ण्ये । गभीरे । गम्भीरे ॥१७ ॥ ओण्यौ । चंवौ । नप्त्यौ । नप्त्यौ ॥१८ ॥ पार्श्वौ । दूरे अन्ते । अनन्ते । द्यावापृथिव्योः ॥
(६१) अपः । अपः ॥१९ ॥ अप्नः । दंसः । वेपः । [वेदः ।] वेषः । विष्ट्वी । व्रतम् । कर्वरम् । शक्म । क्रतुः । करणानि । करांसि । करिक्रत् । करन्ती । चक्रत् । कर्तुम् । कर्ता । कर्तवे । [थलित । हिंसायाम् । इनद्धि ।] धीः । सवः । शमी । शक्तिः । शिल्पम् । कर्मणः ॥
(६२) अस्रेमा । अस्रेमा ॥२० ॥ अनेद्यः । अनिन्द्यः । अबभिशस्तिः । अनवद्यः । उक्थ्यः । सुनीथः । पाकः । प्रशस्यस्य ॥
(६३) आगः । आगः । एनः । अंहः । रिपुः । दुरितम् । अशस्तिः । शमलम् । वृजिनम् । अघस्य ॥
(६४) शिम्बाता । शिम्बाता ॥२१ ॥ शतरा । शातवन्ता । शिल्पम् । शेवृधम् । स्यूमकम् । मयः । द्योतनम् । सुदिनम् । शूषम् । द्युम्नम् । इन्द्रियम् । शेवम् । शिवम् । शुनम् । शम् । भेषजम् । जलाषम् । सुखस्य ॥
(६५) निरृतिः । निरृतिः ॥२२ ॥कृच्छ्रम् । तृप्रम् । दुःखस्य ॥
(६६)
(६७) ऋहन् । ऋहन् । निघृष्वः । कृशमः । मायुकः । प्रतिष्ठा । कृधुकः । दहरकः । वम्रकः । अर्भकः । [अथुराणः] । ह्रस्वस्य ॥
(६८) महः । महः । ब्रध्नः । ऋष्वः । उक्षः । गभीरः । अभ्वः । तवसः । ऋभुक्षा । उक्षा । [उक्षिता ।] विहायाः । यह्वः । उरु । बृहत् । अम्भृणः । विरप्शी । अद्भुतः । [वविषिपुः । वरिषीः] । महतः ॥
(६९) नवम् । नवम् ॥२३ ॥ नूतनम् । नूतनम् । नव्यम् । अधुना । इदानीम् । नवस्य ॥
(७०) प्रत्नम् ॥२४ ॥ प्रत्नम् । प्रदिवः । प्रवयाः । सनेमि । [मोक्तः । माहुः । यतः ।] पुराणस्य ॥
(७१) [अधाह्यः] ॥२५ ॥ सत्रा । बट् । ऋतम् । अद्धा । सत्यस्य ॥
(७२) गौः । गौः ॥२६ ॥ ग्मा । ज्मा । क्ष्मा । क्षा । क्षमा । क्षोणी । क्षितिः । अवनिः । उर्वी । मही । रिपः । अदितिः । इडा । निरृतिः । गातुः । भूः । भूमिः । पूषा । गोत्रा । पृथिव्याः । पराणि तदायतनानाम् ॥
(७३) <taḍit |> तडित् । आसात् । अम्बरम् । तुर्वशे । अस्तमीले । उपाके । अर्वाके । अन्तमानाम् । अवमे । उपमे । अन्तिकस्य ॥
(७४) <śyāvī |> श्यावी । क्षपा । शर्वरी । अक्तुः । [उर्वी ।] ऊर्म्या । रम्या । नम्या । [चोषा ।] दोषा । नक्ता । तमः । रजः । असिक्नी । तमस्वती । [दमस्वती ।] महस्वती । यशस्वती । घृताची । शिरिणा । मोकी । शोकी । ऊधः । पयः । हिमा । वस्वी । रात्रेः ॥
(७५) अरणः । अरणः ॥२७ ॥ गरः । क्षोदः । क्षद्म । नभः । अम्भः । कबन्धम् । सलिलम् । वाः । वनम् । घृतम् । मधु । पुरीषम् । पिप्पलम् । क्षीरम् । विषम् । रेतः । शकम् । जह्म । बृबूकम् । बुसम् । तुग्र्याः । सुक्षेमम् । वरुणः । सुरा । अररिन्द्रानि । ध्वस्मन्वत् । जामि । आयुधानि । क्षपः । अहिः । अक्षराः । तृप्तिः । रसः । सरः । पयः । भेषजम् । स्रवः । शवः । सहः । ओजः । सुखम् । क्षत्रम् । आवयाः । शुभम् । यादः । भूतम् । भुवनम् । भविष्यत् । आपः । महत् । व्योम । यशः । सर्णीकम् । [स्वर्णीकरम् ।] गहनम् । गभीरम् । [गम्भीरम् ।] गह्वरम् । कम् । अन्नम् । [सु] हविः । सद्म । सदनम् । ऋतम् । [ऋत] योनिः । ऋतस्य योनिः । सत्यम् । नीरम् । रयिः । सत् । पूर्णम् । सर्वम् । अक्षितम् । सर्पिः । अपः । पवित्रम् । अमृतम् । इन्दुः । हेम । सर्गाः । शम्बरम् । अभ्वम् । वपुः । अम्बु । तोयम् । तूयम् । कृपीटम् । अक्षरम् । क्षराः । वारि । जलम् । [चूर्णाः । संस्त्यानाः । धानाप्यम् ।] विस्रुतम् । जलाषम् ॥२८ ॥ कर्बुरम् । काष्ठाः । [इदम्] इदम् । शुक्रम् । मेध्यम् । पावकम् । पावनम् । ह्रादनम् । ह्लादनम् । [पार्वम् ।] अम्भः । [भूरी ।] उदकस्य ॥
(७६) अवनयः । अवनयः ॥२९ ॥ यह्व्यः । खाः । सीराः । स्रोत्याः । एन्यः । धुनयः । रुजानाः । वक्षणाः । खादो अर्णाः । रोधचक्राः । हरितः । योषितः । स्वसृतः । अर्णवाः । सिन्धवः । कुल्याः । वहाः । उर्व्यः । इरावत्यः । पार्वत्यः । ओजस्वत्यः । सरस्वत्यः । हरस्वत्यः । अजिराः । मातरः । नदीनाम् ॥ [मधुः । वथः]
(७७) काटः । काटः । खातः । अवतः । अवटः । क्रिविः । सूदः । उत्सः । ऋश्यदः । कारोतरः । कुशयः । केवतः । [त्रपुः] कूपस्य ॥
(७८) नराः । नराः ॥३० ॥ जन्तवः । विशः । क्षितयः । कृष्टयः । चर्षणयः । नहुषः । अरयः । अर्याः । मर्याः । मर्ताः । व्राताः । पूर्वाः । तुर्वशाः । द्रुह्यवः । आयवः । यदवः । अनवः । पूरवः । जगतः । तस्थुषः । पञ्चजनाः । विवस्वन्तः । मानवः । मनुष्याणाम् ॥
(७९) निर्णिक् । निर्णिक् ॥३१ ॥ वव्रिः । वर्पः । वपुः । अमतिः । अप्सः । रप्सु । पिष्टम् । शष्यम् । कृशनम् । पेशः । मरुत् । रूपस्य ॥
(८०) जठरम् ॥३२ ॥ जठरम् । [परीसानम् । जगृतम् । गर्दनम् ।] कृदरम् । उदरम् । [दर्दुरम् ।] उदरस्य ॥
(८१) आयती । आयती । च्यवाना । अभीशू । अप्नवाना । विनङ्गृसौ । गभस्ती । बाहू । भुरिजौ । शक्वरी । भरित्रे । बाह्वोः ॥
(८२) <agruvaḥ |> अग्रुवः ॥३३ ॥ अण्व्यः । व्रिशः । शर्याः । रशनाः । धीतयः । अथर्यः । विपः । कक्ष्याः । हरितः । स्वसारः । जामयः । योक्त्राणि । योजनानि । धुरः । शाखाः । अभीशवः । दीधितयः । अङ्गुलीनाम् ॥३४ ॥
(८३) [व्रजिः । धुनिः । तर्थाः ।] तक्वा ।
(८४) धीः । धीः । मेधा । केतुः । चेतः । चित्तम् । क्रतुः । असुः । शची । वयुनम् । माया । बुद्धेः ॥३५ ॥
(८५) विप्रः । विप्रः । विग्रः । गृत्सः । धीरः । [रेनुः ।] वेनः । मेधाः । कण्वः । ऋभुः । नवेदाः । कविः । मनीषी । मन्धाता । मनश्चित् । आकेनिपासः । उशिजः । कीस्तासः । अद्धातयः । मतयः । मतुथाः । मेधाविनः ॥
(८६) मेना । मेना । ग्ना । योषा । नना । अङ्गना । रतयः । स्त्रीणाम् ॥३६ ॥
(८७) तुक् । तुक् । तोकम् । तनयम् । तक्म । शेषः । प्रजा । बीजम् । अप्नः । गयः । [ऋषः] जाः । यहुः । सूनुः । नपात् । अपत्यस्य ॥३७ ॥
(८८) [कङ्कम् ।] अन्धः । [घा] सिनम् । श्रवः । [शवः । शाहः । वनः ।] अन्नम् । वाजः । पयः । पृक्षः । पितुः । सुतम् । क्षु । धासिः । इडा । इषम् । ऊर्जः । रसः । स्वधा । अर्कः । नेमः । ससम् । नमः । वयः । सूनृता । ब्रह्म । कीलालम् । अन्नस्य ॥३८ ॥
(८९) ॥॥। गर्तः । हर्म्यम् । नीरम् । पस्त्यम् । दुरोणम् । दुर्याः । स्वसराणि । अमा । दमः । कृत्तिः । योनिः । वर्म । शर्म । शरणम् । वरूथम् । क्षया । छन्दः । छदिः । छर्दिः । छाया । वेश्म । अज्मः । कुलायम् । तुकः । गृहस्य ॥३९ ॥
(९०) मघम् । मघम् । रेक्णः । रिक्थम् । वेदः । श्वात्रम् । रत्नम् । रयिः । क्षत्रम् । क्षेत्रम् । भगः । मीढम् । द्युम्नम् । इन्द्रियम् । वसु । रायः । राधः । दानः । वृत्रम् । दानम् । वृतम् । वामम् । धनस्य ॥४० ॥
(९१) हेम । हेम । चन्द्रम् । रुक्मम् । अरः । पेशः । कृशनम् । लोहम् । कनकम् । काञ्चनम् । हरितम् । भर्गः । अमृतम् । मरुत् । दत्रम् । जातरूपम् । हिरण्यम् । सुवर्णस्य ॥४१ ॥
(९२) अघ्न्या । अघ्न्या । उस्रा । उस्रिया । स्त्री । मही । अदितिः । इडा । निरृतिः । गोः ॥४२ ॥
(९३) अत्यः । अत्यः । हयः । अर्वा । वाजी । सप्तिः । वह्निः । दधिक्राः । दधिक्रावा । एतग्वः । एतशः । पैद्वः । दौर्गहः । उच्चैह्श्रवसः । तार्क्ष्यः । आशुः । ब्रध्नः । अरुषः । मांश्चत्वः । अव्यथयः । श्येनासः । सुपर्णाः । नराः । वार्याणाम् । हंसासः । अश्वानाम् ॥४३ ॥
(९४) रोहितः । रोहितो ऽग्नेः । नियुतो वायोः । हरी इन्द्रस्य । विश्वरूपा बृहस्पतेः । पृषत्यो मरुताम् । रासभाव् अश्विनोः । अरुण्यो गाव उषसाम् । हरय आदित्यस्य । हरितः सूर्यस्य । श्यावाः सवितुः । अजाः पूष्णः ॥४४ ॥
(९५) अध्वरः । अध्वरः । वेषः । वेदः । [वेपः । भायी ।] विदथः । सवनम् । होत्रा । इष्टिः । देवताता । मखः । विष्णुः । इन्दुः । प्रजापतिः । घर्मः । क्रतुः । कर्म । यज्ञस्य ॥
(९६) <bharatāḥ |> भरताः ॥४५ ॥ कुरवः । वाघतः । वृक्तवर्हिषः । सबाधः । यतस्रुचः । वृकः । मरुतः ॥४६ ॥ देवयवः । ऋत्विजः ॥
(९७) <rebhaḥ |> रेभः । जरिता । कारुः । कीरिः । सूरिः । नदः । नादः । छन्दस्यः । [क्वोसनः ।] रुद्रः । कृपण्युः । स्तामुः ।
(९८) <ambaram |> अम्बरह्म् । वियत् । व्योम । बर्हिः । स्वः । आकाशम् । आपः । पृथिवी । भूः । स्वयम्भूः । अध्वा । ब्रध्नः । [पीरिठम् । पीठम् ।] सगरः । सलिलम् । समुद्रः । अन्तरिक्षस्य । पराणि तदायतनानाम् ॥४८ ॥
(९९) <ātāḥ |> आताः । आशाः । आष्ठाः । उपराः । काष्ठाः । व्योम । ककुभः । दिशाम् ॥४९ ॥
(१००) सस्निः । सस्निः । अलातृणः । क्वणन् कुणारुः । दानवः । उदधिः । [सिरिः ।] वृत्रः । पर्वतः । चमसः । अहिः । अभ्रम् । बलाहकः । दृतिः । ओदनः । वृषन्धिः । वृत्रः । कोशः । असुरः । मेघस्य ॥५० ॥
(१०१) <adriḥ |> अद्रिः । ग्रावा । गोत्रः । वलः । अश्नः । पुरुभोजाः । वलिशानः । अश्मा । गिरिः । व्रजः । चरुः । वराहः । शम्बरः । रौहिणः । रैवतः । परिघः । [पाणिघः ।] उपरः । उपलः । सानौ । रुद्रः । पर्वतस्य ॥५१ ॥
(१०२) गौः । गौः । गौरी । गान्धर्वी । गभीरा । गम्भीरा मन्द्रा । मन्द्राजनी । [वाणीः] । वाशी । वाणी । वाणीची । वाणः । पविः । भारती । धमनिः । मेडिः । सूर्या । सरस्वती । निवित् । स्वाहा । वग्नुः । उपब्दिः । काकुः । मायुः । जिह्वा । घोषः । श्लोकः । शब्दः । स्वरः । स्वनः । ऋक् । होत्रा । गीः । गाथा । गणः । धेना । ग्नाः । विपा । नना । कशा । धिषणा । नौः । अक्षरम् । मही । अदितिः । शची । [त्सघीः ।] अनुष्टुप् । [शब्दः ।] रसः । [वसा । मधु । कशा ।] विराट् । वाचः ॥५२ ॥
(१०३) ओजः । ओजः । पाजः । शवः । शर्धः । त्वक्षः । बाधः । नृम्णम् । तरः । तविषी । शुष्मम् । शुष्णम् । दक्षः । वीडु [तु] । च्यौत्नम् । द्युम्नम् । इन्द्रियम् । सहः । वयः । वधः । वर्गः । मज्मना । पौंस्यानि । धर्णसि । स्यन्द्रासः । द्रविणम् । बलस्य ॥५३ ॥
(१०४) विद्युत् । विद्युत् । नेमिः । पविः । वज्रः । सृकः । [यतः ।] वधः । अर्कः । शम्बः । कुलिशः । कुत्सः । सायकः । त्रपुषी । वज्रस्य ॥५४ ॥
(१०५) रणः । रणः । विवाक् । वदनुः । विखादः । भरे । क्रन्दः । आहावः । सम्[अन्]ईके । ममसत्यम् । नेमधितिः । सङ्का । समनम् । स्पृधः । पृत्सु । समत्सु । समरणे । समोहे । सङ्ख्ये । वृत्रतूर्ये । समर्ये । आणौ । प्रतरणे । [मन्तसा ।] समनीके । [खाय । सेने ।] खले । खजे । पौंस्ये । महाधने । पृतना । ज्येष्ठः । सङ्ग्रामस्य ॥५५ ॥
(१०६) [खरे । स्वारम् । सुष्टि ।] नु । नु । मक्षु । द्रवत् । ओषम् । जीराः । जूर्णिः । शूर्ताः । शूघनाः । शीभम् । तृषु । तूयम् । तूर्णिः । अजिरम् । भुरण्युः । आशु । प्राशु । तूतुजानः । तूतुजिः । तुज्यमानासः । अज्राः । साचीवित् । द्युगत् । ताजत् । तरणिः । वातरंहा । क्षिप्रस्य ॥५६ ॥
(१०७) निण्यम् । निण्यम् । अपीच्यम् । सस्वः । <hiruk |> [तत्र । तत्तन्त । तायतम् ।] अन्तर्हितस्य ॥
(१०८) <svaḥ |> स्वः । पृश्निः । नाकः । गौः । विष्टप् । इष्टम् । नभः । दिवः । अन्तरिक्षस्य च । पराणि तदायतनानाम् ॥५७ ॥
(१०९) [हिरुक् । हिरुक् ।] आके । पराचैः । आरे । परावते । इति दूरस्य ॥५८ ॥
(११०) विभावरी । विभावरि । सूनरी । [भावती । सुनरी] भास्वरी । अहना । द्योतना । श्वेत्या । अरुषी । सूनृतावरी । उषसः ॥५९ ॥
(१११) वस्तोः । वस्तोः । भानुः । वासरम् । स्वसराणि । घ्रंसः । घर्मः । घृणिः । दिवा । दिनम् । दिवे
(११२) दीधितयः । गभस्तयः । वनम् । उस्राः । वसवः । मरीचयः । सप्त ऋषयः । साध्यासः । सुपर्णासः । मयूखाः । रश्मीनाम् ॥६१ ॥
(११३) खेदयः । खेदयः । किरणाः । गावः । अभीशवः । [रश्मीन् ।] रश्मीनां च ॥६२ ॥
(११४) आर्यः । आर्यः । राष्ट्री । नियुत्वान् । इनः । ईश्वरस्य ॥६३ ॥
(११५) संयोगः । संयोगः । आशुशुक्षणिः । जहा । शिताम । मेहना । मूषः । मन्दू । ईर्मान्तासः । [वाजरान्ध्यम् ।] कायमानः । विद्रधे । तुग्वनि । [नोधात् । नदः ।] च्यवनः । कश्यपः । नू चित् । अकूपारस्य । अप्रायुवः । रजः । जुहुरे । क्राणा । विषुणः । जामिः । जसुरिः । चयसे । अन्धः । दुग्धम् । आहनः । नदः । अर्कः । सचा । चित् । पवित्रम् । पृथुज्रयाः । काणुका । अध्रिगुः । आङ्गूषः । आपान्तमन्युः । श्मशा । वाजगन्ध्यम् । [जराध्य ।] पाकस्थामा कौरयाणः । व्रन्दी । निष्षपी । क्षुम्पम् । निचुम्पुणः । [मजायेम । धृरुः ।] जोषवाकम् । कुटस्य । केपयः । सललूकम् । अस्कृधोयुः । निशृम्भाः । [ध्रुवद्रक्षम् ।] उपलप्रक्षिणी । उपसि । सवीमनि । विदथानि । श्रायन्त इव । अमूरः । विजामातुः । अमवान् । अमीवा । अमतिः । रिशादसः । आनुषक् । गिर्वणाः । अम्यक् । यादृश्मिन् । शुरुधः । अप्रतिष्कुतः । द्विबर्हाः । उराणः । जवारु । ततनुष्टिम् । इलीबिशः । [इराविणः ।] कियेधाः । तुरीपम् । प्रतद्वसू । दिविष्टिषु । दूतः । ऋचीषमः । अनर्शरातिम् ॥६४ ॥ अनर्वा । [अनर्वा । चाण्डा । वाल्हा] जढवः । बकुरः । [वक्तारः] बेकनाटान् । अभि धेतन । सदान्वे । पराशरः । करूडती । दनः ॥
(११६) इक्षुणा । कीलालम् । विजाम्नि । दोषा । [अष्टमर्त्यः] ॥६५ ॥ ज्येष्ठम् । [ज्येष्ठम् । असिपक्व ।] विश्वाहा । विवसवान् । वाते । [तन्यन्तः । व्राल्म । काम्पीवकंसम् । जस्यत्यम् । जलाली ।] अन्धः । विपश्यन् । अया चिष्ठा । [आंसा । रन्तु । तमायीवयः ।] शमोप्यात् । गुल्फः । बिष्कले खर्गला । प्रतोदः । वेदः । [यत्रास्मन्नतः । रध्रः । चिक्रिः । नुलुः ।] पुच्छधौ । [सुनिः ।] अपाष्ठः । मेदी । [ज्येना ।] मर्यः । [सप्तघ्नेतः ।] वालिनि । यातारम् । [रुषङ्किः । सिक्तः ।] सगणाः । [मुडिम्नाना । लिङ्गकाः । नादिना ।] मल्वः । अम्नः । [जुगुः ।] नीलागलसाला । ऐलबः । [दरिद्रः ।] नीललोहितः । श्वापदः । कुनखी । कुरीरम् । [उपसः ।] तादुरि । [कमथ । रुमथा । सर्वर्तेभ्यः । इदम् । अध्वर्युः । द्युम्नी । कुवितः । दम्नना ।] दुरोणे । [परेक्तौति] । तितौ । [उत्पवाधत ।] किमीदी । वामस्य । एकचक्रम् । अमतिः । सुमतिः । [दयते । दयन्ति । व्रीहि । वृत्ते] ॥६६ ॥ ईडे । ईडे । क्षयति । तपति । रजति । अनेकार्थाः ॥
(११७) प्रपित्वे । अभीके । प्राप्तस्य ॥
(११८) तिरः । सतः । अप्राप्तस्य ॥
(११९) त्वः । नेमः । अर्धस्य ॥
(१२०) ऋक्षाः । स्तृभिः । इति नक्षत्राणाम् ॥
(१२१) वम्रीभिः । उपजिह्विका । सीमिकानाम् ॥
(१२२) रम्भः । [रथः ।] पिनाकम् । इति दण्डस्य ॥
(१२३) शेपः । वैतसः । इति पुंस्प्रजननस्य ॥
(१२४) [परङ्गतिविलीके] । इति स्त्रीप्रजननस्य ॥
(१२५) अनेन । अनया । [पनस्य]]
(१२६) मकि । ह्वकिर्] । इति प्रतिषेधस्य ॥
(१२७) वरूथम् । [असग्रम्] । चर्मणो ऽरुत्साहस्य ॥
(१२८) पणिः प्रकलविद् वणिजः ॥
(१२९) श्वघ्नी । कितवस्य । अक्षधूर्तस्य ॥
(१३०) [मृण्यः] । सीमिकस्य ॥
(१३१) कुटस्य । कुलिशः ॥
(१३२) अग्निः । जातवेदाः । वैश्वानरः । द्रविणोदाः । वनस्पतिर् इति सूक्तभाञ्जि ॥
(१३३) इध्मः । [विष्णुः ।] तनूनपात् । नराशंसः । देवीर् द्वारः । उषासानक्ता । दैव्या होतारा । तिस्रो देवीः । त्वष्टा । वनस्पतिः । स्वाहाकृतय इति निपातभाञ्जि ॥
(१३४) इन्द्रः । विष्णुः । सोमः । पर्जन्यः । ऋतुः । अग्नायी । पृथिवी । इडा । भृगवः । अथर्वाण इति संस्तविकास् तस्यैकवद् बहुवत् स्त्रीवच् च ॥
(१३५) वहनम् <ca haviṣām āvāhanaṃ ca> देवानां यच् च दाएष्टिविषयिकं तद् अस्य कर्म ॥
(१३६) अयं लोकः । वसन्तः । प्रातःसवनम् । गायत्री त्रिवृद् रथन्तरम् इति तद्भक्तीनि ॥६७ ॥
(१३७) वायुः । वरुणः । इन्द्रः । रुद्रः । पर्जन्यः । बृहस्पतिः । ब्रह्मणस्पतिः । वास्तोष्पतिः । क्षेत्रस्य पतिः । कः । यमः । अपां नपात् । मित्रः । विश्वकर्मा । मन्युः । तार्क्ष्यः । दधिक्राः । सरस्वान् । अग्निः । असुनीतिः । वाजः । कुतः । वातः । ऋतः । मृत्युः । धाता । विधाता । पुरूरवाः । गन्धर्वाः । अनड्वान् । प्राणाः । स्तम्भः । व्रात्य इति सूक्तभाञ्जि ॥
(१३८) प्रजापतिः । चन्द्रमाः । सोमः । इन्दुः । अदितिः । धेनवः । अहिर् बुध्न्य इति निपातभाञ्जि ॥
(१३९) सरस्वती । वाक् । अदितिः । उर्वशी । गौः । धेनुः । सरमा । उषा । इन्द्राणी । पृथिवी । दस्य । गोधुकसा । विराट् । अघ्न्या । सिनीवाली । कुहूः । अनुमतिः । राका । यमी । सरण्यूः । पथ्या । रोदसी । देवपत्न्यः । मरुतः । रुद्राः । ऋभवः । अङ्गिरसः । भृगवः । अथर्वाण इति संस्तविकास् तस्यैकवद् बहुवत् स्त्रीवच् च ॥
(१४०) स्नेहानुप्रदानं वृत्रवधो या चका च बलकृतिस् तद् अस्य कर्म ॥
(१४१) अन्तरिक्षलोकः । ग्रीष्मः । मध्यन्दिनं सवनम् । त्रिष्टुप् पञ्चदशः । बृहद् इति तद्भक्तीनि ॥६८ ॥
(१४२) आदित्यः । सविता । भगः । सूर्यः । पूषा । विष्णुः । केशी । विश्वानरः । वृषाकपिः । कालः । ब्रह्मचारी । रोहित इति सूक्तभाञ्जि ॥
(१४३) दध्यङ् । अथर्वा । यमः । अज एकपात् । मनुः । विवस्वान् । दक्षः । अर्यमा । वैश्वानरः । सुपर्ण इति निपातभाञ्जि ॥
(१४४) उषाः । सूर्या । वृषाकपायी । साध्याः । वसवः । आदित्या । सप्त ऋषयः । वाजिनः । विश्वे देवा इति संस्तविकास् तस्यैकवद् बहुवत् स्त्रीवच् च ॥
(१४५) <rasādānam> रश्मिभिश् च रसाधारणं यच् च
(१४६) अस्य लोकः । वरषास् । तृतीयसवनम् । जगती । सप्तदशः । वैरूपाम् इति तद्भक्तीनि ॥
(१४७) एतेषाम् एव लोकानाम् ऋतुछन्दःस्तोमपृष्ठानाम् आनुपूर्वेण भक्तिशेषो ऽनुकल्पो
(१४८) देवताद्वन्द्वे च पूर्वस्यापरः संस्तविकः ॥ पूर्वस्यापरः संस्तविकः ॥६९ ॥