०१.०१
विश्वास-प्रस्तुतिः
ॐ वर्णान् पूर्वं व्याख्यास्यामः प्राकृता ये च वैकृताः । श्रुतिनिर्वचनात् सर्वे विवदन्ते विवृत्तिषु ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
वृत्तिः करणं वर्णानां कर्णयोस् तु श्रुतिर् यथा । श्रुतिप्रदेशाद् विमतस् तद् यथा वर्ण उच्यते ॥

०१.०३
विश्वास-प्रस्तुतिः
समानसन्ध्यक्षराणि स्पर्शा अन्तःस्था ऊष्माणः । एतैर् अन्ये न दृश्यन्ते एतावान् वर्णसञ्चयः ॥

०१.०४
विश्वास-प्रस्तुतिः
[येषां च श्रुतिसंहितायां विभागे असदृशी स्यात् ॥ तान् एव वर्नान् विरुद्रादये च प्रदिसे कृतः] ॥

०१.०५
विश्वास-प्रस्तुतिः
ये वर्णाभ्यां श्रूयन्ते च येषां नास्ति विभागतः । मानसांश् चापि सङ्ग्राह्यान् उपदेशेन वर्तयेत् ॥

०१.०६
विश्वास-प्रस्तुतिः
क्रान्तान् बहिर् निधानस्य यमांश् चाननुनासिकान् । सव्याक्षेपं ततो वर्णान् उपदेशेन वर्तयेत् ॥

०१.०७
विश्वास-प्रस्तुतिः
इति वर्णाः स्वराः प्रोक्तास् तेषाम् आद्याश् चतुर्दश । समानाक्षराण्य् उच्यन्ते शेषः सन्ध्यक्षराणि तु ॥

०१.०८
विश्वास-प्रस्तुतिः
अनवर्णस्वरो नामि कादयो व्यञ्जनं स्मृतम् । पञ्चविंशतिर् आद्यैषां स्पर्शा वर्गाश् च पञ्चकाः ॥

०१.०९
विश्वास-प्रस्तुतिः
चत्वारो यादयो ऽन्तःस्थाः शादिर् ऊष्माष्टको गणः । अयोगवाहा वर्तन्ते तेषाम् आद्याः पृथग्विधाः ॥

०१.१०
विश्वास-प्रस्तुतिः
विसर्जनीयो ऽनुस्वारो जिग्वामूलीय [इत्य् अधः] । उपध्मानीय इत्य् एते चत्वारो ऽथ परे यमाः ॥

०१.११
विश्वास-प्रस्तुतिः
नासिक्याभिनिधानौ च विद्यते येन पूरणम् । पञ्चषष्टिर् इयान् वाचो राशिर् यो वेदलोकयोः ॥

०१.१२
विश्वास-प्रस्तुतिः
मुखनासिके ये वर्णा उच्यन्ते ते ऽनुनासिकाः । समानास्यप्रयत्ना ये ते सवर्णा इति स्मृताः ॥

०१.१३
विश्वास-प्रस्तुतिः
ह्रस्वो ऽवर्णपरस् तस्य सवर्णस्य च वाचकः । ह्रस्वोत्तरस् तु दीर्घो ऽपि तस्मात् तस्मात् तस्यैव वाचकः ॥

०१.१४
विश्वास-प्रस्तुतिः
वर्गान्तरस् तु वर्गादिर् वर्गस्य ग्राहको मतः । वर्गाणां च यथासङ्ख्यं प्रथमादित्वम् इष्यते ॥

०१.१५
विश्वास-प्रस्तुतिः
अकारेणोच्यते ऽतस् तु कारो यस्मात् परो भवेत् । तस्य तद् ग्रहणं बोध्यं ककारो ऽत्र निदर्शनम् ॥

०१.१६
विश्वास-प्रस्तुतिः
व्यञ्जनं घोषवत्सञ्ज्ञम् अन्तःस्था हः परौ यमौ । त्रयस्त्रयश् च वर्गान्त्या अगोषः शेष उच्यते ॥

०१.१७
विश्वास-प्रस्तुतिः
शषसाश् च यमौ द्वौ च द्वितीयाः प्रथमाश् च ये । अघोषा व्यञ्जनशेषं घोषवद् दृश्यते बुधैः ॥

०१.१८
विश्वास-प्रस्तुतिः
अतः स्थानानि वर्णानां कण्ठो ऽवर्णहकारयोः । वोसर्जनीय ऐ औ च स्वाद्ययोर् मात्रयोः स्मृतः ॥

०१.१९
विश्वास-प्रस्तुतिः
शेषस् ताल्वोष्ठयोर् बोध्यः स यथासङ्ख्यम् इष्यते । द्विस्थानं यमयोश् चापि वर्गान्त्यानां च शिष्यते ॥

०१.२०
विश्वास-प्रस्तुतिः
जिह्वामूलाम् ऋवर्णस्य कवर्गस्य च भाष्यते । यश् चैव जिह्वामूलीय ल्वर्णश् चेति च स्मृतः ॥

०२.०१
विश्वास-प्रस्तुतिः
ताल्व् एयशचवर्गाणाम् इवर्णस्य च भाष्यते । मूर्धा स्थानं षकारस्य टवर्गस्य तथा मतः ॥

०२.०२
विश्वास-प्रस्तुतिः
दन्ता लसतवर्गाणाम् उवर्णस् त्व् ओष्ठ्य उच्यते । उपध्मानीय ओकारो वः पवर्गश् च तथा मताः ॥

०२.०३
विश्वास-प्रस्तुतिः
नासिक्ये नासिका स्थानं तथानुस्वार इष्यते । यमा वर्गोत्तमाश् चापि यथोक्तं चैव ते मताः ॥

०२.०४
विश्वास-प्रस्तुतिः
रेफस्य दन्तमूलानि प्रत्यग् वा तेभ्य इष्यते । इति स्थानानि वर्णानां कीर्तितानि यथाक्रमम् ॥

०२.०५
विश्वास-प्रस्तुतिः
अपर आह । हनुमूले तु रेफः स्याद् दन्तमूलेषु वा पुनः । प्रत्यग् वा दन्तमूलेभ्यो मूर्धन्य इति चापरे ॥

०२.०६
विश्वास-प्रस्तुतिः
उरःस्थो घोषो विसृष्टः कण्ठदेशे निहन्यते । ततो नादो वितिष्ठते तस्य विकृतिर् अक्षरम् ॥

०२.०७
विश्वास-प्रस्तुतिः
पूर्वाभिर् अणुमात्राभिः कण्ठ्यं संसेव्यते ऽक्षरम् । उत्तराभिस् तु मात्राभिर् मुखविकृतिर् उच्यते ॥

०२.०८
विश्वास-प्रस्तुतिः
अपि प्रयोगस्य हेतोः संयोगः सह धार्यते । अव्यवहितो ऽक्षरेण नानावर्णः स्वरोदयः ॥

०२.०९
विश्वास-प्रस्तुतिः
द्वितीयेषु तथोष्मणां तृतीयेषु च घोषाणाम् । चतुर्थेषु घोषोष्मणाम् उपदेशेन वर्तयेत् ॥

०२.१०
विश्वास-प्रस्तुतिः
उत्तमेषु तु नासिक्यम् अन्तःस्थेषु घोषं स्मृतम् । हकारस्य घोषोष्माणाव् उपदेशेन वर्तयेत् ॥

०३.०१
विश्वास-प्रस्तुतिः
ऋकाराक्षरयो रेफम् अणुमात्र सर्व॥। । स्वरितस्य द्वैधीभावे उपदेशेन वर्तयेत् ॥

०३.०२
विश्वास-प्रस्तुतिः
ऋवर्णदेशसन्देहो ऽस्वरः स्यात् स्याद् अनन्तरम् । परो वा यदि वा पूर्वो रेफम् एव तु विद्धि तम् ॥

०३.०३
विश्वास-प्रस्तुतिः
अकारश् च इकारश् च उकार ऋकार एव च । ह्रस्वदीर्घप्लुताः सर्वे ल्वर्णे नास्ति दीर्घता ॥

०३.०४
विश्वास-प्रस्तुतिः
एकारश् च तथाइकार ओकार औकार एव च । दीर्घमात्रप्लुतास् तेषां सञ्ज्जा सन्ध्यक्षराणि च ॥

०३.०५
विश्वास-प्रस्तुतिः
उदात्तश् चानुदात्ताश् च स्वरिताः कम्पिताश् च ये । अनुनासिकास् तथा शुद्धा दृश्यते ह्रस्वता बुधैः ॥

०३.०६
विश्वास-प्रस्तुतिः
वर्णाः पञ्चषष्टिः स्वरा द्वाविंशतिः समानाक्षराणि चतुर्दश अष्टौ सन्ध्यक्षराण्य् एकोनविंशतिर् नामिनस् त्रिचत्वारिंशद् व्यञ्जनानिस्पर्शाः पञ्चविंशतिश् चत्वारस् त्व् अन्तःस्थाः चत्वारो यमाश् चाष्टाव् ऊष्माणो ऽयोगवाहा दशायोगवाहा दश ॥