४६ उत्तमपटलम्

०१.०१

विश्वास-प्रस्तुतिः

अथ वेदव्रतस्यादेशनविधिं व्याख्यास्यामः ॥

मूलम्

०१.०२

विश्वास-प्रस्तुतिः

सांवत्सरिकं वेदव्रतम् ॥

मूलम्

सांवत्सरिकं वेदव्रतम् ॥

०१.०३

विश्वास-प्रस्तुतिः

कल्पानां षाण्मासिकम् ॥

मूलम्

कल्पानां षाण्मासिकम् ॥

०१.०४

विश्वास-प्रस्तुतिः

रोमनखानि धारयेत् त्रिषवणं तु स्नायाद् धविष्यम् अश्नीयान् न तु नक्तम् अणून् माशान् मसूरांस् तु ॥

०१.०५

विश्वास-प्रस्तुतिः

दण्डमथितम् उद्धृतस्नेहं नाशीयात् ॥

मूलम्

दण्डमथितम् उद्धृतस्नेहं नाशीयात् ॥

०१.०६

विश्वास-प्रस्तुतिः

दण्डकमण्डलुधारणं वासश् चाथोर्णम्

मूलम्

दण्डकमण्डलुधारणं वासश् चाथोर्णम्

०१.०७

विश्वास-प्रस्तुतिः

शिरस्व्रतं च सांवत्सरिकं वेदव्रतेनैव व्याख्यातम् ॥

०१.०८

विश्वास-प्रस्तुतिः

अथ प्रमाणानि वक्ष्यामो

मूलम्

अथ प्रमाणानि वक्ष्यामो

०१.०९

विश्वास-प्रस्तुतिः

यमानां मित्रस्य मृगार्थस्याक्षीराक्षारभोजनम् अयुग्मम् आछादनम् अनन्तर्हिता शय्या

०१.१०

विश्वास-प्रस्तुतिः

मृगार्थेष्व् अविशेषेण यमेषु सर्वम् एव शमीधान्यं न भुञ्जीता

०१.११

विश्वास-प्रस्तुतिः

अथोपसमादधाति ॥

मूलम्

अथोपसमादधाति ॥

०२.०१

विश्वास-प्रस्तुतिः

समास् त्वास्मै क्षत्राण्य् एतम् इध्मम् अग्निर् भूम्याम् इति तिसृभिर् ममाग्ने वर्च इति सर्वसूक्तेनायुष्यैर् वर्चस्यैः स्वस्त्ययनैर् अभयैर् अपराजितैः शर्मवर्मभिश् चोपसमादधाति ॥

०२.०२

विश्वास-प्रस्तुतिः

व्रतं निवेद्य व्रातपतीभिः समिधो ऽभ्यादध्याद्

मूलम्

व्रतं निवेद्य व्रातपतीभिः समिधो ऽभ्यादध्याद्

०२.०३

विश्वास-प्रस्तुतिः

आङ्गिरसान् समासान् हुत्वा भार्गवैर् विपर्यस्ताम् आङ्गिरसीम्

०२.०४

विश्वास-प्रस्तुतिः

वेदादिभिर् वेदोत्तमैः वर्गादिभिर् वर्गोत्तमैः पदादिभिः पदोत्तमैः काण्डादिभिः काण्डोत्तमैर् अनुवाकादिभिर् अनुवाकोत्तमैर् महत्काण्डैर् विशेषेण सूक्तादिभिः सूक्तोत्तमैर्

०२.०५

विश्वास-प्रस्तुतिः

अत्रैतान्य् अष्टर्चप्रभृतीनि व्याख्यातानि ॥

मूलम्

अत्रैतान्य् अष्टर्चप्रभृतीनि व्याख्यातानि ॥

०२.०६

विश्वास-प्रस्तुतिः

ब्रह्मज्येष्ठेति एका कामोजज्ञे कामस् तद् इति हुत्वा

०२.०७

विश्वास-प्रस्तुतिः

कल्पव्रते विशेषो वचनकर्मसु ब्राह्मणं श्रावयेत् ॥

०२.०८

विश्वास-प्रस्तुतिः

केशीब्राह्मणं च

मूलम्

केशीब्राह्मणं च

०२.०९

विश्वास-प्रस्तुतिः

येषु व्रतविशेषः स्यान् न तान् मन्त्रान् उदाहरेत् समासवत् स होतव्यः पुराणार्थं विजानता ॥

०३.०१

विश्वास-प्रस्तुतिः

अग्निम् ईले पुरोहितं यज्ञस्य देवम् ऋत्विजम् । होतारं रत्नधातमम् ॥

०३.०२

विश्वास-प्रस्तुतिः

तच् छं योर् आवृणीमहे गातुं यज्ञाय गातुं यज्ञपतये । दैवी स्वस्तिर् अस्तु नः स्वस्तिर् मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजं शं नो अस्तु द्विपदे शं चतुष्पदे ॥

०३.०३

विश्वास-प्रस्तुतिः

इषे त्वोर्जे त्वा वायव स्थोपायव स्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आप्यायध्वम् अघ्न्या इन्द्राय भागम् [ऊर्जस्वतीः पयस्वतीः] प्रजावतीर् अनमीवा अयक्ष्मा मा व स्तेन ईशत माघशंसो रुद्रस्य हेतिः परि वो वृणक्तु ध्रुवा अस्मिन् गोपतौ स्यात बह्वीर् यजमानस्य पशून् पाहि ॥

०३.०४

विश्वास-प्रस्तुतिः

दधिक्राव्णो अकारिषं जिष्णोर् अश्वस्य वाजिनः । सुरभि नो मुखा करत् प्र ण आयुम्षि तारिषत् ॥

०३.०५

विश्वास-प्रस्तुतिः

अग्न आ याहि वीतये गृणानो गव्यदातये । नि होता सत्सि बर्हिषि ॥

०३.०६

विश्वास-प्रस्तुतिः

एष स्य ते धारया सुतो ऽव्यो वारेभिर् यवने मदितव्यम् । क्रीडन् रश्मिर् अपार्थिवः ॥

०४.०१

विश्वास-प्रस्तुतिः

ये त्रिषप्ता वस्योभूयाय ये त्रिषप्ता मर्माणि ते वस्योभूयाय ये त्रिषप्ता ये दिशां मर्माणि ते यां देवा वस्योभूयाय ये त्रिषप्ताः समानां मासाम् आ ते नयत्व् आ अर्जन्यस्य ये दिशां कृत्याकृतं वलगिनम् अक्षितास् ते मर्माणि ते विषम् एवेन्द्रं मित्रं वशां देवा यां देयाः सूर्य एनम् अन्नाद्येन यशसा प्र बुध्यस्वाह्ना प्रत्यग् वस्योभूयाय ॥

०५.०१

विश्वास-प्रस्तुतिः

ये त्रिषप्ताः शं न आपो यथा वातो यदि नो गां हंस्य् अपेन्द्र द्विषतः पुत्रम् अत्तु समानां वृषायमाणः सूर्यम् ऋतं परिपाणम् अस्य् आ हरामिये क्रिमय

०५.०२

विश्वास-प्रस्तुतिः

आ ते नयतु पर्णो ऽसीन्द्रपुत्रे विश्वाहा ते गोसनिं व्य् अस्मै मित्रावरुणाव् आ पर्जान्यस्य स्वप्न स्वप्नाभिकरएन देवानाम् अस्थि महान्तं कोशं यो अन्तरिक्षेणोप श्रेष्ठा अहम् एव वात इवाव बाधे ये दिशाम्

०५.०३

विश्वास-प्रस्तुतिः

अर्धम् अर्धेनैवा महान् अर्वाञ्चम् इन्द्रं शीर्षामयम् उपहत्याम् अश्वस्याश्न इन्द्रस्य वरूथं हिरण्यवर्णा सुभगा अत्रैनान् इन्द्रोद् आयुर् उद् बृहता मनो

०५.०४

विश्वास-प्रस्तुतिः

देवो देवाय सद्यो जातस् तस्तुवन्न् अग्निर् इवैतु शतं च मे यद्य् एकादशो ऽसि नास्य धेनुर् इषुर् इव दिग्धा न वर्षम् अच्युतच्युद् एता देवसेना

०५.०५

विश्वास-प्रस्तुतिः

गन्धारिभ्यः सर्वेषां च क्रिमीणां ततस् ततामहाः प्रजापते श्रेष्ठेनाश्विना ब्रह्मणाग्ने स्वाहा घृताद् उल्लुप्तं तार्ष्टाघीर् अयं लोकः कृत्याक्र्तं वलगिनम् ॥

०६.०१

विश्वास-प्रस्तुतिः

दिवे चक्षुषे अयं नस् त्रिंशद् धाम मा नो हासिषुर् यत् किं चेदम् अहं जजान यावदङ्गीनं यस् ते ऽङ्कुशस् तानूष् टे वाजिन्न् आञ्जनस्य द्वादशधा

०६.०२

विश्वास-प्रस्तुतिः

अभ्यञ्जनम् अक्षितास् ते यावन्तो मा ब्रध्नः समीचीर् यदि वासि बृहस्पतिर् नो यो नः शपात् सूयवसाद् यं देवा यथा शेपो नमस्कृत्य मर्माणि ते अग्नेः शरीरम्

०६.०३

विश्वास-प्रस्तुतिः

प्रति चक्ष्वाप्रजास्त्वम् इतो जय [यत् प्रत्याहन्ति] विषम् एव यास् ते शिवा एतं वो युवानं ज्योतिष्मतो लोकान् सं ते शीर्ष्ण इन्द्रं मित्रं प्रभ्राजमानाम् आरे अभूद्

०६.०४

विश्वास-प्रस्तुतिः

एतम् इध्मम् अकामो धीरो वशां देवा नमस् ते घोषिणीभ्यः प्राण मा मद् यन् मातली अप्सु स्तीमासु यां देवा भूमे मातः प्रत्यञ्चम् अर्कम् ऊर्ध्वायै त्वा यदि हुताम्

०६.०५

विश्वास-प्रस्तुतिः

सूर्य एनं यो यज्ञस्याबोध्य् अग्निः कृष्णायाः पुत्रो अन्नाद्येन यशसा ब्रह्मापरं प्र बुध्यस्वैनं श्रद्धा अह्ना प्रत्यं शक्वरी स्थ वस्योभूयाय ॥

०७.०१

विश्वास-प्रस्तुतिः

व्रतैर् भृग्वङ्गिरःप्रोक्तैर् आनुपूर्व्याद् विधानतः । उपसन्ने गुरुः कुर्याद् व्रतविद् ब्रह्मचारिणि ॥

०७.०२

विश्वास-प्रस्तुतिः

ग्रामाद् यथोक्तं बाह्येन स्थण्डिले ऽग्निं प्रणीय तु । नित्येनोपसमाधाय संस्कृत्य जुहुयाद्द् हविः ॥

०७.०३

विश्वास-प्रस्तुतिः

औपगव्या व्याहृतयः सावित्री शान्तिर् एव च । व्रातपत्यः समासौ च तन्मन्त्रांहोमुचैः सह ॥

०७.०४

विश्वास-प्रस्तुतिः

कूष्माण्ड्यः कामसूक्तं च ब्रह्मवत्यो ऽथ देवताः । व्रतादेशे तथोत्सर्गे होमः क्षीरोदनः स्मृतः ॥

०७.०५

विश्वास-प्रस्तुतिः

उत्सर्गे कामसूक्तं च पूर्वां चाहुतिम् उद्धरेत् । निवेद्य व्रातपत्यो ऽन्ते इदावत्सर एव च ॥

०८.०१

विश्वास-प्रस्तुतिः

आवर्तनान्तं सामान्यं व्याहृत्याद्य् उभयोर् अपि । एतत् सामासिकं प्रोक्तम् आदेशोद्दीक्षणं बुधैः ॥

०८.०२

विश्वास-प्रस्तुतिः

व्रतेषु दक्षिणा धेनुः कल्याणी तरुणी च या । अनड्वान् वा धुरन्धरस् तत्समं वापि काञ्चनम् ॥

०८.०३

विश्वास-प्रस्तुतिः

सावित्र्या अथ वेदस्य कल्पानां तदनन्तरम् । मैलं मैलोत्तरं चैव षष्ठं सम्मितम् उच्यते ॥

०८.०४

विश्वास-प्रस्तुतिः

षड्व्रतं ब्राह्मणं विद्यात् त्रिव्रतं क्षत्रियं विदुः । द्विव्रतस् तु भवेद् वैश्य एतद् आचार्यशासनम् ॥

०८.०५

विश्वास-प्रस्तुतिः

विषासहिं सहमानम् अग्निर् मा गोप्ता ओ चित् सखायम् इत एत उदारुहन् धनुर् हस्ताद् एतद् आ रोह चन्द्रमा अप्स्व् इति ॥

०९.०१

विश्वास-प्रस्तुतिः

ओम् आङ्गिरसानाम् आद्यैः पञ्चानुवाकैः स्वाहा ॥

०९.०२

विश्वास-प्रस्तुतिः

षष्ठाय स्वाहा ॥

मूलम्

षष्ठाय स्वाहा ॥

०९.०३

विश्वास-प्रस्तुतिः

सप्तमाष्टमाभ्यां स्वाहा ॥

मूलम्

सप्तमाष्टमाभ्यां स्वाहा ॥

०९.०४

विश्वास-प्रस्तुतिः

नीलनखेभ्यः स्वाहा ॥

मूलम्

नीलनखेभ्यः स्वाहा ॥

०९.०५

विश्वास-प्रस्तुतिः

हरितेभ्यः स्वाहा ॥

मूलम्

हरितेभ्यः स्वाहा ॥

०९.०६

विश्वास-प्रस्तुतिः

क्षुद्रेभ्यः स्वाहा ॥

मूलम्

क्षुद्रेभ्यः स्वाहा ॥

०९.०७

विश्वास-प्रस्तुतिः

पर्यायिकेभ्यः स्वाहा ॥

मूलम्

पर्यायिकेभ्यः स्वाहा ॥

०९.०८

विश्वास-प्रस्तुतिः

प्रथमेभ्यः शङ्खेभ्यः स्वाहा ॥

मूलम्

प्रथमेभ्यः शङ्खेभ्यः स्वाहा ॥

०९.०९

विश्वास-प्रस्तुतिः

द्वितीयेभ्यः शङ्खेभ्यः स्वाहा ॥

मूलम्

द्वितीयेभ्यः शङ्खेभ्यः स्वाहा ॥

०९.१०

विश्वास-प्रस्तुतिः

तृतीयेभ्यः शङ्खेभ्यः स्वाहा ॥

मूलम्

तृतीयेभ्यः शङ्खेभ्यः स्वाहा ॥

०९.११

विश्वास-प्रस्तुतिः

उपोत्तमेभ्यः स्वाहा ॥

मूलम्

उपोत्तमेभ्यः स्वाहा ॥

०९.१२

विश्वास-प्रस्तुतिः

उत्तमेभ्यः स्वाहा ॥

मूलम्

उत्तमेभ्यः स्वाहा ॥

०९.१३

विश्वास-प्रस्तुतिः

उत्तरेभ्यः स्वाहा ॥

मूलम्

उत्तरेभ्यः स्वाहा ॥

०९.१४

विश्वास-प्रस्तुतिः

ऋषिभ्यः स्वाहा ॥

मूलम्

ऋषिभ्यः स्वाहा ॥

०९.१५

विश्वास-प्रस्तुतिः

शिखिभ्यः स्वाहा ॥

मूलम्

शिखिभ्यः स्वाहा ॥

०९.१६

विश्वास-प्रस्तुतिः

गणेभ्यः स्वाहा ॥

मूलम्

गणेभ्यः स्वाहा ॥

०९.१७

विश्वास-प्रस्तुतिः

महागणेभ्यः स्वाहा ॥

मूलम्

महागणेभ्यः स्वाहा ॥

०९.१८

विश्वास-प्रस्तुतिः

सर्वेभ्यो ऽङ्गिरोभ्यो विदगणेभ्यः स्वाहा ॥

मूलम्

सर्वेभ्यो ऽङ्गिरोभ्यो विदगणेभ्यः स्वाहा ॥

०९.१९

विश्वास-प्रस्तुतिः

पृथक् सहस्राभ्यां स्वाहा ॥

मूलम्

पृथक् सहस्राभ्यां स्वाहा ॥

०९.२०

विश्वास-प्रस्तुतिः

ब्रह्मणे स्वाहा ॥

मूलम्

ब्रह्मणे स्वाहा ॥

०९.२१

विश्वास-प्रस्तुतिः

ब्रह्मज्येष्ठा सम्भृता वीर्याणि ब्रह्माग्रे ज्येष्ठं दिवम् आ ततान । भूतानां ब्रह्मा प्रथमो ऽथ जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥

१०.०१

विश्वास-प्रस्तुतिः

आथर्वणानां चतुरृचेभ्यः स्वाहा ॥

मूलम्

आथर्वणानां चतुरृचेभ्यः स्वाहा ॥

१०.०२

विश्वास-प्रस्तुतिः

पञ्चर्चेभ्यः स्वाहा ॥

मूलम्

पञ्चर्चेभ्यः स्वाहा ॥

१०.०३

विश्वास-प्रस्तुतिः

षडर्चेभ्यः स्वाहा ॥

मूलम्

षडर्चेभ्यः स्वाहा ॥

१०.०४

विश्वास-प्रस्तुतिः

सप्तर्चेभ्यः स्वाहा ॥

मूलम्

सप्तर्चेभ्यः स्वाहा ॥

१०.०५

विश्वास-प्रस्तुतिः

अष्टर्चेभ्यः स्वाहा ॥

मूलम्

अष्टर्चेभ्यः स्वाहा ॥

१०.०६

विश्वास-प्रस्तुतिः

नवर्चेभ्यः स्वाहा ॥

मूलम्

नवर्चेभ्यः स्वाहा ॥

१०.०७

विश्वास-प्रस्तुतिः

दशर्चेभ्यः स्वाहा ॥

मूलम्

दशर्चेभ्यः स्वाहा ॥

१०.०८

विश्वास-प्रस्तुतिः

एकादशर्चेभ्यः स्वाहा ॥

मूलम्

एकादशर्चेभ्यः स्वाहा ॥

१०.०९

विश्वास-प्रस्तुतिः

द्वादशर्चेभ्यः स्वाहा ॥

मूलम्

द्वादशर्चेभ्यः स्वाहा ॥

१०.१०

विश्वास-प्रस्तुतिः

त्रयोदशर्चेभ्यः स्वाहा ॥

मूलम्

त्रयोदशर्चेभ्यः स्वाहा ॥

१०.११

विश्वास-प्रस्तुतिः

चतुर्दशर्चेभ्यः स्वाहा ॥

मूलम्

चतुर्दशर्चेभ्यः स्वाहा ॥

१०.१२

विश्वास-प्रस्तुतिः

पञ्चदशर्चेभ्यः स्वाहा ॥

मूलम्

पञ्चदशर्चेभ्यः स्वाहा ॥

१०.१३

विश्वास-प्रस्तुतिः

षोडशर्चेभ्यः स्वाहा ॥

मूलम्

षोडशर्चेभ्यः स्वाहा ॥

१०.१४

विश्वास-प्रस्तुतिः

सप्तदशर्चेभ्यः स्वाहा ॥

मूलम्

सप्तदशर्चेभ्यः स्वाहा ॥

१०.१५

विश्वास-प्रस्तुतिः

अष्टादशर्चेभ्यः स्वाहा ॥

मूलम्

अष्टादशर्चेभ्यः स्वाहा ॥

१०.१६

विश्वास-प्रस्तुतिः

एकनविंशर्चेभ्यः स्वाहा ॥

मूलम्

एकनविंशर्चेभ्यः स्वाहा ॥

१०.१७

विश्वास-प्रस्तुतिः

विंशतिः स्वाहा ॥

मूलम्

विंशतिः स्वाहा ॥

१०.१८

विश्वास-प्रस्तुतिः

महत्काण्डाय स्वाहा ॥

मूलम्

महत्काण्डाय स्वाहा ॥

१०.१९

विश्वास-प्रस्तुतिः

तृचेभ्यः स्वाहा ॥

मूलम्

तृचेभ्यः स्वाहा ॥

१०.२०

विश्वास-प्रस्तुतिः

एकर्चेभ्यः स्वाहा ॥

मूलम्

एकर्चेभ्यः स्वाहा ॥

१०.२१

विश्वास-प्रस्तुतिः

क्षुद्रेभ्यः स्वाहा ॥

मूलम्

क्षुद्रेभ्यः स्वाहा ॥

१०.२२

विश्वास-प्रस्तुतिः

एकानृचेभ्यः स्वाहा ॥

मूलम्

एकानृचेभ्यः स्वाहा ॥

१०.२३

विश्वास-प्रस्तुतिः

रोहितेभ्यः स्वाहा ॥

मूलम्

रोहितेभ्यः स्वाहा ॥

१०.२४

विश्वास-प्रस्तुतिः

सूर्याभ्यां स्वाहा ॥

मूलम्

सूर्याभ्यां स्वाहा ॥

१०.२५

विश्वास-प्रस्तुतिः

व्रात्याभ्यां स्वाहा ॥

मूलम्

व्रात्याभ्यां स्वाहा ॥

१०.२६

विश्वास-प्रस्तुतिः

प्राजापत्याभ्यां स्वाहा ॥

मूलम्

प्राजापत्याभ्यां स्वाहा ॥

१०.२७

विश्वास-प्रस्तुतिः

विषासह्यै स्वाहा ॥

मूलम्

विषासह्यै स्वाहा ॥

१०.२८

विश्वास-प्रस्तुतिः

मङ्गलिकेभ्यः स्वाहा ॥

मूलम्

मङ्गलिकेभ्यः स्वाहा ॥

१०.२९

विश्वास-प्रस्तुतिः

ब्रह्मणे स्वाहा ॥

मूलम्

ब्रह्मणे स्वाहा ॥

१०.३०

विश्वास-प्रस्तुतिः

ब्रह्मज्येष्ठा सम्भृता वीर्याणि ब्रह्माग्रे ज्येष्ठं दिवम् आ ततान । भूतानां ब्रह्मा प्रथमो ऽथ जज्ञे तेनार्हति ब्रह्मना स्पर्धितुं क इति ॥