०१.०१
विश्वास-प्रस्तुतिः
ओम् अग्निहोत्रम् ॥
मूलम्
ओम् अग्निहोत्रम् ॥
०१.०२
विश्वास-प्रस्तुतिः
सायम् आरम्भः प्रातर् अपवर्गः ॥
मूलम्
सायम् आरम्भः प्रातर् अपवर्गः ॥
०१.०३
विश्वास-प्रस्तुतिः
नान्तरेणान्यत् कुर्यात् ॥
मूलम्
नान्तरेणान्यत् कुर्यात् ॥
०१.०४
विश्वास-प्रस्तुतिः
प्रातर् आरम्भमित्य् एके ॥
मूलम्
प्रातर् आरम्भमित्य् एके ॥
०१.०५
विश्वास-प्रस्तुतिः
यज्ञपात्राणि प्रक्षाल्याग्निहोत्रं श्रपयेत् ॥

०१.०६
विश्वास-प्रस्तुतिः
श्रप्यमाणं चेद् विष्यन्देत् तद् अद्भिर् उपनिनयेत्

०१.०७
विश्वास-प्रस्तुतिः
तद् अनुमन्त्रयते पृथिवीं तुरीयम् इत्य् एताभिः

०१.०८
विश्वास-प्रस्तुतिः
प्रत्यानीयोदग् उद्वास्य बर्हिर् उदपात्रम् उन्दयति पर्युक्ष्य ॥

०१.०९
विश्वास-प्रस्तुतिः
ऋतं त्वा सत्येन परिषिञ्चामीति होष्यन् ॥
मूलम्
ऋतं त्वा सत्येन परिषिञ्चामीति होष्यन् ॥
०१.१०
विश्वास-प्रस्तुतिः
सत्यं त्व र्तेनेति हुते ॥
मूलम्
सत्यं त्व र्तेनेति हुते ॥
०१.११
विश्वास-प्रस्तुतिः
गार्हपत्याद् आहवनीयम् उदकधारां निनयति ॥ अमृतम् अस्य् अमृतम् अमृतेन सन्धेहीति ॥

०१.१२
विश्वास-प्रस्तुतिः
आहवनीयं पर्युक्ष्य गार्हपत्यं प्राप्याङ्गारान् अवलोड्य चरुस्थाल्या संस्पर्शयति ॥

०१.१३
विश्वास-प्रस्तुतिः
निरूढं जपत्य् उभयम् इति प्रत्यूढम् इति प्रतिनिनयति

०१.१४
विश्वास-प्रस्तुतिः
स्रुवं स्रुचं च प्रतितपति निष्टप्तं रक्षो निष्टप्ता अरातयः प्रत्युष्टं रक्षः प्रत्युष्टा अरातय इत्य्

०१.१५
विश्वास-प्रस्तुतिः
अद्भिर् अभ्युक्ष्य चरुस्थाल्यां स्रुवेण स्रुचि गृहीतम् इति समानम्

०१.१६
विश्वास-प्रस्तुतिः
स्रुचम् आदाय <mukhasaṃmitām ud> गृह्याहवनीयम् अभिक्रामतीदम् अहं यजमानं स्वर्गं लोकम् उन्नयामीति ॥

०१.१७
विश्वास-प्रस्तुतिः
बर्हिषि स्रुचं निधाय समिधम् आदधाति ॥
मूलम्
बर्हिषि स्रुचं निधाय समिधम् आदधाति ॥
०१.१८
विश्वास-प्रस्तुतिः
अग्निज्योतिषं त्वा वायुमतीं प्राणवतीं स्वर्ग्यां स्वर्गायोपदधामि भास्वतीं स्वाहेति <sāyam || sūryajyotiṣam iti prātaḥ> ॥

०१.१९
विश्वास-प्रस्तुतिः
समिधं प्रदीप्ताम् अभिजुहोति ॥
मूलम्
समिधं प्रदीप्ताम् अभिजुहोति ॥
०१.२०
विश्वास-प्रस्तुतिः
सजूर् देवेन सवित्रा सजू रात्र्येन्द्रवत्या जुषाणो अग्निर् वेतु स्वाहेति सायम् ॥

०१.२१
विश्वास-प्रस्तुतिः
सजूर् देवेन सवित्रा सजूर् उषसेन्द्रवत्या जुषाणः सूर्यो वेतु स्वाहेति प्रातर्

०१.२२
विश्वास-प्रस्तुतिः
आहुतिर् उदयहोमे ऽग्नेर् एव
मूलम्
आहुतिर् उदयहोमे ऽग्नेर् एव
०१.२३
विश्वास-प्रस्तुतिः
ज्योतिष्मान् उदेत्य् आयन्तनताम् इति ॥
मूलम्
ज्योतिष्मान् उदेत्य् आयन्तनताम् इति ॥
०१.२४
विश्वास-प्रस्तुतिः
प्रजापते न त्वद् एतान्य् अन्य इति मनसैवोभयत्र प्राजापत्योत्तराभुतीर् हुत्वा

०१.२५
विश्वास-प्रस्तुतिः
स्रुवं त्रिर् उदञ्चम् उन्नयति रुद्रान् प्रीणामीति

०१.२६
विश्वास-प्रस्तुतिः
बर्हिषि स्रुवं निधायोन्मृज्य
मूलम्
बर्हिषि स्रुवं निधायोन्मृज्य
०१.२७
विश्वास-प्रस्तुतिः
पित्र्युपवीतं कृत्वा दक्षिणतः पितृभ्यः स्वधां करोमीति ॥

०२.०१
विश्वास-प्रस्तुतिः
हुतम् अग्निहोत्रं सर्वेष्व् इत्य् एके ॥
मूलम्
हुतम् अग्निहोत्रं सर्वेष्व् इत्य् एके ॥
०२.०२
विश्वास-प्रस्तुतिः
चरुस्थाल्याः स्रुवेण ॥
मूलम्
चरुस्थाल्याः स्रुवेण ॥
०२.०३
विश्वास-प्रस्तुतिः
इह पुष्टिं पुष्टिपतिर् दधात्व् इह प्रजां जनयतु प्रजापतिः । अग्नये गृहपतये रयिमते पशुपतये पुष्टिपतये स्वाहेति गार्हपत्ये ॥

०२.०४
विश्वास-प्रस्तुतिः
अग्नये ऽन्नादायान्नपतये स्वाहेति दक्षिणाग्नौ हुत्वा ॥

०२.०५
विश्वास-प्रस्तुतिः
मनसैवोभयत्र प्रजापतेश् चरुस्थाली
मूलम्
मनसैवोभयत्र प्रजापतेश् चरुस्थाली
०२.०६
विश्वास-प्रस्तुतिः
स्रुचं स्रुवं बर्हिष्य् आधायोत्तरतो ऽग्नेर् उपविश्य प्राश्नाति ॥

०२.०७
विश्वास-प्रस्तुतिः
प्राणान् प्रीणामीत्य् उपस्पृश्य गर्भान् प्रीणामीति द्वितीयं विश्वान् देवान् प्रीणामीत्य् अन्ततः सर्वम्

०२.०८
विश्वास-प्रस्तुतिः
अप्रक्षालितयोदकं स्रुचा निनयति सर्पेतरजनान् प्रीणामीति

०२.०९
विश्वास-प्रस्तुतिः
बर्हिषा प्रक्षाल्य सर्पपुण्यजनान् प्रीणामीति द्वितीयम् ॥

०२.१०
विश्वास-प्रस्तुतिः
गन्धर्वाप्सरसः प्रीणामीति अपरेणाहवनीयम् उदकं तृतीयम् ॥

०२.११
विश्वास-प्रस्तुतिः
सप्त र्षीन् प्रीणामीति स्रुचं स्रुवं च प्रतितपति

०२.१२
विश्वास-प्रस्तुतिः
दक्षिणान् नयामीति रात्रौ स्रुग्दण्डम् अवमार्ष्टि ॥

०२.१३
विश्वास-प्रस्तुतिः
प्रातर् उन्मार्ष्टि ॥
मूलम्
प्रातर् उन्मार्ष्टि ॥
०२.१४
विश्वास-प्रस्तुतिः
इत्य् उक्तं समिदाधानम्
मूलम्
इत्य् उक्तं समिदाधानम्
०२.१५
विश्वास-प्रस्तुतिः
अग्न्युपस्थानम् ॥ रात्रिं रात्रिम् अप्रयातं भरन्त इति ॥

०२.१६
विश्वास-प्रस्तुतिः
यथाकालं सायम्सायं गृहपतिर् अयं नो अग्निर् इति द्वे

०२.१७
विश्वास-प्रस्तुतिः
गार्हपत्यपश्चाद् दुग्धान्नस्याग्निहोत्रश्रपणी विधीयते ॥

०२.१८
विश्वास-प्रस्तुतिः
यज्ञ ते वेद पृष्ठम् इत्य् एतयालभ्याभिमन्त्रयते ॥

०२.१९
विश्वास-प्रस्तुतिः
उखायं स्रवन्त्यां स मर्दकर्मभ्यो ऽन्यस्यां दृढतरायां प्रत्यासिच्य सुता देवेष्व् इत्य् अनुमन्त्रयते ॥

०२.२०
विश्वास-प्रस्तुतिः
एवं सर्वासूखासु सोमकलशमहावीरे वा
मूलम्
एवं सर्वासूखासु सोमकलशमहावीरे वा
०२.२१
विश्वास-प्रस्तुतिः
अथ यस्याग्निहोत्रधेन्वादि व्यापद्येत । तत्र यथादेवतं जुहुयाद् अप्रतिभावे व्याहृतिभिः ॥