०१.०१
विश्वास-प्रस्तुतिः
ओम् अथातः श्राद्धविधिं व्याख्यास्यामः ॥
मूलम्
ओम् अथातः श्राद्धविधिं व्याख्यास्यामः ॥
०१.०२
विश्वास-प्रस्तुतिः
चतुष्प्रकारं श्राद्धं भवति ॥
मूलम्
चतुष्प्रकारं श्राद्धं भवति ॥
०१.०३
विश्वास-प्रस्तुतिः
नित्यम् आभ्युदयिकं काम्यम् एकोद्दिष्टं चेति ॥

०१.०४
विश्वास-प्रस्तुतिः
तत्र नित्यम् अमावास्यायाम् ॥
मूलम्
तत्र नित्यम् अमावास्यायाम् ॥
०१.०५
विश्वास-प्रस्तुतिः
आभ्युदयिकं मातृपूर्वकं पुंसवनादिषु संस्कारेषु ॥

०१.०६
विश्वास-प्रस्तुतिः
काम्यं तिथिद्रव्यब्राह्मणसंयोगे ॥
मूलम्
काम्यं तिथिद्रव्यब्राह्मणसंयोगे ॥
०१.०७
विश्वास-प्रस्तुतिः
एकोद्दिष्टं सञ्चयनप्रभृत्य् आ सपिण्डीकरणात् ॥

०१.०८
विश्वास-प्रस्तुतिः
तत्र नित्ये युग्मान् दैवे ब्राह्मणान् उपामन्त्रयेत् ॥

०१.०९
विश्वास-प्रस्तुतिः
आभ्युदयिके उभयत्र युग्मान् ॥
मूलम्
आभ्युदयिके उभयत्र युग्मान् ॥
०१.१०
विश्वास-प्रस्तुतिः
यवैस् तिलार्था ऋजवो दर्भाः प्रदक्षिणं कुर्यात् ॥

०१.११
विश्वास-प्रस्तुतिः
काम्यं तु नित्यवत् ॥
मूलम्
काम्यं तु नित्यवत् ॥
०१.१२
विश्वास-प्रस्तुतिः
अथैकोद्दिष्टं तूष्णीं यावद् उक्तम् ॥
मूलम्
अथैकोद्दिष्टं तूष्णीं यावद् उक्तम् ॥
०१.१३
विश्वास-प्रस्तुतिः
नाग्नेवं न दैवम् अयुग्मान्ब्राह्मणान् ॥
मूलम्
नाग्नेवं न दैवम् अयुग्मान्ब्राह्मणान् ॥
०१.१४
विश्वास-प्रस्तुतिः
दक्षिणामुख उपविश्य पित्र्येणोपचर्यैकं पवित्रम् एकम् उदपात्रम् अप्रत्यावृत्तिम् आसनं नामगोत्रेणैकं पिण्डम् एतत् ते अन्नम् इति ॥

०२.०१
विश्वास-प्रस्तुतिः
श्वे ऽद्येति वा श्राद्धं करिष्यामीति ब्राह्मणान् उपामन्त्रयेत् ॥

०२.०२
विश्वास-प्रस्तुतिः
त्रीन् पञ्च सप्त वा न प्रसज्येत विस्तर इति वचनात् ॥

०२.०३
विश्वास-प्रस्तुतिः
प्राङ्मुखान् विश्वेदेवान् उदङ्मुखान् पितॄन् ॥

०२.०४
विश्वास-प्रस्तुतिः
वेदवेदाङ्गविदः पञ्चाग्निर् अनूचानो ऽव्यवहारी श्रोत्रियस् त्रिणाचिकेतस् त्रिमधुस् त्रिसुपर्णी छन्दोगो ज्येष्ठसामगो ऽथर्वशिरसो ऽध्येता सन्ध्यास्नायी देवपितृसदाह्निको मातृपितृशुश्रूषुर् भृग्वङ्गिरोविद् धर्मशास्त्रविद् इति ॥

०२.०५
विश्वास-प्रस्तुतिः
प्रयतो ऽपराह्णे शुचिः शुक्लवासाः ॥
मूलम्
प्रयतो ऽपराह्णे शुचिः शुक्लवासाः ॥
०२.०६
विश्वास-प्रस्तुतिः
स्वागतेनाभ्यर्च्याचमनीयं कृत्वा दत्त्वा ब्राह्मणान् उपसङ्गृह्योपवेशयेद्

०२.०७
विश्वास-प्रस्तुतिः
दैवे पित्र्ये च सदर्भेष्व् आसनेषु
मूलम्
दैवे पित्र्ये च सदर्भेष्व् आसनेषु
०२.०८
विश्वास-प्रस्तुतिः
ततो ऽनुज्ञापयेद् देवान् पितॄंश् चावाहयिष्यामीति

०२.०९
विश्वास-प्रस्तुतिः
आवाहय सौम्यास् ते सन्त्व् इत्य् अनुज्ञातः पूर्वं देवान् आवाहयेद् विश्वे देवास आ गतेति ॥

०२.१०
विश्वास-प्रस्तुतिः
विश्वे देवास आ गत शृणुता म इमं हवम् । एदं बर्हिर् नि षीदत इति ॥

०२.११
विश्वास-प्रस्तुतिः
आ यातेति पितॄन् आवाहयेद् आच्या जान्व् इत्य् उपवेशयेत् सं विशन्त्व् इति संवेशयेद् इति ॥

०३.०१
विश्वास-प्रस्तुतिः
यज्ञोपवीती सावित्र्योदपात्रम् अभिमन्त्र्य
मूलम्
यज्ञोपवीती सावित्र्योदपात्रम् अभिमन्त्र्य
०३.०२
विश्वास-प्रस्तुतिः
विश्वेभ्यो देवेभ्यः पादयम् अर्घ्यम् आचमनीयम् इति ब्राह्मणहस्तेषु निनयेत् ॥

०३.०३
विश्वास-प्रस्तुतिः
त्रीण्य् उदपात्राणि कल्पयेद् गन्धमाल्यतिलैर् मिश्राणि कृत्वाऽ

०३.०४
विश्वास-प्रस्तुतिः
ऽउद् ईरताम् इति तिसृभिर् उदपात्राण्य् अन्वृचं सपवित्रेषु ब्राह्मणहस्तेषु निनयेत् ॥

०३.०५
विश्वास-प्रस्तुतिः
प्रपितामहेभ्यः पितामहेभ्यः पितृभ्यश् चेति दत्त्वा

०३.०६
विश्वास-प्रस्तुतिः
गन्धमाल्यधूपाञ्जनादर्शप्रदीपस्योपहरनम्
मूलम्
गन्धमाल्यधूपाञ्जनादर्शप्रदीपस्योपहरनम्
०३.०७
विश्वास-प्रस्तुतिः
सर्वान्नप्रकारम् आदायाग्नौ करिष्यामीत्य् अनुज्ञाप्य कुरुष्वेत्य् अनुज्ञातो दर्भैर् दक्षिणाग्रैर् अग्निं परिस्तीर्य जुहुयाद् अग्नये कव्यवाहनायेति तिसृभिर्

०३.०८
विश्वास-प्रस्तुतिः
हुतशेषं ब्राह्मणेभ्यो दद्याद्
मूलम्
हुतशेषं ब्राह्मणेभ्यो दद्याद्
०३.०९
विश्वास-प्रस्तुतिः
अङ्गुष्ठम् उपयम्य प्रदक्षिणं दैवे प्रसव्यं पित्र्य इदं विष्णुर् इति जपेज् जानुं निषद्य भूमाव्

०३.१०
विश्वास-प्रस्तुतिः
अतस् तिलैर् मांसैः शाकैर् युषैः कृसरापायसापूपैर् लाजैर् भक्षैर् इक्षुविकारैः पानैर् मधुना घृतेन दध्ना पयसा चैव प्रभूतमृष्टतो ऽन्नं दद्याद् अनसूयः ॥

०४.०१
विश्वास-प्रस्तुतिः
पवित्रपाणिर् धर्भेष्व् आसीनो मधु वाता इति जपेत्

०४.०२
विश्वास-प्रस्तुतिः
पवित्रं धर्मशास्त्रम् अप्रतिरथं प्राणसूक्तं पुरुषसूक्तम् उपनिषदम् अन्यद् वाध्यात्मिकं किं चित्

०४.०३
विश्वास-प्रस्तुतिः
तृप्ताञ् ज्ञात्वान्नं प्रकीर्य दत्त्वा चापः सकृत्सकृद् अन्नं ये ऽग्निदग्धा इति विकिरम् ॥

०४.०४
विश्वास-प्रस्तुतिः
दर्भिर् आस्तीर्य द्युऔर् दर्विर् अक्षितेति तिसृभिः सर्वान्नप्रकारम् उद्धृत्याज्येन सन्नीय त्रीन् पिण्डान् संहतान् निदधात्य्

०४.०५
विश्वास-प्रस्तुतिः
एतत् ते प्रततामहेति दक्षिणतः पत्नीभ्य इदं वः पत्न्या इतीदम् आशंसूनाम् इदम् आशंसमानानाम् इत्य् अन्नेन प्रसव्यं परिकिरनम् ॥ ये दस्यव इत्य् उल्मुकेनाभिपरिहरणम्

०४.०६
विश्वास-प्रस्तुतिः
एकोद्दिष्टे त्व् एकं पिण्डम् एकम् उदपात्रम् आचम्योपोत्थाय एतं भागम् एतं सधस्थाः श्येनो नृचक्षा इति च श्राद्धं दत्त्वाभिमन्त्रयेच् छेषम्

०४.०७
विश्वास-प्रस्तुतिः
अनुज्ञाप्याचमनीयं दत्त्वा पुण्याहं वाचयेद् दक्षिणां च दत्त्वा यथाशक्त्य् उदपात्रशेषं सपवित्रेषु ब्राह्मणहस्तेषु निनयेत्

०४.०८
विश्वास-प्रस्तुतिः
पुत्रं पौत्रम् इत्य् एकम् आपो अग्निम् इति द्वितीयं युक्ताभ्यां तृतीयं पुत्रं पौत्रम् इत्य् एकयोदपात्रम् इति कौशिकः ॥

०४.०९
विश्वास-प्रस्तुतिः
प्रपितामहेभ्यः पितामहेभ्यः पितृभ्यो मातुलमातामहेभ्यो निर्दिष्टं तेभ्यः सर्वेभ्यः सपत्नीकेभ्यः स्वधावद् अक्षय्यम् अस्त्व् अक्षय्यम् अस्त्व् इति व्राह्मणवचनम् ॥

०४.१०
विश्वास-प्रस्तुतिः
दातारो नो ऽभिवर्धन्तां वेदाः सन्ततिर् एव च । श्रद्धा च नो मा व्यगमद् बहुदेयं च नो ऽस्त्व् इत्य्

०४.११
विश्वास-प्रस्तुतिः
एवं वरान् वाचयित्वा नमो वः पितर इत्य् एवमादि मनो न्व् आ ह्वामहीत्य् एवमन्तं समानं पिण्डपितृयज्ञेन मध्यमपिण्डप्रदानं चेति ॥

०४.१२
विश्वास-प्रस्तुतिः
वाजेवाजे ऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः ॥

०४.१३
विश्वास-प्रस्तुतिः
इति ब्राह्मणान् हस्तेषु गृहीत्वोत्थाप्य प्रदक्षिणं कुर्याद्

०४.१४
विश्वास-प्रस्तुतिः
एष श्राद्धविधिर् अनेन विधिना पुत्रान् पशून् धान्यं हिरण्यम् आयुश् च लभते य एवं वेदेति च ब्राह्मणम् ॥

०४.१५
विश्वास-प्रस्तुतिः
माहकिः कौशिकाच् च माहकिः कौशिकाच् चेति ॥