०१.०१
विश्वास-प्रस्तुतिः
अथ स्नानविधिं पुण्यं वक्ष्यमाणं निबोधत । येन स्नाता दिवं लोकं प्राप्नुवन्ति द्विजोत्तमाः ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
सरित्सु वा तडागे वा देवखाते ह्रदे ऽपि वा । गर्तप्रस्रवणे वापि पुण्यं स्नानं समाचरेत् ॥

०१.०३
विश्वास-प्रस्तुतिः
पारक्ये तु ताडागे हि स्नानं नैव विधीयते । तडागकर्तुर् दुष्कृतैर् लिप्यते स्नानम् आचारन् ॥

०१.०४
विश्वास-प्रस्तुतिः
सरितां सरसां चैव अप्राप्तौ निर्झरस्य च । उद्धृत्य चतुरः पिण्डान् स्नायात् तु परखातके ॥

०१.०५
विश्वास-प्रस्तुतिः
अन्वीक्ष्यमाणः पार्श्वानि कुशहस्तः समाहितः । द्विजो मध्यन्दिनाद् अर्वाग् अरोगी स्नानम् आचरेत् ॥

०१.०६
विश्वास-प्रस्तुतिः
यत् ते भूम इति मृदं सङ्गृह्य र्चा समाहितः । यस् ते गन्ध इति त्रिभिर् मृधिर् आत्मानम् आलभेत् ॥

०१.०७
विश्वास-प्रस्तुतिः
अघद्विष्टेति सूक्तेन दूर्वां शिरसि विन्यसेत् । अग्रमग्रम् इत्य् एतया गोमयेनानुलेपयेत् ॥

०१.०८
विश्वास-प्रस्तुतिः
अग्रमग्रं चरन्तीनाम् ओषधीनां वनेवने । यन् मे रोगं च शोकं च तन् मे त्वं नुद गोमय ॥

०१.०९
विश्वास-प्रस्तुतिः
प्रणवाद्या व्याहृतीस् तु गायत्रीं च शिरोयुताम् । पठेत् त्रिर् अनवानं हि प्राणायामः स उच्यते ॥

०१.१०
विश्वास-प्रस्तुतिः
अम्बयो यन्तीत्य् आदीनि त्रीणि सूक्तानि हि क्रमात् । हिरण्यवर्णा यद् अदो वायोः पूतः पुनन्तु मा ॥

०२.०१
विश्वास-प्रस्तुतिः
वैश्वानरो रश्मिभिश् च तथाप्सु त इति स्मृतम् । एतैः सम्प्लावयेत् सूक्तैस् ततो ऽघमर्षणम् ॥

०२.०२
विश्वास-प्रस्तुतिः
अपो दिव्याश् च सं माग्ने इदम् आपः शिवेन मा । यद् आपो नक्तम् इति च एतत् स्याद् अघमर्षणम् ॥

०२.०३
विश्वास-प्रस्तुतिः
यद् आपो नक्तं मिथुनं चकार यद् वा दुद्रोह दुरितं पुराणम् । हिरण्यवर्णास् तत उत् पुनन्तु प्र मा मुञ्चन्तु वरुणस्य पाशात् ॥

०२.०४
विश्वास-प्रस्तुतिः
सरस्वतीं गयां गङ्गां नैमिषं पुष्कराणि च । स्मृत्वा तीर्थानिपुण्यात्नि अवगाहेज् जलं ततः ॥

०२.०५
विश्वास-प्रस्तुतिः
गच्छतः स्नानकार्याय पितरः सह दैवतैः । पृष्ठतः त्व् अनुगच्छन्ति तत्समीपं जलार्थिनः ॥

०२.०६
विश्वास-प्रस्तुतिः
आशां त्यक्त्वा निवर्तन्ते वस्त्रनिष्पीडनेन तु । तस्मान् न पीडयेद् वस्त्रम् अकृत्वा पितृतर्पणम् ॥

०२.०७
विश्वास-प्रस्तुतिः
उत्साहं वरुणः स्नाने अग्निर् होतुः श्रियं हरेत् । आयुष्यं भुञ्जतो मृत्युस् त्रिषु मौनम् अतश् चरेत् ॥

(२।८च्द्) स्नानवस्त्रे मृदस् तिस्रः प्रदद्याच् छुद्धिहेतुना । ८अब् । स्नात्वा पर्युक्ष्य वासो ऽन्यच् छोध्ये जङ्घे मृदा पुनः ॥
०२.०९
विश्वास-प्रस्तुतिः
वस्त्रनिष्पीडतोयेन अपवित्रीकृते हि ते । उत्तिर्य वस्त्रं निष्पीड्य जपेद् आध्यात्मिकानि तु ॥

०२.१०
विश्वास-प्रस्तुतिः
अध्यात्मम् अस्यवामीयं कौत्सं कौष्माण्डिकं तथा । जप्त्वाथर्वशिरश् चैव भवाशर्वीयम् एव च ॥

०२.११
विश्वास-प्रस्तुतिः
प्राणाश् च भगवान् कालः पुरुषो मन्युर् एव च । उच्छिष्टो रोहितो व्रात्य एतान्य् आध्यात्मिकानि तु ॥

०२.१२
विश्वास-प्रस्तुतिः
संवत्सरेण यत् पापं कृतं घोरम् अविस्तरम् । जप्त्वैतानि ततः पापान् मुच्यते नात्र संशयः ॥

०२.१३
विश्वास-प्रस्तुतिः
विषासहिं मनसा हि जप्त्वा गायत्रीं च तथा त्रिदिवं प्रायाति । परिभ्रष्टस् त्रिदिवात् तपःक्षये जातिस्मरत्वं पुनर् एव विन्दते ॥