४१ सन्ध्योपासनविधिः

०१.०१

विश्वास-प्रस्तुतिः

ओम् अथातः सन्ध्योपासनविधिं व्याख्यास्यामः ॥

मूलम्

०१.०२

विश्वास-प्रस्तुतिः

प्राङ् वोदङ् वा ग्रामान् निष्क्रम्य शुचिः शुचौ देशे गुप्ततीर्थायतनेषु वा

०१.०३

विश्वास-प्रस्तुतिः

सुप्रक्षालितपाणिपादवदनः प्राग् वीरासनेनोपविश्य जीवा स्थेत्य् आचम्यापो हि ष्ठेत्य् अभ्युक्ष्य प्राणायामान् कृत्वाचम्योत्तिष्ठन् दक्षिणहस्तस्था आपो अयोजाला इत्य् अप उत्सृजेद् बहुधा ॥

०१.०४

विश्वास-प्रस्तुतिः

हरिः सुपर्ण इति प्रातर्

मूलम्

हरिः सुपर्ण इति प्रातर्

०१.०५

विश्वास-प्रस्तुतिः

उद् उ त्यं चित्रं देवानाम् इति मध्यन्दिने

मूलम्

उद् उ त्यं चित्रं देवानाम् इति मध्यन्दिने

०१.०६

विश्वास-प्रस्तुतिः

अथ सौरमन्त्रान् यथाकामं जपेद्

मूलम्

अथ सौरमन्त्रान् यथाकामं जपेद्

०१.०७

विश्वास-प्रस्तुतिः

उद् वयं तमसस् परीति च

मूलम्

उद् वयं तमसस् परीति च

०१.०८

विश्वास-प्रस्तुतिः

उद् घेद् अभि श्रुतामघम् इत्य् अस्तमित आसीनः

मूलम्

उद् घेद् अभि श्रुतामघम् इत्य् अस्तमित आसीनः

०१.०९

विश्वास-प्रस्तुतिः

सावित्र्यन्ते वाञ्जलयो जपश् च ॥

मूलम्

सावित्र्यन्ते वाञ्जलयो जपश् च ॥

०२.०१

विश्वास-प्रस्तुतिः

अथोर्ध्वजानुर् आसीन इति वीरासनी

मूलम्

अथोर्ध्वजानुर् आसीन इति वीरासनी

०२.०२

विश्वास-प्रस्तुतिः

प्रत्युत्थायाभयं पश्चाद् अभयं पुरस्ताद् इत्य् उपतिष्ठते

०२.०३

विश्वास-प्रस्तुतिः

तिष्ठन् प्रातः प्राङ्मुख

मूलम्

तिष्ठन् प्रातः प्राङ्मुख

०२.०४

विश्वास-प्रस्तुतिः

आयातु वरदेत्य् आवाह्य

मूलम्

आयातु वरदेत्य् आवाह्य

०२.०५

विश्वास-प्रस्तुतिः

गायत्रं छन्दः सविता देवता विश्वामित्र ऋषिर्

मूलम्

गायत्रं छन्दः सविता देवता विश्वामित्र ऋषिर्

०२.०६

विश्वास-प्रस्तुतिः

यथाक्षरं दैवतं रूपं च मनसि समाधाय महाव्याहृतिभिः सन्धाय गायत्रीं जपेत् ॥

०२.०७

विश्वास-प्रस्तुतिः

अष्टकृत्व एकादशकृत्वो द्वादशकृत्वः पञ्चदशकृत्वः शतकृत्वः सहस्रकृत्व इति ॥

०२.०८

विश्वास-प्रस्तुतिः

अष्टकृत्वः प्रयुक्ता गायत्री गायत्रेण छन्दसा सम्मिता भूलोकम् अभिजयति ॥

०२.०९

विश्वास-प्रस्तुतिः

एकादशकृत्वः प्रयुक्ता त्रैष्टुभेन छन्दसा सम्मितान्तरिक्षलोकम् अभिजयति ॥

०२.१०

विश्वास-प्रस्तुतिः

द्वादशकृत्वः प्रयुक्ता जागतेन छन्दसा सम्मिता दिवं लोकम् अभिजयति ॥

०२.११

विश्वास-प्रस्तुतिः

पञ्चदशकृत्वः प्रयुक्ता पञ्चदशेन वज्रेण सम्मिता ब्रह्मलोकम् अभिजयति ॥

०२.१२

विश्वास-प्रस्तुतिः

शतकृत्वः प्रयुक्ता शतपर्वणा वज्रेण सम्मिता सर्वाण्ल् लोकान् अभिजयति ॥

०२.१३

विश्वास-प्रस्तुतिः

सहस्रकृत्वः प्रयुक्ताग्निष्टोमाप्तोर्यामादीनां क्रतूनां फलम् अवाप्नोति ॥

०३.०१

विश्वास-प्रस्तुतिः

अतो यथाकामं जपित्वा पश्येम शरदः शतम् इन्द्र जीवेत्य् आशिषः प्रार्थयते ॥

०३.०२

विश्वास-प्रस्तुतिः

स्तुता मया वरदेति विसृज्योदीराणा उत सूर्यस्यावृतम् असपत्नं पुरस्ताद् यस्मात् कोशाद् इति यथार्थम् उपतिष्ठते ॥

०३.०३

विश्वास-प्रस्तुतिः

य इमां न विन्दन्ति नाधीयते सन्ध्याकाले नोपासते ते ह्य् अश्रोत्रिया भवन्त्य् अनुपनीताः क्रियाहीनाश् छेदनभेदनभोजनमैथुनान्य् अभिचरन्तः ॥

०३.०४

विश्वास-प्रस्तुतिः

सन्ध्याकाले ह्य् अजपन्तः श्वसूकरसृगालकुक्कुटसर्पयोनिषु वर्षसहस्राणि जायन्ते ॥

०३.०५

विश्वास-प्रस्तुतिः

समास् तस्यैवोपजायन्ते ॥

मूलम्

समास् तस्यैवोपजायन्ते ॥

०३.०६

विश्वास-प्रस्तुतिः

तस्माद् यथोक्तां सायं प्रातः सन्ध्याम् उपासीत ॥

०३.०७

विश्वास-प्रस्तुतिः

अरण्यचरितो गुप्तः शुक्लब्राह्मणकर्मसु । प्रायेण लभते लोकान् यथोक्तांस् तां समाचरन् ॥

०३.०८

विश्वास-प्रस्तुतिः

सायं सन्ध्याम् उपासीत कृतवीरासनो द्विजः । कृतोत्तानस् तथा प्रातः प्राञ्जलिः सुसमाहितः ॥

०३.०९

विश्वास-प्रस्तुतिः

एतद् वीरासनं स्थानं ब्रह्मणा निर्मितं पुरा । द्विजानं बालवृद्धानां पुरश्चरणम् उत्तमम् ॥

०३.१०

विश्वास-प्रस्तुतिः

सायं प्रातस् तु यः सन्ध्याम् अस्कन्नाम् उपतिष्ठते । स तया पावितो देव्या ब्राह्महः पूतकिल्बिषः ॥

०३.११

विश्वास-प्रस्तुतिः

न सीदेत् प्रतिगृह्णानः पृथ्वीम् अपि ससागराम् । ये चास्य विषमाः के चिद् दिवि सूर्यादयो ग्रहाः ॥

०३.१२

विश्वास-प्रस्तुतिः

ते चास्य सौम्या जायन्ते शिवाः सुखकराः सदा । स्थानं वीरासनं चएषां पृथिवी च प्रदक्षिणा । अग्निहोत्रं हुतं चैषां ये वै सन्ध्याम् उपासते ॥

०४.०१

विश्वास-प्रस्तुतिः

अर्धास्तमित आदित्ये अर्धोदिते दिवाकरे । गायत्र्यास् तत्र सान्निध्यं सन्ध्याकालः स उच्यते ॥

०४.०२

विश्वास-प्रस्तुतिः

भूम्यादित्यान्तरं यस् तु छादयेच् चतुरङ्गुलम् । तां तु सन्ध्यां परां विद्याच् छायासम्भेदने परे ॥

०४.०३

विश्वास-प्रस्तुतिः

यावन्तस् तु कराद् भ्रष्टाः पतन्ति जलबिन्दवः । भूत्वा वज्राणि ते सर्वे पतन्ति ह्य् असुरेषु वै ॥

०४.०४

विश्वास-प्रस्तुतिः

ततो विभावसुस् तेषां प्रीतात्माप्यायते वरम् । यैर् अहं मोक्षितो विप्रैस् तेषां लोको तथा मम ॥

०४.०५

विश्वास-प्रस्तुतिः

गायत्र्या अक्षमालायां सायं प्रातः शतं जपेत् । चतुर्णां खलु वेदानां समग्रं लभते फलम् ॥

०४.०६

विश्वास-प्रस्तुतिः

सन्ध्यां ये नोपतिष्ठन्ति ब्राह्मण्यं नोपपद्यते । उपपद्येत वा भूयो यदि स्युस् तीर्थमृत्यवः ॥

०४.०८

विश्वास-प्रस्तुतिः

ऋषयो दीर्घसन्ध्यत्वाद् दीर्घाण्य् आयुम्ष्य् अधारयन् । तस्माद् दीर्घाम् उपासीत समिच्छन् वृद्धिम् आयुषः ॥

०५.०१

विश्वास-प्रस्तुतिः

तद् यथाग्निर् देवानां ब्राह्मणो मनुष्याणां वसन्त ऋतूनाम् एवं गायत्री छन्दसाम् ॥

०५.०२

विश्वास-प्रस्तुतिः

तद् यथा गायत्री कत्यक्षरा कतिपदा किं वास्या गोत्रं किं वास्य रूपं कीदृशं तस्याः शरीरं भवति ॥

०५.०३

विश्वास-प्रस्तुतिः

यद् वै भूः स ऋग्वेदो यद् भुव इति सो ऽथर्ववेद इति

०५.०४

विश्वास-प्रस्तुतिः

तद् यथेदम् अक्षरम् ओम् इत्य् अक्षरं तत् परमं शम् इत्य् अक्षरं गुह्यं तत् परमं पवित्रम् ॥

०५.०५

विश्वास-प्रस्तुतिः

आदित्यो वै सावित्र्य् आदित्येन सह सावित्री स्तौति सुवति प्रातः प्रसुवति तस्मात् सावित्रीत्अम् ॥

०५.०६

विश्वास-प्रस्तुतिः

अक्षरदैवतं व्याख्यास्यामः

मूलम्

अक्षरदैवतं व्याख्यास्यामः

०५.०७

विश्वास-प्रस्तुतिः

प्रथमम् आग्नेयं द्वितीयम् आश्विनं तृतीयं सौम्यं चतुर्थं वैष्णवं सावित्रं पञ्चमं षष्ठं पौष्णं सप्तमं मारुतम् अष्टमं बार्हस्पत्यं नवमं मैत्रं दशमं वारुणम् एकादशम् ऐन्द्रं द्वादशं वैश्वदेवं वसूनां त्रयोदशं चतुर्दशं रुद्राणां पञ्चदशम् आदित्यानाम् अदितेः षोडशं वायव्यं सप्तदशमं भौमम् अष्टादशम् एकोनविंशम् आन्तरिक्षं दिव्यं विंशं दिग्देवतानि चत्वार्य् अक्षराणि ॥

०६.०१

विश्वास-प्रस्तुतिः

अथ यत् पूर्वां सन्ध्याम् उपास्ते तद् गायत्र्याः शिरस् तेन पृथिवीं जयति ॥

०६.०२

विश्वास-प्रस्तुतिः

अथ यन् मध्याह्ने तीक्ष्णं रुद्रस् तपति द्वितीयं शिरस् तेनान्तरिक्षं जयति ॥

०६.०३

विश्वास-प्रस्तुतिः

अथ यद् अस्तमियात् तत् तृतीयं शिरस् तेन दिवं जयति ॥

०६.०४

विश्वास-प्रस्तुतिः

तस्या ॐकारः शिरः सह व्याहृतिभिर् दर्भाः केशा ओषधीवनस्पतयो लोमानि चक्षुषी सूर्याचन्द्रमसौ विद्युद् धसितं विष्णुवरुणौ उरसी रुद्रो हृदये पौर्णमासी चामावास्या च स्तनौ अहश् च रात्री च पार्श्वे

०६.०५

विश्वास-प्रस्तुतिः

दश दिशः कुक्षी सर्वज्ञानानि व्याकरणम् उदरं पृथिवी श्रोणी वायुः स्थानं भूषणं नक्षत्राणि श्रीसरस्वतीरूपा पदक्रममन्त्रब्राह्मणकल्पशरीरा सावित्री गोत्रेण ब्रह्मदेया भवति ब्रह्मदेया भवतीति ब्राह्मणम् ॥