४० पाशुपतव्रतम्

०१.०१

विश्वास-प्रस्तुतिः

ओम् अथ पाशुपतव्रतादेशो

मूलम्

ओम् अथ पाशुपतव्रतादेशो

०१.०२

विश्वास-प्रस्तुतिः

नाश्रोत्रियाय नाचरितवेदव्रताय नाकृतवपनाय ददीत ॥

०१.०३

विश्वास-प्रस्तुतिः

मासद्वित्रिचतुष्पञ्चसंवत्सरद्वादशसंवत्सरपरिमितं नैष्ठिकं वा

०१.०४

विश्वास-प्रस्तुतिः

अथास्यायतनानि ॥

मूलम्

अथास्यायतनानि ॥

०१.०५

विश्वास-प्रस्तुतिः

महादेवायतने ऽपां समीपे ॥

मूलम्

महादेवायतने ऽपां समीपे ॥

०१.०६

विश्वास-प्रस्तुतिः

गिरिगुहायां गवां गोष्ठे ऽग्न्यागारे वा

मूलम्

गिरिगुहायां गवां गोष्ठे ऽग्न्यागारे वा

०१.०७

विश्वास-प्रस्तुतिः

नदीनां बहूनां प्रतिश्रये

मूलम्

नदीनां बहूनां प्रतिश्रये

०१.०८

विश्वास-प्रस्तुतिः

अनुसवनम् ॥

मूलम्

अनुसवनम् ॥

०१.०९

विश्वास-प्रस्तुतिः

भस्मना स्नानं रौद्रहोमस्नपनं च सर्पिःक्षीरगन्धोदकैर्

०१.१०

विश्वास-प्रस्तुतिः

गन्धपुष्पधूपदीपोदनपायसयावकलाजादि प्रदक्षिणान्तं च ॥

०१.११

विश्वास-प्रस्तुतिः

निवेद्य निर्माल्यगन्धहारीहासगीतवादनाद्युपहारान्

०१.१२

विश्वास-प्रस्तुतिः

दक्षिणेन तृतीयम् उपतिष्ठते

मूलम्

दक्षिणेन तृतीयम् उपतिष्ठते

०१.१३

विश्वास-प्रस्तुतिः

कटककेयूरधारिणे नमो वृषाय नमो वृषभध्वजाय नमो

मूलम्

कटककेयूरधारिणे नमो वृषाय नमो वृषभध्वजाय नमो

०१.१४

विश्वास-प्रस्तुतिः

वानरं ते मुखं रौद्रम् अनिन्द्यं शुभं पशुम् एवाजननेवाजनकं घोरं जीवं जात्यम् एव रुक्मं ददामीति एकवासा विवासा वा विरागाणि वस्त्राणि ददीत ॥

०२.०१

विश्वास-प्रस्तुतिः

गोचर्ममात्रं स्थण्डिलम् उपलिप्य गोमयेनोल्लिख्याभ्युक्ष्याग्ने प्रेहीत्य् अग्निं प्रणीयोपसमाधाय परिस्तीर्य ब्रह्माणं कल्पयित्वा नान्यदेवतादिशि रुद्रस्य दक्षिणोदपात्रं स्थापयित्वा महाव्याहृतिभिर् अग्न्यायतने निधाय रुद्रम् आवाहयति ॥

०२.०२

विश्वास-प्रस्तुतिः

रुद्रं क्रुद्धाशनिमुखं देवानाम् ईश्वरं परम् । श्वेतपिङ्गलं देवानाम् <mahādevam> प्रपद्ये शरणागतः ॥

०२.०३

विश्वास-प्रस्तुतिः

यस्य युक्ता रथे सिंहा व्याघ्राश् च विषमाननाः । तम् अहं पौण्डरीकाक्षं देवम् आवाहये शिवम् इत्य् आवाह्याभ्यर्च्य ॥

०२.०४

विश्वास-प्रस्तुतिः

न तं यक्ष्मैतु देव इति गुग्गुलुं धूपं च दद्यात् ॥

०२.०५

विश्वास-प्रस्तुतिः

तत् पुरुषाय विद्महे महादेवाय धीमहि । तन् नो रुद्रः प्रचोदयात् ॥

०२.०६

विश्वास-प्रस्तुतिः

तस्मै देवाय विद्महे महादेवाय धीमहि । तन् नो रुद्रो ऽनुमन्यताम् ॥ इति रुद्रसावित्रीं जप्त्वा ॥

०२.०७

विश्वास-प्रस्तुतिः

यो अग्नौ रुद्र इत्य् अनुमन्त्रयेन् नमो अस्तु यावद् आवाहने देवदेवस्यावाहयाम्य् अहम् इति ॥

०२.०८

विश्वास-प्रस्तुतिः

प्रमर्दने सर्वासुरविनाशाय ॐ फट्कारं करोति ॥

मूलम्

प्रमर्दने सर्वासुरविनाशाय ॐ फट्कारं करोति ॥

०२.०९

विश्वास-प्रस्तुतिः

निवेदने ऽहम् अमुकं निवेदयामीति जटी मुण्डी पञ्चशिखी वा ॥

०३.०१

विश्वास-प्रस्तुतिः

ब्राह्मणो ह वा अहम् अमुकसगोत्रो भगवतो महेश्वरस्य व्रतं चरिष्यामीति वाचयित्वा ॥

०३.०२

विश्वास-प्रस्तुतिः

ततो ऽस्य मौञ्जीं प्रयच्छति ॥ सावित्र्या तु दण्डं पालाशं बैल्वम् आश्वत्थं वा असिं लकुटं खट्वाङ्गं परशुं वा ॥

०३.०३

विश्वास-प्रस्तुतिः

अघोरेभ्यो ऽथ घोरेभ्यो ऽघोरघोरतरेभ्यश् च । सर्वतः शर्वशर्वेभ्यो नमस् ते रुद्र रूपेभ्य इत्य् आदौ शर्वं नमस्कृत्योपविश्याज्यं निरतिशायित्वेध्मान् आदीपयत्य् अन्तर इति

०३.०४

विश्वास-प्रस्तुतिः

इध्मा जातवेदसः समिद्धस्य तेभ्यो वर्धयस्व प्रजया पशुभिः श्रिया गृहैर् धनेनेति ॥

०३.०५

विश्वास-प्रस्तुतिः

यवाघारौ आज्यभागौ जुहुयाद्

मूलम्

यवाघारौ आज्यभागौ जुहुयाद्

०३.०६

विश्वास-प्रस्तुतिः

वायवे स्वाहा ॥ शर्वाय रुद्राय स्वाहा ॥ पशुपतये भीमाय स्वाहा ॥ शान्तायाधिपतये देवाय स्वाहेति ॥

०३.०७

विश्वास-प्रस्तुतिः

एवम् एव पत्नीनां तूष्णीम् अधिपस्य जुहुयाद्

मूलम्

एवम् एव पत्नीनां तूष्णीम् अधिपस्य जुहुयाद्

०३.०८

विश्वास-प्रस्तुतिः

एवं सर्वेषु व्रतनिवेदनेषु व्रातपतीर् जुहोति ॥

०३.०९

विश्वास-प्रस्तुतिः

व्रतेन त्वम् इत्य् उभयीरुहम् इति पञ्चभी रौद्रान् होमान् हुत्वा होमावसानेन भस्मना स्नानं करोति ॥

०४.०१

विश्वास-प्रस्तुतिः

भस्मस्नानम् [तावद्] ग्रहीष्यामि सर्वपापप्रणाशनम् । भस्मस्नानेन रुद्रो हि स्नातो ऽभूत् पूत आत्मना ॥

०४.०२

विश्वास-प्रस्तुतिः

भस्मना स्नायते रुद्रो विष्णुः स्नायते भस्मना । तेन स्नानेन स्नाम्य् अहं येन स्नातो महेश्वरः ॥

०४.०३

विश्वास-प्रस्तुतिः

येन स्नाता उमा देवी रुद्रो भर्ता महेश्वरः । येन स्नाता गणाः सर्वे येन स्नाता द्विजातयः ॥

०४.०४

विश्वास-प्रस्तुतिः

येन स्नाता शिवः शर्वः शङ्करश् च वृषध्वजः । स्नातानि सर्वभूतानि गङ्गायमुनयागमे ॥

०४.०५

विश्वास-प्रस्तुतिः

स्नातो ऽहं सर्वतीर्थेषु नदीप्रस्रवणेषु च । वारुणाग्नेयसौम्यानां भस्मना स्नानम् उत्तमम् । तेन स्नानेन स्नाम्य् अहं येन स्नातो महेश्वरः ॥

०५.०१

विश्वास-प्रस्तुतिः

भूतिस् तु पिङ्गलो बभ्रुर् भूतिर् विष्णुः सनातनः । भूतिर् ब्रह्मा महेन्द्रश् च भूतिर् देवाः सह र्षिभिः ॥

०५.०२

विश्वास-प्रस्तुतिः

भूतिर् मे ऽलक्ष्मीं निर्णुदेद् भूतिर् मे श्रियम् आवहेत् । भूतिर् म आयुषा वित्तं वर्चो ब्रह्म प्रयच्छतु ॥

०५.०३

विश्वास-प्रस्तुतिः

भस्मना चरन्तो नित्यं ध्यायिनः परिचिन्तकाः । यान्ति पाशुपतं स्थानं पुनरावृत्तिदुर्लभम् ॥

०५.०४

विश्वास-प्रस्तुतिः

वाचा तु यत् कृतं कर्म मनसा च विचिन्तितम् । अलक्ष्मीश् चापद् दुःस्वप्नं भस्मना तत् प्रणश्यतु ॥

०५.०५

विश्वास-प्रस्तुतिः

मोक्षणं मोक्षकाले च भस्मशेषं विसर्जयेत् । मुक्तो ऽहं सर्वपापेभ्यो रुद्रलोकं व्रजाम्य् अहम् ॥

०६.०१

विश्वास-प्रस्तुतिः

एतत् स्नानं वारुणं पर्वसु शरीरलेपेन यथाकामं पर्वसूपवसेत् ॥

०६.०२

विश्वास-प्रस्तुतिः

स्त्रीशूद्रं नाभिभाषेत ॥

मूलम्

स्त्रीशूद्रं नाभिभाषेत ॥

०६.०३

विश्वास-प्रस्तुतिः

तदा सावित्रीं जपेत् ॥

मूलम्

तदा सावित्रीं जपेत् ॥

०६.०४

विश्वास-प्रस्तुतिः

यदि भाषेत तदा रुद्रसावित्रीं जपेत् ॥

मूलम्

यदि भाषेत तदा रुद्रसावित्रीं जपेत् ॥

०६.०५

विश्वास-प्रस्तुतिः

कमण्डलुकपाले भिन्ने भूमिर् भूमिम् अगाद् इत्य् अप्सु प्रवेशयेत् ॥

०६.०६

विश्वास-प्रस्तुतिः

रेतःस्कन्दे यन् मे रेतस् तेजसा सन्निषद्य देहात् प्रस्कन्देत् पुनर् न भवाय । तद् अग्निर् वायुः॥। ॥।अपि चेयं पृथिवी कञ्चखन्तेति ॥

०६.०७

विश्वास-प्रस्तुतिः

सम्यक् क्व चित् करोति

मूलम्

सम्यक् क्व चित् करोति

०६.०८

विश्वास-प्रस्तुतिः

व्रतम् उपाध्यायाछन्दो वर्तयेत् ॥

मूलम्

व्रतम् उपाध्यायाछन्दो वर्तयेत् ॥

०६.०९

विश्वास-प्रस्तुतिः

तत उदीक्षणम् ॥

मूलम्

तत उदीक्षणम् ॥

०६.१०

विश्वास-प्रस्तुतिः

व्रातपतीर् जुहोति ॥

मूलम्

व्रातपतीर् जुहोति ॥

०६.११

विश्वास-प्रस्तुतिः

समासो ऽहं व्रतस्विष्टकृत इति हुत्वादित्याभिमुखस् तिष्ठेत ॥

०६.१२

विश्वास-प्रस्तुतिः

यन् मे दुरुक्तं दुर्हुतं दुर्ध्यातं दुर्विचिन्तितम् । तन् मे भगवान् ईशानः सर्वं त्वं क्षन्तुम् अर्हसि ॥

०६.१३

विश्वास-प्रस्तुतिः

नवोनवो भवसि जायमान इत्य् अप्सु प्रवाहयेद्

मूलम्

नवोनवो भवसि जायमान इत्य् अप्सु प्रवाहयेद्

०६.१४

विश्वास-प्रस्तुतिः

ये श्रद्धयेदं पशुपतेर् व्रतं चरन्ति । तेषां मधु विशक्षे हे ददते न पुनर्गमनं मधुरिवाद्येहैव च । ते रुद्रा विरतौ पशुपतिसायुज्यं गच्छति

तद् एष श्लोकः ॥

मूलम्

तद् एष श्लोकः ॥

०६.१६

विश्वास-प्रस्तुतिः

विलीनपाशपञ्जराः समाप्ततत्त्वगोचराः । प्रयान्ति शङ्करं परं पतिं विभुं सदाशिवम् ॥