०१.०१
विश्वास-प्रस्तुतिः
ॐ पिप्पलादं महाप्राज्ञम् इदम् ऊचुर् महर्षयः । भूमिखातस्य शुद्ध्यर्थं विधिं प्रब्रूहि तत्त्वतः ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
कूपवापीतडागेषु पुष्करिण्यां च वेश्मसु । अहोरात्रोषितो भूत्वा ततः कर्म समारभेत् ॥

०१.०३
विश्वास-प्रस्तुतिः
शान्त्युदकेन तद् ब्रह्मा पूर्वोक्तं यद् अगस्तिना । परि प्रागाद् इति द्वाभ्याम् अभिमन्त्रयते ततः ॥

०१.०४
विश्वास-प्रस्तुतिः
चरुतन्त्रेण विधिना चरुं भौमं तु निर्वपेत् । प्राक्तन्त्रम् आज्यभागान्तं सत्यं बृहद् इति स्मृतम् ॥

०१.०५
विश्वास-प्रस्तुतिः
हविर् आज्यं समिधश् च उपस्थानं यथाक्रमम् । कूपादीनां समीपे तु जपेन् मन्त्रान् समाहितः ॥

०१.०६
विश्वास-प्रस्तुतिः
अम्बयो यन्त्य् आपो हि ष्ठा शं नो देवीर् इति त्रयम् । हिरण्यवर्णाः पुनन्तु मा सस्रुषीर् हिमवतो ऽप्सु ते ॥

०१.०७
विश्वास-प्रस्तुतिः
जप्त्वा तु धेनुम् आनीतां पिबन्तीम् अनुमन्त्रयेत् । आ गाव इति सूक्तेन तारयेत् तु तथैव गाम् ॥

०१.०८
विश्वास-प्रस्तुतिः
कूपवापीतडागानां समीपे चाभिमन्त्रयेत् । उप ह्वये सूयवसात् कर्त्रे दद्यात् तु गां शुभाम् ॥

०१.०९
विश्वास-प्रस्तुतिः
कामसूक्तेन गृह्णीयात् कर्म संस्थापयेत् ततः । हिरण्यरजतादीनां मत्स्यादीन् कारयेद् बुधः ॥

०१.१०
विश्वास-प्रस्तुतिः
सौवर्णौ कूर्ममकरौ राजतौ मत्स्यमुद्गरौ । ताम्रौ कुलीरकर्कटाव् आयसः शिशुमारकः ॥

०१.११
विश्वास-प्रस्तुतिः
शान्त्युदकं पञ्चगव्यं तस्मिन्न् एव जले क्षिपेत् । कर्तृदातारौ स्नायेतां द्रुपदाद् इव शुम्भनी ॥

०१.१२
विश्वास-प्रस्तुतिः
ब्राह्मणान् भोजयित्वा तु पुण्याहं वाचयेत् ततः । सम्यग् विधानम् एतद् धि कूपादेः सम्प्रकीर्तितम् । पुण्यं कर्म द्विजातीनां स्वर्गस्याक्षय्यम् इच्छताम् ॥