०१.०१
विश्वास-प्रस्तुतिः
ॐ ब्रह्मकूर्चविधिं पुण्यं सङ्क्षेपाद् वच्म्य् असंशयम् । पावनानां परं यो हि पावनं तपसां तपः ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
स्नात्वा शुचिः शुचौ देशे गोमयेनावसेचिते । वस्त्रेण संहिते चापि सितपुष्पैः प्रपूजिते ॥

०१.०३
विश्वास-प्रस्तुतिः
अहोरात्रोसितः क्षान्तः पवित्रात्मा प्रपावनः । शुक्लवासाः सुगन्धिः प्राग् उपविष्टः कुशासने ॥

०१.०४
विश्वास-प्रस्तुतिः
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । आहरेत् ताम्रपात्रे तु शकृन् मूत्रं त्व् अभूगतम् ॥

०१.०५
विश्वास-प्रस्तुतिः
गोमूत्रं नीलवर्णायाः कृष्णाया गोमयं तथा । पयस् तु ताम्रवर्णायाः श्वेताय आहरेद् दधि ॥

०१.०६
विश्वास-प्रस्तुतिः
कपिलाया घृतं ग्राह्यम् अलाभे स्यात् तु पञ्चमम् ॥

०२.०१
विश्वास-प्रस्तुतिः
गोमूत्रैकपलं दद्याद् अङ्गुष्ठाग्रं तु गोमयम् । क्षीरस्य सप्त दध्नस् तु त्रीण्य् एकैकं घृताम्भसोः ॥

०२.०२
विश्वास-प्रस्तुतिः
गायत्र्याहृत्य गोमूत्रं गन्धद्वारेति गोमयम् । आ प्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ॥

०२.०३
विश्वास-प्रस्तुतिः
तेजो ऽसि शुक्रम् इत्य् अज्यं देवस्य त्वा कुशोदकम् । सप्तपत्त्रास् तु ये दर्भा अछिन्नाग्राः समायुताः ॥

०२.०४
विश्वास-प्रस्तुतिः
तैः समुद्धृत्य होतव्यं देवताभ्यो यथाकर्मम् । अग्नये स्वाहा सोमाय प्रजापतय इत्य् अपि ॥

०२.०५
विश्वास-प्रस्तुतिः
बृहस्पते अति यद् इदं विष्णुर् इतीति च । मानस्तोकेन गायत्र्या एतैश् च जुहुयात् ततः ॥

०२.०६
विश्वास-प्रस्तुतिः
प्रणवेन प्रणवेनैव पिबेच् च प्रणवेन तु । होतव्यं प्रणवेनैव पिबेच् च प्रणवेन तु ॥

०३.०१
विश्वास-प्रस्तुतिः
मध्यमेन पलाशस्य पद्मपत्त्रेण वा पिबेत् । अपि वा ताम्रपात्रेण हुतशेषं विशुद्धये ॥

०३.०२
विश्वास-प्रस्तुतिः
यत् त्वगस्थिगतं पापं देहे तिष्ठति देहिनाम् । ब्रह्मकूर्चो दहेत् सर्वं प्रदीप्तो ऽग्निर् इवेन्धनम् ॥

०३.०३
विश्वास-प्रस्तुतिः
त्रयोदश्यादिचतुर्षु त्रिःस्नानाक्षारभोजनम् । पञ्चदश्यां पञ्चगव्यं सोपवासं महाफलम् ॥

०३.०४
विश्वास-प्रस्तुतिः
अभोज्याभक्ष्यशूद्रान्नभक्षणे वेदविक्रये । प्रतिग्रहे कालमन्त्रहीने होमे द्युमैथुने ॥

०३.०५
विश्वास-प्रस्तुतिः
बालत्वे यत् कृतं चैव युवा वृद्धवयास् तथा । मातापितृकृतं चैव तत् क्षणाद् एव निर्दहेत् ॥

०३.०६
विश्वास-प्रस्तुतिः
मासेमासे प्रयुञ्जानोदेवलोकम् अवाप्नुयात् । अर्धमासेअर्धमासे च ऋषीणां लोकम् उत्तमम् ॥

०३.०७
विश्वास-प्रस्तुतिः
षड्रात्रे चैव षड्रात्रे ब्रह्मलोकम् अनामयम् । अहरहः प्रयुञ्जानः परं ब्रह्माधिगच्छति ॥

०३.०८
विश्वास-प्रस्तुतिः
अनेन विधिनैवेष्ट्वा देवतर्पणपूर्वकम् । ब्रह्मणा निर्मितं ह्य् एतत् पवित्रं परमं हितम् ॥