३७ समुच्चयप्रायश्चित्तानि

(कौशिकसूत्रे १३-अध्यायवत्)

०१.०१

विश्वास-प्रस्तुतिः

ॐ भृग्वङ्गिरोरूपधारिणे शिवाय नमः ॥ अथ यत्रैतद् अपहन्यमाने मुसलं पतति तद् घोरं भवति तद् अप्य् एतद् ऋचोक्तम् ॥

मूलम्

०१.०२

विश्वास-प्रस्तुतिः

उलूल्हलान् मुसलं पतितं हिनस्ति पत्नीङ्कुले ज्येष्ठम् । कृषीः प्रजाः पशवः संविशेअन्ते यथेन्द्रसृष्टं प्रपतेत वज्रम् इति ॥

०१.०३

विश्वास-प्रस्तुतिः

तद् वज्रं शान्त्युदकेन सम्प्रोक्ष्य अरातीयोर् इत्य् उल्लिख्य यत् त्वा शिक्व इति प्रक्षाल्य बर्हिष्य् आधाय जुहोति ॥

०१.०४

विश्वास-प्रस्तुतिः

वज्रः पतितस् तु वरं हिनस्ति तं त्वा वयम् अपहन्म घोरम् । स नः शिवो ऽस्तु द्विषतां वधाय सपत्नान् मे द्विषतो हन्तु सर्वान् ॥

०१.०५

विश्वास-प्रस्तुतिः

यद्वत् प्रजाः पपनयद् धस्ताद् यदि वोलूखलात् । सपत्नान् मे परिपाहि मां त्व् एवं परिपाहि नः ॥

०१.६

विश्वास-प्रस्तुतिः

यद्य् अन्तरिक्षे यदि वासि सोच्चैर् वज्रः सृष्टो यदि वा पार्थिवैर् उत । मन्त्राः प्रयुक्ता वितता महान्तो ऽघोरो वज्रो मुसलप्रपातः ॥

०१.७

विश्वास-प्रस्तुतिः

वज्रो ऽसि सपत्नहेति तिस्रः ॥

मूलम्

वज्रो ऽसि सपत्नहेति तिस्रः ॥

०१.८

विश्वास-प्रस्तुतिः

वज्रो ऽसि सपत्नहा त्वयाद्य वृत्रं साक्षीय । त्वाम् अद्य वनस्पते वृक्षाणाम् उद् अयुष्महि ॥

०१.९

विश्वास-प्रस्तुतिः

स न इन्द्रपुरोहितो विश्वतः पाहि रक्षसः । अभि गावो अनूषताभि द्युम्नं बृहस्पते ॥

०१.१०

विश्वास-प्रस्तुतिः

प्राण प्राणं त्रायस्वासो असवे मृड । निरृते निरृत्या नः पाशेभ्यो मुञ्च इति ॥

०१.११

विश्वास-प्रस्तुतिः

त्यम् ऊ षु त्रातारम् इन्द्रः सुत्रामा स सुत्रामा आ मन्द्रैर् इन्द्र मर्माणि ते वर्मणा छादयामीति उलूखलमुसले सम्पातान् आनीय संस्थाप्य होमान् उलूखलम् अन्नेनैव पूरयित्वा प्रतिप्रवर्तयेद् उलूखलमुसलं वसनं च गां च कर्त्रे दद्यात् सा तत्र प्रायश्चित्तिः ॥

०२.१

विश्वास-प्रस्तुतिः

अथ यत् काको ऽभिमृशति तन् मृत्युम् आशङ्क्यं भवति ॥ तद् अप्य् एतद् ऋचोक्तम् ॥॥॥अन्तकाय मृत्यव आ रभस्व प्राणाय नम इति स्वाहेति अग्नौ हुत्वा सा तत्र प्रायश्चित्तिः ॥

०३.१

विश्वास-प्रस्तुतिः

अथात आज्यस्थाली च्यवते प्रचलति वा का तत्र प्रायश्चित्तिः ॥ सन्नतिमहाव्याहृतिसावित्रीकूष्माण्ड्यः स सर्वाभिर् जुहुयात् सा तत्र प्रायश्चित्तिः ॥

०४.१

विश्वास-प्रस्तुतिः

अथ पवित्रम् प्रणश्येत कर्ममध्यात् प्रमादतः । अन्यच् छित्त्वा मन्त्रयेत कर्मशेषम् उपक्रमेत् । आत्मेन्द्रियसमायुक्तं तेन मन्त्रेण कारयेत् ॥

०४.२

विश्वास-प्रस्तुतिः

वायोः पूतः पवित्रेण यन् मे छिद्रं पुनर् मैत्व् इन्द्रियं मा न आपो मेधां मा नो मेधां मा नः पिपरिद् अश्विनेति सन्नतिभिर् आज्यं जुहुयाद् व्याहृतिभिश् च गां च कर्त्रे दद्यात् सा तत्र प्रायश्चित्तिः ॥

०५.१

विश्वास-प्रस्तुतिः

अथ यस्यासमाप्ते कर्मणि बर्हिर् आदीप्येत ततस् तन् निर्वाप्य जुहुयात् ॥

०५.२

विश्वास-प्रस्तुतिः

यद् अग्निर् बर्हिर् अदहद् वेद्या वासो अपां ततः । त्वम् एव नो जातवेदो दुरितात् पाहि तस्मात् ॥

०५.३

विश्वास-प्रस्तुतिः

निर्दग्धा नो अमित्रास् तु यथेदं बर्हिस् तथा । अमित्राणां श्रियं भूतिं ताम् एषां परि निर् जहि ॥

०५.४

विश्वास-प्रस्तुतिः

यत्कामास् ते जुहुमस् तन् नो अस्तु विशाम्पते । ये देवा यज्ञम् आयान्ति ते नो रक्षन्तु सर्वतः ॥

०५.५

विश्वास-प्रस्तुतिः

अवदग्धं दुःस्वप्न्यम् अवदग्धा अरातयः । सर्वाश् च यातुधान्यः ॥

०५.६

विश्वास-प्रस्तुतिः

मा त्वा दभन् यातुधाना मा ब्रध्नः शम्युम् इच्छत । दर्भो राजा समुद्रियः परि नः पातु विश्वतः ॥

०५.७

विश्वास-प्रस्तुतिः

अतो ऽन्यद् बर्हिर् उपकल्प्योदकेन सम्प्रोक्ष्य पुनः स्तृणाति ॥

०५.८

विश्वास-प्रस्तुतिः

इदं बर्हिर् अमृतेनेह सिक्तं हिरण्मयं हरितं ते स्तृणामि । तद् वै पुराणम् अभिनवं स्तृणीष्व वासः प्रशस्तं प्रति मे गृहाणेत्य् अन्येन च बर्हिषाभिप्रछादये ॥

०६.१

विश्वास-प्रस्तुतिः

आहुत्यां तु गृहीतायां हुतोच्छिष्टं प्रमादतः । तम् आहुतिं प्रतिष्ठाप्य शं नो देवीर् इत्य् आचम्य ब्रह्मापरम् इत्य् अर्धर्चेनेमां हुत्वा ब्रह्मज्येष्ठेति हुत्वा सा तत्र प्रायश्चित्तिः ॥

०७.१

विश्वास-प्रस्तुतिः

केशकीटावपन्ना चेच् छम्भुवाय स्वाहेति भस्मनि हुत्वा हविर् उत्पूयान्यां जुहुयात् सा तत्र प्रायश्चित्तिः ॥

०८.१

विश्वास-प्रस्तुतिः

अथ चेच् चलितदन्तं पतितदन्तं वोपनयेत् तत्र प्रायश्चित्तम् आह गृहे वा बर्हिः [वा] पिता वाचार्यो वा द्वादशरात्रं दीक्षेयातां कर्ता त्रिरात्रं गौरसर्षपसर्पिःपयोभिः स्नातः प्रयतः शुचिः शुक्लवासाः पौर्णमासं तन्त्रम् आज्यभागान्ते सावित्रीम् अनुयोजयेत् तेन शान्त्युदकेनैनम् आचामयति सम्प्रोक्षति च ॥

०८.२

विश्वास-प्रस्तुतिः

सावित्री शान्तिर् ब्रह्म जज्ञानं ये त्रिषप्ता अग्निं ब्रूम आयुष्यवर्चस्यस्वस्त्ययनाभयापराजितशर्मवर्मभिर् जुहुयात् तं सम्पात्य यः श्रमात् तपसो यो वेतसं यो भूतम् ऊर्ध्वा अस्येदावत्सराय यद्य् अन्तरिक्षे पुनर् मैत्व् इन्द्रियम् इत्य् आप्लावयति सा तत्र प्रायश्चित्तिः ॥

०९.१

विश्वास-प्रस्तुतिः

नश्येच् चेन् मदुघमणिः शाम्येद् वाग्निर् विवाहजः । अत्यद्भुतं द्वयम् इदं दम्पत्योस् तु विनाशनम् ॥

०९.२

विश्वास-प्रस्तुतिः

पूतुदारुमणिस् तत्र बन्ध्यो मन्त्राश् च मादुघाः । पूतुदारु न विन्द्याच् चेद् यवं तत्र नियोजयेत् ॥

०९.३

विश्वास-प्रस्तुतिः

आयुष्मन्तौ सुप्रजसौ सुवीरौ धाता पूषा द्रविणे नौ दधातु । विमुञ्चतां शमलं किल्बिषं नौ दीर्घम् आयुश् च सविता कृणोत्व् इति शान्त्युदकेनाङ्गुलिं सम्प्रोक्ष्य बध्नीयात्

०९.४

विश्वास-प्रस्तुतिः

समिधो ऽभ्यादध्याद् उपतिष्टेत सन्नतिभिर् व्याहृतिभिर् जुहुयाद् गां च कर्त्रे दद्यात् सा अत्र प्रायश्चित्त्ः ॥

१०.१

विश्वास-प्रस्तुतिः

ओम् अथ यस्य तन्त्रे ऽप्रणीतो ऽहुतो ऽग्निर् उपशाम्यति ॥ पुनस् त्वादित्या इत्य् अग्निं प्राणीय सन्नतिभिर् व्याहृतिभिः समास् त्वाग्ने ऽभ्य् अर्चतेति च सूक्ताभ्यां जुहुयात् परिसङ्ख्याहोमांश् च ॥

११.१

विश्वास-प्रस्तुतिः

अथ यत्रैतद् विवाहग्निर् उपशाम्यति अग्निप्रणयनमन्त्रैः प्राजापत्यं प्रणीय प्राक्तन्त्रं प्रणीय यद् देवा यद् विद्वांसो ऽपमित्यम् अप्रतीतं यद् धस्ताभ्यं यद् अदीव्यन्न् इत्य् एतैः सूक्तैर् आज्यं जुहुयात् समिधो ऽभ्यादध्याद् उपतिष्ठेत वासः कर्त्रे दद्यात् ॥

१२.१

विश्वास-प्रस्तुतिः

अथ यत्रैतत् कालातीतासु क्रियास्व् अतीत उत्तरायणे आज्यभागान्ते यन् मे स्कन्नं यद् अस्मृतीत्य् अनुमन्त्रयेत् तस्मै प्राच्या दिशो अन्तर्देशाद् इति पर्यायान् एकविंशतिं जुहुयात् संस्कारातीते च कर्मणि ॥

१३.१

विश्वास-प्रस्तुतिः

अथ यत्रैतत् प्राणीतो ऽग्निर् उपशाम्यति ॥ यद्य् अन्तरिक्षे पुनर् मैत्व् इन्द्रियं पुनस् त्वादित्या इत्य् अग्निं प्रणीय प्रज्वाल्य ममाग्ने वर्च इति समिधम् आधाय शेषं कर्म समापयेत् ॥

१४.१

विश्वास-प्रस्तुतिः

अथ यस्योपयामो ऽवपतेद् धस्तात् स यन् मे उपयाम इत्य् आददीत,

१४.२

विश्वास-प्रस्तुतिः

यन् मे उपयामो ऽपतद् धस्ताद् य आयुषा परिष्कृतः । तम् अहं पुनर् आददे ॥

१४.३

विश्वास-प्रस्तुतिः

पुनर् इन्द्रः पुनर् भगः पुनर् मे ब्रह्मणस्पतिः । ब्रह्म जीवितु दाद् इत्य् [आददीत]

१४.४

विश्वास-प्रस्तुतिः

यन् मे छिद्रं यद् अस्मृतीति जुहुयात् ॥

मूलम्

यन् मे छिद्रं यद् अस्मृतीति जुहुयात् ॥

१५.१

विश्वास-प्रस्तुतिः

यन् मे स्रुवो ऽपतद् धस्ताद् इत्य् उपयामेन व्याख्यातम् ॥

१६.१

विश्वास-प्रस्तुतिः

मेखलादीनि चेत् प्लवेरन् पुनर् उपनयेत ॥ विमोचनीयान् होमान् हुत्वान्यं ब्राह्मणम् अनूचानम् उपवेश्योदपात्रं चापराजितेन निष्क्रम्य वासो यज्ञोपवीतादि दत्त्वाभ्युक्ष्याचम्यापां सूक्तैः पवित्रैश् च सम्प्रोक्ष्य प्रियं मा कृणु देवेष्व् इति यज्ञोपवीतं दत्त्वा विमृग्वरीं मा नः पश्चाद् इति द्वाभ्यां प्राङ्मुख उपविश्य महाव्याहृतिभिः सावित्री शान्तिसूक्तं ब्रह्म जज्ञानं यद् अस्मृत्य् अनुमतिः सर्वम् इति जुहुयाद् अभ्यातानैश् च ॥

१७.१

विश्वास-प्रस्तुतिः

अथ यत्रैतन् मेखला प्रपतति जीर्णा वा स्यात् तां सावित्र्योद्धृत्यान्तं कृत्वा शान्त्युदकेन सम्प्रोक्ष्य महाव्याहृतिभिः सावित्री शान्तिसूक्तं ब्रह्म जज्ञानं ये त्रिषप्ता इदावत्सराय घृतेन त्वाग्निं ब्र्हूम इति ॥

१८.१

विश्वास-प्रस्तुतिः

चतुर्थ्याम् अहुतायां यदि घटोदकं नश्येत तथैव पुनर् आनीय शं नो देवीर् इहेत देवीर् इत्य् अनुमन्त्र्याम्बयो यन्त्य् आपो हि ष्ठा शं नो देवीर् इति सम्पात्य व्याहृत्या सन्नत्या च जुहुयात् आपो भृग्वङ्गिरोरूपम् अपां पुष्पम् इत्य् उदकुम्भम् अभिमन्त्रयेत् ॥ वासो दक्षिणा ॥

१९.१

विश्वास-प्रस्तुतिः

अथ यस्यासमाप्ते कर्मण्य् उदपात्रं प्रवर्तेत तद् अनुमन्त्रयते

१९.२

विश्वास-प्रस्तुतिः

यद् उदपात्रं प्रवर्तते ब्रह्मणास्थापितं महत् । स्थानाच् च्युतं प्रवर्तितं तन् मे वहतु किल्बिषम् ॥ इत्य् आस्थापयति ॥

१९.३

विश्वास-प्रस्तुतिः

पूरणेन पूरयित्वा पुनः पूर्णम् इत्य् एतया ।

१९.४

विश्वास-प्रस्तुतिः

पुनः पूर्णम् इदं पात्रं ब्रह्मणास्थापयामसि । विश्वैस् [तद्] देवैर् अभिष्टुतम् ॥

१९.५

विश्वास-प्रस्तुतिः

ऊर्जं पुष्टं दधातु नो रायस् पोषं श्रियम् आयुः । मयि कर्म समृध्यताम् इति ॥

२०.१

विश्वास-प्रस्तुतिः

अथ चेत् प्रभज्येत भूमिर् भूमिम् अगाद् इत्य् अनुमन्त्र्यान्यतरम् आहृत्य यद्य् अन्तरिक्षे पुनर् मैत्व् इन्द्रियम् इत्य् अनुमन्त्र्य वैश्वानरो न ऊतय उद् एनं वैश्वानरो रश्मिभिर् इति जुहुयात् सा तत्र प्रायश्चित्तिः ॥