३६ उच्छुष्मकल्पः

०१.०१

विश्वास-प्रस्तुतिः

ॐ नम उच्छुष्मेभ्यः

मूलम्

ॐ नम उच्छुष्मेभ्यः

०१.०२

विश्वास-प्रस्तुतिः

॥॥शिखां देवीं प्रपद्ये शङ्करायणीं । सर्वार्थसाधनीं विभ्वीं सर्वेशीं ब्रह्मचारिणीम् ॥

०१.०३

विश्वास-प्रस्तुतिः

ते इष्टकाकारकरालम् अतिचतुर्मुखम् ॥ चतुर्विधैस् तु रूपं ध्यानम् ॥

०१.०४

विश्वास-प्रस्तुतिः

शिवे जटिले ब्रह्मचारिणि स्तम्भनि जम्भनि मोहनि हुं फट् नमः स्वाहा ॥

०१.०५

विश्वास-प्रस्तुतिः

आत्मरक्षा ॥

मूलम्

आत्मरक्षा ॥

०१.०६

विश्वास-प्रस्तुतिः

प्राच्यां दिशीन्द्रो राजा देवानाम् आधिपत्यं कुरुते । तं देवं भगवन्तं सगणं सानुचरं सपरिवारं सशिराः प्रणिपत्य विज्ञापयति । वज्रेण प्रहरणेनेमां दिशं विदिशं च सर्वकलिकलुषम् अशुभं प्रशमय्ॐ नमः स्वाहा ॥

०१.०७

विश्वास-प्रस्तुतिः

दक्षिणस्यां दिशि यमो राजा प्रेतानाम् आधिपत्यम् इति । दण्डेन प्रहरणेनेति ॥

०१.०८

विश्वास-प्रस्तुतिः

प्रतीच्यां दिशि वरुणो राजापाम् आधिपत्यम् इति । पाशेन प्रहरणेनेति ॥

०१.०९

विश्वास-प्रस्तुतिः

उदीच्यां दिशि कुबेरो राजा यक्षाणाम् आधिपत्यम् इति । गदया प्रहरेणेति ॥

०१.१०

विश्वास-प्रस्तुतिः

ध्रुवायां दिशि वासुकी राजा नागानाम् आधिपत्यम् इति । दंष्ट्रया प्रहरणेनेति ॥

०१.११

विश्वास-प्रस्तुतिः

ऊर्ध्वायां दिशि सोमो राजा नक्षत्राणाम् आधिपत्यं कुरुते । तं देवं भगवं सगणं सानुचरं सपरिवारं सशिराः प्रणिपत्य विज्ञापयति ॥ तेजसा प्रहरणेनेमां दिशं विदिशं च सर्वकलिकलुषम् अशुभं प्रशमय्ॐ नमः स्वाहा ॥

०१.१२

विश्वास-प्रस्तुतिः

अथोच्छुष्महृदयम् ॥ द्युरुद्युरु दरदर विदारयविदारय मिलिमिलि नमः स्वाहा ॥

०१.१३

विश्वास-प्रस्तुतिः

उच्छुष्मशिखा ॥ शिवे जटिल इति प्रथमः ॥

मूलम्

उच्छुष्मशिखा ॥ शिवे जटिल इति प्रथमः ॥

०१.१४

विश्वास-प्रस्तुतिः

कुरुकुरु मुरुमुरु महा मुञ्च महा मुञ्च विदुविदु नमः स्वाहा ॥ इति कवचम् ॥

०१.१५

विश्वास-प्रस्तुतिः

ॐ नमो महापिङ्गलाय सिंहनादनादिने नमः स्वाहा ॥ इत्य् अस्त्रमन्त्रः ॥

०२.०१

विश्वास-प्रस्तुतिः

एषाम् उच्छुष्मरुद्राणाम् अतः कल्पो निगद्यते । अथर्ववेदोद्भवानां तिथ्यृक्षाद्ययोगतः ॥

०२.०२

विश्वास-प्रस्तुतिः

ग्रामे वाथाप्य् अरण्ये वा प्रचरेत यथाविधि । सद्यःसिद्धिकरा ह्य् एते उच्छुष्माः परिकीर्तिताः ॥

०२.०३

विश्वास-प्रस्तुतिः

आत्मरक्षां दिशां बन्धं शिखाबन्धं च सर्वदा । एतैर् एव यथायोगम् आदौ कुर्याद् विचक्षणः ॥

०२.०४

विश्वास-प्रस्तुतिः

खदिरस्योदुम्बरस्य तथा बिल्वपलाशयोः । दधिसर्पिर्मधुयुजां शान्तानां वापि बिल्वतः ॥

०२.०५

विश्वास-प्रस्तुतिः

समित्सहस्रत्रितयं हुत्वा शान्तिर् गवां भवेत् । तीक्ष्णासृग्विषयुक्तानां फट्कारश् च विनाशने ॥

०२.०६

विश्वास-प्रस्तुतिः

प्रयोगाद् अप्य् असिद्धिश् चेत् तत्कर्मेदं समारभेत् । उच्छुष्मरूपी भक्षयंस् तीक्ष्णः सक्तूदकानि तु ॥

०३.०१

विश्वास-प्रस्तुतिः

अभीष्टां वा स्त्रियं गत्वा ध्यात्वा वा रेत उत्सृजेत् । मूत्रां पुरीषं चोत्सृज्य गोकङ्कालाधिरोहणम् ॥

०३.०२

विश्वास-प्रस्तुतिः

कृत्वा मन्त्रं निशि जपेद् यावद् गोशृङ्गतश् चरेत् । ज्वालाभङ्गं ततस् तस्य कर्मसिद्धिं समादिशेत् ॥

०३.०३

विश्वास-प्रस्तुतिः

[दधिमधुघृताक्तानाम् इति शेषः] ॥

मूलम्

[दधिमधुघृताक्तानाम् इति शेषः] ॥

०४.०१

विश्वास-प्रस्तुतिः

सप्तक्षीराञ्जलिग्रासः स्रुवो ह्य् अस्मिन् प्रशस्यते । क्षीरं तेनाथ जुहुयाद् धनकामस्य नित्यशः ॥

०४.०२

विश्वास-प्रस्तुतिः

घृतेन तेजस्कामस्य आयुःकामस्य दूर्वया । कुकुसं तुम्बरं वापि विद्याद् उच्चाटकर्मणि ॥

०५.०१

विश्वास-प्रस्तुतिः

ब्राह्मणं तु वशीकर्तुं शालिपिष्टमयीं तनुम् । कृत्वा चतुष्पथं गत्वा गृहीत्वा शस्त्रम् उत्तमम् ॥

०५.०२

विश्वास-प्रस्तुतिः

अष्टोत्तरसहस्रेण कृत्वा तदभिमन्त्रणम् । अष्टाङ्गं तेन तां छित्वा मन्त्रतो वशम् आनयेत् ॥

०५.०३

विश्वास-प्रस्तुतिः

अष्टोत्तरसहस्रं वा प्रकृते जुहुयाद् बुधः । ब्राह्मणीं तु वशीकर्तुं कुर्यान् माषमयीं तनुम् ॥

०६.०१

विश्वास-प्रस्तुतिः

सर्पिर्दधिमध्वक्तानां लाजानाम् आहुतीः शुभाः । कन्याकामो ऽष्टसहस्रं हुत्वा कन्याम् अवाप्नुयात् ॥

०६.०२

विश्वास-प्रस्तुतिः

अपि वा पिष्टमय्याः प्राग् जुहुयात् सन्ध्ययाहुतीः । दर्भेषीकां वाभिमन्त्र्य तद्गृहे निश्चलां न्यसेत् ॥

०६.०३

विश्वास-प्रस्तुतिः

तावद् उद्वेजयेत् सा तु वज्रभूता हि तद्गृहम् । कन्यायाः साधनीयायास् [तु] यावल् लाभस् ततो भवेत् ॥

०७.०१

विश्वास-प्रस्तुतिः

प्रधानम् अन्यं वा किं चिद् वशीकर्तुं नरोत्तमम् । समिधः खदिरादीनाम् औदुम्बर्यश् च होमयेत् ॥

०७.०२

विश्वास-प्रस्तुतिः

श्मशानखट्वाङ्गमयीं होमयेन् मन्त्रसाधने । पलाण्डुलशुनप्रस्थं हुत्वा मस्तं न संशयः ॥

०७.०३

विश्वास-प्रस्तुतिः

शिरीषाङ्गमयीं राज्ञो बलिस् त्रिमधुरेण तु । ब्राह्मणे पायसमयीं क्षत्रियस्य विषाणिकाम् ॥

०७.०४

विश्वास-प्रस्तुतिः

वैश्यस्य साधने होम्याश् चूर्णैः सुरभिसंस्कृताः । चतुष्पथे तु शूद्रस्य पद्मिन्युत्करणेन तु ॥

०८.०१

विश्वास-प्रस्तुतिः

लिखित्वा नाम सङ्गृह्य कराग्राङ्गुलिपीडिताम् । शिरःपीडा ज्वरः शूलं विमतिः स्वस्त्यसङ्गतिः ॥

०८.०२

विश्वास-प्रस्तुतिः

बल्याद्या वा प्रयोक्तव्या ब्राह्मणादिचतुष्टये । एवं सत्य् अभिचारश् च चतुर्णाम् अपि दर्शितः ॥

०८.०३

विश्वास-प्रस्तुतिः

लिङ्गं वा राजसर्षपैः समालिख्याथ धूपयेत् । गौरैर् अर्घं तथा दद्यान् म्रियते साप्य् असंशयम् ॥

०८.०४

विश्वास-प्रस्तुतिः

अभक्षभक्षो ह्य् अस्वास्थ्यं सर्वरोगप्रकोपनम् । निःसञ्ज्ञता पिण्डपातो जपावृत्त्या भवन्ति हि ॥

०८.०५

विश्वास-प्रस्तुतिः

एकादशं न जप्तव्यं कुलोत्सादस् ततो भवेत् ॥

मूलम्

एकादशं न जप्तव्यं कुलोत्सादस् ततो भवेत् ॥

०९.०१

विश्वास-प्रस्तुतिः

ॐ नमो महापिङ्गलाय त्रिवृते त्रिवृते नमः स्वाहा ॥

०९.०२

विश्वास-प्रस्तुतिः

नमः सरान्तितेवतेवसु त्रिवृते त्रिवृते त्रिपर्वणे त्रिशीर्षाय नमः स्वाहा ॥

०९.०३

विश्वास-प्रस्तुतिः

नमः कटविकटकण्टेमाटे पाटले विकले असौर्यासौ असौर्यासौ पृथिवीष्टका इष्टकाजिनात्यून्यो सौगलुन्तिगलुन्तेकटमसि कटप्रवृते प्रद्विष रुद्र रौद्रेणावेशयावेशय हनहन दहदह पचपच मथमथ विध्वंसयविध्वंसय विश्वेश्वर योगेश्वर महेश्वर नमस् ते ऽस्तु मा मा हिंसीः हुं फट् नमः स्वाहा ॥

०९.०४

विश्वास-प्रस्तुतिः

कालाय करालाय नमः स्वाहा ॥

मूलम्

कालाय करालाय नमः स्वाहा ॥

०९.०५

विश्वास-प्रस्तुतिः

कृतान्ताय नमः स्वाहा ॥

मूलम्

कृतान्ताय नमः स्वाहा ॥

०९.०६

विश्वास-प्रस्तुतिः

अमोघाय नमः स्वाहा ॥

मूलम्

अमोघाय नमः स्वाहा ॥

०९.०७

विश्वास-प्रस्तुतिः

अघोराय नमः स्वाहा ॥

मूलम्

अघोराय नमः स्वाहा ॥

०९.०८

विश्वास-प्रस्तुतिः

अनिवर्ताय नमः स्वाहा ॥

मूलम्

अनिवर्ताय नमः स्वाहा ॥

०९.०९

विश्वास-प्रस्तुतिः

भगाय नमः स्वाहा ॥

मूलम्

भगाय नमः स्वाहा ॥

०९.१०

विश्वास-प्रस्तुतिः

भगप्रमथनाय नमः स्वाहा ॥

मूलम्

भगप्रमथनाय नमः स्वाहा ॥

०९.११

विश्वास-प्रस्तुतिः

वृषभाय नमः स्वाहा ॥

मूलम्

वृषभाय नमः स्वाहा ॥

०९.१२

विश्वास-प्रस्तुतिः

इन्द्रनेत्राय नमः स्वाहा ॥

मूलम्

इन्द्रनेत्राय नमः स्वाहा ॥

०९.१३

विश्वास-प्रस्तुतिः

सुवर्णचूडाय नमः स्वाहा ॥

मूलम्

सुवर्णचूडाय नमः स्वाहा ॥

०९.१४

विश्वास-प्रस्तुतिः

हाहाहीही नमः स्वाहा ॥

मूलम्

हाहाहीही नमः स्वाहा ॥

०९.१५

विश्वास-प्रस्तुतिः

नमस् तीक्ष्णाय तीक्ष्णदंष्ट्राय भीषणाय सहस्रपादायानन्तशीर्षाय वामनाय नमः स्वाहा ॥

०९.१६

विश्वास-प्रस्तुतिः

महावक्त्राय पिङ्गलनेत्राय नमः स्वाहा ॥

मूलम्

महावक्त्राय पिङ्गलनेत्राय नमः स्वाहा ॥

०९.१७

विश्वास-प्रस्तुतिः

खनखनाय नमः स्वाहा ॥

मूलम्

खनखनाय नमः स्वाहा ॥

०९.१८

विश्वास-प्रस्तुतिः

घनघनाय नमः स्वाहा ॥

मूलम्

घनघनाय नमः स्वाहा ॥

०९.१९

विश्वास-प्रस्तुतिः

घुसुघुसाय नमः स्वाहा ॥

मूलम्

घुसुघुसाय नमः स्वाहा ॥

०९.२०

विश्वास-प्रस्तुतिः

अलेपाय नमः स्वाहा ॥

मूलम्

अलेपाय नमः स्वाहा ॥

०९.२१

विश्वास-प्रस्तुतिः

पशवे नमः स्वाहा ॥

मूलम्

पशवे नमः स्वाहा ॥

०९.२२

विश्वास-प्रस्तुतिः

महापशुपतये नमः स्वाहा ॥

मूलम्

महापशुपतये नमः स्वाहा ॥

०९.२३

विश्वास-प्रस्तुतिः

उच्छुष्माय नमः स्वाहा ॥

मूलम्

उच्छुष्माय नमः स्वाहा ॥

०९.२४

विश्वास-प्रस्तुतिः

उच्छुष्मरुद्राय नमः स्वाहा ॥

मूलम्

उच्छुष्मरुद्राय नमः स्वाहा ॥

१०.०१

विश्वास-प्रस्तुतिः

एषां क्रमेण कृत्यानि वक्ष्यमाणानि योजयेत् । अष्टसहस्राभिजप्तम् अन्यद् द्रव्यं तु होमतः ॥

१०.०२

विश्वास-प्रस्तुतिः

शत्रोर् नाम्ना लवणस्य सहस्रम् अष्टकाधिकम् । हुत्वा धनायुषोर् हानिर् ज्वरेण स च शुष्यति ॥

१०.०३

विश्वास-प्रस्तुतिः

क्षिप्रं शान्तिर् भवेत् तस्य क्षीरहोमात् तु तावतः ॥

११.०१

विश्वास-प्रस्तुतिः

कणैः पुत्तलिकां कृत्वा गोशृङ्गेणार्घधूपबे । अष्टसहस्राभिजप्तं मदनस्य तु कण्टकम् ॥ तेनाष्टादशवेधात् तु मूलक्षीरान् निवर्तनम् ॥

१२.०१

विश्वास-प्रस्तुतिः

दध्ना च मधुसर्पिर्भ्यां त्त्रिवर्णैः सर्षपैर् हुतैः ॥ गौरैर् अष्टसहस्रेण जप्तैर् आवेशयेद् रिपून् ॥

१३.०१

विश्वास-प्रस्तुतिः

दध्याद्यभ्यक्तलाजानां होमाद् अष्टसहस्रतः ॥ नाशयेत् सततज्वरं द्वितीयादिं च दूरतः ॥

१४.०१

विश्वास-प्रस्तुतिः

परिजप्य दर्भेषीकां कुम्भकारादिवेश्मसु । न्यस्त्वा पाकं सुरापाकं कैवर्तादि विनाशयेत् ॥

१५.०१

विश्वास-प्रस्तुतिः

अक्षतैस् तण्डुलैः कृत्वा प्रतिदेहं सुशोभनम् । संस्थाप्य धान्यराशौ तं चन्दनादुरु दाहयेत् । बलिं त्रिमधुरं दत्त्वा स्यात् स राशिश् चतुर्गुणः ॥

१६.०१

विश्वास-प्रस्तुतिः

खादिरं कीलकं तीक्ष्णं तैलाक्तं द्वादशाङ्गुलम् । परिजप्तं ग्राममध्ये निखनेत् सद्य उद्वसेत् ॥

१६.०२

विश्वास-प्रस्तुतिः

महापातकदोषेण ग्रामी निर्धनतां व्रजेत् । क्षीरेण कीलकस्नानात् कुर्यात् तुष्टस् तु शान्तिकम् ॥

१६.३

विश्वास-प्रस्तुतिः

क्षीरस्याष्टसहस्रं च जुहुयात् तदनन्तरम् ॥

१७.१

विश्वास-प्रस्तुतिः

कलापमन्त्रां गुटिकां तन्नाम्ना गव्यमांसतः । महापातकसम्बन्धाज् जायते ऽस्य धनक्षयः ॥

१८.१

विश्वास-प्रस्तुतिः

त्रिवर्णसर्षपैर् होमात् सह त्रिमधुरेण तु । सम्पद्यते सुतस् तस्य मेधावी श्रुतधारकः । तद्धोमात् के चिद् इच्छन्ति उन्मत्तत्वं न संशयः ॥

१९.१

विश्वास-प्रस्तुतिः

तिला दूर्वा त्रिमधुरं होमतो व्याधिनिग्रहम् । तण्डुलप्रक्षेपश् च ॥

२०.१

विश्वास-प्रस्तुतिः

त्र्यक्तोदुम्बरसमिधो दोग्ध्री धेन्व् अष्टकप्रदाः । एकाहं भैक्षभुग् भूत्वा मासाष्टकयुतस्य वा ॥

२१.१

विश्वास-प्रस्तुतिः

प्रादेशान्तं बिल्ववृक्षं मूलशाखासमन्वितम् । कृष्णाष्टम्यां चतुर्दश्यां सायं हुत्वा तु रुक्मभाक् ॥

२२.१

विश्वास-प्रस्तुतिः

समिधां वैतसीनां तु अग्नाव् अर्केन्धनाद् धुते । अहोरात्रिकहोमात् स्यात् पर्जन्यो बहुवर्षदः । लक्षत्रयं भैक्षाहारो जप्त्वा कर्मैतद् आरभेत् ॥

२३.१

विश्वास-प्रस्तुतिः

दुग्धाक्तान् सर्षपान् हुत्वा तस्माद् भस्म मुखे क्षिपेत् । सर्वेषु व्यवहारेषु स भवत्य् अपराजितः ॥

२४.१

विश्वास-प्रस्तुतिः

शस्त्रं जप्तम् उपादाय रणे ग्रस्तो न जीयते । खनखनायेति मन्त्रः पूर्वसेवार्थ उच्यते ॥

२४.२

विश्वास-प्रस्तुतिः

उत्तरस्या विशेषाद् वा चेदानीम् अत उत्तरम् । खादिरत्र्यक्तसमिधां पूर्वसेवा सहस्रतः । अतसीसमिधाम् एवं मेधावी विदुषां प्रभुः ॥

२५.१

विश्वास-प्रस्तुतिः

गोचर्ममात्रं स्थण्डिलं गोमयेनोपलेपयेत् । तत्राग्निं त्रिकपालेषु ज्वालयित्वा प्रणम्य च ॥

२५.२

विश्वास-प्रस्तुतिः

शिरसा वानरेणाथ मुखवाद्यं तु कारयेत् । यत्र तच् छ्रूयते तत्र आगच्छन्ति वरस्त्रियः ॥

२५.३

विश्वास-प्रस्तुतिः

दम्ष्ट्राघण्टानिनादास् तु ज्वालामुखभयानकाः । यत् त्वं कामयसे पुत्र तत् सर्वं दद्महे वयम् ॥

२५.४

विश्वास-प्रस्तुतिः

इति ब्रुवत्यः सर्वास् ता यत्र होमः कृतो भवेत् । तद्भस्मना तु संस्पृष्टाश् छागल्यः सुप्रभावतः ॥

२६.१

विश्वास-प्रस्तुतिः

लक्षजापोत्तरं गत्वा नदीम् उदधिगामिनीम् । वालुकास्थण्डिले लिङ्गं तन्मयं तज्जसद्मनि ॥

२६.२

विश्वास-प्रस्तुतिः

पद्माष्टशतम् आहृत्य पूजयित्वा विधानतः । उदके नाभिमात्रे च सुप्रभातं पुनर् जपेत् ॥

२६.३

विश्वास-प्रस्तुतिः

ततो माण्डलिको राजा दीनाराणां गवां शतम् । प्रणम्य श्रद्धया तस्मै दद्याद् उद्धर माम् इति ॥

२७.१

विश्वास-प्रस्तुतिः

लक्षजपाद् अबाध्यस् तु पशूनां दम्ष्ट्रिशृङ्गिणाम् । इतरेषां पशूनां तु लक्षत्रितयवर्धनम् ॥

२८.१

विश्वास-प्रस्तुतिः

सञ्जप्तशिवनिर्माल्यदानाद् उन्मत्ततां व्रजेत् ॥ शमाय चन्दनं दद्यात् त्रिष्व् एतं मन्त्रसंस्कृतम् ॥

२९.१

विश्वास-प्रस्तुतिः

समाधिनानुमन्त्रितं गोशृङ्गम् अरिमन्दिरे । निखातं सद्य एवैनं मन्दिरं परिदीपयेत् ॥

३०.१

विश्वास-प्रस्तुतिः

तीक्ष्णतैलं कटु प्रोक्तं दर्वी ग्रामस्रुवस् तथा । त्रिमधुरं त्व् अत्र विज्ञेयं मधुसर्पिस्तिलात्मकम् ॥

३०.२

विश्वास-प्रस्तुतिः

सम्मुखं मानसं ध्यायञ् शुभं कर्म प्रयोजयेत् । विमुखं भञ्जनादौ तु नरः कर्मणि सिद्धिभाक् ॥

३०.३

विश्वास-प्रस्तुतिः

अष्टोत्तरस् त्रिसाहस्रो होमो हास्य प्रकीर्तितः । कीलकास्त्रादि यच् चान्यत् तत् सहस्राभिमन्त्रितम् ॥

(अव्परिस्_३६।चोल्) इत्य् उच्छुष्मकल्पः समाप्तः ॥ इति परिशिष्टानां पूर्वार्धं समाप्तम् इति ॥